प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२९ वराहपुराणम्
अध्यायः १३०
[[लेखकः :|]]
अध्यायः १३१ →

अथ राजान्नभोगे प्रायश्चित्तम् ।।
सूत उवाच ।।
एवं दीक्षां ततः श्रुत्वा नारायणमुखान्मही ।।
विशुद्धमानसा देवी नारायणमथाब्रवीत् ।। १ ।।
धरण्युवाच ।।
अहो ते दीक्षामाहात्म्यं यस्य वै व्युष्टिरुत्तमा ।।
श्रुत्वाहं तु महाभाग जातास्मि विमला विभो ।। २ ।।
अहो देवस्य माहात्म्यं लोकनाथस्य तत्त्वतः ।।
येन सा कारिता दीक्षा चातुर्वर्ण्यसुखावहा ।। ३ ।।
एकं मे परमं गुह्यं यदीश हृदि वर्त्तते ।।
भव भक्तसुखार्थाय तत्त्वं मे वक्तुमर्हसि ।। ४ ।।
देव पूर्वापराधास्ते द्वात्रिंशदपि कीर्तिताः ।।
एवं कृत्वापराधानि मनुजा ह्यल्पचेतसः ।। ५ ।।
कर्मणा केन शुद्ध्यन्ति अपराधस्य कारिणः ।।
तन्ममाचक्ष्व तत्त्वेन मम प्रीत्या च माधव ।। ६ ।।
तद्वै भूम्या वचः श्रुत्वा हृषीकेशो महामनाः ।।
दिव्यं ध्यानं समादाय प्रत्युवाच वसुन्धराम् ।। ७ ।।
श्रीवराह उवाच ।।
शुद्धा भागवता भूत्वा मम कर्मपरायणाः ।।
ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन वा ।। ८ ।।
आपद्गता हि भुञ्जन्ति राजान्नं तु वसुन्धरे ।।
दशवर्षसहस्राणि पच्यन्ते नरके नराः ।। ९ ।।
भगवद्वचनं श्रुत्वा कम्पिता च वसुन्धरा ।।
दिनानि सप्त दश च भयं तीव्रमजायत ।। 130.१० ।।
ततो दीनमना भूत्वा सा मही संशितव्रता ।।
उवाच मधुरं वाक्यं सर्वलोकसुखावहम् ।।११।।
धरण्युवाच ।।
शृणु तत्त्वेन मे देव हृदये हि व्यवस्थितम् ।।
को नु दोषोऽस्ति राज्ञां हि तन्मे त्वं वक्तुमर्हसि ।।१२।।
ततो भूम्या वचः श्रुत्वा सर्वधर्मविदां वरः ।।
प्राह नारायणो वाक्यं धर्मकामां वसुन्धराम् ।। १३ ।।
श्रीवराह उवाच ।।
शृणु सुन्दरि तत्त्वेन गुह्यमेतदनिन्दिते ।।
राजान्नं तु न भोक्तव्यं शुभैभार्गवतैः सदा ।। १४ ।।
यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते ।।
राजसं तामसं वापि कुर्वन्कर्म सुदारुणम् ।। १५ ।।
अपि वा गर्हितं तेन राजान्नं तु वसुन्धरे ।।
धर्मसन्धारणार्थाय न तु मे रोचते भुवि ।। १६ ।।
ततो यद्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यथा राज्ञां तु भोज्यं वै शुद्धैर्भागवतैर्नरैः ।। १७ ।।
स्थापयित्वा तु मां देवि विधिदृष्टेन कर्मणा ।।
धनधान्यसमृद्धानि दत्त्वा भागवतैरपि ।। १८ ।।
सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम् ।।
भुञ्जानस्तु वरारोहे न स पापेन लिप्यते ।। १९ ।।
एवं विष्णुवचः श्रुत्वा धरणी संशितव्रता ।।
वराहरूपिणं देवं प्रत्युवाच वरानना ।। 130.२० ।।
धरण्युवाच ।।
राजान्नं तु नरो भुक्त्वा शुद्धो भागवतः शुचिः ।।
कर्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्दन ।। २१ ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ।।
तरन्ति पुरुषा येन राजान्नस्योपभुञ्जकाः ।। २२ ।।
एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रं च पुष्कलम् ।।
कुर्यात्सान्तपनं चैकं शीघ्रं मुच्यन्ति किल्बिषात् ।। २३ ।।
न तस्य चापराधोऽस्ति वसुधे वै वचो मम ।।
एवमेव न भोक्तव्यं राजान्नं वै कदाचन ।।
ममात्र पूजाकामेन यदीच्छेत्परमां गतिम् ।। २४ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे राजान्नप्रायश्चित्तं नाम त्रिंशदधिकशततमोऽध्यायः ।। १३० ।।