प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १९९ वराहपुराणम्
अध्यायः २००
[[लेखकः :|]]
अध्यायः २०१ →

पुनः नरकयातनास्वरूपवर्णनम् ।।
ऋषिपुत्र उवाच।।
तप्तं चैव महातप्तं महारौरवरौरवौ ।।
सप्ततालश्च नरको नरकः कालसूत्रकः।।१।।
अन्धकारश्च नरको अन्धकारवरस्तथा।।
अष्टावेते तु नरकाः पच्यन्ते यत्र पापिनः।।२।।
प्रथमे प्रथमं विद्याद्द्वितीये द्विगुणं तथा।।
तृतीये त्रिगुणं विद्याच्चतुर्थे तु चतुर्गुणम् ।।३ ।।
पञ्चमे तु गुणाः पञ्च षष्ठे षङ्गुणमुच्यते।।
सप्तमे तु गुणाः सप्त अष्टमेऽष्टविधा गुणाः।।४।।
अहोरात्रेण चाध्वानं प्रेता गच्छन्ति तत्पुरम्।।
दुःखितानां ततो दुःखं दुःखाद्दुःखतरं ततः।।५।।
दुःखमेवात्र न सुखं दुःखैर्दुःखं विवर्ध्यते ।।
उपायस्तत्र नैवास्ति येन स्वल्पं सुखं भवेत् ।। ६ ।।
मुच्यते च मृतस्तत्र मारकास्तत्र दुर्लभाः ।।
शब्दे स्पर्शे तथा रूपे रसे गन्धे तु पञ्चमे ।।७।।
न सुखं तत्र तस्यास्ति किञ्चिदेवात्र विद्यते ।।
शारीरैर्मानसैश्चैव दुःखैर्दुःखांतगामिभिः ।। ८।।
आयसैः कण्टकैस्तीक्ष्णैस्तप्तैस्तप्तावृता मही ।।
अन्तरिक्षं खगानीकैरग्निजिह्वैः समावृतम् ।। ९ ।।
अतीव च बुभुक्षात्र पिपासा चाप्यतीव हि ।।
उष्णमत्युष्णमेवात्र शीतलं चातिशीतलम् ।। 200.१० ।।
पातुकामश्च पानीयं राक्षसैर्नीयते सरः ।।
हंससारससंकीर्णं पद्मोत्पलविभूषितम् ।। ११ ।।
पातुकामश्च पानीयं सहसा तत्र धावति ।।
सलिलं प्रेक्षते चैव तत्र तप्ततरं तथा ।। १२ ।।
ततः पक्वानि मांसानि राक्षसैः परिणीयते ।।
क्षारोदकेऽपि च तथा क्षिप्यतेऽत्र महाह्रदे ।। १३ ।।
तत्र चैव ह्रदे नैका मत्स्याः खादन्ति सर्वशः ।।
ततः कालावसाने तु कथञ्चित्प्रपलायिनः ।। १४ ।।
किञ्चिदन्तरमागम्य वेदनार्थाः पतन्ति हि ।।
यातनार्थं पुनस्तत्र मांसं चैवोपजायते ।। १५ ।।
शिरस्येवोपविष्टस्य प्रस्थितस्य प्रधावतः ।।
तस्यार्त्तायामवस्थायां दुःखं भवति दारुणम् ।। १६ ।।
करीषगर्त्तस्तत्रैव कुम्भीपाकः सुदारुणः ।।
पद्मपत्राकृतिस्तस्य पेशी तत्र शरीरजः ।। १७ ।।
पाटयन्ति सुमार्गेण राक्षसाः करपत्रिकाः ।।
निपीड्य दशनै रोषं भीमनादाः सुरोषिताः ।। १८ ।।
असिपत्रवनं चात्र शृङ्गाटकवनं तथा ।।
तत्र शृङ्गाटकाश्चैव तप्तवालुकमिश्रिताः।।१९।।
दह्यते छिद्यते चैव विध्यते भिद्यते पथा।।
पात्यते पीड्यते चैव कृष्यते च विशस्यते ।।200.२० ।।
श्यामाश्च शबलाश्चैव श्वानस्तेऽत्र दुरासदाः ।।
खादन्ति च सुसंरब्धाः सर्पवृश्चिकसन्निभैः ।। २१ ।।
कण्टकैः प्रतिकूलैश्च तत्रान्या कूट शाल्मलिः ।।
कर्षन्ति तत्र चैवैनं यावदस्थ्यवशेषितः ।।२२।।
यद्दुःखं तस्य दुर्बुद्धेः प्रतिकूलं च तस्य यत् ।।
तत्तदोत्पद्यते शीघ्रं यातनार्थाय यत्नतः ।। २३ ।।
शीतकामस्य वै चोष्णमुष्णकामस्य शीतलम् ।।
सुखकामस्य वै दुःखं सुखं नैवात्र विद्यते ।। २४ ।।
छिन्नाश्च शतधाप्येवं ह्यनिशं तैः सहस्रशः ।।
छिन्नाङ्गाः सर्वगात्रेषु सर्वमेव स विन्दति।।२५।।
सलिलं च नदीं घोरां व्यालाकीर्णां भयानकाम् ।।
उत्तार्यन्ते च तां प्रेतां यां दृष्ट्वैव भयं भवेत् ।। २६ ।।
करम्भवालुका नाम शतयोजनमायता ।।
अग्निज्वालासमा घोरा यथा येन स गच्छति ।। २७ ।।
ततो वैतरणी नाम क्षारोदा तु महानदी ।।
योजनानि तु पञ्चाशदधस्थात्पंचयोजनम् ।। २८ ।।
अगाधपङ्का वै तत्र चर्ममांसास्थिभेदना ।।
तत्र कर्कटका घोरा वज्रदंष्ट्रा विशन्ति ताम् ।। २९ ।।
उलूकाश्च धनुर्मात्रा वज्रजिह्वास्थिभेदनाः ।।
महाविषा महाक्रोधा दुर्विषह्याः सुदारुणाः ।। 200.३० ।।
समुत्तीर्य तु कृच्छ्रेण तस्माद्योजनकर्दमात् ।।
वसन्त्यत्र धरे केचिच्छून्यागारे निराश्रये ।। ३१ ।।
यत्र वै मूषिकगणा भक्षयन्ति ह्यनेकशः ।।
मूषकैर्जग्ध गात्रस्तु ह्यस्थिमात्रावशेषितः ।। ३२ ।।
प्रभाते वायुना स्पृष्टः पुनर्मांसं स विन्दति ।।
शून्यागारप्रवेशात्तु गव्यूतेर्नातिदूरतः ।।३३।।
सहकारवनं नाम रौद्रा यत्र च पक्षिणः ।।
निस्त्वगस्थिस्तैः क्रियते निर्मांसश्चैव मानवः ।।३४।।
निःशिराजालकश्चैव निरक्षिश्रवणस्तथा ।।
वटवृक्षो नातिदूरे दक्षिणे तु त्रियोजनम् ।। ३९ ।।
सन्ध्याभ्र इव चाभाति प्रदीप्तो नित्यमेव तु ।।
दशयोजनविस्तार्णा अधः शतसमायता ।। ३६ ।।
यमचुल्लीति विख्याता गम्भीरा सा त्रियोजनम् ।।
नित्यं प्रज्वलिता सा तु नित्यं धूमान्धकारिता ।। ३७ ।।
तत्र प्रेतसहस्राणि प्रयुतान्यर्बुदानि च ।।
प्रक्षिप्यन्ते त्वहोरात्रं राक्षसैर्यमकिङ्करैः ।। ३८ ।।
मासमेकं वसत्यन्यो तस्यां चुल्ल्यां परिभ्रमन् ।।
ततः शकुनिका नाम वसामेदोवहा नदी ।। ३९ ।।
चुल्लीकुक्षौ तु विश्रान्ता वेगिनी वहते तु सा ।।
तां समुत्तीर्य कृच्छ्रेण यातनाः सप्तकाः पुनः ।।200.४० ।।
एकैकं दुस्तरं घोरं यथापूर्वं यथाक्रमात् ।।
अनुभुङ्क्ते स कृच्छ्रेण दुष्कृती तीव्रवेदनाः ।। ४१ ।।
दश तत्र लताः शूलाः कुम्भीपाकास्त्रयोदश ।।
याति पापमहोरात्रं तस्मिन्नियमितेन तु ।। ४२ ।।
राक्षसैर्निरनुक्रोशैर्दुर्निरीक्ष्यैस्ततस्ततः ।।
अङ्गारेषु विधूमेषु शूलप्रोतस्तु पच्यते ।। ४३ ।।
शुष्कोदपाने धूमे च अधःशीर्षोऽवलम्बते ।।
ज्वाल्यते तीक्ष्णतैले तु कटाहे स तु पच्यते ।। ४४ ।।
करीषगर्त्ते स पुनः पच्यते मेदवह्निना ।।
एकैकस्मिन्दशाहं च शूलादिषु स पच्यते ।। ४५ ।।
यातनाः सप्तकास्तस्य निष्क्रान्तस्य त्रियोजने ।।
यतो यमनदी नाम तप्तत्रपुजलोर्मिणी ।। ४६ ।।
समुत्तीर्य तु कृच्छ्रेण दह्यमानस्त्वचेतनः ।।
ततो मुहूर्त्तं विश्रान्तः किंचिदन्तरमागतः ।। ४७ ।।
दीर्घिकां मोक्षते कान्तां शीतोदां शीतकाननाम् ।।
सर्वकामान्स लभते भगिनी सा यमस्य तु ।। ४८ ।।
भक्ष्यं भोज्यं च सर्वैस्तु पापिभिस्तत्र लभ्यते ।।
स सर्वं विस्मरत्यत्र त्रिरात्रमुषितोऽपि सन् ।। ४९।।
ततः शूलवहो नाम पर्वतः शतयोजनः ।।
निराश्रयः स सत्वानामेकपाषाण एव च ।। 200.५० ।।
तत्र वर्षति पर्जन्यस्तत्र तप्तजलं सदा ।।
तत्र कृच्छ्रेण तरति अहोरात्रेण मानवः ।। ५१ ।।
शृङ्गारकवनं नाम तत्र पश्यन्ति शाद्वलम् ।।
नीलमक्षिकदंशैश्च सुव्याप्तं तद्वनं महत् ।। ५२ ।।
यैस्तु स्पृष्टश्च दष्टश्च कृमिरूपश्च जायते ।।
प्रेतो वर्षति मांसासृगस्मात्कृच्छ्रात्तु निर्गतः ।। ५३ ।।
ततोऽन्यल्लभते चैव यातनार्थं प्रयत्नतः ।।
ततः पश्यति पुत्रांस्तु महद्दुःखं सुदारुणम् ।।५४।।
मातरं पितरं चैव पुत्रान्दारांस्तथा प्रियान्।।
पुरस्ताद्बध्यमानं स क्रन्दमानमचेतनम्।।५५।।
हा त्राहि त्राहि पुत्रेति क्रन्दमानस्ततस्ततः ।।
लगुडैर्मुद्गरैर्दण्डैर्जानुभिर्वेणुभिस्तथा ।। ५६ ।।
मुष्टिभिश्च कशाभिश्च व्यालैरङ्कगतैरपि ।।
तद्दृष्ट्वा तादृशं दुःखं ततो मोहं स गच्छति ।। ५७ ।।
एवमेवात्मकर्माणि पर्यायेण पुनः पुनः ।।
प्राप्नुवन्तीह तेऽत्रैव नरा दुष्कृतकारिणः ।। ५८ ।।
पातकानि च चत्वारि समाचारेण पंचमम् ।।
कृत्वा तानि नरा यान्ति तं देशं पापकारिणः ।।५९।।
तदादिषु च सर्वेषु गुणान्तरपथं गतः ।।
यदा भवति स प्रेतस्तदा स्थावरतां व्रजेत् ।। 200.६० ।।
तदा वा स्थावरे तेषु जातस्य हि भवेन्नरः ।।
क्रमशः स भवेत्प्रेतस्तदा पशुगणेष्वपि ।। ६१ ।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।।
गतः स वसति प्रेतो नरके तु पुनःपुनः ।। ६२ ।।
ततो निवृत्तकर्मा तु स्वेदजः सम्भवेत्पुनः ।।
स्वेदजानां ततो नित्यं सर्वसंसारचंक्रमात् ।। ६३ ।।
ततश्च पक्षिणां योनिं सर्वां संतरते पुनः ।।
गोयोनौ तु ततो गत्वा पुनर्मानुषतां व्रजेत् ।। ६४ ।।
मानुषे शूद्रतां याति लब्ध्वा यदि तु तुष्यति ।।
ततो वैश्यत्वमागच्छेत्कमर्णाऽनेन वेष्टितः ।। ६५ ।।
वैश्यात्क्षत्रियतां याति तस्माच्च ब्राह्मणो भवेत् ।।
ब्राह्मणत्वमपि प्राप्तः पापकर्मा दुरात्मवान् ।। ६६ ।।
दुःशिक्षितेन मनसा ह्यात्मद्रोग्धा भवेत्तदा ।।
शरीरं मानसं घोरं व्यसनैरुपपादितम् ।। ६७ ।।
उपयुक्तो नरो जातः पूर्वकर्मभिरन्वितः ।।
ज्ञेयश्च ब्रह्महा कुष्ठी काकाक्षः काकतालुकः ।। ६८ ।।
सुरापः श्यावदन्तश्च पूतिगन्धश्च पापकृत् ।।
राजहा पितृहा चैव सुरापश्चापि यो भवेत् ।। ६९ ।।
सुवर्णहर्ता च नरो ब्रह्मघ्नेन समो हि सः ।।
क्वचिच्चात्र विरूपाणां नराणां पापकर्मिणाम् ।। ७० ।।
यावद्भिः कर्मभिस्तैस्तैस्तेषु निर्याणवेश्मसु ।।
छिन्नभिन्नविशस्तानां रुधिरेण समन्ततः ।। ७१ ।।
व्याप्तं महीतलं सर्वमापगाश्चापि निर्गताः ।।
अजस्रं क्लिश्यमानानां क्रन्दतां च सुदारुणम् ।। ७२ ।।
समुत्तस्थौ महानादो हाहाकारसमाकुलः ।।
बध्नतो विविधैर्बन्धैर्घातयन्तश्च दारुणम् ।। ७३ ।।
लौहयष्टिप्रहारैश्च आयुधैश्च सुदारुणैः ।।
छेदनैर्भेदनैश्चोग्रैः पीडनाभिश्च सर्वशः ।। ७४ ।।
श्रान्ताः कर्मकरा दूता मोहेनायत्तचेतसः ।।
यदा श्रान्ताश्च खिन्नाश्च हन्तारः पापकर्मिणाम् ।। ७५ ।।
विज्ञापयेत्तदा दूताश्चित्रगुप्तं महौजसम् ।। ७६ ।।
इति श्रीवराहपुराणे संसारचक्रे नरकयातनास्वरूपवर्णनं नाम द्विशततमोऽध्यायः ।। २०० ।।