प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३२ वराहपुराणम्
अध्यायः १३३
[[लेखकः :|]]
अध्यायः १३४ →

अथ पूजासामयिकगुदरवपुरीषोत्सर्जनयोः प्रायश्चित्तम् ।।
श्रीवराह उवाच ।।
स्पृशमानेन मां भूमे वातकर्म प्रमुच्यते ।।
एवञ्च पुरुषो युक्तो वायुपीडितमानसः ।। १ ।।
मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः ।।
श्वा चैव त्रीणि वर्षाणि कूर्मो वै जायते नव ।। २ ।।
एष वै तापनं देवि मोहनं मम सांप्रतम् ।।
यो वै शास्त्रं विजानाति मम कर्मपरायणः ।। ३ ।।
श्रुत्वा वाक्यं हृषीकेशं प्रत्युवाच वसुन्धरा ।।
धरण्युवाच ।।
अतुलं लभते पापं तव कर्मपरायणः ।। ४ ।।
तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि ।।
श्रीवराह उवाच ।।
शृणु कार्त्स्न्येन मे देवि कथ्यमानं मयाऽनघे ।। ५ ।।
अपराधमिमं कृत्वा सन्तरेद्येन कर्मणा ।।
पावकेन दिनं त्रीणि नक्तानि च पुनस्त्रयः ।। ६ ।।
कर्म चैवं ततः कृत्वा स च मे नापराध्यति ।।
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ।। ७ ।।
एतत्ते कथितं भद्रे महाकर्मापराधिनः ।।
दोषं चैव गुणं चैव यत्त्वया परिपृच्छितम् ।। ८ ।।
शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे ।।
पुरीषं मुच्यते यस्तु मम कर्म समाचरन् ।। ९ ।।
दिव्यवर्षसहस्रं तु रौरवे नरके वसेत् ।।
पुरीषं भक्षयेत्तत्र मम कर्मपरायणः ।। 133.१० ।।
प्रायश्चित्तं वदाम्यत्र येन मुच्येत किल्बिषात् ।।
मम कर्मपरिभ्रष्टो विह्वलेनान्तरात्मना ।। ११ ।।
एकां जलमयीं शय्यामेकामाकाशशायिनीम् ।।
एवं कृत्वा विधानं तु सोऽपराधात्प्रमुच्यते ।। १२ ।।
एतत्ते कथितं भद्रे पुरीषं यः समुत्सृजेत् ।।
मद्भक्तेषु विशालाक्षि अपराधविनिश्चयः ।। १३ ।।
इति श्रीवराहपुराणे पूजासमये गुदरवपुरीषोत्सर्गयोः प्रायश्चित्तं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ।।१३३।।