प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २०० वराहपुराणम्
अध्यायः २०१
[[लेखकः :|]]
अध्यायः २०२ →

अथ राक्षसकिंकरयुद्धम् ।।
ऋषिपुत्र उवाच ।।
ततस्ते सहिताः सर्वे चान्योऽन्याभिरताः सदा ।।
नानावेषधरा दूताः कृताञ्जलिपुटास्तदा ।।१ ।।
दूता ऊचुः ।।
वयं श्रान्ताश्च क्षीणाश्च ह्यन्यान् योजितुमर्हसि ।।
वयमन्यत्करिष्यामः स्वामिन्कार्यं सुदुष्करम् ।।२।।
अन्ये हि तावत्तत्कुर्युर्यथेष्टं तव सुव्रत ।।
भगवन्स्म परिक्लिष्टाः त्राहि नः परमेश्वर ।।३।।
ततो विवृत्तरक्ताक्षस्तेन वाक्येन रोषितः।।
विनिःश्वस्य यथा नागो ह्यपश्यत्सर्वतो दिशम् ।।४।।
अदूरे दृष्टवान्कंचित्पुरुषं स ह्यनाकृतिम् ।।
स तु वेगेन सम्प्राप्त इङ्गितज्ञो दुरात्मवान् ।।५।।
निःसृतः स च रोषेण चित्रगुप्तेन धीमता ।।
ततः स त्वरितं गत्वा मन्देहा नाम राक्षसाः ।। ६ ।।
नानारूपधरा घोरा नानाभरणभूषिताः ।।
विनाशाय महासत्वो यत्र तिष्ठन्महायशाः ।। ७ ।।
चित्रगुप्तो महाबाहुः सर्वलोकार्थचिन्तकः ।।
समः सर्वेषु भूतेषु भूतानां च समादिशत् ।। ८ ।।
ततस्ते विविधाकारा राक्षसा पिशिताशनाः ।।
उपरुह्य तथा सर्वे मातंगांश्च हयं तथा ।। ९ ।।
बद्धगोधाङ्गुलित्राणा नानायुधधरास्तथा ।।
अग्रतः किंकराः कृत्वा तिष्ठन्पादाभिवन्दनम् ।। 201.१० ।।
ब्रुवन्तश्च पुनर्हृष्टाः शीघ्रमाज्ञापय प्रभो ।।
तव सन्देशकर्त्तारः कस्य कृन्तामजीवितम् ।। ११ ।।
तेषां तद्वचनं श्रुत्वा चित्रगुप्तो ह्यभाषत ।।
रोषगद्गदया वाचा निःश्वसन्वै मुहुर्मुहुः ।। १२ ।।
भो भो मन्देहका वीराः मम चित्तानुपालकाः ।।
एतान्बध्नीत गृह्णीत भूतराक्षसपुंगवाः ।। १३ ।।
एवं हत्वा च बद्ध्वा च ह्यागच्छत पुनर्यथा ।।
ह्न्तारः सर्वभूतानां कृतज्ञा दृढ विक्रमा ।। १४ ।।
हत्वा वै पापकानेतान्मम विप्रियकारिणः ।।
एतच्छ्रुत्वा वचस्तस्य वचनं चेदमब्रुवन् ।। १५ ।।
राक्षसा ऊचुः ।।
श्रान्ता वा क्षुधिता वापि दुःखिता वा तपोधनाः ।।
अमात्या एव ज्ञातव्या भृत्याः शतसहस्रशः ।। १६ ।।
एते वधार्थं निर्दिष्टास्त्वयैव च महात्मना ।।
न युक्तं विविधाकारा ह्यस्माकं नाशनाय वै ।। १७ ।।
यथा ह्येते समुत्पन्नाः सर्वधर्मानुचिन्तकाः ।।
तथा वयं समुत्पन्नास्तदर्थं हि भवानपि ।।१८।।
मा च मिथ्या प्रतिज्ञातं धर्मिष्ठस्य भवत्विति ।।
अस्माकं विग्रहे वीर मुच्यन्तां यदि मन्यसे ।। १९ ।।
परित्रायस्व नो वीर किंकराणां महाबलान् ।।
हन्यमानान्हि रक्षोभिरस्मानद्य रणाजिरे ।। 201.२० ।।
एवमुक्त्वा ततो घोरा व्याधयः कामरूपिणः ।।
सन्नद्धास्त्वरितं शूरा भीमरूपा भयानकाः ।। २१ ।।
गजैरन्ये तथा चाश्वै रथैश्चापि महाबलाः ।।
कण्टकैस्तुरगैर्हंसैरन्ये सिंहैस्तथापरे ।।२२।।
मृगैः सृगालैर्महिषैर्व्याघ्रैर्मेषैस्तथापरे ।।
गृध्रैः श्येनैर्मयूरैश्च सर्पगर्द्दभकुक्कुटैः ।। २३ ।।
एवं वाहनसंयुक्ता नानाप्रहरणोद्यताः ।।
समागता महासत्त्वा अन्योन्यमभिकांक्षिणः ।। २४ ।।
तूर्यक्ष्वेडितसंघुष्टैर्बलितास्फोटितैरपि ।।
जयार्थिनो द्रुतं वीराश्चालयन्तश्च मेदिनीम् ।। २५ ।।
ततः समभवद्युद्धं तस्मिंस्तमसि सन्तते ।।
मुकुटैरंगदैश्चित्रैः केयूरैः पट्टिशासिकैः ।। २६ ।।
सकुण्डलैः शिरोभिश्च भ्राजते वसुधातलम् ।।
बहुभिश्च सकेयूरैश्छत्रैश्च मणिभूषणैः ।। २७।।
शूल शक्तिप्रहारैश्च यष्टितोमरपट्टिशैः ।।
असिखड्गप्रहारैश्च बलप्राणसमीरितैः ।। २८ ।।
अभवद्दारुणं युद्धं तुमुलं लोमहर्षणम् ।।
नखैर्दन्तैश्च पादैश्च तेऽन्योऽन्यमभिजघ्निरे ।। २९ ।।
बाहुभिः समनुप्राप्तः केशाकेशि ततः परम् ।।
अयुक्तमतुलं युद्धं तेषां वै समजायत ।। 201.३० ।।
ततस्ते राक्षसा भग्ना दूतैर्घोरपराक्रमैः ।।
देहि देहि वदन्त्येव भिन्धि गृह्णीष्व तिष्ठ च ।। ३१ ।।
वध्यमानाः पिशाचास्ते ये निवृत्ता रणार्दिताः ।।
आहूयन्त प्रतिभयात्क्रोधसंरक्तलोचनाः ।। ३२ ।।
तिष्ठ तिष्ठ क्व यासीति न गच्छामि दृढो भव ।।
मया मुक्तमिदं शस्त्रं तव देहविनाशनम् ।। ३३ ।।
किन्तु मूढ त्वया शस्त्रं न मुक्तं मे रुजाकरम् ।।
मया क्षिप्तास्तु इषवः प्रतीच्छ क्व पलायसे ।।३४।।
किं त्वं वदसि दुर्बुद्धे एषोऽहं पारगो रणे ।।
मम बाहु विमुक्तस्तु यदि जीवस्यतो वद ।। ३५।।
तत्र ते सहसा घोरा राक्षसाः पिशिताशनाः ।।
मन्देहा नाम नाम्ना ते वध्यमानाः सहस्रशः ।। ३६ ।।
ततो भग्ना यदा ते तु राक्षसाः कामरूपिणः ।।
प्रत्यपद्यन्त ते मायां तामसीं तमसावृताः ।।३७ ।।
अदृश्याश्चैव दृश्याश्च तद्बलं तमसावृताः ।।
ततस्ते शरणं जग्मुर्ज्वरं परमभीषणम् ।। ३८ ।।
शूलपाणिं विरूपाक्षं सर्वप्राणिप्रणाशनम् ।।
मन्देहा नाम नाम्ना वै राक्षसाः पिशिताशनाः ।। ३९ ।।
खादन्ति चैव घ्नन्ति स्म चित्रगुप्तेन चोदिताः ।।
व्याधीनां च सहस्राणि दूतानां च महाबलाः ।।201.४०।।
वयमद्य महाभाग त्रायस्व जगतः पते ।।
ततस्तेषां वचः श्रुत्वा दूतानां कामरूपिणाम् ।। ४१ ।।
ज्वरः क्रुद्धो महातेजा योधानां तु सहस्रशः ।।
कालो मुण्डः केकराक्षो लोहयष्टिपरिग्रहः ।।४२।।
विविधान्सन्दिदेशाऽत्र पुरुषानग्निवर्चसः ।।
बद्धाञ्जलिपुटान्सर्वानिदमाह सुरेश्वरः।।४३।।
पच शीघ्रमिमान्पापान्योगेन च बलेन च ।।
ततस्ते त्वरितं गत्वा यत्र ते पिशिताशनाः ।।४४।।
ज्वराज्ञया च ते सर्वे जीमूतघननिःस्वनाः ।।
बहूंस्ते राक्षसान्घोरान्दर्पोत्सिक्तान् सहस्रशः ।। ४५ ।।
बहुशस्त्रप्रहारैश्च शस्त्रैश्च विविधोज्ज्वलैः ।।
तरसा राक्षसा विग्ना रुधिरेण परिप्लुताः ।। ४६ ।।
मोचयामास संग्रामं स्वयमेव यमस्ततः ।।
राक्षसान्मोचयित्वाऽथ हन्यमानान्समन्ततः ।। ४७ ।।
गत्वा ज्वरं महाभागं विनयात्सान्त्वयन्मुहुः ।।
पूजयन्वै ज्वरं दिव्यं गृह्य हस्ते महायशाः ।। ४८ ।।
प्रविवेश गृहं स्वं तु सम्भ्रमेणेदृशेन तु ।।
आननं तु समुत्प्रोश्छ्य संग्रामे स्वेदबिन्दुवत् ।। ४९ ।।
धर्मराजोऽथ विश्रान्तं कालभूतं महाज्वरम् ।।
किंकिं वृत्तमिदं देव व्यापिनस्त्वं महातपाः ।। 201.५० ।।
रोषायासकरं चैव सर्वलोकनमस्कृतः ।।
अहं त्वं चैव देवेश इमं लोकं चराचरम् ।। ५१ ।।
शासेमहि यथाकामं यथादृष्टं यथाश्रुतम् ।।
त्वया ग्राह्यो ह्यहं देव मृत्युना च सुसंवृतः ।। ५२ ।।
लोकान्सर्वानहं हन्मि सर्वघाती न संशयः ।।
गच्छ गच्छ यथास्थानं युद्धं च त्यजतु स्वयम् ।।५३ ।।
राक्षसानां हतास्तत्र षष्टिकोट्यो रणाजिरे।।
अमराश्चाक्षयाश्चैव न हि त्वां प्रापयन्ति वै ।। ५४ ।।
ततो ह्युपरतं युद्धं धर्मराजो यमः स्वयम् ।।
दूतानां चित्रगुप्तेन सख्यमेकमकारयत् ।। ५५ ।।
सम्भाषन्ते ततो दूताश्चित्रगुप्तं तथैव च ।।
नियुञ्जस्व मया पूर्वं सर्वकर्माणि जन्तुषु।।५६।।
स्वकर्मगुणभूतानि ह्यशुभानि शुभानि च।।
रुद्रं दूताः समागम्य चित्रगुप्तस्य पार्श्वतः।।।५७।।
उपस्थानं च कुर्वन्ति कालचिंतकमब्रुवन् ।।
यथा लोका यथा राजा यथा मृत्युः सनातनः।।५८।।
तदैवोत्तिष्ठ तिष्ठेति क्षम्यतां क्षम्यतां प्रभो ।। ५९ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे राक्षसकिंकरयुद्धं नामैकाधिकद्विशततमोऽध्यायः ।। २०१ ।।