वराहपुराणम्/अध्यायः १३२
← अध्यायः १३१ | वराहपुराणम् अध्यायः १३२ [[लेखकः :|]] |
अध्यायः १३३ → |
अथ मृतकस्पर्शप्रायश्चित्तम् ।।
श्रीवराह उवाच ।।
गत्वा तु मैथुनं भद्रे अस्नातो यः शवं स्पृशेत् ।।
रेतः पिबति दुर्बुद्धिः सहस्रं नव पंच च ।। १ ।।
वर्षं नारायणाच्छ्रुत्वा सा मही संशितव्रता ।।
ततो दीनमना भूत्वा प्रोवाच मधुसूदनम् ।। २ ।।
धरण्युवाच ।।
किमिदं भाषसे देव धर्मं भीषणसङ्कटम् ।।
कथमेवं पुमान्वै स रेतःपानपरो भवेत् ।। ३ ।।
एतन्मे परमं दुःखं तद्भवान्वक्तुमर्हति ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि इदं गुह्यमनुत्तमम् ।।४।।
चिह्नमैतद्वरारोहे आधिचारविनिश्चयः।।
पुरुषः स्त्रीषु कर्माणि यो विकुर्वीत निर्घृणः ।।५।।
दृष्टं तस्यापराधस्य फलं प्राप्नोति मानवः ।।
एवमेतद्वरारोहे यन्मां त्वं परिपृच्छसि ।। ६ ।।
अपराधस्य दोषेण विशुद्धिश्च न जायते ।।
प्रायश्चित्तं प्रवक्ष्यामि रागदोषेण दोषितम् ।। ७ ।।
गृहस्थाः पुरुषा भद्रे मम कर्मपरायणाः ।।
यावकेन त्रयं क्षिप्त्वा पिण्याकेन दिनत्रयम् ।। ८ ।।
वायुभक्षं दिनं त्वेकं ततो मुच्येत किल्बिषात् ।।
य एवं कुरुते भूमे विधिदृष्टेन कर्मणा ।। ९ ।।
ज्ञात्वा कर्मापराधं तु न स पापेन लिप्यते ।।
एतत्ते कथितं भद्रे मिथुनं योऽभिगच्छति ।। 132.१० ।।
प्रायश्चित्तं महाभागे मम लोकसुखावहम् ।।
स्पृष्ट्वा तु मृतकं भद्रे नरं पंचत्वमागतम् ।। ११ ।।
मम शास्त्रं बहिष्कृत्य यः श्मशानं प्रपद्यते ।।
पितरस्तस्य सुश्रोणि आत्मनश्च पितामहाः ।। १२ ।।
श्मशाने जम्बुका भूत्वा भक्षयन्ति शवान् तथा ।।
ततो हरेवर्चः श्रुत्वा धर्मकामा वसुन्धरा ।। १३ ।।
उवाच मधुरं वाक्यं सर्वलोकहिताय वै ।।
धरण्युवाच ।।
तव नाथ प्रपन्नानां क्व पापं विद्यते प्रभो ।। १४।।
प्रायश्चित्तं च मे ब्रूहि येन मुच्यन्ति किल्बिषात् ।।
श्रीवराह उवाच ।।
शृणु सुन्दरि तत्त्वेन यन्मां त्वं परिपृच्छसि ।।१५।।
कथयिष्यामि ते हीदं शोभनं पापनाशनम् ।।
एकाहारो दिनान्सप्त त्रिरात्रं चाप्युपोषितः ।। १६ ।।
पंचगव्यं ततः पीत्वा ततो मुच्येत किल्बिषात् ।।
शवे स्पृष्टेऽपराधस्य एष ते कथितो विधिः ।। १७ ।।
सर्वथा वर्जनीयं वै सर्वभागवतेन तु ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।।१८।।
विमुक्तः सर्वपापेभ्यो नापराधोऽस्ति तस्य वै ।।
नारीं रजस्वलां स्पृष्ट्वा यो मां स्पृशति निर्भयः ।।१९।।
रागमोहेन संयुक्तः कामेन च वशीकृतः।।
वर्षाणां तु सहस्रैकं रजः पिबति निर्घृणः ।।132.२० ।।
अन्धश्च जायते देवि दरिद्रो ज्ञानमूर्खवान्।।
न च विन्दति चात्मानं पतितो नरके यथा ।।२१।।
अपराधमिमं कृत्वा तत्रैवं नास्ति संशयः ।।
धरण्युवाच ।।
तव देव प्रपन्नानां मोक्षं संसारसागरात् ।। २२ ।।
अपराधसमायुक्तस्तव कर्मपरायणः ।।
कर्मणा येन शुध्येत तन्मे ब्रूहि जनार्दन ।। २३ ।।
श्रीवराह उवाच ।।
स्पृष्ट्वा रजस्वलां नारीं नरो मद्भक्तितत्परः ।।
तपः कृत्वा त्रिरात्रं तु आकाशशयने वसेत् ।। २४ ।।
शुद्धो भागवतो भूत्वा मम कर्मपरायणः ।।
एवं कृत्वा महाभागे प्रायश्चित्तं मम प्रियम् ।। २५ ।। ।
मुच्यते किल्बिषाद्देवि आचारेण बहिष्कृतः ।।
एतत्ते कथितं भद्रे यत्स्पृष्ट्वा तु रजस्वलाम् ।। २६ ।।
स्पृष्ट्वा तु मृतकं देवि यो मत्क्षेत्रेषु तिष्ठति ।।
शतवर्षसहस्राणि गर्भेषु परिवर्त्तते ।। २७ ।।
दशवषर्सहस्राणि चण्डालश्चैव जायते ।।
अन्धः सप्तसहस्राणि मण्डूकश्च शतं समाः ।।२८।।
मक्षिका त्रीणि वर्षाणि टिट्टिभैकादशं समाः ।।
दंशो वै सप्त चान्यानि कृकलासो भवेत्समाः ।। २९ ।।
हस्ती वर्षशतं चैव खरो द्वात्रिंशकं भवेत् ।।
मार्जारो नववर्षाणि वानरो दशपञ्च च ।। 132.३० ।।
एवं स चात्मदोषेण मम कर्मपरायणः ।।
प्राप्नोति सुमहद्दुःखं देवि चैवं न संशयः ।।३१।।
ततो हरेर्वचः श्रुत्वा दुःखेन परिपृच्छति ।।
सर्वसंसारमोक्षाय प्रत्युवाच वसुन्धरा ।। ३२ ।।
धरण्युवाच ।।
किमिदं भाषसे देव मानुषाणां दुरासदम् ।।
वाक्यं भीषणमत्यन्तं मम मर्मप्रभेदकम् ।। ३३ ।।
आचाराच्च परिभ्रष्टस्तवकर्मपरायणः ।।
यथा तरति दुर्गाणि प्रायश्चित्तं तथा वद ।। ३४ ।।
श्रुत्वा पृथ्व्यास्तथा वाक्यं लोकनाथो जनार्द्दनः ।।
धर्मसंरक्षणार्थाय प्रत्युवाच वसुन्धराम् ।। ३५ ।।
श्रीवराह उवाच ।।
स्पृष्ट्वा तु मृतकं भूमे मम कर्मपरायणः ।।
एकाहारं ततस्तिष्ठेद्दिनानि दश पञ्च च ।। ३६ ।।
तत एवं विधिं कृत्वा पञ्चगव्यं तु प्राशयेत् ।।
शुद्धभावं विशुद्धात्मा कर्मणा च न लिप्यते ।। ३७ ।।
एतत्ते कथितं देवि स्पृष्ट्वा मृतकमेव च ।।
दोषं चैव विशुद्ध्यर्थं यत्त्वया पूर्वपृच्छितम् ।। ३८ ।।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।।
अपराधविमुक्तो वै मम लोकं स गच्छति।। ३९ ।।
इति श्रीवराहपुराणे मृतकस्पर्शनप्रायश्चित्तं नाम द्वात्रिंशदधिकशततमोऽध्यायः ।। १३२ ।।