← अध्यायः १४९ वराहपुराणम्
अध्यायः १५०
[[लेखकः :|]]
अध्यायः १५१ →

अथ सानन्दूरमाहात्म्यम् ।।
सूत उवाच ।।
द्वारकायास्तु माहात्म्यं श्रुत्वा ह्येतत्सुभाषितम् ।।
हृष्टावोचत्तदा देवं धर्मकामा वसुन्धरा ।। १ ।।
धरण्युवाच ।।
अहो देव प्रसादश्च यत्त्वया परिकीर्त्तितम् ।।
श्रुत्वैतत्परमं पुण्यं प्राप्तास्मि परमां श्रियम् ।। २ ।।
एतस्मादपि चेद्गुह्यं लोकनाथ जनार्दन ।।
यद्यस्ति प्रोच्यतां मह्यं कृपा चेत्परमा मयि ।। ३ ।।
ततो महीवचः श्रुत्वा विष्णुः कमललोचनः ।।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ।।४।।
श्रीवराह उवाच ।।
सानन्दूरेति विख्यातं भूमे गुह्यं परं मम।।
उत्तरे तु समुद्रस्य मलयस्य तु दक्षिणे ।।५।।
तत्र तिष्ठामि वसुधे उदीचीं दिशमाश्रितः ।।
प्रतिमा वै मदीयास्ति नात्युच्चा नातिनीचका ।। ६ ।।
आयसीं तां वदन्त्येके अन्ये ताम्रमयीं तया ।।
कांस्यां रीतिमयीमन्ये केचित्सीसकनिर्मिताम् ।। ७ ।।
शिलामयीमित्यपरे महदाश्चर्यरूपिणीम् ।।
तत्र स्थानानि वै भूमे कथ्यमानानि वै शृणु ।। ८ ।।
मनुजा यत्र मुच्यन्ते गताः संसारसागरम् ।।
तत्राश्चर्यं प्रवक्ष्यामि सानन्दूरे यशस्विनि ।। ९ ।।
सौवर्णं दृश्यते पद्मं मध्याह्ने तु दिवाकरे ।।
यत्र रामगृहं नाम मम गुह्यं यशस्विनि ।। 150.१०।।
तत्रापि शृणु चाश्चर्यं यश्चापि परिवर्त्तते ।।
एका तत्र लता वृक्षे उच्चैः स्थूलो महाद्रुमः ।। ११ ।।
समुद्रमध्ये तिष्ठन्तं कोऽपि तत्र न पश्यति ।।
अन्यच्च ते प्रवक्ष्यामि महाश्चर्यं वसुन्धरे ।। १२ ।।
मम भक्ता हि पश्यंति विद्यमाना स्वकर्मणा।।
बहुमत्स्यसहस्राणि कोट्यो ह्यर्बुदमेव च ।। १३ ।।
क्षिप्तः पिण्डश्च तन्मध्ये येन केन विकर्मिणा ।।
एकस्तत्र स्थूलमत्स्यो भूमे चक्रेण चाङ्कितः ।। १४ ।।
तावत्कश्चिन्न गृह्णाति यावत्तेन न भक्षितः ।।
तत्र रामसरो नाम गुह्यं क्षेत्रं परं मम ।। १५ ।।
अगाधं चाप्यपारं च रक्तपद्मविभूषितम् ।।
तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ।। १६ ।।
बुधस्य भवनं गत्वा मोदते नात्र संशयः ।।
अथ प्राणान्प्रमुच्येत तस्मिन्सरसि सुन्दरि ।।१७।।
बुधस्य भवनं त्यक्त्वा मम लोकं प्रपद्यते ।।
तस्मिन्रामसरस्युच्चैराश्चर्यं शृणु सुन्दरि ।।१८ ।।
मनुजास्तन्न पश्यन्ति मम कर्मरता न ये ।।
तत्सरः क्रोशविस्तारं बहुगुल्मलतावृतम् ।। १९ ।।
मनोज्ञं रमणीयं च जलजैश्चापि संवृतम् ।।
तत्र रूढानि पद्मानि द्योतयन्ति दिशो दश ।।150.२०।।
एकं तु दृश्यते श्वेतमब्जं रुक्ममयं तथा ।।
तत्र ब्रह्मसरस्युच्चैरुत्तरं पार्श्वमाश्रिता ।।२१ ।।
धारा चैका प्रपतति स्थूला मुसलसन्निभा ।।
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः ।। २२ ।।
ब्रह्मलोकं समासाद्य मोदते नात्र संशयः ।।
अथात्र मुंचते प्राणैर्भूमे ब्रह्मसरस्यपि ।। २३ ।।
ब्रह्मणा समनुज्ञातो मम लोकं च गच्छति ।।
तत्राश्चर्यं महाभागे रम्ये ब्रह्मसरे शृणु ।। २४ ।।
मद्भक्ता यच्च पश्यन्ति घोरसंसारमोक्षणम् ।।
चतुर्विंशतिद्वादश्यां सा धारा पृथुलेक्षणे ।। २५ ।।
भूमे पतति मध्याह्ने यावत्सूर्यस्तु तिष्ठति ।।
परिवृत्ते तु मध्याह्ने सा धारा न पतेद्भुवि ।। २६ ।।
एवं तत्र महाश्चर्यं पुण्यब्रह्मसरोवरे ।।
अस्ति सङ्गमनं नाम गुह्यं क्षेत्रं परं मम ।। २७ ।।
समुद्रश्चैव रामश्च समेष्येते वराङ्गने ।।
तत्र कुण्डं महाभागे प्रसन्नविमलोदकम् ।। २८ ।।
बहुगुल्मलताकीर्णं शोभितं च विहङ्गमैः ।।
समुद्रस्य तु पार्श्वेन ह्यदूरात्तत्र योजनात् ।। २९ ।।
मण्डितं कुमुदैः पद्मैः सुगन्धैश्चोत्तमैस्तया ।।
तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ।। 150.३० ।।
समुद्रभवनं गत्वा मम लोकं प्रपद्यते ।।
तत्राश्चर्यं प्रवक्ष्यामि कुण्डं रामस्य सङ्गमे ।। ३१ ।।
यद्दृष्ट्वा मनुजास्तत्र भ्रमन्ति विगतज्वराः ।।
यानि कानि च पर्णानि पतन्ति जलसंसदि।।३२।।
एकमप्यत्र पश्यन्ति न केपि वसुधे नराः ।।
अच्छिद्राणि च पत्राणि तस्मिन् रामस्य सङ्गमे।।३३।।
प्रपन्नेनापि मार्गं तच्छिद्रं तत्र न पश्यति।।
अस्ति शक्रसरो नाम गुह्यं क्षेत्रं परं मम।।३४।।
तत्र पूर्वेण पार्श्वेण ह्यदूरादर्द्धयोजनात् ।।
तस्य कुण्डस्य सुश्रोणि चतस्रो विषमाश्रिताः ।। ३५ ।।
धाराः पतन्ति कल्याणि प्रसन्नसलिलास्तथा ।।
तत्र स्नानं प्रकुर्वीत चतुष्कालोषितो नरः ।। ३६ ।।
चतुर्णां लोकपालानां लोकानाप्नोति चोत्तमान् ।।
अस्मिंश्च शक्रसरसि यदि प्राणान्प्रमुंचति ।। ३७ ।।
लोकपालान्समुत्सृज्य मम लोकेषु मोदते ।।
तत्राश्चर्यं महाभागे दृश्यते तच्छृणुष्व मे ।। ३८ ।।
शुद्धैर्भागवतैर्भूमे सर्वसंसार मोक्षणम् ।।
चतुर्धारास्ततो भद्रे पतन्ति चतुरो दिशः ।। ३९ ।।
न च तद्वर्द्धते चाम्भो न चैव परिहीयते ।।
मासे भाद्रपदे चैव शुक्लपक्षे तु द्वादशी ।। 150.४० ।।
श्रूयते गीतनिर्घोषः श्रुतिकर्ममनोहरः ।।
अस्ति सूर्पारकं नाम गुह्यं क्षेत्रं परं मम ।। ४१ ।।
जामदग्न्यस्य रामस्य स्वाश्रमोऽथ भविष्यति ।।
तत्र तिष्ठाम्यहं देवि समुद्रतटमाश्रितः ।। ४२ ।।
शाल्मलीं चाग्रतः कृत्वाधिष्ठितश्चोत्तरामुखः ।।
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः ।। ४३ ।।
ऋषिलोकं ततो गत्वा पश्येत्तत्राप्यरुन्धतीम् ।।
अथ प्राणान्विमुंचेत कृत्वा कर्म सुदुष्करम् ।। ४४ ।।
ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते ।।
तत्राश्चर्यं महाभागे नमस्कारं च कुर्वते ।। ४५।।
वर्षाणि द्वादशैतेन नमस्कारः कृतो भवेत् ।।
तस्मिन्क्षेत्रे महाभागे पश्यंति परिनिष्ठिताः ।। ४६ ।।
पापात्मानो न पश्यन्ति मम मायाविमोहिताः ।।
चतुर्विंशतिद्वादश्यां समुपायान्ति शाल्मलीम् ।।४७।।
तत्र पश्यन्ति सुश्रोणि शुद्धा भागवता नराः ।।
तस्मिन्क्षेत्रे महाभागे अस्ति गुह्यं परं मम ।। ४८ ।।
जटाकुण्डमिति ख्यातं वायव्यां दिशि संस्थितम् ।।
तत्कुण्डस्य महाभागे समन्ताद्दशयोजनम् ।। ४९ ।।
मलयस्य दक्षिणेन समुद्रस्योत्तरे तथा ।।
तत्र स्नानं तु कुर्वीत पंचकालोषितो नरः ।। 150.५० ।।
अगस्तिभक्नं गत्वा मोदते नात्र संशयः ।।
अथ प्राणान्प्रमुंचेत मम चिन्तापरायणः ।। ५१ ।। ।
अगस्तिभवनं त्यक्त्वा मम लोकं तु गच्छति ।।
तस्य कुण्डस्य सुश्रोणि नव धारा न किंचन ।। ५२ ।।
विस्तारश्च महाभागे अगाधश्च महार्णवः ।।
आश्चर्यं सुमहत्तत्र कथ्यमानं मया शृणु ।। ५३ ।।
यच्च पश्यति सुश्रोणि समन्तादितरो जनः ।।
चतुर्विंशतिद्वादश्यां रवावभ्युदिते सति ।। ५४ ।।
न वर्द्धते ततश्चाम्भो यावत्तिष्ठति तत्पुनः ।।
एतत्ते कथितं भद्रे सानन्दूरेति तन्मया ।। ५५ ।।
आश्चर्यं च प्रमाणं च भक्तिकीर्त्तिविवर्द्धनम् ।।
गुह्यानां परमं गुह्यं स्थानानां परमं महत् ।। ५६ ।।
यस्तु गच्छति सुश्रोणि अष्टभक्तपथे स्थितः ।।
प्राप्नोति परमां सिद्धिं ममैव वचनं यथा ।।५७।।
य एतत्पठते नित्यं यश्चैवं शृणुयान्मुदा ।।
कुलानि तेन तीर्णानि षट् च षट् च पुनश्च षट् ।। ५८ ।।
एतन्मरणकाले न विस्मर्त्तव्यं कदाचन ।।
यदीच्छेद्विष्णुलोके हि निष्कलं गमनं नरः ।। ५९ ।।
एतत्ते कथितं भद्रे त्वया पृष्टं च मां प्रति ।।
उक्तं भागवतार्थाय किमन्यत्परिपृच्छसि ।।150.६० ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे सानंदूरमाहात्म्यं नाम पंचाशदधिकशततमोऽध्यायः ।।१५०।।