प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७५ वराहपुराणम्
अध्यायः १७६
[[लेखकः :|]]
अध्यायः १७७ →

श्रीवराह उवाच ।।
पंचानां तु कनिष्ठो यः पंचालो ब्राह्मणात्मजः ।।
वाणिज्यभाण्डमादाय समूहस्य प्रसंगतः ।। १ ।।
सार्थेन निष्ठितः सोऽथ धनवान्रूपवांस्ततः ।।
क्रमेण ते सर्वदेशान्विषयान् पर्वतान्नदीः ।। २ ।।
आक्रम्य तत्र सम्प्राप्ता यत्र सा मथुरा पुरी ।।
आवासं कारयामासुः प्रभूतयवसेन्धने ।। ३ ।।
तस्मिन्स्थाने स पांचालः प्रातस्तु पुरुषैः सह ।।
तस्मिंस्तीर्थवरे स्नाप्य वस्त्रालङ्कारभूषितः ।।
ऐश्वर्यमदभावेन यानेन महता तदा ।। ४ ।।
देवतादर्शनं कृत्वा दत्त्वा दानान्यनेकशः ।। ९ ।।
कौतुकार्थं ततो गत्वा देवं गर्त्तेश्वरं तदा ।।
तिलोत्तमायास्तद्रूपं दृष्ट्वा मोहवशं गतः ।। ६ ।।
धात्रेयिकायास्तस्याश्च बहुमानपुरःसरम् ।।
वस्त्राणि बद्धरूपाणि कटकानां शतानि च ।। ७ ।।
हारा रत्नमयास्तद्वद्ददौ लोभविमोहितः ।।
ददावगुरुसारं च सकर्पूरं सचन्दनम् ।। ८ ।।
तस्या गृहवरे तत्र वसति स्म दिनेदिने ।।
प्रहरार्द्धे दिने जाते ततः स्वशिबिरं ययौ ।। ९ ।।
स्नात्वा तीर्थे समीपे च कृष्णगङ्गोद्भवे सदा ।।
एवं नित्यं प्रसक्तो हि करोति द्रव्यगर्वितः ।। 176.१० ।।
एवं तु कुर्वतस्तस्य मासषट्कं ततो गतम् ।।
अथैकदा समायातः स्नातुं तत्र सुमन्तुना ।। ११ ।।
स्वाश्रमस्थेन दृष्टः स कृमियुक्तः समागतः ।।
कृमयो रोमकूपेभ्यः पतमाना अनेकशः ।। १२ ।।
यावत्स्नानं स कुरुते पतते राशिमात्रकः ।।
स्नाने कृते नश्यति च सुरूपश्चाभिजायते ।। १३ ।।
एवं सुमन्तुना दृष्टमाश्चर्यं बहुवासरम् ।।
सुमन्तुस्तर्कयामास कोऽयं कस्यात्मजो युवा ।। १४ ।।
इति चिन्तासमायुक्तस्तमपृच्छद्विशंकितः ।।
कस्त्वं कस्यासि सुभग का जातिः कश्च ते पिता ।। १५ ।।
किं करोषि दिवारात्रौ ब्रूहि त्वं पृच्छतो मम ।।
पाञ्चाल उवाच ।।
पांचालो ब्राह्मणसुतो वाणिज्यं च समाश्रितः ।। १६ ।।
दक्षिणापथदेशाच्च मथुरायां समागतः ।।
निशामुषित्वा शिबिरे प्रातस्तीर्थं समाश्रितः ।। १७ ।।
स्नात्वा महेश्वरं दृष्ट्वा त्रिगर्तेश्वरसंज्ञितम् ।।
कालिञ्जरं भवत्पादौ गच्छामि शिबिरं ततः ।। १८ ।।
सुमन्तुरुवाच ।।
आश्चर्यं तव देहेऽस्मिन्नित्यं पश्यामि निःसृतम् ।।
अस्नाते कृमिसम्पूर्णं स्नाते निर्मलवर्चसम् ।।१९।।
अस्ति किंचिन्महत्पापं तव प्रच्छन्नसम्भवम् ।।
अस्यां तीर्थप्रभावेण स्नानाद्गच्छति दूरतः ।। 176.२० ।।
कालिञ्जरस्य संस्पर्शाच्छुद्धं देहं च दृश्यते ।।२१।।
निरूप्य कथयास्माकं यत्ते प्रच्छन्नकिल्बिषम् ।। २२ ।।
तीर्थमाहात्म्याभवं च दृष्ट्वा पृच्छामि ते हितम् ।।
इति तस्य मुनेः श्रुत्वा त्रिकालज्ञस्य भाषितम् ।। २३।।
किंचिन्नोवाच पृष्टोऽपि एवमेव गतः पुनः ।।
तस्यामासीत्स एकान्ते तां तु पप्रच्छ सादरम् ।।२४।।
का त्वं कस्यासि सुभगे कश्च देशः प्रियंवदे ।।
किं तत्कारणमुद्दिश्य वसस्यत्र सुखं सदा ।। २६ ।।
इति निर्बन्धतः पृष्टा किंचिन्नोवाच तं प्रति ।।
पुनःपुनश्च पप्रच्छ सा प्रोवाच न किंचन ।। २६ ।।
किंचित्कालं समास्थाय तेनोक्तं हि प्रियां प्रति ।।
त्यक्ष्यामि हि प्रियान्प्राणान्यदि सत्यं न वक्ष्यति ।। २७ ।।
निर्बन्धं तस्य तज्ज्ञात्वा दुःखेनोवाच तं प्रति ।।
पितरौ भ्रातरश्चेति देशं ज्ञातिं ततः कुलम् ।। २८ ।।
पंचालनगरी रम्या गङ्गायाश्चोत्तरे तटे ।।
तस्यां तौ पितरौ मह्यं वसतश्च यदृच्छया ।। २९ ।।
दुर्भिक्षपीडिते राष्ट्रे गतौ तौ दक्षिणापथम् ।।
नर्मदादक्षिणे कूले ब्राह्मणानां पुरोत्तमे ।। 176.३०।।
तस्मिन् स्थाने पितुर्मह्यं पंच पुत्रा मया सह ।।
जातास्तेषामहं षष्ठी कनिष्ठा विधवाऽभवम् ।। ३१ ।।
योऽसौ कनिष्ठको भ्राता मम ज्येष्ठश्च पंचमः ।।
बाल एव गतो देशं धनतृष्णाप्रलोभितः ।।३२।।
तस्मिन्गतेऽथ पितरौ कालधर्ममुपेयतुः ।।
तीर्थेऽस्मिन्नस्थिपातार्थमहं सार्थैः सहागता ।।३३।।
अत्र स्नानपरा नित्यं देवब्राह्मणवन्दनम् ।।
कुर्वन्ती वशमापन्ना आसां यस्या ममेदृशम् ।। ३४ ।।
आश्रिता कुलटाधर्मं कुलनाशो मया कृतः ।।
कुलद्वये च पुरुषा एकविंशतिसंख्यया ।। ३९।।
नीता नरकमत्युग्रं मया पापिष्ठया भृशम् ।।
एवं सा तस्य तत्सर्वं कथयित्वा तिलोत्तमा ।।३६।।
रुरोद सुस्वरं दीना स्मृत्वा पूर्वं कुलं वरम् ।।
विलप्य बहुधा रात्रौ संस्मृत्य स्वं विचेष्टितम् ।। ३७ ।।
तस्या विलपितं श्रुत्वा स्त्रीजनः स तदागतः ।।
सान्त्वयामास तां बालां कि भद्रे रुदितं तव ।। ३८ ।।
एतच्छ्रुत्वा स पांचाल्यो मूर्च्छितो धरणीं गतः ।।
ताः स्त्रियस्तां समाश्वास्य पांचाल्यं परिवार्य च ।। ३९ ।।
तैस्तैरुपायैर्विविधैर्जीवयित्वा च तं नरम् ।।
लब्धप्राणं तु तं दृष्ट्वा पप्रच्छुर्मोहकारणम् ।। 176.४० ।।
ततस्तेन सवृत्तान्तं कथितं च कुलं महत् ।।
तिलोत्तमासहायानां स्त्रीणामग्रे सविस्तरम् ।। ४१ ।।
ततः स विमना जातो अगम्यागमनेन च ।।
प्रायश्चित्ते मतिरभून्निर्विण्णस्य दुरात्मनः ।। ४२ ।।
ब्रह्महा च सुरापश्च ब्राह्मणो यदि जायते ।।
प्रायश्चित्तं विनिर्दिष्टं मुनिभिर्देहनाशनम् ।।४३।।
मातरं गुरुपत्नीं च स्वसारं पुत्रिकां वधूम् ।।
गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ।। ४४ ।।
ब्रह्मघ्नश्च सुरापश्च स्त्रीघ्नश्च गुरुतल्पगः ।।
अगम्यागमनं कृत्वा एषां स समतामियात् ।। ४५ ।।
इति श्रुत्वा तु पांचाली ज्येष्ठभ्रातरमेव तम् ।।
द्विजेभ्यः प्रददौ सर्वमङ्गलग्नं विभूषणम् ।।४६।।
रत्नं वस्त्रं धनं धान्यं यत्किंचित्तत्र संस्थितम् ।।
तत्सर्वं ब्राह्मणेभ्यश्च दत्त्वाशेषं ददौ धनम् ।।४७।।
कालिञ्जरस्य भूषार्थमारामार्थं विशेषतः ।।
कृष्णगङ्गोद्भवे तीर्थे चितां कृत्वा विधानतः ।। ४८ ।।
आत्मनश्च विशुद्ध्यर्थं प्रजज्वाल हुताशनम् ।।
इति निश्चित्य तत्रैव स्नात्वा देवं प्रणम्य च ।। ४९ ।।
पंचालोऽपि विधानेन नमस्कृत्य मुनिं गुरुम् ।।
सुमन्तुं च महाभागमुपविश्याग्रतश्च सः ।।176.५०।।
मरणायोपयोग्यानि कृत्वा कर्माणि तत्र च ।।
माथुरान्स समाहूय दत्त्वा दानानि सर्वशः ।। ५१ ।।
क्रीत्वा ग्रामांश्च तत्रैव ब्राह्मणेभ्यो ददौ तदा ।।
ईशावास्यं जपं दिव्यं जापकेभ्यः शृणोति च ।। ५२ ।।
तेभ्योऽपि प्रददौ द्रव्यं सत्रार्थं च विभागशः ।।
और्ध्वदेहिकभागार्थं कल्पयित्वा यथाविधि ।।५३।।
स्नात्वा तीर्थे च कृष्णस्य देवं दृष्ट्वा प्रणम्य च ।।
कालिञ्जरस्य पूजार्थं सत्रार्थं परिकल्प्य च ।। ५४ ।।
देवालयं च तत्रैव कृत्वा सन्दिश्य सार्थकान् ।।
सुमन्तोः प्रवरस्याथ पादौ जग्राह धर्मवित् ।। ५५ ।।
देव ज्ञानं च ते दिव्यमद्भुतं लोमहर्षणम् ।।
अगम्यागमनादेव पापं जातं मम प्रभो ।। ५६ ।।
आगतोऽहं यदारभ्य मथुरायां ततो गुरो ।।
भगिन्या सह संयोगे जातोऽयं कुलनाशकः ।। ५७ ।।
त्वया निर्मलदृष्ट्या च वीक्षितोऽहं पुरा मुने ।।
कृमयो मम गात्रात्तु निर्गच्छन्तो हि नित्यदा ।। ५८ ।।
कृष्णगंगाप्रभावेण पुनर्निर्मलतां गतम् ।।
तत्सर्वं हि त्वया दृष्टं पृष्टश्चाहं पुनः पुनः ।। ५९ ।।
तत्सत्यं मम सञ्जातमगम्यागमपातकम् ।।
तत्पापस्य विशुद्ध्यर्थं देहत्यागं करोमि वै ।। 176.६० ।।
अनुज्ञां देहि भो स्वामिंस्तव पादौ नमाम्यहम् ।।
विश्राव्य तस्य तत्पापं चितां दीप्य घृतोक्षिताम् ।। ६१ ।।
प्रवेष्टुकामं तत्राग्नौ खे प्रोवाचाशरीरिणी ।।
मैवं कार्षीः साहसं च विपाप्मानौ यतश्च वाम् ।। ६२ ।।
कस्माद्वा कस्य सन्त्रासान्मरणे कृतनिश्चयौ ।।
यत्र कृष्णस्य संचारः क्रीडितं च यथासुखम् ।। ६३ ।।
चक्राङ्कितपदा तेन स्थानं ब्रह्मसमं शुभम् ।।
अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ।। ६४ ।।
तीर्थे च यत्कृतं पापं वज्रलेपो भविष्यति ।।
द्वावेतौ च यथावश्यं गंगासागरसंगमे ।। ६५ ।।
सकृदेव नरः स्नात्वा मुच्यते ब्रह्महत्यया ।।
पृथिव्यां यानि तीर्थानि सर्वाण्येवाभिषेचनात् ।। ६६ ।।
तत्पंचतीर्थस्नानेन समं नास्त्यत्र संशयः ।।
एकादश्यां च विश्रान्तौ द्वादश्यां सौकरे तथा ।। ६७ ।।
त्रयोदश्यां नैमिषे च प्रयागे च चतुर्दशीम् ।।
कार्त्तिक्यां पुष्करे चैव कार्त्तिकस्य सितासिते ।। ६८ ।।
कालेष्वेषु नरः स्नात्वा सर्वपापं व्यपोहति ।।
मथुरायां च तीर्थेभ्यो विश्रान्तः पंचतीर्थके ।। ६९ ।।
असिकुण्डे सरस्वत्यां तथा कालिञ्जरस्य च ।।
पंचतीर्थाभिषेकाच्च यत्फलं लभते नरः ।। 176.७० ।।
कृष्णगंगा दशगुणं लभते च दिनेदिने ।।
ज्ञानतोऽज्ञानतो वापि यत्पापं समुपार्जितम् ।। ७१ ।।
सुकृतं दुष्कृतं चापि मथुरायां प्रणश्यति ।।
वराहेण पुरा चेदं पृथिव्यै कथितं शुभम् ।। ७२ ।।
तीर्थानां गुणमाहात्म्यं महापातकनाशनम् ।।
सर्वदेवमयो योऽसौ सर्ववेदमयस्तथा ।। ७३ ।।
अनन्तश्चाप्रमेयश्च यस्य चान्तो न विद्यते ।।
यस्य श्रोत्रैकदेशे तु आकाशो लेशमात्रकः ।।७४।।
विलीनो ज्ञायते नैव तस्य देवस्य का कथा ।।
तथा नयनयोः प्रान्ते तेजो लीनं न दृश्यते ।। ७५ ।।
निःश्वासे च विलीनोऽसौ वायुर्नष्टो न दृश्यते ।।
खुराग्रेषु तथा लीनाः समुद्राः सप्त च प्रभोः ।। ७६ ।।
दृश्यन्ते स्वेदसङ्काशा नाममात्रा यथा पुरा ।।
रोमकूपान्तरे लग्ना सशैलवनकानना ।। ७७ ।।
नष्टा पृथ्वी न लभ्येत तस्माद्देवात्तु कोऽधिकः ।।
सोऽत्र तीर्थपरित्राणं कुर्वन्देवः स्वयं प्रभुः ।। ७८ ।।
वराहः संस्थितः साक्षात्पुराणं येन सूचितम् ।।
पृथिव्याः सर्वसन्देहान् स्फोटयामास योऽव्ययः ।। ७९ ।।
तस्य सन्दर्शनादेव सर्वपापविवर्जितः ।।
तत्क्षणादेव जायेत नात्र कार्या विचारणा ।। 176.८० ।।
नवम्यां ज्येष्ठ शुक्लस्य स्नात्वा गङ्गोदके नरः ।।
सूकरे तु त्रिरात्रं च मानवो दीपदः सकृत् ।। ८१ ।।
दत्त्वा दानं यथाशक्ति सर्वपापैः प्रमुच्यते ।।
कालिञ्जरे च द्वादश्यां स्नात्वा संपूज्य देवताम् ।। ८२।।
द्वादशादित्यसङ्काशो विमाने च समास्थितः ।।
विष्णुना समनुज्ञातो विष्णुलोके महीयते ।।८३।।
वराह उवाच ।।
एवं सुखदशब्देन देववाण्या प्रचोदितः ।।
पांचालसंज्ञकस्तत्र सुमन्तुं पर्यपृच्छत ।। ८४ ।।
अस्मद्गुरुः पिता त्वं च ब्रूहि किं करवाणि वै ।।
पावकालम्भनं मे स्यादुताहो तीर्थसेवनम् ।। ८५ ।।
त्रिरात्रं कृच्छ्रपाराक चान्द्रायणमथापि वा ।।
तव पादांकिते वापि स्थित्वा मोक्षमवाप्नुयाम् ।। ८६ ।।
आकाशभारती यत्तु तत्सत्यं नानृतं क्वचित् ।।
मया प्रत्यक्षतः पूर्वं तव गात्रेषु पातकम् ।। ८७ ।।
दिनेदिने च स्नानात्प्राक् प्रतिगच्छति नित्यशः ।।
आश्रमे त्वं स्थितश्चात्र निर्मलश्च शशी यथा ।।८८।।
तिष्ठोपरमितः पापाद्यावत्कालं च जीवसि ।।
इयं तु भगिनी पापादुपावृत्ता सती परम् ।। ८९ ।।
सगतिश्च विपापा च भविष्यति न संशयः ।।
श्रीवराह उवाच ।।
एवं प्रभावस्तीर्थस्य मथुरायां वसुन्धरे ।।176.९० ।।
कृष्णगंगोद्भवस्यापि तथा कालिञ्जरस्य च ।।
सूकरस्य च माहात्म्यं यथा ते वर्णितं पुरा ।।९१ ।।
यः शृणोति वरारोहे श्रद्धया परया युतः ।।
पठति प्रातरेवापि न स पापेन लिप्यते ।।९२।।
सप्तजन्मकृतं पापं तस्य सर्वं व्यपोहति ।।
फलं च गोशतस्यापि दत्तस्य समवाप्नुयात्।।
अमृतत्वं च लभते स्वर्गलोकं च गच्छति।।९३।।
इति श्रीवराहपुराणे कृष्णगंगोद्भवमाहात्म्यं नाम षट्सप्तत्यधिकशततमोऽध्यायः ।।१७६।। ।