← अध्यायः १७८ वराहपुराणम्
अध्यायः १७९
[[लेखकः :|]]
अध्यायः १८० →

धरण्युवाच ।।
तवापराधाद्देवेश वर्ज्योऽयं वैष्णवेन च ।।
विनापराधो मनुजः सापराधश्च जायते ।। १ ।।
कर्मणाचरणेनैव करणेन जुगुप्सितः ।।
तच्च पूजाफलं सर्वं ज्ञायते तद्वदस्व मे ।। २ ।।
श्रीवराह उवाच ।।
कर्मणा मनसा वाचा ये पापरुचयो जनाः ।।
भक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम् ।। ३ ।।
मैथुनं शवसंस्पर्शं पुरीषोत्सर्गमेव च ।।
सूतक्युदक्याप्रेक्षा च स्पर्शनं मेहनं तथा ।। ४ ।।
अभाष्य भाषणं चैव पिण्याकस्य च भक्षणम् ।।
रक्तपारक्यमलिनवस्त्रधारित्वनीलिजम् ।। ५ ।।
गुरोश्चालीकनिर्बन्धः पतितान्नस्य भक्षणम् ।।
अभक्ष्य भक्षणं चैव तण्डुलीयविभीतकम् ।। ६ ।।
अदानं तुवरान्नस्य जालपादवराकयोः ।।
भक्षणं देवतागारे सोपानत्कोपसर्पणम् ।। ७ ।।
तथैव देव पूजायां निषिद्धकुसुमार्च्चनम् ।।
अनुत्तार्य च निर्माल्यं पूजा क्षीणान्धकारयोः ।। ८ ।।
पानं सुराया देवस्य अन्धकारे प्रबोधनम् ।।
तावत्कर्मार्च्चने विष्णोरनमस्करणं तथा ।। ९।।
अपराधास्त्रयस्त्रिंशत्समाख्याता मया धरे ।।
एभिर्युक्तस्तु पुरुषो विष्णुं नैव प्रपश्यति ।। 179.१० ।।
दूरस्थो न नमस्कारं कुर्यात्पूजा तु राक्षसी।।
एकरात्रं द्विरात्रं वा त्रिरात्रं स्नानमेव च ।।
सवासाः पंचगव्याशी मलसंवस्त्रकं क्रमात् ।।।।।।
नीलीरक्षापनोदार्थं गोमयेन प्रघर्षणम् ।।
प्राजापत्येन शुद्धिः स्यान्नीलीवस्त्रस्य धारणात् ।। १२ ।।
चान्द्रायणद्वयं कुर्याद्गुरोः क्षयितमुत्तमम् ।।
चान्द्रायणं पराकं च पतितान्नस्य भक्षणात् ।। १३ ।।
चान्द्रायणं पराकं च प्राजापत्यं तथैव च ।।
गोप्रदानं च भोज्यं च अभक्षस्य च भक्षणे ।। १४ ।।
उपवासस्तु पंचाहं पंचगव्येन शुद्ध्यति।।
सोपानत्कश्चरेत्पाद कृच्छ्रस्य द्विरभोजनम् ।।१५।।
पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शं च कारयन् ।।
अनिर्माल्यनमस्कारं स्नानं पंचामृतेन तु ।। १६ ।
सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम् ।।
तथैव द्वादशाब्दं तु प्राजापत्यत्रयं चरेत् ।। १७ ।।
ब्रह्मकूर्च्चेन शुद्धिः स्याद्गोप्रदानत्रयेण च ।।
त्रयाणामेकरात्रेण पंचामृतनिषेवणात् ।। १८ ।।
मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन् ।।
एतत्ते कथितं गुह्यं किमन्यच्छ्रोतुमिच्छसि ।। १९ ।।
पुनः पुनरुवाचेदं देवदेवो जनार्दनः ।।
मोहङ्गता तु शृणुते नष्टसंज्ञेव लक्ष्यते ।। 179.२० ।।
मुहुर्त्तमात्रे सा देवी संज्ञां प्राप्येदमब्रवीत् ।।
अपराधे कृते देव सूतकी हि प्रजायते ।। २१ ।।
प्रायश्चित्तानि भूरीणि कृतानि तु नरैः सदा ।।
तेन मे मनसो मोहः दुःखदो यः समभ्ययात् ।। २२ ।।
अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यसि ।।
पूजितः सफलश्चासि अपराधविशोधनम् ।। २३ ।।
श्रीवराह उवाच ।।
संवत्सरस्य मध्ये तु तीर्थे सौकरवे मम ।।
कृतोपवासः स्नानेन गंगायां शुद्धिमाप्नुयात् ।। २४ ।।
मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ।।
अनयोस्तीर्थयोरेवं यः सेवेत सकृन्नरः ।। २५ ।।
सहस्रजन्मसु कृतानपराधाञ्जहाति सः ।।
स्नानात्पानात्तथा ध्यानात्कीर्त्तनाद्धारणात्तथा ।।२६।
श्रवणान्मननाच्चैव दर्शनाद्याति पातकम् ।।
पृथिव्युवाच ।।
मथुरा सूकरं चैव द्वावेतौ तव वल्लभौ ।। २७ ।।
विशिष्टमनयोः किं च सत्यं ब्रूहि सुरेश्वर ।।
श्रीवराह उवाच ।।
पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ।। २८ ।।
कुब्जाम्रकं प्रशंसन्ति सदा मद्भावभाविताः ।।
तस्मात्कोटिगुणं गुह्यं सौकरतीर्थमुत्तमम् ।।२९।।
एकाहं मार्गशीर्ष्यां च द्वादश्यां सितवैष्णवम् ।।
गंगासागरिकं नाम पुराणेषु च पठ्यते ।।179.३० ।।
गुह्याद्गुह्यतरं पुण्यं माथुरं मम मण्डलम् ।।
फलं परार्द्धगुणितं सिततीर्थान्न संशयः ।। ३१ ।।
अटित्वा सर्वतीर्थानि कुब्जाम्रादीनि नित्यशः ।।
अघं विनश्यते क्षिप्रं मथुरामागतस्य च ।। ३२ ।।
विश्रमणाच्च विश्रान्तिस्तेन संज्ञा वरा मम ।।
सारात्सारतरं स्नानं गुह्यानां गुह्यमुत्तमम् ।। ३३ ।।
गतिरन्वेषणीयानां मथुरा परमा गतिः ।।
कुब्जाम्रके सौकरे च मथुरायां विशेषतः ।। ३४ ।।
विना सांख्येन योगेन मुच्यते नात्र संशयः ।।
या गतिर्योगयुक्तस्य ब्राह्मणस्य मनीषिणः ।। ३५ ।।
सा गतिस्त्यजतः प्राणान्मथुरायां न संशयः ।।
एतत्ते कथितं सारं मया सत्येन सुव्रते ।।
न तीर्थं मथुराया हि न देवः केशवात्परः ।। ३६ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये अपराधप्रायश्चित्तमाहात्म्यं नाम ऊनाशीत्यधिकशततमोऽध्यायः।।१७९।।