प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७६ वराहपुराणम्
अध्यायः १७७
[[लेखकः :|]]
अध्यायः १७८ →

श्रीवराह उवाच।।
शृणु चान्यद्वरारोहे कृष्णस्यान्यद्विचेष्टितम् ।।
द्वारकां वसमानस्य साम्बशापादिकं शृणु।।१ ।।
सुखासीनस्य कृष्णस्य पुत्रदारसुतैः सह ।।
आगतो नारदस्तत्र यदृच्छागमनो मुनिः।।
पाद्यमर्घ्यं चासनं च मधुपर्कं सभाजनम्।।
गां च दत्त्वा यथान्यायं कृतं संवादमुत्तमम् ।।३।। ।
एकान्ते प्राप्य कृष्णं च विज्ञप्तिमकरोत्प्रभुः।।
कृष्ण किञ्चिद्वक्तुकामस्तत्त्वं शृणु महामते।।।।
साम्बनामा तव युवा पुत्रो वाग्मी तु रूपवान्।।
स्पृहणीयः सदा कान्तः स्त्रीजनस्य सुरेश्वरः।।५।।
एतास्तु वरनार्यो वै क्रीडार्थं हि सुरेश्वरः।
देवयोन्यो ददुस्तुभ्यं सहस्राणि च षोडश।।६।।
साम्बं दृष्ट्वा च सर्वासां क्षुभ्यते च मनः प्रभो ।।
एतत्तु ब्रह्मलोके च गीयते दैवतैः स्वयम् ।। ७ ।।
त्वत्प्रियार्थं समायातः कथितुं ते सुरोत्तम ।।
श्रूयते चार्थ विद्रूपः श्लोको द्वैपायनेन वै ।। ८ ।।
क्रियातः स्वर्गवासोस्ति नरकस्तद्विपर्ययात् ।।
पुण्यरूपं तु यत्कर्म दिशो भूमिं च संस्पृशेत् ।। ९ ।।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ।।
पुरुषश्चाविनाशी च कथ्यते शाश्वतोऽव्ययः ।। 177.१० ।।
नरके पुरुषः प्रोक्तो विपरीतो मनीषिभिः ।।
तस्मात्साम्बं समाहूय तथा देवीगणं च तम् ।। ११ ।।
आसनेषूपविष्टानां तासां क्षोभं च तत्त्वतः ।।
लक्षयिष्याम्यहं सर्वं सत्यं चासत्यमेव च ।। १२ ।।
तावत्सभ्यासनान्येव स्वास्तीर्य च विभागशः ।।
सर्वास्तास्तु समाहूय आसने चोपवेश्य च ।। १३ ।।
पश्चात्साम्बः समायातस्तस्याग्रे करसंपुटम् ।।
कृत्वा स्थितो मुहूर्तं तु किमाज्ञापयसि प्रभो ।। १४ ।।
दृष्ट्वा रूपमतीवास्य साम्बस्यैव वरस्त्रियः ।।
चुक्षुभुः सकला देव्य कृष्णस्यैव तु पश्यतः ।।१५।।
उत्तिष्ठतः प्रियाः सर्वा गच्छत स्वनिवेशनम् ।।
कृष्णवाक्यात्तदा देव्यो जग्मुः स्वं स्वं निवेशनम् ।।१६।। ।
सांबस्तत्रैव संतस्थौ वेपमानः कृताञ्जलिः ।।
स कृष्णो नारदं वीक्ष्य लज्जयावाङ्मुखोऽभवत् ।। १७ ।।
कृष्णस्तु कथयामास नारदाय सविस्तरम् ।।
स्त्रीस्वभावं चरित्रं च आश्चर्यं पापकारकम् ।। १८ ।।
क्षणो नास्ति रहो नास्ति नास्ति कृत्ये विभावना ।।
तेन नारद नारीणां सतीत्वमुपजायते ।। १९ ।।
एकवासास्तथा गौरी श्यामा वा वरवर्णिनी ।।
मध्यं गता प्रगल्भा च वयोऽतीतास्तथा स्त्रियः ।। 177.२० ।।
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति मुनिसत्तम ।।
स्वभाव एष नारीणां सांबस्य शृणु कारणम् ।। २१ ।।
अतीव मानी तेजस्वी धार्मिकोऽतिगुणान्वितः ।। रूपकारणमुद्दिश्य गतः क्षोभं कथञ्चन ।। २२ ।।
नारदस्त्वेवमेवं च प्रतिपूज्य हरेर्वचः ।।
अन्तरज्ञ उवाचेदं सांबशापकरं तथा ।। २३ ।।
यथा एकेन चक्रेण रथस्य न गतिर्भवेत् ।।
पुरुषास्वादनाच्चैवं क्षरन्ति सततं स्त्रियः ।। २४ ।।
पुंसः सुदृष्टिपातेन कृतकृत्या भवन्ति ताः ।।
प्रद्युम्नं वीक्ष्य नार्यस्तु लज्जामापुः सुपुष्कलाम् ।। २५ ।।
सांबं दृष्ट्वैव ताः सर्वा अनङ्गेन प्रपीडिताः ।।
उद्दीपनविभावोऽयं तासां गन्धादिकं यथा ।। २६ ।।
तस्मात्सांबस्तु दुष्टात्मा तव स्त्रीणां विनाशकृत् ।।
सत्यलोके प्रवादो यस्तव जातो दुरत्ययः ।। २७ ।।
मया श्रुतस्तु लोकेभ्यो ब्रह्मर्षिभ्यो मुहुर्मुहुः ।।
सांबत्यागात्प्रमार्ष्टुं त्वमयशः कुलनाशकम् ।। २८ ।।
त्वमिहार्हस्यमेयात्मन्मया नु कथितं हितम् ।।
इत्युक्त्वा वचनं तत्र नारदो मौनमास्थितः ।। २९ ।।
कृष्णः शशाप सांबं तु विरूपत्वं भविष्यति ।।
शापयुक्तः स सांबस्तु कुष्ठयुक्तोऽभवत्क्षणात्।। 177.३० ।।
शरीरात्तु गलद्रक्तं पूतिगन्धयुतं सदा ।।
पशुवत्कर्तितो यस्तु तद्वद्देहोऽस्य दृश्यते ।। ३१ ।।
ततस्तु नारदेनैव साम्बशापविनाशकः ।।
समादिष्टो महान्धर्म आदित्याराधनं प्रति ।। ३२ ।।
सांब सांब महाबाहो शृणु जांबवतीसुत ।।
पूर्वाचले च पूर्वाह्ने उद्यन्तं तु विभावसुम् ।। ३३ ।।
नमस्कुरु यथान्यायं वेदोपनिषदादिभिः ।।
त्वयोदितं रविः श्रुत्वा तुष्टिं यास्यति नान्यथा ।। ३४ ।।
सांब उवाच ।।
अगम्यगमनात्पापाद्व्याप्तो यः पुरुषो भवेत् ।।
तस्य देवः कथं तुष्टो भविष्यति स वै मुने ।। ३५ ।।
नारद उवाच ।।
भविष्यत्पुराणमिति तव वादाद्भविष्यति ।।
ब्रह्मलोके पठिष्यामि ब्रह्मणोऽग्रे त्वहं सदा ।। ३६ ।।
सुमन्तुर्मर्त्त्यलोके च मनोः प्रकथयिष्यति ।।
सांब उवाच ।।
कथं पूर्वाचले गत्वा मांसपिण्डोपमः प्रभो ।। ३७ ।।
त्वत्प्रसादान्महद्दुःखं प्राप्तस्त्वहमकल्मषः ।।
नारद उवाच ।।
यथोदयाचले देवमाराध्य लभते फलम् ।। ३८ ।।
मथुरायां तथा गत्वा षट्सूर्ये लभते फलम् ।।
मध्याह्ने च तथा देवं फलप्रियमकल्मषम् ।। ३९ ।।
मथुरायां च मध्याह्ने मध्यन्दिन रवौ तथा ।।
अस्तङ्गते तथा देवं सद्यो राज्यफलं भवेत् ।। 177.४० ।।
मथुरायां तथा पुण्यमुदयास्तं रवेर्जपन् ।।
मध्याह्ने प्रयतो वाग्भिः जपन्मुच्येत पातकात् ।। ४१ ।।
कृष्णगङ्गोद्भवे स्नात्वा सूर्यमाराध्य यत्नतः ।।
सर्वपापविनिर्मुक्तः कुष्ठादिभ्यो विमुच्यते ।। ४२ ।।
श्रीवराह उवाच ।।
ततः साम्बो महाबाहुः कृष्णाज्ञप्तो ययौ पुरीम् ।।
मथुरां मुक्तिफलदां रवेराराधनोत्सुकः ।। ४३ ।।
नारदोक्तेन विधिना सांबो जांबवतीसुतः ।।
षट्सूर्यान्पूजयामास उदयन्तं दिवाकरम् ।। ४४ ।।
कृत्वा योगेन चात्मानं सांबस्याग्रे रविस्तदा ।।
वरं वृणीष्व भद्रं ते मद्व्रतख्यापनाय च ।। ४५ ।।
यस्तोषितो नारदेन तद्वदस्व ममाग्रतः ।।
सांब पंचाशकैः श्लोकेर्वेदगृह्यपदाक्षरैः ।। ४६ ।।
यः स्तुतोऽहं त्वया वीर तेन तुष्टोऽस्मि ते सदा ।।
स्पृष्टो देवेन सर्वाङ्गे तत्क्षणाद्दीप्तसच्छविः ।।४७।।
व्यक्तांगावयवः साक्षाद्द्वितीयोऽभूद्रविर्यथा ।।
मध्याह्ने याज्ञवल्क्यस्य यज्ञं माध्यन्दिनीयकम् ।।४८।।
अध्यापयत्सांबयुतो रविर्मध्यन्दिनोऽभवत् ।।
वैकुण्ठपश्चिमे पार्श्वे तीर्थं माध्यन्दिनीयकम् ।। ४९ ।।
स्नात्वा मध्यन्दिनं दृष्ट्वा सर्वपापैः प्रमुच्यते ।।
उदयास्ते ततो देवः सांबेन सहितो विराट् ।। 177.५० ।।
सायाह्ने कृष्णगंगाया दक्षिणे संस्थितस्तदा ।।
तत्र दृष्ट्वा तु सायाह्ने रविमस्तोदयं प्रभुम् ।। ५१ ।।
सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ।।
श्रीवराह उवाच ।।
एवं सांबस्य तुष्टेन मध्याह्ने तु नभस्तलात् ।। ५२ ।।
द्विधाकृतात्मयोगेन सांबकुष्ठमपोहितम् ।।
साम्बः प्रख्याततीर्थे तु तत्रैवान्तरधीयत ।। ५३ ।।
सांबस्तु सह सूर्येण रथस्थेन दिवानिशम् ।।
रविं पप्रच्छ धर्मात्मा पुराणं सूर्यभाषितम् ।। ५४ ।।
भविष्यमिति विख्यातं ख्यातं कृत्वा पुनर्नवम् ।।
सांबः सूर्यप्रतिष्ठां च कारयामास तत्त्ववित् ।। ५५ ।।
उदयाचलमाश्रित्य यमुनायाश्च दक्षिणे ।।
मध्ये कालप्रियं देवं मध्याह्ने स्थाप्य चोत्तमम् ।।५६।।
मूलस्थानं ततः पश्चादस्तमानाचले रविम् ।।
स्थाप्य त्रिमूर्त्तिं सांबस्तु प्रातर्मध्यापराह्णिकम् ।। ५७ ।।
मथुरायां तथा चैकं स्थाप्य सांबो वसुन्धरे ।।
स्वनाम्ना स्थापयामास पुराणविधिना स्वयम् ।। ५८ ।।
एवं सांबपुरं नाम मथुरायां कुलेश्वरम् ।।
रथयात्रां तथा कृत्वा रविणा कथिता यदा ।। ९९ ।।
माघमासस्य सप्तम्यां दिव्यं सांबपुरं नराः ।।
रथयात्रां प्रकुर्वन्ति सर्वद्वन्द्वविवर्जिताः ।। 177.६० ।।
गच्छन्ति तत्पदं शान्तं सूर्यमण्डलभेदकम् ।।
एतत्ते कथितं देवि सांबशापसमुद्भवम् ।। ६१ ।।
पापप्रशमनाख्यानं महापातक नाशनम् ।। ६२ ।।
इति श्रीवराहपुराणे साम्बवचनत्रयसूर्यप्रतिष्ठानं नाम सप्तसप्तत्यधिकशततमोऽध्यायः ।। १७७ ।।