प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४७ वराहपुराणम्
अध्यायः १४८
[[लेखकः :|]]
अध्यायः १४९ →

अथ स्तुतस्वामिमाहात्म्यम् ।।
सूत उवाच ।।
गोनिष्क्रमणमाहात्म्यं श्रुत्वा गुह्यमनुत्तमम् ।।
विस्मयं परमं गत्वा सर्वरत्नविभूषिता ।।१।।
धरण्युवाच ।।
अहो गवां हि माहात्म्यं तव चैवं श्रुतं मया ।।
यच्छ्रुत्वाऽहं जगन्नाथ जातास्मि परिनिर्वृता ।। २ ।।
एवमेव परं गुह्यं ब्रूहि नारायण प्रभो ।।
अस्मात्क्षेत्रात्परं देव यदि क्षेत्रं विशिष्यते ।। ३ ।।
श्रीवराह उवाच ।।
अहं नारायणो देवः सर्वधर्मव्यपाश्रयः ।।
मात्सर्यं चैव मे नास्ति तेनाहं परमः प्रभुः ।।४।।
एतच्छास्त्रं महाभागे प्रयुक्तं लीलया मया ।।
वराहरूपमादाय सर्वभागवतप्रियम् ।। ५ ।।
धरण्युवाच ।।
यथा यथा भाषसि धर्मकारणमिदं वचो धर्मविनिश्चयं महत् ।।
तथा तथा देव वराऽप्रमेयं हृद्यं मनो भावयसे जनार्दन ।। ६ ।।
ततो महीवचः श्रुत्वा धर्मश्रेष्ठी महामनाः ।।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ।। ७ ।।
श्रीवराह उवाच ।।
साधु भूमे महाभागे मम कर्मव्यवस्थिते ।।
कथयिष्याम्यहं ह्येवं गुह्यं लोकसुखावहम् ।। ८ ।।
स्तुतस्वामीति विख्यातं गुह्यं क्षेत्रं परं मम ।।
ह्यपरं युगमासाद्य तत्र स्थास्यामि सुन्दरि ।।९।।
पुत्रोऽहं वसुदेवस्य देवक्या गर्भसम्भवः।।
वासुदेव इति ख्यातः सर्वदानवसूदनः ।।148.१०।।
पञ्च तस्य सुशिष्याश्च भविष्यन्ति विचक्षणाः ।।
ऋषयो धर्मसंयुक्ता मत्प्रसादाद्बलाश्रिताः ।। ११ ।।
ते मां संस्थापयिष्पन्ति धर्ममूर्त्तिं महीं गतम् ।।
शाण्डिल्यो जाजलिश्चैव कपिलश्चोपसायकः ।। १२ ।।
भृगुश्चैव महाभागे मम मागार्नुसारिणः ।।
ते च प्रसन्नमनस आत्मदृष्टान्तदर्शिनः।।१३।।
स्वयं ज्ञानप्रभावेण भासयिष्यन्ति मां सदा।।
सङ्कर्षणो वासुदेवो प्रद्युम्नो ह्यनिरुद्धकः।।१४।।
गच्छता बहुकालेन मम कर्मपरायणः ।।
ततो दीर्घेण कालेन इज्यापूर्वस्थितेन च ।। १५ ।।
वरं तेषां प्रदास्यामि यो यस्य हृदि संस्थितः ।।
ते प्रवक्ष्यन्ति मां देवि आत्मशास्त्रव्यवस्थिताः ।। १६ ।।
आत्मशास्त्रं प्रतिष्ठेत यत्र धर्मः सुनिष्ठितः ।।
भवत्वेतन्निश्चयेन न तु मिथ्या कदाचन ।। १७ ।।
तव देव प्रसादेन इहलोकः प्रवर्तताम् ।।
तानप्येवं वदिष्यामि शिष्याय भवतां प्रियम् ।। १८ ।।
भविष्यति न संदेहो यतो यूयं मम प्रियाः ।।
सुशिष्या बाढमित्येवं भविष्यन्ति न संशयः ।। १९ ।।
तदेते प्रवदिष्यन्ति सर्वभागवतप्रियम् ।।
यथा च मथ्यमानाद्वै दध्नश्चोद्ध्रियते घृतम् ।। 148.२० ।।
एवं सर्वेषु शास्त्रेषु वाराहं घृतसम्मितम् ।।
वाराहं ज्ञानमुत्सृज्य महाभागं महौजसम् ।। २१ ।।
एवं समं मया चैव ह्यात्मना परिभाषितम् ।।
ते प्रणामं करिष्यन्ति सिद्धिं प्राप्स्यन्ति वै पराम् ।। २२ ।।
महाज्ञानमिदं सूक्ष्मं भूमे भक्तेषु दृश्यते ।।
शास्त्राणां परमं शास्त्रं सर्वसंसारमोक्षणम् ।। २३ ।।
किञ्चिदन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
शास्त्रमेतन्महाभागे स्धूलकर्म महौजसम् ।। २४ ।।
केचित्तरन्ति ज्ञानेन केचित्कर्मणि निष्ठिताः ।।
केचिद्यथेष्टं सुश्रोणि केचिद्दानेन कर्मणा ।। २५ ।।
केचिद्योगबलं भुक्ता पश्यन्ति मम संस्थितम् ।।
विधिपूर्वं तु मे किञ्चिन्नराः पश्यन्ति निष्ठिताः ।। २६ ।।
सर्वधर्मकराः केचित्सर्वाशाः सर्वविक्रयाः ।।
ते मां पश्यन्ति वै भूमे एकचित्त व्यवस्थिताः ।। २७ ।।
एवमेतन्महाशास्त्रं देवि संसारमोक्षणम् ।।
मम भक्तव्यवस्थायै प्रयुक्तं परमं प्रियम् ।। २८ ।।
ते तथा च प्रवक्ष्यन्ति यच्च यस्याभिरोचते ।।
अन्यथान्यस्य दृष्टानामृषिभिर्यत्प्रयोजितम् ।। २९ ।।
तद्युगस्य प्रभावेण भूमे कुर्वन्ति मानवाः ।।
तैः स्वशिष्यैः समं देवि ये शास्त्रविनियोजिताः ।।148.३०।।
मत्प्रसादेन ते सर्वे सिद्धिं यास्यन्ति मत्पराम् ।।
मम शिष्येषु येषां च मात्सर्योपहतात्मनाम् ।।३१।।
मच्छास्त्रे च भवेद्दोषस्तेषामत्र पुनर्भवः ।।
मात्सर्यं ये च कुर्वन्ति मद्धर्मपरमे जने ।।३२।।
तेषां नायं परो लोको मात्सर्योपहतात्मनाम् ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। ३३ ।।
मम मार्गानुसारेण परं गुह्यं मम प्रिये ।।
शास्त्रवन्तो विनीताश्च बहुदोषविवर्विताः ।। ३४ ।।
ते तु मात्सर्यर्दोषेण नष्टाचाराः पतन्त्यधः ।।
मात्सर्यं सर्वनाशाय मात्सर्यं धर्मनाशकम् ।। ३९ ।।
यस्तु मात्सर्यसंयुक्तो न स पश्यति मां क्वचित् ।।
बहुकर्मसमायुक्ता दानाध्ययननिष्ठिताः ।।३६।।
तपसा ज्ञानयुक्ता वा नित्यं कर्मसु चोद्यताः ।।
अनेन हि स्वभावेन मात्सर्यं चैव कुर्वते ।।३७।।
न ते पश्यन्ति मां भूमे मायया परिदूषिताः ।।
न कर्त्तव्यं ततः सर्वैर्मात्सर्यं धर्मघातकम् ।।
मम शास्त्रपरेणेह यदीच्छेत्परमां गतिम् ।। ३८ ।।
एतद्गुह्यं महाभागे न जानन्ति मनीषिणः ।।
मात्सर्यस्य तु दोषेण बहवो निधनं गताः ।। ३९ ।।
एतच्छास्त्रं महाभागे प्रयुक्तं विधिना मया ।।
वराहरूपमादाय सर्वभागवतप्रियम् ।।148.४०।।
तत्राश्चर्यं महाभागे शृणु भूतगिरौ मम ।।
आयसी प्रतिमा तत्र ह्यभेद्या चैव दृश्यते।।४१।।
ब्रुवन्ति केचित्कांस्येति आयसीत्यपरेऽब्रुवन् ।।
पाषाणीत्यपरे केचिदन्ये वज्रमयीति च ।। ४२ ।।
ऊर्द्ध्वं वा यदि वाऽधो वा ये कुर्वन्ति ममार्चनम् ।।
तथापि मां संस्पृशन्ति शिरोमध्ये तु सुन्दरि ।। ४३ ।।
ये तु पश्यन्ति मां भूमे मणिपूरगिरौ स्थितम् ।।
स्तुवन्त्याचार्यवन्तश्च मत्प्रसादत्सु संयताः ।।४४।।
आचार्याणां गुणान्भुक्त्वा मम कर्मपथे स्थिताः ।।
सर्वकिल्बिषमुक्ताश्च यान्ति ते परमां गतिम् ।। ४५ ।।
तस्मिन्क्षेत्रे महाभागे अस्ति गुह्यं परं मम ।।
पंचारुमेति विख्यातमुत्तरां दिशमाश्रितम् ।।४६।।
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः ।।
मोदते नन्दने दिव्ये ह्यप्सरोभिः समाकुले ।। ४७ ।।
अथात्र मुंचते प्राणान्कृतकृत्यो भवेन्नरः ।।
नन्दनं वनमुत्सृत्य मम लोकं च गच्छति ।।४८।।
भृगुकुण्डेति विख्यातमत्र गुह्यं परं मम ।।
मम दक्षिणपार्श्वे तु अदूरादर्धयोजनात् ।। ४९ ।।
तत्र स्नानं तु कुर्वीत मम मार्गानुसारकः ।।
भूपृष्ठे न तु जायेत कालेन विजितेन्द्रियः ।। 148.५० ।।
ध्रुवो यत्र तु तिष्ठेत मेरुशृंगे शिलोच्चये ।।
तत्र मोदति सुश्रोणि अप्सरोभिर्यथासुखम् ।।५१।।
अथात्र मुंचते प्राणान् मम कर्मपथे स्थितः ।।
ध्रुवलोकं परित्यज्य मम लोके महीयते ।। ५२ ।।
मणिकुण्डेति विख्यातं तत्र गुह्यं परं मम ।।
मणयो यत्र दृश्यन्ते अनेकालयसंस्थिताः ।। ५३ ।।
अगाधं तं हृदं भद्रे देवानामपि दुर्लभम् ।।
विस्मयं किं पुनस्तत्र मलयश्चंचलः स्थितः ।। ५४ ।।
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः ।।
रत्नभागी भवेद्वीरो राजलक्षणसंयुतः ।। ५५ ।।
अथात्र मुंचते प्राणान्मम कर्मपथे स्थितः ।।
छित्त्वा वै सर्वसंसारं मम लोकं प्रपद्यते ।। ५६ ।।
सुगुह्यं पूर्वपार्श्वेन मम क्षेत्रस्य सुन्दरि ।।
अदूरतस्त्रिकोशेन परिमाणं विधीयते ।।५७।।
तत्र स्नानं तु कुर्वीत मम लोकं स गच्छति ।।
धूतपापेति विख्यातं तत्र गुह्यं परं मम ।। ५८ ।।
पंचक्रोशाददूराद्वै मम क्षेत्रस्य पश्चिमे ।।
तत्र कुण्डं महाभागे मम तद्रोचते जलम् ।। ५९ ।।
सुवर्णाभं मारकतमगाधं निर्मितं मया ।।
तत्र स्नानं प्रकुर्वीत पंचभक्तोषितो नरः ।।148.६०।।
धुन्वानो दुष्करं कर्म पंचभूतात्मनिष्ठितम् ।।
कृतोदकस्तत्र भद्रे धूतपापो यशस्विनि ।।६१।।
गत्वेन्द्रलोकं सुश्रोणि देवैः सह स मोदते ।।
अथात्र मुंचते प्राणान्मम कर्मपरायणः ।। ६२ ।।
इन्द्रलोकं परित्यज्य मम लोकं प्रपद्यते ।।
तत्राश्चर्यं महाभागे धूतपापे शृणुष्व मे ।। ६३ ।।
वर्त्तते च विशालाक्षि मणिपूरे गिरौ मम ।।
तावन्न पतते धारा यावत्पापं न धूयते ।। ६४ ।।
धूते पापे च सुश्रोणि धारा च पतति क्षितौ ।।
एवं तत्र विशालाक्षि वृक्षमश्वत्थमिश्रितम् ।। ६५ ।।
धूतपापं न प्रविशेत्प्रविशत्यमले नरे ।।
तस्मिन्क्षेत्रे वरारोहे समन्तात्पंचयोजने ।। ६६।।
यत्र तिष्ठाम्यहं देवि पश्चिमां दिशमाश्रितः ।।
तत्र चामलकं भद्रे अदूरादर्द्धयोजनात् ।। ६७ ।।
मम चैव प्रभावेण सर्वकालफलोदयम् ।।
तत्र कश्चिन्न जानाति पापकर्मा नराधमः ।। ६८।।
भक्तं भागवतं शुद्धं मम कर्मव्यवस्थितम् ।।
उपोष्य च त्रिरात्राणि श्रद्दधानो जितेन्द्रियः ।।६९।।
तत्र गत्वा वरारोहे उदिते च दिवाकरे ।।
अथ मध्याह्नवेलायां यदि वाऽस्तंगतेऽपि वा ।। 148.७० ।।
एकचित्तेन गन्तव्यं धृतिं कृत्वा सुपुष्कलाम् ।।
यत्तत्र लभते भद्रे फलमामलकं शुभम् ।। ७१ ।।
पंचरात्रेण लभते तस्मिन्भूतगिरौ मम ।।
ततो हरिवचः श्रुत्वा सा मही संशितव्रता ।। ७२ ।।
पुनर्नारायणं तत्र प्रोवाच विनयान्विता ।।
स्तुतस्वामी श्रुतोऽसि त्वं तत्त्र स्थानानि यानि च ।। ७३ ।।
एतन्नामनिरुक्तिं त्वं वक्तुमर्हसि साम्प्रतम् ।। ७४ ।।
श्रीवराह उवाच ।।
भूमे हित्वा तु संसारान्ये चान्ये देवकण्टकाः ।।
द्वापरे युगमासाद्य यत्र स्थास्यामि सुन्दरि ।। ७५ ।।
ततोऽमरैश्च ब्रह्माद्यैर्बहुभिर्मन्त्रवादिभिः ।।
स्तुतिं कर्त्तुं समारब्धं मणिपूराश्रितस्य मे ।।७६ ।।
ततो मां नारदो देवि असितो देवलस्तथा ।।
पर्वतश्च महाभागे मम भक्त्या व्यवस्थितः ।। ७७ ।।
नाम कुर्वन्ति मे तत्र मणिपूरगिरौ ततः ।।
स्तुतस्वामीति विख्यातं मम कर्मव्यपाश्रितम् ।। ७८ ।।
एतत्ते कथितं भद्रे निरुक्तिकरणं मया ।।
त्वया पृष्टं हि यद्भद्रे सर्वभागवतप्रियम् ।। ७९ ।।
एतत्स्तुतगिरेर्देवि माहात्म्यं कथितं मया ।।
द्वापरं युगमासाद्य यत्र स्थास्यामि सुन्दरि ।।148.८०।।
एतानि भूमे गुह्यानि तत्र भूतगिरौ मम ।।
श्रद्धधानेन मर्त्त्येन श्रोतव्यं नात्र संशयः ।।८१।।
एतत्ते कथितं भद्रे सर्वधर्मव्यपाश्रयम् ।।
श्रीस्तुतस्वामिमाहात्म्यं किमन्यत्परिपृच्छसि।।८२।।
इति श्रीवराहपुराणे भगवच्छास्त्रे स्तुतस्वामिमाहात्म्यं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः ।। १४८ ।।