← अध्यायः १३३ वराहपुराणम्
अध्यायः १३४
[[लेखकः :|]]
अध्यायः १३५ →

अथ पूजादिसामयिकापराधेषु प्रायश्चित्तानि ।।
श्रीवराह उवाच ।।
मुक्त्वा तु मम कर्माणि मम कर्मपरायणः ।।
प्रायश्चित्तविधिं देवि यस्तु वाक्यं प्रभाषते ।। १ ।।
मूर्खो भवति सुश्रोणि मम कर्मपरायणः ।।
प्रायश्चित्तविधिं देवि येन मुच्येत किल्बिषात् ।। २ ।।
आकाशशयनं कृत्वा दिनानि दश पञ्च च ।।
मुच्यते किल्बिषात्तत्र देवि चैव न संशयः ।। ३ ।।
इति मौनत्यागप्रायश्चित्तम् ।।
श्रीवराह उवाच ।।
भूषितो नीलवस्त्रेण यो हि मामुपपद्यते ।।
वर्षाणां हि शतं पञ्च कृमिर्भूत्वा स तिष्ठति ।। ४ ।।
तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम् ।।
प्रायश्चित्तं विशालाक्षि येन मुच्येत किल्बिषात् ।। ५ ।।
व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्मणा ।।
मुच्यते किल्बिषाद्भूमे एवमेतन्न संशयः ।। ६ ।।
अविधानेन संस्पृश्य यो हि मामुपसर्पति ।।
स मूर्खः पापकर्मा च मम विप्रियकारकः ।। ७ ।।
तेन दत्तं वरारोहे गन्धमाल्यसुगन्धितम् ।।
प्रापणं च न गृह्णामि मृष्टं चापि कदाचन ।। ८ ।।
ततो नारायणवचः श्रुत्वा सा संशितव्रता ।।
उवाच मधुरं वाक्यं धर्मकामा वसुन्धरा ।। ९ ।।
धरण्युवाच ।।
यन्मां त्वं भाषसे नाथ आचारस्य व्यतिक्रमम् ।।
उपस्पृश्य समाचारं रहस्यं वक्तुमर्हसि ।। 134.१० ।।
केन कर्मविधानेन भूत्वा भागवता भुवि ।।
उपस्पृश्योपसर्पन्ति तव कर्मपरायणाः ।। ११ ।।
एतन्मे संशयं देव परं कौतूहलं हि मे ।।
तव भक्तसुखार्थाय निष्कलं वक्तुमर्हसि ।। १२ ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ।।
कथितं मम तत्त्वेन गुह्यमेतत्परं महत् ।। १३ ।।
विमुच्य सर्वकर्माणि यो हि मामुपसर्पति ।।
तस्य वै शृणु सुश्रोणि उपस्पृश्य च या क्रिया ।। १४ ।।
भूत्वा पूर्वमुखस्तत्र पादौ प्रक्षाल्य चाम्बुभिः ।।
उपस्पृश्य यथान्यायं तिस्रो वै गृह्य मृत्तिकाः ।। १५ ।।
ततः प्रक्षालितं हस्तं जलेन तदनन्तरम् ।।
सप्तकोशं ततो गृह्य जलेन क्षालयेत्ततः ।। १६ ।।
पादमेकैकशस्तद्वत्पंच पञ्च वदेत्ततः ।।
कोशौ संमृज्यतां तत्र यदीच्छेत्तु मम प्रियम् ।। १७ ।।
त्रीणि कोशान्पिबेत्तत्र सर्वपापविशोधनम् ।।
मुखं कराभ्यां मार्जेत सर्वमिन्द्रियनिग्रहम् ।। १८ ।।
प्राणायामं ततः कृत्वा मम चिन्तापरायणः ।।
कर्मणा विधिदृष्टेन कुर्यात्संसारमोक्षणम् ।।१९।।
त्रीणि वारान्स्पृशेत्तत्र शिरो ब्रह्मणि संस्थितः ।।
त्रीणि वारान्पुनस्तत्र उभे ते कर्णनासिके ।। 134.२० ।।
स्पृशेत्तु निष्कलस्तत्र यो हि यत्र प्रतिष्ठितः ।।
विक्षिपेत्त्रीणि वाराणि सलिलं प्रवरं त्रयम् ।। २१ ।।
एवमुक्तस्य कर्त्तव्यं ममाभिगमनेषु च ।।
उपस्पृश्य तनुं वामे यदीक्षेत प्रियं मम ।। २२ ।।
एवं च कुर्वतस्तस्य मम कर्मव्यवस्थितः ।।
अपराधं न विन्देत एवं देवि न संशयः ।। २३ ।।
ततो नारायणवचः श्रुत्वा देवी वसुन्धरा ।।
उवाच मधुरं वाक्यं सर्वभागवतप्रियम् ।।२४।।
धरण्युवाच।।
उपस्पृश्य विधानेन यस्तु कर्माणि चाप्नुयात् ।।
तापनं शोधनं चैव तद्भवान्वक्तुमर्हति।।२५।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे भूमे इमं गुह्यमनिन्दिते ।।
यां गतिं च प्रपद्यन्ते मम कर्मबहिष्कृताः ।। २६ ।।
व्यभिचारं च मे कृत्वा यश्च मामुपसर्पति ।।
दशवर्षसहस्राणि दशवर्षशतानि च ।। २७ ।।
कृमिर्भूत्वा यथान्याय्यं तिष्ठते नात्र संशयः ।।
प्रायश्चित्तं प्रवक्ष्यामि तस्य मूर्खस्य माधवि ।। २८ ।।
यच्च कृत्वा महाभागे कृतकृत्यः पुनर्भवेत् ।।
महासान्तपनं कृत्वा तप्तकृच्छ्रं च निष्कलम् ।। २९ ।।
ब्राह्मणः क्षत्रियो वैश्यो मम ये च मते स्थिताः ।।
अनेन विधिना कृत्वा प्रायश्चित्तं यशस्विनि ।। 134.३० ।।
किल्बिषात्तु प्रमुक्तास्ते गच्छन्ति परमां गतिम् ।।
यस्तु क्रोधसमाविष्टो मम भक्तिपरायणः ।। ३१ ।।
स्पृशेत मम गात्राणि चित्तं कृत्वा चलाचलम् ।।
न चाहं रागमिच्छामि क्रुद्धमेव यशस्विनि ।। ३२ ।।
इच्छामि च सदा दान्तं शुभं भागवतं शुचिम् ।।
पंचेन्द्रियसमायुक्तं लाभालाभविवर्जितम् ।। ३३ ।।
अहङ्कारविनिर्मुक्तं कमर्ण्यभिरतं मम ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वरानने ।। ३४ ।।
मां यदा लभते क्रुद्धः शुद्धो भागवतः शुचिः ।।
चिल्ली जातो वर्षशतं श्येनो वर्षशतं पुनः ।। ३५ ।।
भेकस्त्रिशतवर्षाणि यातुधानः पुनर्दश ।।
अपुमान्षट् च वर्षाणि रेतोभक्षस्तु जायते ।। ३६ ।।
अन्धो जायेत सुश्रोणि पंच सप्त तथा नव ।।
गृध्रो द्वात्रिंशवर्षाणि चक्रवाको दशैव तु ।। ३७ ।।
शैवालभक्षिता चैव ह्याकाशगमनं तथा ।।
ब्राह्मणो जायते भूमे क्रोधस्य च पथे स्थितः ।। ३८ ।।
आत्मकर्मापराधेन प्राप्तः संसारसागरे ।।
धरण्युवाच ।।
अहो वै परमं गुह्यं यत्त्वया पूर्वभाषितम् ।। ३९ ।।
जातं मे विह्वलं चित्तं न स्थिरं जायते क्वचित् ।।
यत्त्वया भाषितं हीदं भक्तानां च दुरासदम् ।। 134.४० ।।
श्रुत्वा सुदुस्तरं सारं भीतास्मि परिदेविता ।।
नाहमाज्ञापयामि त्वां देवदेव जगत्पते ।। ४१ ।।
मम चैव प्रियार्थाय सर्वलोकसुखावहम् ।।
येन मुच्यन्ति संशुद्धा बुधाः कर्मपरायणाः ।। ४२ ।।
अल्पसत्त्वा गतभया लोभमोहसमन्विताः ।।
तरन्ति येन दुर्गाणि प्रायश्चित्तं च मे वद ।। ४३ ।।
ततः कमलपत्राक्षो वराहः सम्मुखे स्थितः ।।
सनत्कुमारो मे भक्तो पुनर्नारायणोऽब्रवीत् ।। ४४ ।।
ततो भूम्या वचः श्रुत्वा ब्रह्मणश्च सुतो मुनिः ।।
सनत्कुमारो योगज्ञः प्रत्युवाच वसुन्धराम् ।। ४५ ।।
धन्या चैव सुभाग्या च यत्त्वया परिपृच्छितम् ।।
वराहरूपी भगवान्सर्वमायाकरण्डकः ।। ४६ ।।
किं त्वया भाषितो देवि सर्वयोगाङ्गयोगवित् ।।
देवो नारायणस्तत्र सर्वधर्मविदां वरः ।। ४७ ।।
कुमारवचनं श्रुत्वा तं मही प्रत्यभाषत ।।
शृणु तत्त्वेन मे ब्रह्मन्यन्मया परिपृच्छितम् ।। ४८ ।।
कार्यं क्रियां च योगं च आध्यात्म्यं पार्थिवस्थितम् ।।
एतन्मे पृच्छते ब्रह्मन्देवो नारायणः प्रभुः ।। ४९ ।।
ततो मां भाषते ब्रह्मन्विष्णुर्मायाकरण्डकः ।।
क्रुद्धा भागवता ब्रह्मन्येन शुद्ध्यन्ति किल्बिषात् ।। 134.५० ।।
कृत्वा तेन व्रतं चैव मम कर्मपरायणः ।।
षष्ठे काले तु भुञ्जीत गृहभिक्षामनिन्दिताम् ।। ५१ ।।
अष्टौ भिक्षा यथान्यायं शुद्धभागवतां गृहे ।।
य एतेन विधानेन ब्रह्मकर्माणि कारयेत् ।। ५२ ।।
मुच्यते किल्बिषात्तस्मादेवमाह जनार्दनः ।।
यदीच्छसि परां सिद्धिं विष्णुलोकं जनार्दनात् ।। ५३ ।।
शीघ्रमाराधयेद्विष्णुं द्विजमुख्यो न संशयः ।।
ततो भूमेर्वचः श्रुत्वा ब्रह्मणश्च सुतो मुनिः ।। ५४ ।।
प्रत्युवाच विशालाक्षीं धर्मकामो वसुन्धराम् ।।
अहो गुह्यं रहस्यं च यत्त्वया देवि भाषितम् ।। ५५ ।।
तस्य ये मुखनिष्क्रान्ता धर्मास्तान्वक्तुमर्हसि ।।
धरण्युवाच ।।
ततः स पुण्डरीकाक्षः शङ्खचक्रगदाधरः ।। ५६ ।।
वराहरूपी भगवाँल्लोकनाथो जनार्दनः ।
उवाच मधुरं वाक्यं मेघदुन्दुभिनिःस्वनः ।। ५७ ।।
भक्तकर्मसुखार्थाय गुणवित्तसमन्विताम् ।।
अनेनैव विधानेन आचारेण समन्वितः ।। ५८।।
देवि कारयते कर्म मम लोकं स गच्छति ।।
क्रुद्धेन न च कर्त्तव्यं लोभेन त्वरया न च ।। ५९ ।।
मत्पूजनं विधानेन यदीच्छेत्परमां गतिम् ।।
ये मां देवि यजिष्यन्ति क्रोधं त्यक्त्वा जितेन्द्रियाः ।। 134.६० ।।
संसारं ते न गच्छन्ति अपराधविवर्ज्जिताः ।।
श्रीवराह उवाच ।।
अकर्मण्येन पुष्पेण यो मामर्चयते भुवि ।। ६१ ।।
पातनं तस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
नाहं तत्प्रतिगृह्णामि न च ते वै मम प्रियाः ।। ६२।।
मूर्खा भागवता देवि मम विप्रियकारिणः ।।
पतन्ति नरके घोरे रौरवे तदनन्तरम् ।। ६३।।
अज्ञानस्य च दोषेण दुःखान्यनुभवन्ति च ।।
वानरो दश वर्षाणि मार्जारश्च त्रयोदश ।। ६४ ।।
मूकः पञ्च च वर्षाणि बलीवर्दश्च द्वादश ।।
छागश्चैवाष्टवर्षाणि मासं वै ग्रामकुक्कुटः ।। ६५ ।।
त्रीणि वर्षाणि महिषो भवत्येव न संशयः ।।
एतत्ते कथितं भद्रे पुष्पं यन्मे न रोचते ।। ६६ ।।
अकर्मण्यं विशालाक्षि पुष्पं ये च ददन्ति वै ।।
धरण्युवाच ।।
भगवन्यदि तुष्टोऽसि विशुद्धेनान्तरान्मना ।। ६७ ।।
येन शुध्यन्ति ते भक्तास्तव कर्मपरायणाः ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि ।। ६८ ।।
प्रायश्चित्तं महाभागे येन शुध्यन्ति मानवाः ।।
एकाहारं ततः कृत्वा मासमेकं वरानने ।। ६९ ।।
वीरासनविधींश्चैव कारयेत्सप्त सप्त च ।।
चतुर्थं भक्ष्यमेकेन मासेन घृतपायसम् ।। ।। 134.७० ।।
यावकान्नं त्रीण्यहानि वायुभक्षो दिनत्रयम् ।।
य एतेन विधानेन देवि कर्माणि कारयेत् ।।७१ ।। ।
सवर्पापप्रमुक्तश्च मम लोकं स गच्छति ।। ७२ ।।
इति श्रीवराहपुराणे पूजादिसामयिकापराधप्रायश्चित्तं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ।। १३४ ।।