प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १६३ वराहपुराणम्
अध्यायः १६४
[[लेखकः :|]]
अध्यायः १६५ →

अथाऽन्नकूटपरिक्रमप्रभावः ।।
श्रीवराह उवाच ।।
अस्ति गोवर्द्धनं नाम क्षेत्रं परमदुर्लभम् ।।
मथुरापश्चिमे भागे अदूराद्योजनद्वयम् ।।१।।
ह्रदं तत्र महाभागे द्रुमगुल्मलतायुतम् ।।
चत्वारि तत्र तीर्थानि पुण्यानि च शुभानि च ।।२।।
ऐन्द्रं पूर्वेण पार्श्वेन यमतीर्थं तु दक्षिणे।।
पश्चिमे वारुणं तीर्थं कौबेरं चोत्तरेण तु ।।३।।
तेषां मध्ये स्थितो भद्रे क्रीडयिष्ये यदृच्छया ।।
तत्र वै शक्रतीर्थे तु स्नानं कुर्याद्दृढ व्रतः।।४।।
मोदते शक्रलोके तु सर्वद्वन्द्वविवर्जितः।।
दक्षिणे यमतीर्थे तु स्नानं कुर्याद्यथाविधि।। ५।।
यमस्य भवनं गत्वा मोदते कृतनिश्चयः।।
तत्राथ मुञ्चते प्राणान् लोभमोहविवर्जितः।।।।
यमलोकं परित्यज्य मम लोकं स गच्छति ।।
तत्रैव वारुणं तीर्थमासाद्य स्नानमाचरेत्।।७।।
वारुणं भवनं गत्वा मुच्यते सर्वकिल्बिषात् ।।
तथात्र मुञ्चते प्राणान्कामक्रोधविवर्जितः ।। ८ ।।
वारुणं लोकमुत्सृज्य मम लोकं स गच्छति ।।
तत्र मध्ये च यः स्नाति क्रीडते स मया सह ।।९।।
अथाऽत्र मुञ्चते प्राणान्मम लोके स गच्छति ।।
अन्नकूटं ततः प्राप्य तस्य कुर्यात्प्रदक्षिणम् ।।164.१०।।
न तस्य पुनरावृत्तिर्देवि सत्यं ब्रवीमि ते ।।
स्नात्वा मानसगङ्गायां दृष्ट्वा गोवर्द्धने हरिम् ।। ११ ।।
अन्नकूटं परिक्रम्य किं पुनः परिशोचति ।।
सोमवारे त्वमायां वै प्राप्य गोवर्द्धनं गिरिम् ।।१२।।
दत्त्वा पिण्डं पितृभ्यश्च राजसूयफलं भवेत् ।।
गयायां पिण्डदानेन यत्फलं प्राप्यते नरैः ।।१३।।
तत्फलं प्राप्यते तत्र नात्र कार्या विचारणा ।।
गोवर्द्धनं परिक्रम्य दृष्ट्वा देवं परं हरिम् ।। १४ ।।
राजसूयाश्वमेधानां फलं प्राप्नोत्यसंशयम् ।। १५ ।।
पृथिव्युवाच ।।
परिक्रमोऽन्नकूटस्य विधिना क्रियते कथम् ।।
प्रभावगुणमाहात्म्यं तद्भवान्वक्तुमर्हति ।। १६ ।।
श्रीवराह उवाच ।।
मासि भाद्रपदे या तु शुक्ला चैकादशी शुभा ।।
गोवर्द्धने सोपवासः कुर्यात्तत्र प्रदक्षिणाम् ।।१७।।
स्नात्वा मानसगङ्गायां प्रभाते उदिते रवौ ।।
गोवर्द्धनं प्रसाद्यैवं हरिं चाचलमूर्द्धनि ।। १८ ।।
पुण्डरीकं ततो गच्छेत्कुण्डे स्नात्वा विधानतः ।।
देवान्पितॄन्समभ्यर्च्य पुण्डरीकमथार्च्य च ।। १९ ।।
सर्वपापविनिर्मुक्तः प्रयाति भवनं हरेः ।।
कुण्डं चाप्सरसं नाम प्रसन्नसलिलाशयम् ।। 164.२० ।।
तत्र स्नानं तर्पणं च कृत्वा फलमवाप्नुयात् ।।
राजसूयाश्वमेधानां धूतपाप्मा न संशयः ।।२१।।
तीर्थं संकर्षणं नाम्ना बलभद्रेण रक्षितम् ।।
गोहत्या पूर्वसंलग्ना उत्तीर्णा तत्र दूरतः ।।२२।।
स्नानाद्गच्छति सा क्षिप्रं नाऽत्र कार्या विचारणा ।।
अन्नकूटस्य सान्निध्ये तीर्थं शक्रविनिर्मितम् ।। २३ ।।
तत्र कृष्णेन पूजार्थमिन्द्रस्य विहतो मखः ।।
महदिन्द्रस्य चोत्थानं भक्ष्यभोज्यसमन्वितम् ।।२४।।
कृत्वा तुष्टिकरान्साक्षादिन्द्रेण सह संकथा ।।
इन्द्रस्य वर्षतोऽत्यन्तं तासां पीडाकरं जलम् ।।२५।।
तासां गवां रक्षणाय धृतो गिरिवरस्तदा ।।
सोऽन्नकूट इति ख्यातः सर्वतः शक्रपूजितः ।। २६ ।।
देवा देव्यस्तथा गावो ऋषिभिश्च समन्विताः ।।
पूजितास्तर्पिताः श्रेष्ठाः श्रमतो विष्णुना पुरा ।। २७ ।।
तस्मिन्स्थाने तर्पणेन शतक्रतुफलं लभेत् ।।
ततः कदम्बखण्डाख्यं कुण्डं तु विमलोदकम् ।।२८।।
स्नात्वा पितॄन्समभ्यर्च्य ब्रह्मलोकमवाप्नुयात् ।।
ततो गच्छेद्देवगिरिं शतबाहुसमुच्छ्रितम् ।।२९।।
यत्र स्नानाद्दर्शनाच्च वाजपेयफलं लभेत् ।।
महादेवं ततो दृष्ट्वा गत्वा ध्यात्वा फलं लभेत् ।।164.३०।।
कुण्डे स्नात्वा पितॄँस्तर्प्य कृतकृत्यो दिवं व्रजेत् ।।
गङ्गायाश्चोत्तरं यावद्देवदेवस्य चक्रिणः ।। ३१ ।।
अरिष्टेन समं यत्र महद्युद्धं प्रवर्त्तितम् ।।
घातयित्वा ततश्चेममरिष्टं वृषरूपिणम् ।। ३२ ।।
कोपेन पार्ष्णिघातेन मह्यां तीर्थं प्रवर्तितम् ।।
वृषभस्य वधाज्ज्ञेयं तीर्थं सुमहदद्भुतम् ।।३३।।
स्नातस्तत्र तदा कृष्णो वृषं हत्वा महासुरम् ।।
वृषहत्यासमायुक्तः कृष्णश्चिन्तान्वितोऽभवत् ।।।८४।
वृषो हतो मया चायमरिष्टः पापपूरुषः ।।
तत्र राधा समाश्लिष्य कृष्णमक्लिष्टकारिणम् ।।३५।।
स्वनाम्ना विदितं कुण्डं कृतं तीर्थमदूरतः ।।
राधाकुण्डमिति ख्यातं सर्वपापहरं शुभम् ।। ३६ ।।
अरिष्टराधाकुण्डाभ्यां स्नानात्फलमवाप्नुयात् ।।
राजसूयाश्वमेधानां नात्र कार्या विचरणा ।।३७।।
 गोनरब्रह्महत्यायाः पापं क्षिप्रं विनश्यति ।।
तीर्थं हि मोक्षराजाख्यं नृणां मुक्तिप्रदायकम् ।। ३८ ।।
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।।
इन्द्रध्वजोच्छ्रयं यत्र पूर्वस्यां दिशि वै कृतम् ।। ३९ ।।
इन्द्रध्वजमिति ख्यातं तीर्थ चैवातिमुक्तिदम् ।।
तत्र स्नाता दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।। 164.४० ।।
ततो हरो निवेद्याशु यात्राफलमनुत्तमम् ।।
चक्रतीर्थे नरः स्नात्वा पञ्चतीर्थाख्यकुण्डके ।। ४१ ।।
समाप्य तीर्थयात्रां च रात्रौ जागरणं तथा ।।
गोवर्द्धने च कर्त्तव्यं महापातकनाशनम् ।। ४२ ।।
एकादश्यां तदा रात्रौ कृत्वा जागरणं शुभम् ।।
द्वादश्यामुषसि स्नात्वा पिण्डं निर्वाप्य शक्तितः ।।४३।।
पितॄणां मुक्तिदं तेषां य एवं कुरुते नरः ।।
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति।।४४।।
एतत्ते कथितं भद्रे अन्नकूटपरिक्रमम् ।।
यथानुक्रमयोगेन तथाषाढेपि चोच्यते ।। ४९ ।।
य एतच्छृणुयाद्भक्त्या तीर्थानुकमणं हरेः ।।
गोवर्द्धनस्य माहात्म्यं गङ्गास्नानफलं भवेत् ।। ४६ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्यान्तर्गते गोवर्द्धनमाहात्म्येऽन्नकूटपरिक्रमप्रभावो नाम चतुःषष्ट्यषिकशततमोऽध्यायः ।। १६४ ।।