प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३९ वराहपुराणम्
अध्यायः १४०
[[लेखकः :|]]
अध्यायः १४१ →

अथ कोकामुख(बदरी) माहात्म्यम्।।
धरण्युवाच।।
श्रुतानि देवस्थानानि त्वया प्रोक्तानि यान्युत।।
कस्मिंस्तिष्ठसि नित्यं त्वं तद्भवान्वक्तुमर्हति।।१।।
किंच ते परमं स्थानं यत्र मूर्त्त्याकृतिर्भवान्।।
कस्मिन्स्थाने कृतं कर्म येन यात्युत्तमां गतिम्।।२।।
श्रीवराह उवाच।।
शृणु तत्त्वेन मे देवि भक्तानां भक्तवत्सले ।।
येषु स्थानेषु तिष्ठामि कथ्यमानानिमाञ्छृणु।।३।।
तव कोकामुखं नाम यन्मया पूर्वभाषितम्।।
बदरीति च विख्यातं गिरिराजशिलातलम्।।४।।
स्थानं लोहार्गलं नाम म्लेच्छराजसमाश्रितम्।।
क्षणं चापि न मुंचामि एवमेतन्न संशयः।।५।।
सचैत्यं पश्य मे स्थानं जगदेतच्चराचरम्।।
सर्वत्राहं वरारोहे न मन्न्यूनं हि जानते।।६।।
ये तु जानन्ति मां देवि गुह्यां कामगतिं मम।।
शीघ्रं कोकामुखं यान्तु मम कर्मपरायणाः।।७।।
ततो देववचः श्रुत्वा पृथिवी वाक्यमब्रवीत्।।
शिरस्यञ्जलिमाधाय निर्वृतेनान्तरात्मना।।८।।
धरण्युवाच।।
सर्वतो लोकनाथेश परं कौतूहलं हि मे।।
कथं कोकामुखं श्रेष्ठं तद्भवान्वक्तुमर्हसि।।९।।
श्रीवराह उवाच।।
नास्ति कोकामुखात्क्षेत्रं श्रेष्ठं कोकामुखाच्छुचि।।
नास्ति कोकामुखात्स्थानं नास्ति कोकामुखात्प्रियम्।।140.१०।।
यस्तु कोकामुखं गत्वा भूयो विनिवर्त्तते।।
कर्माणि तत्र कुर्वीत चेष्टं भवति चात्मनि।।११।।
यानि यानि च क्षेत्राणि त्वया पृष्टानि वै धरे।.
कोकामुखसमं स्थानं न भूतं न भविष्यति।।१२।।
मम सा परमा मूर्त्तिर्यां न जानन्ति गोपिताम्।।
स्थितं कोकामुखं नाम एतत्ते कथितं मया।।१३।।
श्रीवराह उवाच।।
शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि।।
तस्मिन् कोकामुखं रम्यं कथ्यमानं मयाऽनघे।।१५।।
जलबिन्दुरिति ख्यातात्पर्वतात्पत्तनाद्भुवि।।
तत्तु गुह्यतमं देवि कृत्वा कर्म महौजसम्।।१६।।
सर्वसङ्गान्परित्यज्य मम लोकं स गच्छति।।
विष्णुधारेति विख्याता कोकायां मम मण्डले।।१७।।
पर्वतात्पतिता भूमौ धारा मुसलसन्निभा।।
अहोरात्रोषितो भूत्वा स्नायात्तत्र प्रयत्नतः।।१८।।
अग्निष्टोमसहस्राणां फलं प्राप्नोति मानवः।.
न मुह्यति स कर्त्तव्ये फलं प्राप्नोति चोत्तमम्।।१९।।
जायते विपुले शुद्धे मम मार्गानुसारिणि।।
तत्राथ मुंचति प्राणान्विष्णुधारां समाश्रितः।।140.२०।।
पश्यते परमां मूर्त्तिमेतां मम न संशयः।।
तत्र विष्णुपदं नाम स्थानं कोकामुकाश्रितम्।।२१।।
एतत्कश्चिन्न जानाति धरे वाराहसंश्रितम्।।
तस्मिन्कृतोदको देवि नरो रात्रावुपोषितः।। २२।।
क्रौंचद्वीपे प्रजायेत मम भक्तिपरायणः।।
तत्राथ मुंचति प्राणान्गुह्यस्थाने परे मम।।२३।।
सर्वसङ्गान्परित्यज्य मम लोके स गच्छति।।
अस्ति विष्णुसरो नाम क्रीडितं यत्त्वया सह।।२४।।
यत्र दंष्ट्राप्रहारेण चाहृतासि वसुन्धरे।।
तत्र स्नानं तु कुर्वीत प्रातःकाले वसुन्धरे।।२५।।
सर्वपापविशुद्धात्मा मम लोकं स गच्छति ।।
सोमतीर्थमिति ख्यातं कोकायां मम मण्डले ।।२६।।
यत्र पञ्चशिलाभूभिर्विष्णुनाम्ना तथाङ्किता ।।
यस्तत्र कुरुते स्नानं पञ्चरात्रोषितो नरः ।। २७ ।।
गोमेदे जायते द्वीपे मम मार्गानुसारकः ।।
तत्राथ मुञ्चते प्राणन्गुह्यक्षेत्रे परे मम ।। २८ ।।
सर्वपापविनिर्मुक्तः शुद्धात्मा मां स पश्यति ।।
तुंगकूटेतिविख्यातं कोकायां मम मण्डले ।। २९ ।।
चतुर्धाराः पतन्त्यत्र पर्वतादुच्छ्रयं श्रिताः ।।
यस्तत्र कुरुते स्नानं पञ्चरात्रोषितो नरः।।140.३०।।
कुशद्वीपं समासाद्य मम लोकेषु तिष्ठति ।।
अनित्यमाश्रमं नाम क्षेत्रकर्मसुखावहम् ।।३१।।
देवाश्च यं न जानन्ति किम्पुनर्मनुजादयः ।।
तत्र स्नात्वा वरारोहे अहोरात्रोषितो नरः ।। ३२ ।।
जायते पुष्करद्वीपे मम कर्मपरायणः ।।
अथ तत्र मृतो भूमे पुण्यक्षेत्रे महाशुचिः ।। ३३ ।।
सर्वपापविनिर्मुक्तो मम लोकं स गच्छति ।।
अस्त्यत्राग्निसरो नाम परं गुह्यं मम स्थितम् ।।३४।।
पंच धाराः पतन्त्यत्र गिरिकुञ्जसमाश्रिताः ।।
तत्र चापि कृतस्नानः पञ्चरात्रोषितो नरः ।। ३५ ।।
कुशद्वीपे च जायेत मम कर्मपरायणः ।।
तत्राथ मुञ्चते प्राणान् कृत्वा कर्म महौजसम्।।३६।।
कुशद्वीपात्परिभ्रष्टो ब्रह्मलोकं स गच्छति।।
अस्ति ब्रह्मसरो नाम गुह्यं क्षेत्रं परं मम ।।३७।।।
यत्र धारा पतत्येका पुण्या भूमिशिलातले।।
तत्र स्नानं प्रकुर्वीत पञ्चरात्रोषितो नरः ।।३८।।
वसते सूर्यलोकेषु मम मार्गानुसारकः ।।
अथाऽत्र मुंचते प्राणान्सूर्यधारां समाश्रितः ।। ३९ ।।
सूर्यलोकमतिक्रम्य मम लोकं तु गच्छति ।।
अस्ति धेनुवटं नाम गुह्यं क्षेत्रं परं मम।।140.४०।।
एका धारा पतत्यत्र देवि पूर्णा शिलोच्चयात् ।।
तत्र स्नानं प्रकुर्वीत एकमेकं दिनं तथा ।। ४१ ।।
सप्तरात्रोषितो भूत्वा मम कर्म समाश्रितः ।।
स्नात्वा सप्तसमुद्रेषु लब्धसंज्ञः समाहितः ।। ४२ ।।
सप्तद्वीपेषु विहरेन्मम कर्मपरायणः ।।
तत्राथ मुंचते प्राणान्मम भक्तिसमन्वितः ।।४३ ।।
सप्तद्वीपमतिक्रम्य मम लोकं तु गच्छति ।।
अस्ति धर्मोद्भवं नाम तस्मिन्क्षेत्रे परे मम ।। ४४ ।।
गिरिकुञ्जात्पतत्येका धारा भूमितले शुभा ।।
तत्र स्नानं प्रकुर्वीत एकरात्रोषितो नरः ।। ४५।।
स वैश्यो जायते शूद्रो मम कर्मपरायणः ।।
तत्राऽथ मुंचते प्राणान्गुह्ये देवि शिलोच्चये ।। ४६ ।।
सांगयज्ञं सदक्षिण्यं भुक्त्वा मां प्रतिपद्यते ।।
अस्ति कोटिवटं नाम क्षेत्रं गुह्यं परं मम ।। ४७ ।।
एका धारा पतत्यत्र वटमूलमुपाश्रिता ।।
तत्र स्नानं तु कुरुते नरो रात्रावुपोषितः ।। ४८ ।।
यावन्ति वटपत्राणि तस्मिञ्छृंगे परे मम ।।
तावद्वर्षसहस्राणि रूपसंपत्समन्वितः ।। ४९।।
तिष्ठते तु वरारोहे मम मार्गानुसारिणि।।
तत्राऽथ मुंचते प्राणान्कृत्वा कर्म सुदुष्करम्।।140.५० ।।
अग्निवर्णस्ततो भूत्वा मम लोकं स गच्छति।।
पापप्रमोचनं नाम गुह्यमस्मिन्परं मम।।५१ ।।
पतत्येकतमा धारा स्थूला कुंभसमा ततः।।
यस्तत्र कुरुते स्नानमहोरात्रोषितो नरः।।५२।।
जायते च चतुर्वेदी मम कर्मपरायणः ।।
तत्राऽथ मुञ्चते प्राणान्कौशिकीमाश्रितो नदीम् ।। ५३ ।।
यस्तत्र कुरुते स्नानं पंचरात्रोषितो नरः ।।
मोदते वासवे लोके मम मार्गानुसारिणि ।। ५४ ।।
तत्राथ मुंचते प्राणान्मम कर्मपरायणः ।।
वासवं लोकमुत्सृज्य मम लोक च गच्छति ।। ५५ ।।
यमव्यसनकं नाम गुह्यमस्ति परं मम ।।
स्रोतो वहति तत्रैकं कौशिकीमाश्रितं नदीम् ।। ५६ ।।
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः ।।
न स गच्छति दुर्गाणि यमस्य व्यसनं महत् ।। ५७ ।।
अथ तत्र त्यजेत्प्राणान्मम कर्मपरायणः ।।
विशुद्धो मुक्तपापोऽसौ मम लोकं स गच्छति ।। ५८ ।।
मातंगं नाम विख्यातं तस्मिन्क्षेत्रे परं मम ।।
स्रोतो वहति तत्रैव आश्रितं कौशिकीं नदीम् ।।५९।।
स्नानं कुर्वंति ये तत्र एकरात्रोषिता नराः ।।
भेदं किम्पुरुषं प्राप्य जायते नात्र संशयः ।। 140.६० ।।
विद्वाञ्छुचिश्च जायेत ममकमार्नुसारकः ।।
तत्राऽथ मुंचते प्राणान्गुह्ये देवि परे मम ।। ६१ ।।
मुक्त्वा किम्पुरुषं भेदं मम लोकं च गच्छति।।
अस्ति वज्रभवं नाम गुह्ये तस्मिन्परं मम ।।६२ ।।
स्रोतो वहति तत्रैकमाश्रितं कौशिकीं नदीम् ।।
स्नानं करोति यस्तत्र एकरात्रोषितो नरः ।। ६३ ।।
जायते शक्रलोके तु मम कर्मानुसारकः ।।
शरीरचक्रसङ्घाते वज्रहस्तस्वरूपकः ।। ६४ ।।
तत्र स्नानप्रभावेण जायते नात्र संशयः ।।
अथाऽत्र मुच्यते प्राणान्मम चिन्तनतत्परः ।।६५।।
शक्रलोकमतिक्रम्य मम लोकं प्रपद्यते ।।
तत्र त्रिक्रोशमात्रेण गुह्यं क्षेत्रं परं मम ।। ६६ ।।
शक्ररुद्रेति विख्यातं तस्मिन्कोकाशिलातले ।।
स्नानं करोति यस्तत्र त्रिरात्रोपोषितो नरः ।। ६७ ।।
जम्बू द्वीपे प्रजायेत जम्बूर्यत्र प्रतिष्ठिता ।।
जंबूद्वीपं परित्यज्य जायते मम पार्श्वगः ।। १८ ।।
अस्ति चान्यन्महद्भद्रे क्षेत्रे गुह्ये विशेषितम् ।।
मनुजा येन गच्छन्ति मुक्त्वा संसारसागरम् ।। ६९ ।।
दंष्ट्रांकुरेति विख्यातं यत्र कोका विनिःसृता ।।
एतद्गुह्य न जानन्ति यतो मुंचंति जन्तवः।।140.७० ।।
कृतोदकस्तत्र भद्रे अहोरात्रोषितो नरः ।।
जायते शाल्मलिद्वीपे मम कर्मानुसारिणि ।। ७१ ।।
तत्राथ मुंचते प्राणान्मम कर्मसु निष्ठितः ।।
शाल्मलिद्वीपमुत्सृज्य मम पार्श्वे स तिष्ठति ।। ७२ ।।
तस्मिन्क्षेत्रे महागुह्ये परमस्ति फलोदयम् ।।
विष्णुतीर्थमिति ख्यातं मम भक्तसुखावहम् ।। ७३ ।।
ततः पर्वतमध्यात्तु कोकायां पतते जलम् ।।
त्रिस्रोतसं महाभागे सर्वसंसारमोक्षणम् ।। ७४ ।।
तस्मिन् कृतोदको भूमे छित्त्वा संसारबन्धनम् ।।
वायोः स भवनं प्राप्य वायुभूतस्तु तिष्ठति ।। ७५ ।।
तत्राऽथ मुंचते प्राणान्मम कर्मसु निष्ठितः ।।
वायुलोकमतिक्रम्य मम लोकं स गच्छति ।। ७६ ।।
अस्ति तत्र वरं स्थानं सङ्गमं कौशिकोकयोः ।।
सर्वकामिकेति विख्याता शिला तिष्ठति चोत्तरे ।। ७७।।
तत्र यः कुरुते स्नानमहोरात्रोषितो नरः ।।
विस्तीर्णे जायते वंशे जातिं स्मरति चात्मनः ।। ७८ ।।
स्वर्गे वा यदि वा भूमौ यं यं कामयते नरः ।।
तं तं प्राप्नोति वै कामं स्नातमात्रः शिलातले ।।७९ ।।
तत्राऽथ मुंचते प्राणान्मम कर्मण्यवस्थितः ।।
सर्वसंगं परित्यज्य मम लोकं स गच्छति ।।140.८०।।।
अस्ति मत्स्यशिला नाम गुह्यं कोकामुखे वरम् ।।
धाराः पतन्ति तिस्रो वै कौशिकीमाश्रिता नदीम् ।। ८१ ।।
तत्र च स्नायमानस्तु यदि मत्स्यं प्रपश्यति ।।
ततो जानाम्यहं देवि प्राप्तो नारायणः स्वयम् ।। ८२ ।।
तत्र मत्स्यं पुनर्दृष्ट्वा यजमानस्तु सुन्दरि ।।
 दद्यादर्घ्यं ततो भद्रे मधुलाजसमन्वितम् ।। ८३ ।।
यस्तत्र कुरुते स्नानं देवि गुह्ये ततः परे ।।
तिष्ठते पद्मपत्रे तु सोत्तरे मेरुसंश्रिते ।। ८४ ।।
अथ संप्राप्य मुच्येत मत्स्यं गुह्यं परं मम ।।
मेरुशृंगं समुल्लङ्घ्य गम लोकं च गच्छति ।। ८५।।
पंचयोजनविस्तारं क्षेत्रं कोकामुखं मम ।।
यस्त्वेतत्तु विजानाति न स पापेन लिप्यते ।। ८६ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
तस्मिन्कोकामुखे रम्ये तिष्ठामि दक्षिणामुखः ।।८७।।
शिलाचन्दनसंकाशं देवानामपि दुर्लभम् ।।
वराहरूपमादाय तिष्ठामि पुरुषाकृतिः ।। ८८ ।।
वामोन्नतमुखं कृत्वा वामदंष्ट्रासमुन्नतम् ।।
पश्यामि च जगत्सर्वं ये च भक्ता मम प्रियाः ।।८९।।
ये मां स्मरन्ति वै भूमे पुरुषा मुक्तकिल्बिषाः ।।
तत्र कुर्वन्ति कर्माणि शुद्धाः संसारमोक्षणे ।।140.९०।।
यदि कोकामुखं गच्छेत् कदाचित्कालपर्यये ।।
मा ततो विनिवर्त्तेत यदीच्छेन्मम तुल्यताम् ।। ९१ ।।
गुह्यानां परमं गुह्यमेतत्स्थानं परं महत् ।।
सिद्धानां परमा सिद्धिर्गुह्यं कोकामुखं परम् ।। ९२ ।।
न च सांख्येन योगेन सिद्धिं यान्ति महापराम् ।।
याति कोकामुखं गत्वा रहस्यं कथितं मया ।।९३।।
एवं श्रेष्ठं महाभागे यत्त्वया परिपृच्छिम् ।।
परमं कथितं सर्वं किमन्यच्छ्रोतुमिच्छसे ।।९४।।
य एतत्कथितं भूमे कोकामुखमनुत्तमम् ।।
तारिताः पितरस्तेन दश पूर्वास्तथा पराः ।। ९५ ।।
मृतो वा तत्र जायेत शुद्धे भागवते कुले ।।
अनन्यमानसो भूत्वा मम मार्गप्रदर्शकः ।।९६।।
यश्चेदं शृणुयान्नित्यं कल्य उत्थाय मानवः ।।
त्यक्त्वा पंचशतं जन्म मम भक्तश्च जायते ।। ९७ ।।
य एतत्पठते नित्यं कोकाख्यानं तथोषसि ।।
गच्छते परमं स्थानमेवमेतन्न संशयः ।।९८।।
इति श्रीवराहपुराणे भगवच्छास्त्रे कोकामुखमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः।।१४० ।।