प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४८ वराहपुराणम्
अध्यायः १४९
[[लेखकः :|]]
अध्यायः १५० →

अथ द्वारकामाहात्म्यम् ।।
सूत उवाच ।।
श्रीस्तुतस्वामिमाहात्म्यं श्रुत्वा धर्मपरायणा ।।
परितुष्टमना देवी वाक्यमेतदुवाच ह।।१ ।।
धरण्युवाच।।
एतच्छ्रुत्वा तु माहात्म्यं देव देववर प्रभो ।।
मम चित्तस्य परमा जाता शान्तिरनुत्तमा ।।२।।
नाराचधारावरणासिधारी सुररिपुवधकारी धरणीधरः ।।
धृतशङ्खगदाब्जचक्रपाणिः स्वयमिह शास्त्रमुदावहत्प्रधानम्।।३।।
एवं हि गुणमाहात्म्यं स्तुतस्वामिनि मच्छ्रुतम् ।।
अस्माच्चेदं परं श्रेष्ठं तन्मे वद कृपानिधे ।।४ ।।
श्रीवराह उवाच ।।
एवं भूमे वरं श्रेष्ठे फुल्लपंकजमालिनि ।।
कथयिष्यामि चान्यत्ते गुह्यं पापभयापहम् ।।५ ।।
द्वापरं युगमासाद्य यादवानां कुलोद्वहः ।।
शौरीति तत्र विख्यातो भविष्यति पिता मम ।। ६ ।।
द्वारकेति च विख्याता पुरी तत्र स्थिताऽभवत् ।।
या च देवपुरी रम्या विश्वकर्मविनिर्मिता ।। ७ ।।
पंचयोजनविस्तारा दशयोजनमायता ।।
वसाम्यत्र वरारोहे शतपञ्चसमास्तथा ।। ८ ।।
भारावतरणं कृत्वा देवानां सुमहत्प्रियम् ।।
पुनरप्यागमिष्यामि स्वर्लोकं प्रति सुन्दरि ।। ९ ।।
भविष्यति वरारोहे ईश्वरः सदृशो मम।।
दुर्वासा इति विख्यातः शपिष्यति कुलं मम ।। 149.१० ।।
तस्य शापाभिसन्तापाद्द्वारकावासिनो धरे ।।
वृष्ण्यन्धकाश्च भोजाश्च गमिष्यन्ति यमक्षयम् ।। ११ ।।
चन्द्रपाण्डुरसंकाशो वनमाली हलायुधः ।।
हलेनाकृष्य नगरं समुद्रं गमयिष्यति ।। १२।।
नारायणवचः श्रुत्वा धर्मकामा वसुन्धरा ।।
उभौ तौ चरणौ गृह्य पुनः पप्रच्छ माधवी ।।१३।।
धरण्युवाच ।।
लोकनाथोऽसि सर्वेषां देव मायाकरण्डक ।।
शपिष्यति कथं तत्र दुर्वासास्तद्वदस्व मे ।। १४ ।।
श्रीवराह उवाच ।।
तत्र जाम्बवती नाम मम पत्नी भविष्यति ।।
रूपयौवनसम्पन्ना मम भोगसमन्विता ।। १५ ।।
तस्याः पुत्रो महाभागो रूपयौवनदर्पितः ।।
सांब इत्यभिविख्यातो ममैव सततं प्रियः ।। १६ ।।
तेनैव क्रीडमानेन कृत्वा गर्भमतथ्यतः ।।
स पृष्टः परमश्रेष्ठ ऋषिरेषा प्रसोष्यति ।। १७।।
पुत्रकामा त्वियं बाला मुने तत्प्रब्रवीहि मे ।।
साम्बोऽयमिति च ज्ञात्वा स मुनिः कोपमूर्च्छितः ।। १८ ।।
उवाच तर्हि ते गर्भान्मुसलं कुलनाशनम् ।।
येन वृष्ण्यन्धकाः सर्वे गमिष्यन्ति यमक्षयम् ।। १९ ।।
श्रुत्वा दुर्वाससः शापं ते च सर्वे कुमारकाः ।।
शापेन सन्तप्तधियो मामूचुर्भयसंयुताः ।।149.२० ।।
ततस्तानागतान्दृष्ट्वा कुमारान् पृष्टवानहम् ।।
ते च मामब्रुवन्सर्वे यथावृत्तं समुत्सुकाः ।। २१ ।।
तच्च तेषां वचः श्रुत्वा प्रोक्तवानस्मि तच्छृणु ।।
भविष्यति न सन्देहो दुर्वासा यदुवाच ह ।।२२।।
एवं ते कथितं भूमे वृष्ण्यादेः शापकारणम् ।।
तत्र स्थानानि मे भूमे कथ्यमानानि मे शृणु ।। २३ ।।
द्वारकायां महाभागे वैष्णवानां सुखावहे ।।
अस्ति पंचसरो नाम गुह्यं क्षेत्रं परं मम ।। २४ ।।
समुद्रतीरमुत्सृज्य मम कर्मसुखावहम् ।।
तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ।। २५ ।।
मोदते नाकपृष्ठे तु अप्सरोगणसंकुले ।।
अथात्र मुंचते प्राणान्क्षेत्रे पंचसरे मम ।।२६।।
देवलोकं समुत्सृज्य मम लोके महीयते ।।
प्लक्षो वै तत्र सुश्रोणि शतशाखो महाद्रुमः ।। २७ ।।
सुफलैः शोभनैः कुम्भाकृतिभिर्बहुभिः फलैः ।।
बहवस्तत्र गच्छन्ति लाभलौल्येन मानवाः।।२८।।
फलं न लभते कश्चिन्मुक्त्वा भागवतं नरम् ।।
लभन्ते ये फलं तत्र मुक्ताः पापेन कर्मणा ।। २९ ।।
ते लभन्ते परां सिद्धिं मम कर्मणि संस्थिताः ।।
प्रभासमिति विख्यातं तस्मिंस्तीर्थे परे मम ।। 149.३० ।।
मनुजा यं न पश्यन्ति रागलोभसमन्विताः ।।
तत्र स्नानं प्रकुर्वीत पंचभक्तोषितो नरः ।। ३१ ।।
मोदते सप्तद्वीपेषु गुह्यानि च स गच्छति ।।
अथ चेन्मुंचते प्राणान्प्रभाते गतकिल्बिषः ।।३२ ।।
सर्वसंगं परित्यज्य मम लोकं स गच्छति ।।
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ।।३३।।
प्रभासे यत्र शृण्वन्ति सागरे न म (ग) रं प्रति ।।
मकरास्तत्र दृश्यंते भ्रममाणा इतस्ततः ।।३४।। ।।
न किंचिदपराध्यन्ति स्नायमाना जले ततः ।।
अथात्र प्रक्षिपेत्पिण्डान्प्रसन्ने सलिले नरः ।। ३५ ।।
असम्प्राप्ते च गृह्णन्ति एवमेतन्न संशयः ।।
पापकर्मरतस्यापि न गृह्णन्ति जलं प्रति ।।३६।।
धर्मात्मनां च गृह्णन्ति पिण्डमेव न संशयः ।।
पञ्चपिण्डमिति ख्यातं तस्मिन्गुह्यं परं मम ।।३७।।
अगाधस्याप्यपारस्य क्रोशविस्तार एव च ।।
तत्राभिषकं कुर्वीत पञ्चकालोषितो नरः ।। ३८ ।।
मोदते शक्रलोके स एवमेतन्न संशयः ।।
अथात्र मुञ्चते प्राणान्पञ्चकुण्डे यशस्विनि ।।३९।।
शक्रलोकं परित्यज्य मम लोकं स गच्छति ।।
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ।।149.४० ।।
न पश्येत्पापकर्मा वै शुभकर्मैव पश्यति ।।
चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ।।४१ ।।
रौप्यं सुवर्णकं पद्मं दृश्यते नात्र संशयः ।।
क्षेत्रं संगमनं नाम तस्मिंस्तीर्थे परं मम ।।४२।।
चतुर्धाराः पतन्त्यत्र मणिपूरगिरिं श्रिताः ।।
तत्राभिषेकं कुर्वीत चतुर्भक्तोषितो नरः ।।४३।।
वैखानसेषु लोकेषु मोदते नाऽत्र संशयः ।।
अथात्र मुंचते प्राणान्मम् भक्तिपरायणः ।। ४४ ।।
त्यक्त्वा वैखानसाँल्लोकान्मम लोकं स गच्छति ।।
तत्रापि परमाश्चर्यं कथ्यमानं शृणुष्व मे ।। ४५।।
दृश्यन्ते यानि कुण्डेषु मणिपूरगिरौ तथा ।।
प्रक्षीयमाणे पापे तु नयते तज्जलं भुवि ।।४६।।
स्नायमानेषु पापेषु न पतेत्तद्यथा पुरा ।।
हंसकुण्डेति विख्यातं तस्मिन्क्षेत्रे परे मम ।।४७।।
धारा चैका पतत्यत्र मणिपूरगिरौ श्रिता ।।
तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ।। ४८ ।।
मुक्तसंगो महाभागे मोदते वरुणालये ।।
अथाऽत्र मुंचते प्राणान् हंसकुण्डे वरानने ।।४९।।
वारुणं लोकमुत्सृज्य मम लोके महीयते ।।
तत्राश्चर्यं प्रवक्ष्यामि हंसकुण्डे यशस्विनि ।। 149.५० ।।
शुद्धाः पश्यन्ति मनुजाः पापकर्मा न पश्यति ।।
चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ।।५१।।
हंसाश्चैवात्र दृश्यन्ते चन्द्रकुन्दसमप्रभाः ।।
हंसान्पश्यति यस्तत्र भ्रममाणानितस्ततः ।।५२।।
लभन्ते ते परां सिद्धिं धरे नास्त्यत्र संशयः ।।
कदम्बमिति विख्यातं तस्मिन्क्षेत्रे परं मम ।।५३।।
वृष्णयो यत्र वै शुद्धाः संप्राप्ताश्च ममालयम् ।।
तत्राभिषेकं कुर्वीत चतुःकालोषितो नरः ।। ५६ ।।
मोदते ऋषिलोकेषु पुण्यात्मा वै न संशयः ।।
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ।। ५५ ।।
ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते ।।
तत्राश्चर्यं महाभागे कथ्यमानं शृणुष्व मे ।। ५६ ।।
कदम्बात्पतते धारा तत्र पूर्वविनिःसृता ।।
स कदम्बो महाभागे माघमासस्य द्वादशी ।। ५७ ।।
पुष्पाणि वै प्रकटयत्युदयस्थे दिवाकरे ।।
ये वा लभन्ते तत्पुष्पं मम मार्गानुसारिणः ।। ५८ ।।
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः ।।
चक्रतीर्थमिति ख्यातं तस्मिन्क्षेत्रे परं मम ।। ५९ ।।
पंच धाराः पतन्त्यत्र मणिपूरसमाश्रिताः ।।
तत्राभिषेकं कुर्वीत पंचकालोषितो नरः ।। 149.६० ।।
दशवर्षसहस्राणि स्वर्गलोके स मोदते ।।
अथात्र मुंचते प्राणाँल्लोभमोहविवर्जितः ।। ६१ ।।
सर्वान्स्वर्गान्समुत्सृज्य मम लोकं स गच्छति।।
तत्राश्चर्यं प्रवक्ष्यामि कथ्यमानं शृणुष्व मे ।। ६२ ।।
अन्यथैतन्न पश्यन्ति मम कर्मपरायणाः ।।
चतुर्विंशतिद्वादश्यामर्द्धरात्रे यशस्विनि ।। ६३ ।।
श्रूयते तत्र निर्घोषो मनःकर्णसुखावहः ।।
सुगन्धो वहते वायुर्बहुमाल्यसमन्वितः ।। ६४ ।।
दुर्ल्लभः पापिनां चैव सुलभः पुण्यकर्मिणाम्।।
तस्य चोत्तरपार्श्वेन अशोकश्च महाद्रुमः ।। ६५।।
पुष्प्यते सोऽथ तत्रापि सूर्ये चाभ्युदिते सति ।।
ये तत्र लभते पुष्पं मम मार्गानुसारिणः ।।६६।।
ते लभन्ते परां सिद्धिं एवं भूमे न संशयः ।।
अस्ति रैवतकं नाम तस्मिन् क्षेत्रे परं मम ।।६७।।
सर्वलोकेषु विख्यातं यत्र विक्रीडितं मया ।।
बहुगुल्मलताकीर्णं बहुपुष्पैश्च शोभितम् ।।६८।।
बहुवर्णशिलापङ्क्तिर्गुहाश्चापि दिशो दश ।।
वाप्यश्च कन्दराश्चैव देवानामपि दुर्ल्लभाः ।। ६९ ।।
तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ।।
गच्छेत्तु सोमलोकं तु कृतकृत्यो न संशयः ।।149.७०।।
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः ।।
सोमलोकं समुत्सृज्य मम लोकं प्रपद्यते ।। ७१ ।।
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ।।
पश्यन्ति मनुजाः सर्वे धर्मकामा न संशयः ।। ७२ ।।
पतन्ति सर्ववृक्षाणां पत्राणि सुबहून्यपि ।।
एकं चापि न दृश्येत प्रसन्नं याति तज्जलम् ।।७३ ।।
स च पूर्वेण पार्श्वेन शोभते वै महाद्रुमः ।।
अपरो मम पार्श्वेन देवानामपि दुर्ल्लभः ।। ७४ ।।
पंचक्रोशसुविस्तारः शोभते वै महाद्रुमः ।।
पद्मैश्चैवोत्पलैश्छन्नं सुगन्धिकुसुमैः सह ।।७५।।
बहुमत्स्यजलाकीर्णं सर्वतस्तु फलान्वितम्।।
शिलातलागुहाच्छन्नं सुगन्धिकुसुमैः सह।। ७६ ।।
तत्राभिषेकं कुर्वीत अष्टभक्तोषितो नरः ।।
मोदते नन्दने दिव्ये अप्सरोभिः समन्विते ।। ७७ ।।
अत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ।।
पश्यन्ति मनुजाः सर्वे धर्मकामा न संशयः ।। ७८।।
मध्याह्ने च पुनः पूर्णश्चार्द्धरात्रे समो वहेत्।।
वर्द्धते क्षीयते चैव यथैव च महोदधिः ।।७९ ।।
तस्य पश्चिमपार्श्वे तु बिल्वश्चैव महाद्रुमः ।।
चतुर्विंशतिद्वादश्यां स पुष्यति च निष्कलम् ।। 149.८० ।।
पश्येत्तु शुभकर्मा च पापकर्मा न पश्यति ।।
दृश्यते च महाभागे अस्तमेते दिवाकरे ।। ८१ ।।
यस्तत्र लभते पुष्पं मम मार्गानुसारकः ।।
स लभेत परां सिद्धिमेवं भूमे न संशयः ।। ८२ ।।
विष्णुसंक्रमणं नाम तस्मिन्क्षेत्रे परे मम ।।
विद्धोऽस्मि यत्र व्याधेन स्वमूर्त्तिं चास्थितः पुनः ।। ८३ ।।
तत्र कुंडं महाभागे मणिपूरगिरा श्रुतम् ।।
धारा चैका पतत्यत्र लाभालाभविवर्जितः ।। ८४ ।।
सूर्यलोकं समुत्सृज्य मम लोके महीयते ।।
तत्राश्चर्यं प्रवक्ष्यामि विष्णुं शत्रुगणेश्वरम् ।। ८५ ।।
पापिनां यस्तु दुर्दर्शः सुदृश्यः पुण्यचारिणाम् ।।
तस्य दक्षिणपार्श्वेन अश्वत्थो वै महाद्रुमः ।। ८६ ।।
चतुर्विंशतिद्वादश्यां मध्याह्ने तु दिवाकरे ।।
फलते स यथान्यायं सर्वभागवतप्रियम् ।। ८७ ।।
उच्चश्चैव विशालश्च मनोज्ञश्चैव शीतलः ।।
ये लभंते फलं तत्र मम मार्गानुसारिणः ।। ८८ ।।
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः ।।
तस्मिन् क्षेत्रे महाभागे तिष्ठामि चोत्तरामुखः ।। ८९ ।।
सर्वभागवतप्रीतिं समुद्रतटमाश्रितः ।।
अहं रामेण सहितः सा चाप्येकादशी शुभा ।। 149.९० ।।
त्रयस्तत्रैव तिष्ठामो द्वारकायां यशस्विनि ।।
तस्मिन् क्षेत्रे महाभागे त्रयो मोदामहे वयम् ।। ९१ ।।
त्रिंशद्योजनविस्तारः सर्वतस्तु दिशो दश ।।
तत्र गत्वा वरारोहे ये मां द्रक्ष्यन्ति भक्तितः ।। ९२ ।।
अदीर्घेणैव कालेन प्राप्नुवंति परां गतिम् ।।
आख्यानानां महाख्यानं शान्तीनां शान्तिरुत्तमा ।। ९३ ।।
धर्माणां परमो धर्मो द्युतीनां परमा द्युतिः ।।
लाभानां परमो लाभः क्रियाणां परमा क्रिया ।। ९४ ।।
श्रुतीनां परमं श्रेष्ठं तपसा च परं तपः ।।
एतन्मरणकालेऽपि मा कदाचित्तु विस्मरेत् ।। ९९ ।।
यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति ।।
य एतत्पठते भद्रे कल्यमुत्थाय मानवः ।। ९६ ।।
सकुल्यास्तारितास्तेन सप्त सप्त च सप्त च।।
एतत्ते कथितं भद्रे द्वारकायाः सुनिश्चयम् ।। ९७ ।।
उचितेनोपचारेण किमन्यत्परिपृच्छति ।। ९८ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे द्वारकामाहात्म्यं नामैकोनपंचाशदधिकशततमोऽध्यायः ।।१४९।।