प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७४ वराहपुराणम्
अध्यायः १७५
[[लेखकः :|]]
अध्यायः १७६ →

श्रीवराह उवाच ।।
शृणु चान्यद्वरारोहे कृष्णगङ्गासमुद्भवम् ।।
यमुनास्रोतसि स्नात्वा कृष्णद्वैपायनो मुनिः ।। १ ।।
ध्यात्वा मनसि गङ्गां तां कालिन्दीं पापहारिणीम् ।।
नित्यं च कर्म कुरुते तत्र तीर्थजलाप्लुतिम् ।।२।।
सोमवैकुण्ठयोर्मध्ये कृष्णङ्गेति कथ्यते ।।
यत्रातप्यत स व्यासो मथुरायां स्थितोऽमलः।।३।।
तत्राश्रमपदं दिव्यं मुनिप्रवरसेवितम् ।।
आगच्छन्ति सदा तत्र चातुर्मास्यमुपासितुम् ।।४।।
मुनयो वेदतत्त्वज्ञा ज्ञानिनः संशितव्रताः ।।
श्रौतस्मार्त्तपुराणेषु सन्देहो यस्य कस्यचित्।।५।।
व्यासोऽपनोदयामास नानावाक्यैः सताङ्गतिः।।६।।
कालञ्जरे महादेवं तत्र तीर्थपतिं शिवम्।।
यस्य सन्दर्शनादेव कृष्णगंगाफलं भवेत् ।। ७।।
तत्र स्थितो द्वादशाब्दव्रती संगविवर्जितः।।
पक्षाहारी च फलभुग्दर्शे वै पौर्णमासिके ।।८।।
गत्वा हिमालयं चासौ बदरीमभितो गतः।।
व्यासश्चर्यापरस्तत्र ध्यानयोगपरायणः ।।९।।
त्रिकालदर्शी शुद्धात्मा सिद्धत्वं प्राप्नुयात्प्रभुः।।
तस्याश्रमपदस्थस्य यद्दृष्टं ज्ञानचक्षुषा।।175.१० ।
प्रत्यक्षं कृष्णतीर्थे तु पांचाल्यकुलतन्तुना।
पांचाल्योऽथ द्विजः कश्चिन्नाम्ना वसुरिति श्रुतः।। ११ ।।
दुर्भिक्षपीडितोऽत्यन्तं सभार्यो दक्षिणां गतः।।
शिवनद्या दक्षिणे तु कूले स वरपत्तने।।१२।।
निवासमकरोत्तत्र ब्राह्मणीं वृत्तिमाश्रितः।।
तत्रस्थस्य तदा पंच पुत्राः कन्याभवंस्तदा।।१३।।
ब्राह्मणाय च दत्ता सा धनधान्यसमन्विता ।।
स द्विजः कालसम्पन्नः सभार्यस्तत्र संस्थितः ।। १४ ।।
कन्याऽस्थीनि तु संगृह्य मथुरामाजगाम ह ।।
श्रुत्वा पुराणे पतितमर्द्धचन्द्रेऽस्थिपातनम्।।१५।।
नित्यं स्वर्गे वसति स यस्यास्थि ह्यर्द्धचन्द्रके।।
तीर्थयात्राप्रसंगेन लोकैः प्रचलिता बहिः।।१६।।
तेन सार्थेन सा कन्या मथुरायां जगाम च ।।
कनिष्ठा भगिनी तेषां बालरण्डा बभूव ह ।। १७ ।।
सुरूपा सुकुमाराङ्गी नीलकुंचितमूर्द्धजा ।।
कदलीकाण्डसंकाशे तस्या ऊरू सुमांसले ।। १८ ।।
सुश्लिष्टाङ्गुलिपादा तु नखास्ताम्रोज्ज्वलाः शुभाः ।।
गम्भीरा दक्षिणावर्त्ता नाभिस्त्रिवलि .शोभिता ।।१९।।
क्षामोदरी समकुक्षिः पीनोन्नतपयोधरा ।।
कम्बुग्रीवा संवृतास्या सुदती स्वधराहनुः ।।175.२० ।।
सुनखी स्वक्षिणी सुभ्रूः सुप्रमाणा सुभाषिणी ।।
तेन तेनैव सम्पूर्णरूपेण च तिलोत्तमा ।। २१ ।।
यं यं पश्यति चार्वङ्गी यस्तां चैव प्रपश्यति ।।
स स चित्र इव न्यस्तो विचेता जायते नरः ।। २२ ।।
एवंविधा तत्र तत्र तीर्थस्नानपरायणा ।।
दृष्टा वेश्यासमूहेन प्रागल्भ्येन तदा क्वचित् ।। २३ ।।
कान्यकुब्जाधिपो राजा क्षत्रधर्मे व्यवस्थितः ।।
तस्य सत्रं सर्वकालं देवगर्त्तेश्वरे शिवे ।। २४ ।।
प्रवर्त्तते सुवित्ताढ्य प्रेक्षणीयं मनोरमम् ।।
वादित्राणि च गीतानि शक्रस्य भवने यथा ।। २५ ।।
तस्य देवस्य या वेश्यास्ताभिः सा प्रतिलोभिता ।। २६ ।।
गीतनृत्यादिषु रता तासां धर्ममुपागता ।।
अल्पैस्तु दिवसैः साध्वी असाध्वीभिः परीवृता ।। २७ ।।
एवं वसति सा बाला देवस्यास्य परिग्रहा ।।
यथासुखं समेताभिर्विहरन्ती दिनेदिने ।। २८ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये कृष्णगंगाकालिञ्जरप्रभावे पंचसप्तत्यधिकशततमोऽध्यायः ।।१७५।।