प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७९ वराहपुराणम्
अध्यायः १८०
[[लेखकः :|]]
अध्यायः १८१ →

श्रीवराह उवाच ।।
पुनरन्यत्प्रवक्ष्यामि पितॄणां तृप्तिकारकम् ।।
ध्रुवतीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ।। १ ।।
अस्यां पुर्यां तु राजासीद्धार्मिकः सत्यविक्रमः।।
चन्द्रसेनेति नाम्ना च यज्वा दानहिते रतः।।२।।
तस्य नार्यः शते द्वे तु कुलशीलवयोयुते ।।
तासां मध्येऽधिका चैका पतिव्रतपरायणा।।३।।
नाम्ना चन्द्रप्रभा चैव वीरसूर्वीरपुत्रका ।।
तस्या दासीशतस्यैका दासी नाम्ना प्रभावती ।। ४ ।।
तस्याः परिग्रहास्त्वेकोद्दिष्टाचारविहीनकाः ।।
तस्या पितृगणाः सर्वे अतीताः शतसंख्यया ।।९।।
स्वदोषैः पतिताः सर्वे नरकं प्रति भामिनि ।।
संकरो नरकायैव कुलघ्नानां कुलस्य हि ।। ६ ।।
कदाचिदपि तस्याथो भ्रष्टः प्राणिजनो महान् ।।
सूक्ष्मः प्राणिसमूहो हि ध्रुवतीर्थे तदापतत् ।। ७ ।।
कृष्णरूपाश्चंक्रमन्तो मशकाकारसन्निभाः ।।
दृष्टास्ते ऋषिणा तत्र त्रिकालज्ञेन भामिनि ।। ८ ।।
षष्ठान्नकालभोक्त्र पयोव्रतेन महात्मना ।।
मानैर्व्रतेन सा देवि सूर्यगत्या स्थितेन च ।।९।।
तस्मिन्क्षणे न च कृतं व्रतं जप्यं विमोहनात् ।।
कृपया परिभूतस्य कौतुकेन निरीक्षता ।।180.१०।।
चतुर्थांशावशेषश्च दिवसः पर्यवर्त्तत ।।
एके तत्र समायान्ति पितरो नभसोऽवनिम् ।। ११ ।।
अन्ये पूर्वोत्तराद्देशाद्दक्षिणात्पश्चिमात्तथा ।।
केचित्स्वभावतो हृष्टाः केचित्पुत्रैः स्वधाकृताः ।। १२ ।।
हृष्टास्तुष्टा सुपुष्टांगा गच्छन्तो दिवि सङ्घशः ।।
तपस्विनः स्नानरता रूक्षाः क्षामशरीरिणः ।। १३ ।।
वस्त्रालङ्कारपुष्टांगा हृष्टा गच्छन्ति संघशः ।।
तथाऽपरे नग्नदेहाः सुपुष्टा यान्ति तत्र वै ।। १४ ।।
अन्ये यथागतं यान्ति आयान्ति पुनरेव हि ।।
यानैरुच्चावचैः केचिन्नानारूपैः खगैस्तया ।। १५ ।।
समागच्छन्ति गच्छन्तीरयन्तश्चाशिषो मुदा ।।
केचिद्यथागता यान्ति क्रुद्धाः शापप्रदायिनः ।। १६ ।।
निर्गतोदरसूक्ष्माश्च गच्छन्ति सुविमानिताः ।।
सम्मानितास्तथान्ये तु पितरः श्राद्धपूजिताः ।। १७ ।।
महोत्सवमिवालक्ष्य विस्मितो मुनिरुत्थितः ।।
गते पितृगणे पुत्राः सकलत्रा गृहान्ययुः ।। १८ ।।
निर्जनं ध्रुवतीर्थं तु वृतवेलमिवाभवत् ।।
तत्रैकान्ते कृशांगोऽथ क्षुत्क्षामो गतिविह्वलः ।। १९ ।।
वेपथुः कोटराक्षश्च पृष्ठलग्नलघूदरः ।।
ऊरुचर्मास्थिरुक्त्रस्तो जृम्भमाणो भृशं कृशः ।। 180.२० ।।
न वाक्च श्रूयते तस्य क्षुद्रपक्षिरवो यथा ।।
को भवान्विकृताकारो वेष्टितो मशकैर्बहु ।। २१ ।।
न गच्छसि यथास्थानमागतस्तु निरुद्यमः ।।
यथावत्पृच्छते मह्यं कथयात्मविचेष्टितम् ।। २२ ।।
ममाद्य नैत्यकं कर्म तीर्थेऽस्मिन्नश्यतेऽनिशम् ।।
इमानुच्चावचाञ्जन्तून्दृष्ट्वा मां मोह आविशत् ।। २३ ।।
त्वां दृष्ट्वेदृक्स्वरूपं च क्रिया मे सा गता त्वयि ।।
विस्रब्धः कथयास्माकं करोमि च हितं तव ।। २४ ।।
जन्तुरुवाच ।।
बृहन्निमित्तमद्यैव पितॄणां तृप्तिकारकम् ।।
ध्रुवतीर्थे च यः श्राद्धं पुनः कुर्यात्तिलोदकम् ।। २५ ।।
तिलतृप्ता दिवं यान्ति पितरस्तेन पुत्रिणः ।।
सोऽहं स्वान्तरिकादत्तस्तृप्त्यर्थस्तु बुभुक्षितः ।। २६ ।।
योनिसंकरदोषेण नरकं समुपाश्रितः ।।
आशापाशशतैर्बद्धः शतवर्षैरिहागतः ।। २७ ।।
अगतिर्गमने मे स्यात्ते त्रितापैः समागतः ।।
सन्तानैः पुष्टवपुषो दत्तश्राद्धैः कृतोदकैः ।।२८।।
बलयुक्ता ययुः स्वर्गं निर्बलस्य कुतो गतिः ।।
येषां सन्ततिरक्षय्या तिष्ठत्येवं प्रजावती ।। २९ ।।
ते स्वधापूजितैः पुत्रैर्गच्छन्ति परमां गतिम् ।।
अद्य राज्ञस्तु पितरश्चन्द्रसेनस्य पूजिताः ।। 180.३० ।।
दृष्टास्त्वया त्रिकालज्ञ दिव्यदृष्ट्या दिवं गताः ।।
ब्राह्मणानां च वैश्यानां शूद्राणां पितरस्तथा ।। ३१ ।।
प्रतिलोमानुलोमानां शूद्राणां श्राद्धकर्मिणाम् ।।
सर्वेषां च त्वया दृष्टं येषां सन्ततिरव्यया ।। ३२ ।।
एवं पृष्टः स विप्रेण कथयामास कारणम् ।।
पुनः पप्रच्छ तं जन्तुः कौतूहलसमन्वितः ।। ३३ ।।
तवापि सन्ततिस्तात नास्ति दैवाद्यथोचिता ।।
यदि कश्चिदुपायोऽत्र मह्यं तव हितैषिणे ।। ३४ ।।
वद सर्वं करिष्यामि यदि सत्यं वचो मम ।।
ततः स कथयामास दुःस्थः पितृगणैर्वृतः ।।३५।।
इमे ये मम देहे तु भवन्ति मशकाः कृशाः ।।
सन्तानप्रक्षयादेते मम देहं समाश्रिताः ।। ३६ ।।
तन्तुमन्त्रमहं तेषां मम तन्तुमयी सकृत् ।।
आस्ते नगर्या मध्ये तु चन्द्रसेनस्य वेश्मनि ।।३७ ।।
महिष्याः प्रेषणे नित्यं दासी नाम्ना प्रभावती ।।
तस्या दासी कर्मकरी विरूपनिधिनामतः ।।३८।।
अस्माकं सन्ततेस्तन्तुस्तस्य श्राद्धकृते वयम् ।।
आशया बद्धहृदयाः श्राद्धतर्पणहेतवः ।। ३९ ।।
स्थिता एतावदेवं तु कालं यास्यामहेऽम्बुधौ ।।
नरके त्वप्रतिष्ठे तु निराशाः स्वेन कर्मणा ।। 180.४० ।।
श्रुत्वैतत्स त्रिकालज्ञो मोहाविष्टोऽब्रवीदिदम् ।।
कथं निकृष्टयोन्या यद्दत्तं चापद्यते हविः।।४१।।
विधिरत्र कथं तस्या येन यूयं सपुत्रिणः ।।
प्रोवाच स त्रिकालज्ञं ज्ञानक्लिष्टं कृपान्वितम् ।।४२ ।।
पूर्वकर्मविपाकेन यां यां गतिमधोमुखीम् ।।
ऊर्द्ध्वां यां चापि पितरः पुत्रिणः पुत्रमीहते ।। ४३ ।।
श्राद्धं पिण्डोदकं दानं नित्यं नैमित्तिकं तथा ।।
नान्या गतिः पितॄणां स्यात्पितरस्तेन पुत्रिणः।।४४।।
अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम् ।।
नदीषु बहुतोयासु शीतलासु विशेषतः ।। ४५ ।।
विशेषात्तीर्थमध्ये तु तिलमिश्रं जलाञ्जलिम् ।।
रौप्यजुष्टजलेनाथ नाभिदघ्ने जले स्थितः ।। ४६ ।।
दर्भपाणिस्त्रिस्त्रिगोत्रे पितृनाम समुच्चरन् ।।
तृप्यत्वेवं नाम शर्म स्वधाकारमुदाहरन् ।। ४७ ।।
आदावेकाञ्जलिर्द्वे तु तिस्रो वै तर्पणे स्मृताः ।।
देवर्षिपितृसंघानां क्रमाज्ज्ञेयं विचक्षणैः ।। ४८ ।।
तृप्यध्वमिति चान्ते वै मन्त्रं मन्त्रप्रतिक्रियाः ।।
उदीरतामङ्गिरस आयन्तु न इतीरयेत् ।। ४९ ।।
पित्रे प्रथमतो दद्यान्मात्रे दद्यात्तथाचरन् ।।
गोत्रं माता नाम देवी तृप्यत्वेवं स्वधोच्चरन् ।। 180.५० ।।
एवं मातामहः शर्मा गोत्रे पितामहस्तथा ।।
ऊर्द्ध्वं पितृभ्यो ये चेह ते पितर इहोच्यते ।। ५१ ।।
मधुवातेत्यृचं तद्वत्पूर्ववत्समुदीरयेत् ।।
पितामहीं प्रपितामहीं पत्या मातृवत्स ह ।। ५२ ।।
एवं मातामहानां च पूर्ववत्क्रमशो बुधः ।।
नमो व इति मन्त्रेण प्रत्येकं त्रितयं त्रिषु ।। ५३ ।।
गोत्रोच्चारं प्रकुर्वीत असूर्यान्नाशयामहे ।।
गोत्राय पित्रे महाय शर्मणे चेदमासनम् ।। ५४ ।।
गोत्रायै मात्रे मह्यै तु देव्यै चासनकर्मणि ।।
गोत्रः पितामहः शर्मा गोत्रा मातामही मही ।। ५५ ।।
अर्घ्यपात्रसंकल्पे तु पिण्डदानेऽवनेजने ।।
गोत्रस्य पितुर्महस्य शर्मणोक्तस्य कर्मणि ।।५६ ।।
गोत्रायै मातुर्महायै देव्याश्चाज्ञेयकर्मणि ।।
आवाहने द्वितीया च चतुर्थी पूज्यकर्मणि ।। ५७ ।।
प्रथमा चाशिषि प्रोक्ता दत्तस्याक्षय्यकारिका ।।
श्राद्धपक्षे तथा षष्ठी अक्षय्यासनयोः स्मृता ।। ५८ ।।
पितुरक्षयकाले तु पितॄणां दत्तमक्षयम् ।।
एवमेतत्तु पुत्रेण भक्तिपूर्वं द्विजेन तु ।। ५९ ।।
वार्यपि श्रद्धया दत्तं तदानन्त्याय कल्पते ।।
श्रद्धया ब्राह्मणेनैव यथा श्राद्धविधिक्रिया।।180.६०।।
कृत्वा श्राद्धं तु पितरो हृष्टा मुमुदिरे सदा ।।
जोषमास्स्व त्रिकालज्ञ गच्छामो नरकाय वै।६१।।
पूर्वकर्मविपाकेन चिरं तु वसितुं मुने ।।
त्रिकालज्ञ उवाच ।।
ये मया चागता दृष्टास्तीर्थेऽस्मिन्पितरोऽथ वै ।।६२।।
बहवः स्वस्थमनसो बहवो दुःस्थमानसाः ।।
पुत्रदत्तं तथा श्राद्धं जग्रासोद्विग्नरूपिणः ।।६३।।
मौनेन गच्छतां तेषां किमेतद्वद निश्चयम् ।।
अगस्तिरुवाच ।।
अत्र यन्निश्चयं श्राद्धे पुत्रस्य विफलं भवेत् ।। ६४ ।।
नरस्य करणं किञ्चित्तन्मे निगदतः शृणु ।।
अदेशकाले यद्दत्तं विधिहीनमदक्षिणम् ।।६५।।
अपात्रे मलिनं द्रव्यं महत्पापाय जायते ।।
अश्रद्धेयमपाङ्क्तेयं दुष्टप्रेक्षितमीक्षितम् ।। ६६ ।।
तिलमन्त्रकुशैर्हीनमासुरं तद्भवेदिति ।।
वैरोचनाय देवेन वामनेन विभूतये ।। ६७।।।
सच्छूद्रस्य च श्राद्धस्य फलं दत्तं पुरा किल ।।
तथा दाशरथी रामो हत्वा राक्षसमीश्वरम् ।।६८।।
रावणं सगणं घोरं तुष्टेन सह सीतया ।।
श्रुत्वा भक्तिं च राक्षस्यास्त्रिजटायास्त्रिलोककृत् ।।६९।।
सीतावाक्यप्रतुष्टेन तस्यै प्रादाद्वरं विभुः ।।
अशुचीनि गृहाण्येव तथा श्राद्धहवींषि च ।।180.७० ।।
क्रोधाविष्टानि दानानि विधिपात्रयुतानि च ।।
पाक्षिशौचमनभ्यङ्गप्रतिश्रयमभोजनम् ।। ७१ ।।
त्रिजटे त्वत्प्रयच्छामि यच्च श्राद्धमदक्षिणम् ।।
तथैव शम्भुना दत्तं नागराजाय भक्तितः ।। ७२ ।।
तुष्टेन वै वासुकये तन्मे निगदतः शृणु ।।
अनुज्ञाप्य व्रतं जन्तुर्वार्षिकी सकला क्रिया ।। ७३ ।।
यज्ञस्य योचिता देया दक्षिणा नाददाद्द्विजः ।।
वृथाशपथकारा या देवब्राह्मणसन्निधौ ।। ७४ ।।
अश्रोत्रियाणि श्राद्धानि क्रिया मन्त्रैर्विनापि च ।।
रात्रौ सवाससा स्नानं यथासत्त्वस्वरूपतः ।। ७५ ।।
यः शिष्यो न नमेद्भक्त्या गुरुं ज्ञानप्रदायकम् ।।
तथैव प्राकृतं धर्ममग्रे गेयं करिष्यतः ।। ७६ ।।
सर्वं तुभ्यं मया दत्तं नागराजाय वार्षिकम् ।।
इत्येतद्वै पुराणेषु सेतिहासेषु पठ्यते ।। ७७ ।।
तद्वदलीककरणं श्राद्धं दानं व्रतं तथा ।।
नोपतिष्ठति तेषां वै तेन नग्नादयस्त्वमी ।। ७८ ।।
मुषिताच्छिद्रकरणैस्तद्दानफलभोक्तृभिः ।।
यथा गतास्तथा ते तु श्राद्ध हूतास्तु निष्फलाः ।।७९ ।।
मौनव्रतधरा यान्ति पुनः प्राप्यार्थहेतवे ।।
एवमेतन्महाप्राज्ञ यन्मां त्वां परिपृच्छसि ।। 180.८० ।।
त्रिकालज्ञ उवाच ।।
षट्काले भोजनं त्वद्य नाहं भोक्तुमिहोत्सहे ।।
यावत्तृप्तिर्न ते भूयाद्दृष्ट्वा हन्त स्थिरो भव ।। ८१ ।।
तावत्कालं प्रतीक्षस्व यावदागमनं मम ।।
अस्मिंस्तीर्थे सदैवाहं दिवारात्रमतन्द्रितः ।। ८२ ।।
सोऽहमद्य व्रतं त्यक्त्वा तव कारुण्यपूरितः ।।
गत्वाहमानयिष्यामि त्वयोक्तां तां वरां स्त्रियम् ।। ८३ ।।
अनया कारयिष्यामि श्राद्धं तु विधिना सह ।।
एवमुक्त्वा स षष्ठाशी मौनवाक्संययौ द्रुतम् ।।
राजा समीपगं दृष्ट्वा अकस्मादागतं ऋषिम् ।। ८४ ।।
क्षित्यास्तले विलुलितः पादौ कृत्वा तु मूर्द्धनि ।।
धन्योऽस्म्यनुगृहीतोऽस्मि यद्भवान्गृहमागतः ।। ८५ ।।
सदा यज्ञं करिष्यामि गृहमागमने तव ।।
अद्य मे सफलं जन्म यद्भवांस्त्वमिहागतः ।। ८६ ।।
इदं पाद्यमिदं चार्घ्यं मधुपर्कमिमां च गाम् ।।
गृहाण मुनिशार्दूल येनाहं शान्तिमाप्नुयाम् ।। ८७ ।।
तस्य तत्प्रतिगृह्याशु स मुनिस्त्वरितोऽब्रवीत् ।।
मदीयागमने राजन् शृणु त्वं कारणं महत् ।। ८८ ।।
तच्छ्रुत्वा कुरु तत्सर्वं येनाहं तोषितोऽभवम् ।।
एवमुक्तस्तु राजर्षिरब्रवीत्तं तपोधनम् ।। ८९।।
किं तद्वद यथाकार्यं येन सिद्धं भवेदिदम् ।।
त्रिकालज्ञ उवाच ।।
या सा ते राजमहिषी तामानय वराननाम् ।। 180.९० ।।
तस्या दासी वरारोहा प्रभावत्यपि विश्रुता ।।
सापि देव्या तु सहिता आयातु मम सन्निधौ ।। ९१ ।।
ततश्चान्तःपुराद्देवी सदासी तत्र चागता ।।
क्षितौ विलुलिता साध्वी प्रणाममकरोदृषेः ।।९२ ।।
समासीनां च विप्रेन्द्रः प्रोवाच विनताननाम् ।।
ध्रुवतीर्थे मयाश्चर्यं यद्दृष्टं कथयामि वः ।।९३।।
ये केचित्पितरो लोके लोकानां सर्वतः स्थिताः।।
ये पूजिताः श्राद्धकृद्भिः पुत्रैः प्रीता दिवं ययुः ।। ९४ ।।
एको वृद्धो नरस्तत्र सूक्ष्मप्राणिभिरावृतः ।।
क्षुत्क्षामदेहः शुष्कास्यो निर्गतोदरसूक्ष्मदृक् ।।। ।। ९५ ।।
निराशो गन्तुकामश्च पुनः स निरयेऽशुचौ ।।
कारुण्यात्स मया पृष्टः कस्त्वं ब्रूहि किमिच्छसि ।। ९६ ।।
तेनात्मकर्मजनितं मम कर्म निवेदितम् ।।
ततस्तत्रैव तच्छ्रुत्वा तस्य कारुण्ययन्त्रितः ।। ९७ ।।
तव दास्याश्च या दासी तस्यास्तन्तुः किलोच्यते ।।
नाम्ना विरूपकनिधिस्तामानय वरानने ।। ९८ ।।
इति श्रुत्वानवद्याङ्गी तस्या आनयनेऽत्वरत् ।।
प्रेषयामास सर्वत्र तस्या आनयने बहून् ।। ९९ ।।
सा चैकान्ते च दिवसे पानमांसरता सदा ।।
पुरुषेण सहासीना शय्यायां मदविह्वला ।। 180.१०० ।।
सेवकैः सा करे गृह्य आनीता मुनिसन्निधौ ।।
तां दृष्ट्वा मदिरामत्तां स मुनिः प्राह धर्मवित् ।। १०१ ।।
प्रत्ययार्थं तु तस्या वै मुनिः प्राह क्रियां प्रति ।।
पितॄणां च कृते दत्तं दानं वारि न वा स्वधा ।। १०२ ।।
तर्पणं चापि नो दत्तं पितॄणां चातिमुक्तिदम् ।।
सा नैवमित्युवाचेदं तं मुनिं संशितव्रतम् ।। १०३ ।।
न जानामि पितॄन्स्वान्वै क्रियां कार्यं च वै विभो ।।
इति ब्रुवाणां ता दासीं त्रिकालज्ञोऽभ्युवाच ह ।। १०४ ।।
पत्नी च मथुरेशस्य नृपः सपुरसज्जनः ।।
सर्वे द्रक्ष्यथ माहात्म्यं पितॄणां सन्ततेः फलम् ।। १०९ ।।
सकौतुका महाभागाः श्राद्धदानं च नैव ह ।।
नगरस्थाश्च ते सर्वे ब्राह्मणा भावपूजिताः ।।१ ०६ ।।
राज्ञा नीतास्तत्र तीर्थे श्राद्धार्थं मुनिना सह ।।
लोकैः परिवृतो राजा ध्रुवतीर्थं गतः प्रभुः ।। १०७ ।।
तत्र दृष्टः स वै जन्तुर्न च तन्तुर्विचेतनः ।।
मशकैर्वेष्टितः क्षुद्रैः क्षुधया चातिपीडितः ।। १०८ ।।
उवाच ते तदा विप्रोऽभवत्सन्तानजाः स्त्रियः ।।
आनीतास्तव पुष्ट्यर्थं यथेच्छसि तथा कुरु ।।१ ०९।।
अगस्त्य उवाच ।।
स्नात्वैषा ध्रुवतीर्थे तु ब्रह्मणोक्तक्रमेण च।।
करोतु तर्पणं चास्मिन्पूर्वोक्तविधिना त्वियम् ।।180.११० ।।
ततः श्राद्धं सरौप्यं च सवस्त्रं सविलेपनम्।।
अर्चित्वा पिण्डदानेन करोत्वेषा च भक्तितः।। १११ ।।
अत्रैव सर्वे स्थित्वा वै मामीक्षथ सुखान्वितम् ।।
कारयित्वा यथासर्वं श्राद्धदानं हि तन्तुना।।११२।।
तस्य तद्वचनं श्रुत्वा राजपत्नी यशस्विनी।।
कारयामास दास्या वै श्राद्धं सुबहुदक्षिणम् ।।११३।।
पट्टवस्त्रं तथा धूपं कर्पूरागुरुचन्दनम्।।
तिलोत्तरं तथान्नं च बहुरूपं सपिण्डकम् ।। १ १४।।
कृते श्राद्धे पिण्डदाने स जन्तुः सुकृती यथा ।।
दिव्यकान्तिरदीनात्मा तथाभूतैः पृथक् पृथक् ।।१ १५ ।।
वेष्टितः शुशुभेऽतीव दीक्षितोऽवभृथे यथा ।।
स्वर्गागतैर्विमानैश्च छादितं तत्र वै नभः।।११६।।
तेषां मशकगात्राणां सुगात्राणां सुरूपिणाम्।।
ततस्तुष्टमना जन्तुर्विमानं प्रेक्ष्य चागतम्।।१ १७।।
गन्तुं स्वर्गमुवाचेदं त्रिकालज्ञं मुनिं नृपम्।।
शृण्वन्तु वचनं सर्वे मदीयं पितृतुष्टिदम् ।। १ १८।।
तीर्थानि सरितः श्रेष्ठाः पर्वताश्च सरांसि च ।।
कुरुक्षेत्रं गया चैव स्थानान्यायतनानि च ।।११९ ।।
पितॄणां मुक्तिदं चान्यन्न भूतं न भविष्यति ।।
आषाढ्याः पञ्चमे पक्षे प्रतिपत्प्रभृतित्वथ ।। 180.१२० ।।
शुक्लप्रतिपदन्तं च तीर्थं प्राप्य ससत्वराः ।।
पितरः श्राद्धपिण्डादा आश्विने ध्रुवमास्थिताः ।। १२१ ।।
कृत्वा प्रेतपुरीं शून्यां स्वर्ग पातालमेव च ।।
ईहमानाः स्वकं पुत्रं गोत्रतन्तुमथानुजम् ।। १२२ ।।
कन्यां गते सवितरि यः श्राद्धं सम्प्रदास्यति ।।
तर्पणं ध्रुवतीर्थे ते पितॄणां षोडशान्तरे ।। १२३ ।।
सुतृप्ताः स्मो वयं शश्वद्यास्यामः परमां गतिम् ।।
एष एव प्रभावोऽत्र ध्रुवस्य कथितो मया ।। १२४ ।।
दृष्टो भवद्भिः सर्वं यदस्माकं सुदुरत्ययम् ।।
दुस्तरं तारितं पापं त्वत्प्रसादान्महामुने ।। १२५ ।।
इति विश्राव्य वचनं राजानं स ऋषिं जनान् ।।
राजपुत्रीं तथा दासीं स्वां सुतां शिवमस्तु वः ।।१२६।।
आरुह्य वरयानं ते गताः स्वर्गं वृता सुरैः ।।
श्रीवराह उवाच ।।
ततः स राजशार्दूलः सगणः परिवारकैः ।। १२७ ।।
दृष्ट्वा तीर्थस्य माहात्म्यं प्रणम्य ऋषिसत्तमम् ।।
प्रविष्टो नगरीं रम्यां संस्मरन्नित्यमच्युतम् ।। १२८ ।।
एतत्ते कथितं भद्रे माहात्म्यं मथुराभवम् ।।
स्मरणाद्यस्य पापानि नश्यन्ते पूर्वजन्मनि ।। १२९ ।।
पठति श्रद्धया युक्तो ब्राह्मणानां च सन्निधौ ।।
स पितॄंस्तर्पयेत्सर्वानभिगम्य गयाशिरे ।। 180.१३० ।।
एतत्त्वयानाव्रतिने न चाशुश्रूषये तथा ।।
कथनीयं महाभागे यश्च नार्च्चयते हरिम् ।। १३१ ।।
तीर्थानां परमं तीर्थं धर्माणां धर्ममुत्तमम् ।।
ज्ञानानां परमं ज्ञानं लाभानां लाभ उत्तमः ।। १३२ ।।
कथनीयं महाभागे पुण्यान्भागवतान्सदा ।।
सूत उवाच ।।
एतच्छ्रुत्वा प्रभोर्वाक्यं धरणी विस्मयान्विता ।। १३३ ।।
पप्रच्छ मुदिता देवी प्रतिमास्थापनं प्रति ।। १३४ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरावर्णनं नामाशीत्यधिकशततमोऽध्यायः ।। १८० ।।