वराहपुराणम्/अध्यायः ०९८

< वराहपुराणम्(वराहपुराणम्/अध्यायः ९८ इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ९७ वराहपुराणम्
अध्यायः ९८
[[लेखकः :|]]
अध्यायः ९९ →

अथ पर्वाध्यायः ।।
धरण्युवाच ।।
योऽसौ सत्यतपा नाम लुब्धो भूत्वा द्विजो बभौ ।।
येनारुणिर्व्याघ्रभयाद्रक्षितो यः स्वशक्तितः ।। १ ।।
दुर्वासाः संश्रुतार्थश्च हिमवन्तं नगं ययौ ।।
तस्योपरि महच्चित्रं भवतीति त्वयेरितम् ।। २ ।।
कीदृशं तन्ममाचक्ष्व महत्कौतूहलं विभो ।।
श्रीवराह उवाच ।।
स हि सत्यतपा पूर्वं भृगुवंशोद्भवो द्विजः ।। ३ ।।
दस्युसंसर्गसम्भूतो दस्युवत्समजायत ।।
ततः कालेन महता ऋषिसङ्गात्पुनर्द्विजः ।। ४ ।।
बभौ दुर्वाससा सम्यग्बोधितश्च विशेषतः ।।
हिमाद्रेरुत्तरे पादे पुष्यभद्रा नदी शुभा ।। ५ ।।
तस्यास्तीरे शिला दिव्या नाम्ना चित्रशिला धरे ।।
न्यग्रोधश्च महांस्तत्र नाम्ना भद्रो महावटः ।। ६ ।।
तत्र सत्यतपाः स्थित्वा तपः कुर्वन्महातपाः ।।
स कदाचित्कुठारेण चकर्त्त समिधः किल ।। ७ ।।
चिच्छेद चांगुलीमेकां वामतर्जनिकां मुनिः ।।
छिन्नायामंगुलौ तस्य भस्मचूर्णं भवत्किल ।। ८ ।।
न लोहितं न मांसं तु न मज्जा तत्र दृश्यते ।।
अंगुली सन्धिता तेन पूर्ववच्चाभवत्कृते ।। ९ ।।
तस्मिन् भद्रवटे चैकं मिथुनं किन्नरं स्थितम् ।।
रात्रौ सुप्तमृषेस्तस्य दृष्ट्वा तन्महदद्भुतम्।। ९८.१० ।।
प्रभाते विमले प्राप्तमिन्द्रलोकमिति स्मृतिः ।।
अथेन्द्रेण सुराः सर्वे यक्षगन्धर्वकिन्नरैः ।। ११ ।।
पृष्टाः किंचिदिहाश्चर्यमपूर्वं कथ्यतामिति ।।
तत्र रुद्रसरस्तीरे यदेतन्मिथुनं शुभम् ।। १२ ।।
स्थितं किन्नरयोस्तच्च वाक्यं चेदमुवाच ह।।
दृष्टं तु मह दाश्चर्यं पुष्यभद्रातटे शुभे ।। १३ ।।
यदेतत्सत्यतपसः समवोचत्ततः शुभे ।।
दृष्टं किंचिदिहाश्चर्यं दृष्टिस्तु हिमवद्गिरौ ।। १४ ।।
पुष्यभद्रानदी तीरे महदाश्चर्यमुत्तमम् ।।
यदेतत्सत्यतपसः समवोचस्ततः शुभे ।। १५ ।।
स्रवणं भस्मनश्चैव श्रुतं सर्वं शशंस ह ।।
तच्छुत्वा सहसा शक्रो विस्मितो विष्णुमब्रवीत् ।। १६ ।।
आगच्छ विष्णो गच्छामो हिमवत्पार्श्वमुत्तमम् ।।
तत्राश्चर्यमपूर्वं मे कथितं किन्नरेण ह ।। १७।।
एवमुक्तस्ततो विष्णुर्वाराहं रूपमग्रहीत् ।।
मृगयुश्च तथैवेन्द्रो जग्मतुस्तमृषिं प्रति ।। १८ ।।
विष्णुर्वाराहरूपेण ऋषिदृष्टिपथे स्थितः ।।
भूत्वा दृश्योऽप्यदृश्योऽभूत्पुनरेव च दृश्यते ।। १९ ।।
तावदिन्द्रो धनुष्पाणिस्तीक्ष्णसायकधृग्वने ।।
आगत्य सत्यतपतमृषिमेनमुवाच ह ।। ९८.२० ।।
भगवन्निह दृष्टस्ते वराहः पृथुलो महान् ।।
येन तं हन्मि भृत्यानां पोषणाय महामुने ।। २१।।
एवमुक्तो मुनिस्तेन चिन्तयामास तत्क्षणात् ।।
यदि तं दर्शयाम्यस्मै वराहं हन्यते तदा ।। २२ ।।
नो चेत्कुटुंबः क्षुधया सीदत्यस्य न संशयः ।।
जायापुत्रसमायुक्तो लुब्धकोऽयं क्षुधा न्वितः ।। २३ ।।
सशल्यश्च वराहोऽयं ममाश्रममुपागतः ।।
एवं गते तु किं कार्यमथासौ चिन्तयन् प्रभुः ।। २९ ।।
नाध्यगच्छत बुद्धिश्च क्षणात्तस्य व्यजायत ।। २५ ।।
दृष्टं चक्षुर्निहितं जङ्गमेषु जिह्वा वक्तुं मृगयौ तद्विसृष्टम् ।।
द्रष्टुं चक्षुर्नास्ति जिह्वेह वक्तुं जिह्वायाः स्यात्तत्त्वतोऽस्तीह चक्षुः ।। २६ ।।
एवं श्रुत्वा द्वावपि तस्य तुष्टौ इन्द्राविष्णू दर्शयन्तौ स्वमूर्तिम् ।।
वाक्यं चेदमूचतुर्ब्रूहि नौ ते तुष्टौ धन्यं वरमेकं वदस्व ।।
तच्छ्रुत्वाऽसौ सत्यतपा उवाच १ ।।२७।।
न चातिरिक्तोऽस्ति वरः पृथिव्यां यद्दृष्टो मे पुरतो देवदेवाः ।।
बलं वरेणापि कृतार्थतासीत् तथापीदं ये सदा पर्वकाले ।। २८ ।।
विप्रा विप्राश्चार्चयन्तीह भक्त्या तेषां पापं नश्यतां मासमेकम् ।।
यत्सञ्चितं त्वेष एको वरोऽस्तु ह्यभीष्टो मे सांप्रतं देहि मह्यम् ।। २९ ।।
मुक्तिं चाहं व्रजामीति द्वितीयोऽस्तु वरो मम।।
तथेत्युक्त्वा तु तौ देवौ दत्त्वा तस्य वरं शुभम्।।९८.३०।। ।
अदर्शनं गतौ देवो सोऽपि तत्र व्यवस्थितः ।।
लब्ध्वा वरं सत्यतपा ब्रह्मभूतोऽभवद्धृदि ।। ३१ ।।
यावदास्ते शुभे देशे कृतकृत्यो महामुनिः ।।
तावत्तस्य गुरुस्तत्र त्वारुणिः समदृश्यत ।। ३२ ।।
पृथ्वीं प्रदक्षिणीकृत्य तीर्थहेतोर्विचक्षण ।।
तेन चासौ महाभक्त्या पूजितो मुनि पुङ्गवः ।। ३३ ।।
पाद्याचमनगोदानेः कृतासनपरिग्रहः ।।
ज्ञात्वा स शिष्यं सिद्धं तु तपसा दग्धकिल्बिषम् ।।३४।।
उवाच विनयापन्नं प्राञ्जलिं पुरतः स्थितम् ।।
आरुणिरुवाच ।।
पुत्र सिद्धोऽसि तपसा ब्रह्मभूतोऽसि सुव्रत ।।३९।।
इदानीमात्मना सार्द्धं मुक्तिकालो मतोऽस्ति ते ।।
उत्तिष्ठ गम्यतां पुत्र मया सार्द्धं परं पदम् ।।३६।।
यद्गत्वा न पुनर्जन्म भवतीति न संशयः ।।
एवमुक्त्वा तु तौ सिद्धौ उभौ सत्यतपारुणी ।। ३७ ।।
ध्यात्वा नारायणं देवं तद्देहे तौ लयं गतौ ।।
यश्चापि शृणुयात्पादं पर्वाध्यायं सविस्तरम् ।। ३८ ।।
श्रावयेद्वापि स नरो गतिमिष्टामवाप्नुयात् ।।
इति श्रीवराहपुराणे पर्वाध्यायो नाम अष्टनवतितमोऽध्यायः ।। ९८ ।।