← अध्यायः १७७ वराहपुराणम्
अध्यायः १७८
[[लेखकः :|]]
अध्यायः १७९ →

श्रीवराह उवाच ।।
शत्रुघ्नेन पुरा घोरो लवणः सूदितो यथा ।।
द्विजानुग्रहकामार्थमन्नमुग्रस्वरूपिणम् ।। १ ।।
द्वादश्यां मार्गशीर्षस्य उपोष्य नियतः शुचिः ।।
यः करोति वरारोहे शत्रुघ्नचरितं यथा ।। २ ।।
द्विजानां प्रीणनं कृत्वा स्वधान्नपटुभोजनैः ।।
लवणस्य वधादेव शत्रुघ्नस्य शरीरके ।। ३ ।।
हर्षस्तु सुमहाञ्जातो रामस्याक्लिष्टकर्मणः ।।
अयोध्यायाः समायातो रामः सबलवाहनः ।। ४ ।।
महोत्सवं च कर्तुं स शत्रुघ्नस्य महात्मनः ।।
सितामाग्रहणीं प्राप्य मथुरां लवणान्तकः ।। ५ ।।
एकादश्यां सोपवासः स्नात्वा विश्रान्तिसंज्ञके ।।
कृत्वा महोत्सवं तत्र कुटुम्बसहितः पुरा ।। ६ ।।
तस्मिन्मुक्त्वा यथाकामं ब्राह्मणान्वै प्रतर्प्य च ।।
तस्मिन्नहनि तत्रैव यः कुर्यात्स महोत्सवम् ।। ७ ।।
सर्वपापविनिर्मुक्तः पितृभिः सह मोदते ।।
स्वर्गलोके चिरं कालं यावत्स्थित्यन्तजन्मनः ।। ८।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये शत्रुघ्नलावणे रामतीर्थयात्रायामष्टसप्तत्यधिकशततमोऽध्यायः ।। १७८ ।।