← अध्यायः १३० वराहपुराणम्
अध्यायः १३१
[[लेखकः :|]]
अध्यायः १३२ →

अथ दन्तकाष्ठाचर्वणप्रायश्चित्तम् ।।
श्रीवराह उवाच ।।
दन्तकाष्ठमचर्वित्वा यो हि मामुपसर्पति ।।
पूर्वकालकृतं कर्म तेन चैकेन नश्यति ।। १ ।।
नारायणवचः श्रुत्वा पृथिवी धर्मसंश्रितः ।।
विष्णुभक्तसुखार्थाय हृषीकेशमुवाच ह ।। २ ।।
धरण्युवाच ।।
सर्वकालकृतं कर्म क्लेशेन महताऽनघ ।।
कथमेकापराधेन सर्वमेव प्रणश्यति ।। ३ ।।
श्रीवराह उवाच ।।
शृणु सुन्दरि तत्त्वेन कथ्यमानं मयाऽनघे ।।
येन चैकापराधेन पूर्वकर्म प्रणश्यति ।। ४ ।।
मनुष्यः किल्बिषी भद्रे कफपित्तसमन्वितः ।।
पूयशोणितसम्पूर्णं दुर्गन्धि मुखमस्य तत् ।। ५ ।।
तत्सर्वबीजं नश्येत दन्तकाष्ठस्य भक्षणात् ।।
शुद्धिर्भागवती चैव आचारेण विवर्जिता ।। ६ ।।
धरण्युवाच ।।
दन्तकाष्ठमखादित्वा यः कर्माणि करोति ते ।।
प्रायश्चित्तं च मे ब्रूहि येन धर्मो न नश्यति ।। ७ ।।
श्रीवराह उवाच ।।
एवमेतन्महाभागे यन्मां त्वं परिपृच्छसि ।।
कथयिष्यामि हीदं ते यथा शुद्ध्यन्ति मानवाः ।। ८।।
आकाशशयनं कृत्वा दिनानि द्वे च पंच च ।।
अभुक्तदन्तकाष्ठाश्च एवं शुध्यन्ति मानवाः ।। ९ ।।
एवं ते कथितं भद्रे दन्तकाष्ठस्य भक्षणम् ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।। 131.१० ।।
कुतस्तस्यापराधोऽस्ति एवमेव न संशयः ।। ११ ।।
इति श्रीवराहपुराणे दन्तकाष्ठाचर्वणप्रायश्चित्तं नामैकत्रिंशदधिकशततमोऽध्यायः ।। १३१ ।।