← वेतालपञ्चविंशतिः 00 वेतालपञ्चविंशतिः 01
सोमदेव
वेतालपञ्चविंशतिः 02 →

शशाङ्कवतीलम्बकः १२

( प्रथमो वेतालः )



अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।
स्थलीव कैलासगिरेर्या पुण्यजनसेविता ।। ५९
भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी ।
हारयष्टिरिवाभाति यस्याः स्वर्गतरङ्गिणी ।। 12.8.६०
प्रतापानलनिर्दग्धविपक्षकुलकाननः ।
तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा ।। ६१
तस्याभूद्वज्रमुकुटस्तनयो रूपशौर्ययोः ।
कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ।। ६२
राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः ।
आसीद्बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ।। ६३
तेन सख्या सह क्रीडन्स कदाचिन्नृपात्मजः ।
जगाम दूरमध्वानं मृगयातिप्रसङ्गतः ।। ६४
शौर्यश्रीचामराणीव सिंहानां मस्तकानि सः ।
छिन्दञ्शरैः सटालानि विवेशैकं महावनम् ।। ६९
तत्रास्थाने स्मरस्येव पठत्कोकिलबन्दिनि ।
दत्तोपकारे तरुभिर्मञ्जरीचलचामरैः ।। ६६
सोऽन्वितो मन्त्रिपुत्रेण तेनापश्यत्सरोवरम् ।
विचित्रकमलोत्पत्तिधामाम्बुधिमिवापरम् ।। ६७
तस्मिंस्तदैव सरसि स्नानार्थं काचिदागता ।
तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ।। ६८
पूरयन्तीव लावण्यनिर्झरेण सरोवरम् ।
दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ।। ६९
प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना ।
सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणम् ।। 12.8.७०
सोऽप्यहार्षीत्तथा तस्या युवा दृष्ट्वा विलोचने ।
यथा नैक्षत सा कन्या लज्जां स्वामप्यलंकृतिम् ।। ७१
यूनि पश्यति तस्मिन्सा केयं स्यादिति सानुगे ।
संज्ञां स्वदेशाद्याख्यातुं विलासच्छद्मनाकरोत् ।। ७२
करोति स्मोत्पलं कर्णे गृहीत्वा पुष्पशेखरात् ।
चिरं च दन्तरचनां चकारादाय च व्यधात् ।। ७३
पद्यं शिरसि साकूतं हृदये चादधे करम् ।
राजपुत्रश्च तस्यास्तां संज्ञां न ज्ञातवांस्तदा ।। ७४
मन्त्रिपुत्रस्तु बुबुधे स सखा तस्य बुद्धिमान् ।
क्षणाच्च सा ययौ कन्या नीयमानानुगैस्ततः ।। ७५
प्राप्य च स्वगृहं तस्थौ पर्यङ्केऽङ्गं निधाय सा ।
चित्तं तु निजसंज्ञार्थमास्थात्तस्मिन्नृपात्मजे ।। ७६
सोऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा ।
गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ।। ७७
सख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः ।
शंसता तामदुष्प्रापां त्यक्तधैर्यो जगाद सः ।। ७८
यस्या न नाम न ग्रामो नान्वयो वावबुध्यते ।
सा कथं प्राप्यते तन्मामाश्वासयसि किं मृषा ।। ७९
इत्युक्तो राजपुत्रेण मन्त्रिपुत्रस्तमभ्यधात् ।
किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया ।।12.8.८०
न्यस्तं यदुत्पलं कर्णे तेनैतत्ते तयोदितम् ।
कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः ।। ८१
कृता यद्दन्तरचना तेनैतत्कथितं तया ।
तत्र जानीहि मां दन्तघाटकस्य सुतामिति ।। ८२
पद्मावतीति नामोक्तं तयोत्तंसितपद्मया ।
त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ।। ८३
कलिङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णोत्पलो नृपः ।
तस्य प्रसादवित्तोऽस्ति महान्यो दन्तघाटकः ।। ८४
सङ्गामवर्धनाख्यस्य तस्याप्यस्ति जगत्त्रये ।
रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ।। ८५
एतच्च लोकतो देव यथावद्विदितं मम ।
अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ।। ८६
इत्युक्तो मन्त्रिपुत्रेण तेन राजसुतोऽथ सः ।
तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ।। ८७
संमत्त्र्य च समं तेन स तद्युक्तः स्वमन्दिरात् ।
प्रियार्थी मृगयाव्याजात्पुनस्तामगमद्दिशम् ।। ८८
अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।
तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ।। ८९
तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः ।
अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ।। 12.8.९०
तददूरे च वासार्थमेकस्या वृद्धयोषितः ।
गृहं प्राविशतां मन्त्रिपुत्रराजसुतावुभौ ।। ९१
दत्ताम्बुयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः ।
राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ।। ९२
कच्चिद्वेत्स्यम्ब सङ्ग्रामवर्धनं दन्तघाटकम् ।
तच्छ्रुत्वा सा जरद्योषित्सश्रद्धा तमभाषत ।। ९३
वेद्म्येव धात्री तस्यास्मि स्थापिता तेन चाधुना ।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्यहम् ।। ९४
किं त्वहं न सदा तत्र गच्छाम्युपहताम्बरा ।
कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ।। ९५
एवमुक्तवतीं प्रीतः स्वोत्तरीयादिदानतः ।
संतोष्य सोऽत्र वृद्धां तां मन्त्रिपुत्रोऽब्रवीत्पुनः ।। ९६
माता त्वं तद्वदामस्ते गुप्तं यत्तत्कुरुष्व नः ।
दन्तघाटसुतामेतां गत्वा पद्मावतीं वद ।। ९७
सोऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया ।
तेन चेह तवाख्यातुं प्रेषिता प्रणयादहम् ।। ९८
तच्छ्रुत्वा सा तथेत्युक्त्वा वृद्धा दानवशीकृता ।
गत्वा पद्मावतीपार्श्वमाजगाम क्षणान्तरे ।। ९९
पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।
युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ।। 12.8.१००
तया श्रुत्वा च निर्भर्त्स्य पाणिभ्यामहमाहता ।
द्वाभ्यां कर्पूरलिप्ताभ्यामुभयोर्गण्डयोर्मुखे ।। १०१
ततः परिभवोद्विग्ना रुदत्यहमिहागता ।
एतास्तदङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ।। १०२
एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् ।
जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ।। १०३
मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत्तया ।
कर्पूरशुभ्रा वक्त्रेऽस्याः स्वाङ्गुल्यो दश पातिताः ।। १०४
तदेतदुक्तं पक्षेऽस्मिञ्शुक्ले चन्द्रवतीरिमाः ।
रात्रीर्दश प्रतीक्षध्वं संगमानुचिता इति ।। १०५
इत्याश्वास्य स तं राजसुतं मन्त्रिसुतस्ततः ।
विक्रीय गुप्तं हस्तस्थं काञ्चनं किंचिदापणे ।। १०६
वृद्धया साधयामास महार्हं भोजनं तया ।
ततस्तौ बुभुजाते द्वौ तत्तया सह वृद्धया ।। १०७
एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् ।
पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ।। १०८
सापि मृष्टान्नपानादिलुब्धा तदनुरोधतः ।
गत्वा वासगृहं तस्या भूयोऽभ्येत्य जगाद तौ ।। १०९
इतो गत्वाद्य तूष्णीमप्यहं तत्र स्थिता तया ।
युष्मत्कथापराधं तमुद्गिरन्त्या स्वयं पुनः ।। 12.8.११०
सालक्तकाभिस्तिसृभिः कराङ्गुलिभिराहता ।
उरस्यस्मिन्नथैषाहमिहायाता तदन्तिकात् ।। १११
तच्छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतोऽब्रवीत् ।
मा कार्षीरन्यथा शङ्कामस्या हि हृदये तया ।। ११२
सालक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः ।
रजस्वला निशास्तिस्रः स्थिताहमिति सूचितम् ।। ११३
एवमुक्त्वा नृपसुतं मन्त्रिपुत्रस्त्र्यहे गते ।
पद्मावत्यै पुनस्तस्मै वृद्धां तां प्रजिघाय सः ।। ११४
सा गता मन्दिरं तस्यास्तया संमान्य भोजिता ।
प्रीत्या पानादिलीलाभिर्दिनं चात्र विनोदिता ।। ११५
सायं च यावत्सा वृद्धा गृहमागन्तुमिच्छति ।
उदभूद्भयकृत्तावत्तत्र कोलाहलो बहिः ।। ११६
हा हा भ्रष्टोऽयमालानाज्जनान्मथ्नन्प्रधावति ।
मत्तहस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे ।। ११७
ततः पद्मावती सा तां वृद्धामेवमभाषत ।
स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ।। ११८
तत्पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् ।
बृहद्गवाक्षेणानेन त्वामत्र प्रक्षिपामहे ।। ११९
गृहोद्याने ततो वृक्षमारुह्यामुं विलङ्घ्य च ।
प्राकारमवरुह्यान्यवृक्षेण स्वगृहं व्रज ।। 12.8.१२०
इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् ।
वृद्धां चेटीभिरुद्याने रज्जुपीठिकया ततः ।। १२१
साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् ।
यथावद्राजपुत्राय तस्मै मन्त्रिसुताय च ।। १२२
ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत ।
सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया ।। १२३
तद्गच्छाद्यैव तत्र त्वं प्रदोषेऽस्मिन्नृपागते ।
एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ।। १२४
इत्युक्तस्तेन तद्युक्तो राजपुत्रो ययौ स तत् ।
उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ।। १२५
तत्रापश्यच्च रज्जुं तां लम्बमानां सपीठिकाम् ।
मार्गोन्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठिताम् ।। १२६
आरूढस्तां च दृष्ट्वैव दासीभिस्ताभिराशु सः ।
रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ।। १२७
तस्मिन्प्रविष्टे स ययौ मन्त्रिपुत्रः स्वमास्पदम् ।
राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः ।। १२८
पूर्णामृतांशुवदनां प्रसरत्कान्तिचन्द्रिकाम् ।
कृष्णपक्षभयाद्गुप्तस्थितां राकानिशामिव ।। १२९
सापि दृष्ट्वा तमुत्थाय चिरौत्सुक्योचितैस्ततः ।
कण्ठग्रहादिभिस्तैस्तैरुपचारैरमानयत् ।। 12.8.१३०
ततस्तया स गान्धर्वविधिनोद्गूढया सह ।
गुप्तं राजसुतस्तस्थौ पूर्णेच्छस्तत्र कान्तया ।। १३१
स्थित्वा चाहानि कतिचिद्रात्रौ तामवदत्प्रियाम् ।
सखा मम सहायातो मन्त्रिपुत्र इह स्थितः ।। १३२
स चात्र तिष्ठत्येकाकी त्वज्ज्येष्ठतरिकागृहे ।
गत्वा संभाव्य तं तन्वि पुनरेष्यामि तेऽन्तिकम् ।। १३३
तच्छ्रुत्वा तमवोचत्सा धूर्ता पद्मावती प्रियम् ।
हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास्त्वया ।। १३४
ज्ञाता किं किमु वा तेन सख्या मन्त्रिसुतेन ते ।
एवमुक्तवतीमेतां राजपुत्रो जगाद सः ।। १३५
न ज्ञातं तन्मया किंचिज्ज्ञात्वा सर्वं च तेन मे ।
आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ।। १३६
एतच्छ्रुत्वा विचिन्त्यैव भामिनी सा जगाद तम् ।
तर्ह्ययुक्तं कृतं यन्मे चिरात्स कथितस्त्वया ।। १३७
स मे भ्राता सखा यस्ते तस्य च प्रथम मया ।
ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत् ।। १३८
इत्युक्तवत्यानुमतस्तया पूर्वपथेन सः ।
राजपुत्रोऽन्तिकं तस्य सख्युरागात्ततो निशि ।। १३९
शशंस च कथामध्ये तत्तस्मै यत्तदाश्रयम् ।
संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ।। 12.8.१४०
मन्त्रिपुत्रस्तु सोऽयुक्तमिति न श्रद्दधेऽस्य तत् ।
तावच्च सा तयोस्तत्र विभाताभूद्विभावरी ।। १४१
अथैतयोर्विधौ सांध्ये निवृत्ते कुर्वतो: कथाः ।
आगात्पक्वान्नताम्बूलहस्ता पद्मावतीसखी ।। १४२
सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका ।
निषेद्धुं राजपुत्रस्य भोजनं तत्र युक्तितः ।। १४३
कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमम् ।
प्रतीक्षमाणामावेद्य क्षणाद्गुप्तं ततो ययौ ।। १४४
ततस्तं मन्त्रिपुत्रः स राजपुत्रमभाषत ।
कौतुकं पश्य देवैकं दर्शयाम्यधुना तव ।। ३४५५
इत्युक्त्वा भक्ष्यमेकं स पक्वान्नं दत्तवांस्ततः ।
सारमेयाय स च तत्खादित्वैव व्यपद्यत ।। १४६
तद्दृष्ट्वा किमिदं चित्रमिति राजसुतोऽत्र सः ।
पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत ।। १४७
संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया ।
तया विषान्नं प्रहितं मम त्वदनुरक्तया ।। १४८
नास्मिन्सति मदेकाग्रो राजपुत्रो भवेदयम् ।
एतद्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेदिति ।। १४९
तन्मुञ्च मन्युमेतस्यां बन्धुत्यागान्महात्मनः ।
कुर्यास्त्वं हरणे युक्तिं वक्ष्याम्यालोच्य यामहम् ।। 12.8.१५०
इत्युक्तवन्तं तं मन्त्रिसुतं राजसुतोऽत्र सः ।
सत्यं बुद्धिशरीरस्त्वमिति यावत्प्रशंसति ।। १५१
अशङ्कितं बहिस्तावद्दुःखाकुलजनारवः ।
हा धिग्राज्ञः सुतो बालो विपन्न इति शुश्रुवे ।। १५२
तदाकर्णनहृष्टोऽथ मन्त्रिपुत्रो नृपात्मजम् ।
जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ।। १५३
तत्र तां पाययेस्तावद्यावत्पानमदेन सा ।
निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ।। १५४
ततस्तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे ।
दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् ।। १५५
आगच्छेस्त्वं गवाक्षेण रज्जुलम्बविनिर्गतः ।
ततः परं यथा भद्रं भवेज्ज्ञास्याम्यहं तथा ।। १५६
इत्युक्त्वा कारयित्वा च क्रोडबालनिभाश्रिकम् ।
मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे ।। १५७
राजपुत्रः स हस्ते तत्कृत्वा कुटिलकर्कशम् ।
कालायसदृढं चित्तमिव कान्तावयस्ययोः ।। १५८
तथेति पूर्ववद्रात्रावगात्पद्मावतीगृहम् ।
अविचार्यं प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः ।। १५९
तत्र तां मद्यनिश्चेष्टा शूलेन जघनेऽङ्किताम् ।
हृतालंकरणां कृत्वा तस्यागात्सख्युरन्तिकम् ।। 12.8.१६०
दर्शिताभरणस्तस्मै शशंस च यथाकृतम् ।
ततः स मन्त्रिपुत्रोऽपि सिद्धं मेने मनीषितम् ।। १६१
प्रातर्गत्वा श्मशानं च सोऽभूत्तापसवेषभृत् ।
स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ।। १६२
अब्रवीत्तं च गच्छैकमितोऽलंकरणादिमाम् ।
मुक्तावलीं समादाय त्वं विकेतुमिवापणे ।। १६३
बहुमूल्यं वदेश्चास्या येनैतां नैव कश्चन ।
गृहीयाद्भ्राभ्यमाणां च सर्वः कोऽपि विलोकयेत् ।। १६४
गुरुणा मम विक्रेतुमियं दत्तेत्यनाकुलः ।
ब्रूयाश्च यदि गृह्णीयुरत्र त्वां पुररक्षिणः ।। १६५
इति स प्रेषितस्तेन गत्वा राजसुतस्तदा ।
अतिष्ठदापणे भ्राम्यन्व्यक्तं मुक्तावलीं दधत् ।। १६६
तथाभूतश्च जगृहे स दृष्ट्वा पुररक्षिभिः ।
दन्तघाटसुतामोषज्ञप्तेश्चौरगवेषिभिः ।। १६७
निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणात् ।
स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ।। १६८
कुतो मुक्तावलीयं ते भगवन्निह हारिता ।
दन्तघाटककन्याया हृतं ह्याभरणं निशि ।। १६९
तच्छ्रुत्वा राजपुत्रस्तं सोऽवादीत्तापसाकृतिः ।
गुरुणा मम दत्तेयमेत्यासौ पृच्छयतामिति ।। 12.8.१७०
ततश्चोपेत्य तं नत्वा पप्रच्छ नगराधिपः ।
मुक्तावलीयं भगवन्कुतस्ते शिष्यहस्तगा ।। १७१
श्रुत्वैतद्विजनं कृत्वा स धूर्तस्तमभाषत ।
अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः ।। १७२
सोऽहं दैवादिह प्राप्तः श्मशानेऽत्र स्थितो निशि ।
अपश्यं योगिनीचक्रं समागतमितस्ततः ।। १७३
तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः ।
उद्घाटितहृदम्भोजो भैरवाय निवेदितः ।। १७४
पानमत्ता च सा हर्तुं जपतो मेऽक्षमालिकाम् ।
प्रावर्तत महामाया विकारान्कुर्वती मुखे ।। १७५
अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ।। १७६
हृता मुक्तावली चेयं तस्याः कण्ठान्मया तदा ।
सैषाद्य तापसानर्हा विक्रेया मम वर्तते ।। १७७
एतच्छ्रुत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् ।
भूपोऽप्याकर्ण्य तत्तां च बुद्ध्वा तन्मौक्तिकावलीम् ।। १७८
प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् ।
श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यमेव ताम् ।। १७९
ग्रस्तः सुतो मे डाकिन्या तयेत्युत्पन्ननिश्चयः ।
स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ।। 12.8.१८०
पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा ।
पितृभ्यां शोच्यमानायाः पुरान्निर्वासनं व्यधात् ।। १८१
निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् ।
उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतम् ।। १८२
दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः ।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ।। १८३
आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुश्च ताम् ।
तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ।। १८४
दन्तघाटस्त्वरण्ये तां क्रव्यादैर्भक्षितां सुताम् ।
मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ।। १८५
इत्याख्याय स भूयस्तं वेतालो नृपमब्रवीत् ।
तन्मेऽत्र संशयं छिन्द्धि दंपत्योरेतयोर्वधात् ।। १८६
मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा ।
पद्मावत्याः किमथवा त्वं हि बुद्धिमतां वरः ।। १८७
जानानश्च न चेद्राजन्मम तत्त्वं वदिष्यसि ।
तदेष शतधा मूर्धा निश्चितं ते स्फुटिष्यति ।। १८८
इत्युक्तवन्तं वेतालं विजानञ्शापभीतितः ।
स त्रिविक्रमसेनस्तमेवं प्रत्यब्रवीन्नृपः ।। १८९
योगेश्वर किमज्ञेयमेतन्नैषां हि पातकम् ।
त्रयाणामपि राज्ञस्तु पापं कर्णोत्पलस्य तत् ।। 12.8.१९०
वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः ।
काकाः किमपराध्यन्ति हंसैर्जग्धेषु शालिषु ।। १९१
राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते ।
मन्त्रिसूनोर्हि तत्तावत्प्रभुकार्यमपातकम् ।। १९२
पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।
संतप्तावविचारार्हावदोषौ स्वार्थमुद्यतौ ।। १९३
कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः ।
चारैः प्रजास्वनन्विष्यंस्तत्त्वशुद्धिं निजास्वपि ।। १९४
अजानन्धूर्तचरितानीङ्गिताद्यविचक्षणः ।
तथा तन्निर्विचारं यच्चक्रे तेन स पापभाक् ।। ११५
इत्याकर्ण्य विमुक्तमौनमुदिते सम्यङ् नृपेणोत्तरे
स्कन्धात्तस्य स दार्ढ्यमाकलयितुं मायाबलात्तत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः क्वाप्यप्रतर्क्यो ययौ
निष्कम्पः स च भूपतिः पुनरमुं प्राप्तुं व्यधान्निश्चयम् ।। १९६


अस्ति वाराणसी नाम पुरारिवसतिः पुरी।
स्थली इव कैलासगिरेः या पुण्यजनसेविता॥१.८.५९॥
भूरिवारिभृता शश्वतुपकण्ठनिवेशिनी।
हारयष्टिः इव आभाति यस्याः स्वर्गतरङ्गिणी॥१.८.६०॥
प्रतापानलनिर्दग्धविपक्षकुलकाननः।
तस्यां प्रतापमुकुटः नाम राजा अभवत् पुरा॥१.८.६१॥
तस्य अभूत् वज्रमुकुटः तनयः रूपशौर्ययोः।
कुर्वाणः दर्पदलनम् स्मरस्य अरिजनस्य च॥१.८.६२॥
राजपुत्रस्य तस्य अत्र मन्त्रिपुत्रः महामतिः।
आसीत् बुद्धिशरीर- आख्यः शरीराभ्यधिकः सखा॥१.८.६३॥
तेन सख्या सह क्रीडन् सः कदाचित् नृप- आत्मजः।
जगाम दूरम् अध्वानम् मृगया- अति प्रसङ्गतः॥१.८.६४॥
शौर्यशृ- ईचामरानि इव सिंहानाम् मस्तकानि सः।
छिन्दत् शरैः सटालानि विवेश एकम् महावनम्॥१.८.६५॥
तत्र आस्थाने स्मरस्य इव पठत् कोकिलबन्दिनि।
दत्तौपकारे तरुभिः मञ्जरीचलचामरैः॥१.८.६६॥
सः अन्वितः मन्त्रिपुत्रेण तेन अपश्यत् सरःवरम्।
विचित्रकमलौत्पत्तिधाम अम्बुधिम् इव अपरम्॥१.८.६७॥
तस्मिन् तदा एव सरसि स्नानार्थम् काचित् आगता।
तेन दिव्य- आकृतिः कन्या ददृशे सपरिच्छदा॥१.८.६८॥
पूरयन्ती इव लावण्यनिःझरेण सरःवरम्।
दृष्टिपातैः सृजन्ती इव तत्र उत्पलवनम् नवम्॥१.८.६९॥
प्रत्यादिशन्ती इव मुखेन अम्बुजानि जितैन्दुना।
सा जहार मनः तस्य राजपुत्रस्य तत्क्षणम्॥१.८.७०॥
सः अपि अहार्षीत् तथा तस्याः युवा दृष्ट्वा विलोचने।
यथा न ऐक्षत सा कन्या लज्जाम् स्वाम् अपि अलंकृतिम्॥१.८.७१॥
यूनि पश्यति तस्मिन् सा का इयम् स्यादिति सानुगे।
संज्ञाम् स्वदेश- आदि- आख्यातुम् विलासछद्मना अकरोत्॥१.८.७२॥
करोति स्मौत्पलम् कर्णे गृहीत्वा पुष्पशेखरात्।
चिरम् च दन्तरचनाम् चकार आदाय च व्यधात्॥१.८.७३॥
पद्मम् शिरसि साकूतम् हृदये च आदधे करम्।
राजपुत्रः च तस्याः ताम् संज्ञाम् न ज्ञातवान् तदा॥१.८.७४॥
मन्त्रिपुत्रः तु बुबुधे सः सखा तस्य बुद्धिमान्।
क्षणात् च सा ययौ कन्या नीयमाना अनुगैः ततः॥१.८.७५॥
प्राप्य च स्वगृहम् तस्थौ पर्यङ्गे अङ्गम् निधाय सा।
चित्तम् तु निजसंज्ञार्थम् आस्थात् तस्मिन् नृप- आत्मजे॥१.८.७६॥
सः अपि राजसुतः भ्रष्टविद्यः विद्याधरः यथा।
गत्वा स्वनगरीम् कृच्छ्राम् प्राप अवस्थाम् तया विना॥१.८.७७॥
सख्या च मन्त्रिपुत्रेण तेन पृष्टः तदा रहः।
शंसता ताम् अदुष्प्रापाम् त्यक्तधैर्यः जगाद सः॥१.८.७८॥
यस्याः न नाम न ग्रामः नान्वयः वा अवबुध्यते।
सा कथम् प्राप्यते तत् माम् आश्वासयसि किम् मृषा॥१.८.७९॥
इति उक्तः राजपुत्रेण मन्त्रिपुत्रः तम् अभ्यधात्।
किम् न दृष्टम् त्वया तत् यत् संज्ञया सूचितम् तया॥१.८.८०॥
न्यस्तम् यत् उत्पलम् कर्णे तेन एतत् ते तया उदितम्।
कर्णोत्पलस्य राष्ट्रे अहम् निवसामि महीभृतः॥१.८.८१॥
कृता यत् दन्तरचना तेन एतत् कथितम् तया।
तत्र जानीहि माम् दन्तघाटकस्य सुताम् इति॥१.८.८२॥
पद्मावती इति नाम उक्तम् तया उत्तंसितपद्मया।
त्वयि प्राणाः इति प्रोक्तम् हृदयार्पितहस्तया॥१.८.८३॥
कलिङ्गदेशे हि अस्ति अत्र ख्यातः कर्णोत्पलः नृपः।
तस्य प्रसादवित्तः अस्ति महान् यः दन्तघटकः॥१.८.८४॥
सङ्ग्रामवर्धन- आख्यस्य तस्य अपि अस्ति जगत्त्रये।
रत्नम् पद्मावती नाम कन्या प्राणाधिकप्रिया॥१.८.८५॥
एतत् च लोकतः देव यथावत् विदितम् मम।
अतः ज्ञाता मया संज्ञा तस्याः देश- आदिशंसिनी॥१.८.८६॥
इति उक्तः मन्त्रिपुत्रेन तेन राजसुतः अथ सः।
तुतोष तस्मै सुधिये लब्धौपायः जहर्ष च॥१.८.८७॥
संमन्त्र्य च समम् तेन सः तत्युक्तः स्वमन्दिरात्।
प्रिया- अर्थी मृगयाव्याजात् पुनः ताम् अगमत् दिशम्॥१.८.८८॥
अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः।
तम् मन्त्रिपुत्रएकयुतः कलिङ्गविषयम् ययौ॥१.८.८९॥
तत्र तौ प्राप्य नगरम् कर्णोत्पलमहीभृतः।
अन्विष्य दृष्ट्वा भवनम् दन्तघाटस्य तस्य च॥१.८.९०॥
ततदूरे च वासार्थम् एकस्य वृद्धयोषितः।
गृहम् प्राविशताम् मन्त्रिपुत्रराजसुतौ उभौ॥१.८.९१॥
दत्ताम्बुयवसौ वाहौ गुप्ते अवस्थाप्य च अत्र सः।
राजपुत्रे स्थिते वृद्धाम् मन्त्रिपुत्रः जगाद ताम्॥१.८.९२॥
कच्चित् वेत्सि अम्ब सङ्ग्रामवर्धनम् दन्तघाटकम्।
तत् श्रुत्वा सा जरद्योषित् सश्रद्धा तम् अभाषत॥१.८.९३॥
वेद्मि एव धात्री तस्य अस्मि स्थापिता तेन च अधुना।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरा इति अहम्॥१.८.९४॥
किम् तु अहम् न सदा तत्र गच्छामि उपहताम्बरा।
कुपुत्रः कितवः वस्त्रम् दृष्ट्वा हि हरते मम॥१.८.९५॥
एवम् उक्तवतीम् प्रीतः स्वौत्तरीय- आदिदानतः।
संतोष्य सः अत्र वृद्धाम् ताम् मन्त्रिपुत्रः अब्रवीत् पुनः॥१.८.९६॥
माता त्वम् तत् वदामः ते गुप्तम् यत् तत् कुरुष्व नः।
दन्तघाटसुताम् एताम् गत्वा पद्मावतीम् वद॥१.८.९७॥
सः अत्र आगतः राजपुत्रः दृष्टः यः सरसि त्वया।
तेन च इह तद् आख्यातुम् प्रेषिता प्रणयात् अहम्॥१.८.९८॥
तत् श्रुत्वा सा तथा इति उक्त्वा वृद्धा दानवशीकृता।
गत्वा पद्मावतीपार्श्वम् आजगाम क्षणान्तरे॥१.८.९९॥
पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा।
युष्मतागमनम् गत्वा गुप्तम् तस्याः मया उदितम्॥१.८.१००॥
तया श्रुत्वा च निर्भर्त्स्य पाणिभ्याम् अहम् आहता।
द्वाभ्याम् कर्पूरलिप्ताभ्याम् उभयोः गण्डयोः मुखे॥१.८.१०१॥
ततः परिभव उद्विग्ना रुदती अहम् इह आगता।
एताः तत् अङ्गुलीमुद्राः पुत्रौ मे पश्यतम् मुखे॥१.८.१०२॥
एवम् तया उक्ते नैराश्यविषण्णम् तम् नृप- आत्मजम्।
जगाद सः महाप्राज्ञः मन्त्रिपुत्रः जनान्तिकम्॥१.८.१०३॥
मा गाः विषादम् रक्षन्त्या मन्त्रम् निर्भर्त्स्य यत् तया।
कर्पूरशुभ्राः वक्त्रे अस्याः स्वाङ्गुल्यः दश पातिताः॥१.८.१०४॥
तत् एतत् उक्तम् पक्षे अस्मिन् शुक्ले चन्द्रवतीः इमाः।
रात्रीः दश प्रतीक्षध्वम् संगमानुचिताः इति॥१.८.१०५॥
इति आश्वास्य सः तम् राजसुतम् मन्त्रिसुतः ततः।
विक्रीय गुप्तम् हस्तस्थम् काञ्चनम् किम्चित् आपणे॥१.८.१०६॥
वृद्धया साधयामास महा- अर्हम् भोजनम् तया।
ततः तौ बुभुजाते द्वौ तत् तया सह वृद्धया॥१.८.१०७॥
एवम् नीत्वा दशाहानि जिज्ञासा- अर्थम् पुनः सः ताम्।
पद्मावती- अन्तिकम् वृद्धाम् मन्त्रिपुत्रः विसृष्टवान्॥१.८.१०८॥
सा अपि मृष्टान्नपान- आदिलुब्धा तत् अनुरोधतः।
गत्वा वासगृहम् तस्याः भूयः अभ्येत्य जगाद तौ॥१.८.१०९॥
इतः गत्वा अद्य तूष्णीम् अपि अहम् तत्र स्थिता तया।
युष्मत्कथा- अपराधम् तम् उद्गिरन्त्या स्वयम् पुनः॥१.८.११०॥
सा लक्तकाभिः तिसृभिः कराङ्गुलिभिः आहता।
उरसि अस्मिन् अथ एषा अहम् इह आयाता तत् अन्तिकात्॥१.८.१११॥
तत् श्रुत्वा राजपुत्रम् तम् स्वैरम् मन्त्रिसुतः अब्रवीत्।
मा कार्षीः अन्यथा शङ्काम् अस्याः हि हृदये तया॥१.८.११२॥
सा लक्तकाङ्गुलीमुद्रात्रयम् विन्यस्य युक्तितः।
रजस्वला निशाः तिस्रः स्थिता अहम् इति सूचितम्॥१.८.११३॥
एवम् उक्त्वा नृपसुतम् मन्त्रिपुत्रः त्रि- अहे गते।
पद्मावत्यै पुनः तस्यै वृद्धाम् ताम् प्रजिघाय सः॥१.८.११४॥
सा गता मन्दिरम् तस्याः तया संमान्य भोजिता।
प्रीत्या पान- आदिलीलाभिः दिनम् च अत्र विनोदिता॥१.८.११५॥
सायम् च यावत् सा वृद्धा गृहम् आगन्तुम् इच्छति।
उदभूत् भयकृत् तावत् तत्र कोलाहलः बहिः॥१.८.११६॥
हा हा भ्रष्टः अयम् आलानात् जनान् मथ्नन् प्रधावति।
मत्तहस्ती इति लोकस्य तत्र आक्रन्दः अथ शुश्रुवे॥१.८.११७॥
ततः पद्मावती सा ताम् वृद्धाम् एवम् अभाषत।
स्पष्टेन हस्तिरुद्धेन गन्तुम् युक्तम् न ते पथा॥१.८.११८॥
तत् पीठिकां समारोप्य बद्ध- आलम्बनरज्जुकाम्।
बृहत्गवाक्षेण अनेन त्वाम् अत्र प्रक्षिपामहे॥१.८.११९॥
गृहौद्याने ततः वृक्षम् आरुह्य अमुम् विलङ्घ्य च।
प्राकारम् अवरुह्य अन्यवृक्षेण स्वगृहम् व्रज॥१.८.१२०॥
इति उक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम्।
वृद्धाम् चेटीभिः उद्याने रज्जुपीठिकया ततः॥१.८.१२१॥
सा अथ गत्वा यथा- उक्तेन पथा सर्वम् शशंस तत्।
यथावत् राजपुत्राय तस्मै मन्त्रिसुताय च॥१.८.१२२॥
ततः सः मन्त्रिपुत्रः तम् राजपुत्रम् अभाषत।
सिद्धम् तव इष्टम् मार्गः हि युक्त्या ते दर्शितः तया॥१.८.१२३॥
तत् गच्छ अद्य एव तत्र त्वम् प्रदोषे अस्मिन् नृप आगते।
एतेन एव पथा तस्याः प्रियायाः मन्दिरम् विश॥१.८.१२४॥
इति उक्तः तेन तत्युक्तः राजपुत्रः ययौ सः तत्।
उद्यानम् वृद्धया उक्तेन तेन प्राकारवर्त्मना॥१.८.१२५॥
तत्र अपश्यत् च रज्जुम् ताम् लम्बमानाम् सपीठिकाम्।
मार्गौन्मुखाभिः चेटीभिः उपरिष्टात् अधिष्ठिताम्॥१.८.१२६॥
आरूढः ताम् च दृष्ट्वा एव दासीभिः ताभिः आशु सः।
रज्जूत्क्षिप्तः गवाक्षेण प्रविवेश प्रिया- अन्तिकम्॥१.८.१२७॥
तस्मिन् प्रविष्टे सः ययौ मन्त्रिपुत्रः स्वम् आस्पदम्।
राजपुत्रः तु ताम् पद्मावतीम् तत्र ददर्श सः॥१.८.१२८॥
पूर्णामृताम्शुवदनाम् प्रसरत्कान्तिचन्द्रकाम्।
कृष्णपक्षभयात् गुप्तस्थिताम् राकानिशाम् इव॥१.८.१२९॥
सा अपि दृष्ट्वा तम् उत्थाय चिराउत्सुक्यौचितैः ततः।
कण्ठग्रह- आदिभिः तैः तैः उपचारैः अमानयत्॥१.८.१३०॥
ततः तया सः गान्धर्वविधिन उदूढया सह।
गुप्तम् राजसुतः तस्थौ पूर्णैच्छः तत्र कान्तया॥१.८.१३१॥
स्थित्वा च अहानि कतिचित् रात्रौ ताम् अवदत् प्रियाम्।
सखा मम सहायातः मन्त्रिपुत्रः इति स्थितः॥१.८.१३२॥
सः च अत्र तिष्ठति एकाकी त्वत्ज्येष्ठतरिकागृहे।
गत्वा संभाव्य तम् तन्वि पुनः एष्यामि ते अन्तिकम्॥१.८.१३३॥
तत् श्रुत्वा तम् अवोचत् सा धूर्ता पद्मावती प्रियम्।
हन्त आर्यपुत्र पृच्छामि ताः संज्ञाः मत्कृताः त्वया॥१.८.१३४॥
ज्ञाता किम् किम् उवा तेन सख्या मन्त्रिसुतेन ते।
एवम् उक्तवतीम् एताम् राजपुत्रः जगाद सः॥१.८.१३५॥
न ज्ञातम् तत् मया किम्चित् ज्ञात्वा सर्वम् च तेन मे।
आख्यातम् मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना॥१.८.१३६॥
एतत् श्रुत्वा विचिन्त्य एव भामिनी सा जगाद तम्।
तर्हि अयुक्तम् कृतम् यत् मे चिरात् सः कथितः त्वया॥१.८.१३७॥
सः मे भ्राता सखा यः ते तस्य च प्रथमम् मया।
ताम्बूल- आदिसमाचारः कर्तव्यः हि सदा भवेत्॥१.८.१३८॥
इति उक्तवत्या अनुमतः तया पूर्वपथेन सः।
रजापुत्रः अन्तिकम् तस्य सख्युः आगात् ततः निशि॥१.८.१३९॥
शशंस च कथामध्ये तत् तस्मै यत् तदाश्रयम्।
संज्ञाविज्ञानकथनम् कृतम् तेन प्रिया- अन्तिके॥१.८.१४०॥
मन्त्रिपुत्रः तु सः अयुक्तम् इति न श्रद्दधे अस्य तत्।
तावत् च सा तयोः तत्र विभाता अभूत् विभावरी॥१.८.१४१॥
अथ एतयोः विधौ सांध्ये निवृत्ते कुर्वतोः कथाः।
आगात् पक्वान्नताम्बूलहस्ता पद्मावतीसखी॥१.८.१४२॥
सा मन्त्रिपुत्रम् कुशलम् पृष्ट्वा दत्तौपचारिका।
निषेद्धुम् रजापुत्रस्य भोजनम् तत्र युक्तितः॥१.८.१४३॥
कथा- अन्तरे स्वामिनीम् स्वाम् भोजन- आदौ ततागमम्।
प्रतीक्षमाणाम् आवेद्य क्षणात् गुप्तम् ततः ययौ॥१.८.१४४॥
ततः तम् मन्त्रिपुत्रः सः राजपुत्रम् अभाषत।
कौतुकम् पश्य देव एकम् दर्शयामि अधुना तव॥१.८.१४५॥
इति उक्त्वा भक्ष्यम् एकम् सः पक्वान्नम् दत्तवान् ततः।
सारमेयाय सः च तत् खादित्वा एव व्यपद्यत॥१.८.१४६॥
तत् दृष्ट्वा किम् इदम् चित्रम् इति राजसुतः अत्र सः।
पप्रच्छ मन्त्रिपुत्रम् तम् सः च एतम् प्रत्यभाषत॥१.८.१४७॥
संज्ञाज्ञानेन धूर्तम् माम् विदित्वा हन्तुकामया।
तया विषान्नम् प्रहितम् मम त्वतनुरक्तया॥१.८.१४८॥
न अस्मिन् सति मतेकाग्रः राजपुत्रः भवेत् अयम्।
एतत्वशः च मुक्त्वा माम् नगरीम् स्वाम् व्रजेत् इति॥१.८.१४९॥
तत् मुञ्च मन्युम् एतस्याम् बन्धुत्यागान् महा- आत्मनः।
कुर्याः त्वम् हरणे युक्तिम् वक्ष्यामि आलोच्य याम् अहम्॥१.८.१५०॥
इति उक्तवन्तम् तम् मन्त्रिसुतः राजसुतः अत्र सः।
सत्यम् बुद्धिशरीरः त्वम् इति यावत् प्रशंसति॥१.८.१५१॥
अशङ्कितम् बहिः तावत् दुःख- आकुलजन- आरवः।
हा धिक् राज्ञः सुतः बालः विपन्नः इति शुश्रुवे॥१.८.१५२॥
तदाकर्णनहृष्टः अथ मन्त्रिपुत्रः नृप- आत्मजम्।
जगाद हन्त गच्छ अद्य पद्मावत्याः गृहम् निशि॥१.८.१५३॥
तत्र ताम् पाययेः तावत् यावत् पानमदेन सा।
निःसंज्ञा नष्टचेष्टा च गतजीव इव जायते॥१.८.१५४॥
ततः तस्याः सनिद्रायाः शूलेन अङ्कम् कटीतटे।
दत्त्वा अग्नितप्तेन आदाय तताभरणसंचयम्॥१.८.१५५॥
आगच्छेः त्वम् गवाक्षेण रज्जुलम्बविनिर्गतः।
ततः परम् यथा भद्रम् भवेत् ज्ञास्यामि अहम् तथा॥१.८.१५६॥
इति उक्त्वा कारयित्वा च क्रोडवालनिभ- आश्रिकम्।
मन्त्रिपुत्रः ददौ तस्मै त्रिशूलम् राजसूनवे॥१.८.१५७॥
राजपुत्रः सः हस्ते तत् कृत्वा कुटिलकर्कशम्।
कालायस दृढम् चित्तम् इव कान्तावयस्ययोः॥१.८.१५८॥
तथा इति पूर्ववत् रात्रौ अगात् पद्मावतीगृहम्।
अविचार्यम् प्रभूणाम् हि शुचेः वाक्यम् स्वमन्त्रिणः॥१.८.१५९॥
तत्र ताम् मद्यनिःचेष्टाम् शूलेन जघने अङ्किताम्।
हृतालंकरणाम् कृत्वा तस्य अगात् सख्युः अन्तिकम्॥१.८.१६०॥
दर्शित- आभरणः तस्मै शशंस च यथाकृतम्।
ततः सः मन्त्रिपुत्रः अपि सिद्धम् मेने मनीषितम्॥१.८.१६१॥
प्रातः गत्वा श्मशानम् च सः अभूत् तापसवेषभृत्।
स्वैरम् राजसुतम् तम् च विदधे शिष्यरूपिणम्॥१.८.१६२॥
अब्रवीत् तम् च गच्छ एकम् इतः अलंकरणात् इमाम्।
मुक्ता- आवलीम् समादाय त्वम् विक्रेतुम् इव आपणे॥१.८.१६३॥
बहुमूल्यम् वदेः च अस्याः येन एताम् न एव कः चने।
गृह्णीयात् भ्राम्यमाणाम् च सर्वः कः अपि विलोकयेत्॥१.८.१६४॥
गुरुणा मम विक्रेतुम् इयम् दत्ता इति अनाकुलः।
ब्रूयाः च यदि गृह्णीयुः अत्र त्वाम् पुररक्षिणः॥१.८.१६५॥
इति सः प्रेषितः तेन गत्वा राजसुतः तदा।
अतिष्ठत् आपणे भ्राम्यन् व्यक्तम् मुक्ता- आवलीम् दधत्॥१.८.१६६॥
तथा अभूत् च जगृहे सः दृष्ट्वा पुररक्षिभिः।
दन्तघाटसुतामोषज्ञप्तेः चौरेगवेषिभिः॥१.८.१६७॥
निन्ये च नगराध्यक्षनिकटम् तैः सः तत्क्षणात्।
सः च तम् तापस- आकारम् दृष्ट्वा पप्रच्छ सान्त्वतः॥१.८.१६८॥
कुतः मुक्ता- आवली इयम् ते भगवन् इह हारिता।
दन्तघाटककन्यायाः हृतम् हि आभरणम् निशि॥१.८.१६९॥
तत् श्रुत्वा राजपुत्रः तम् सः अवादीत् तापस- आकृतिः।
गुरुणा मम दत्ता इयम् एत्य असौ पृच्छ्यताम् इति॥१.८.१७०॥
ततः च उपेत्य तम् नत्वा पप्रच्छ नगराधिपः।
मुक्ता- आवली इयम् भगवन् कुतः ते शिष्यहस्तगा॥१.८.१७१॥
श्रुत्वा एतत् विजनम् कृत्वा सः धूर्तः तम् अभाषत।
अहम् तपस्वी भ्राम्यामि सदा अरण्येषु इतः ततः॥१.८.१७२॥
सः अहम् दैवात् इह प्राप्तः श्मशाने अत्र स्थितः निशि।
अपश्यम् योगिनीचक्रम् समागतम् इतः ततः॥१.८.१७३॥
तत्मध्ये च एकया आनीय योगिन्या राजपुत्रकः।
उद्घाटितहृतम्भोजः भैरवाय निवेदितः॥१.८.१७४॥
पानमत्ता च सा हर्तुम् जपतः मे अक्षमालिकाम्।
प्रावर्तत महामाया विकारान् कुर्वती मुखे॥१.८.१७५॥
अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा॥१.८.१७६॥
हृता मुक्ता- आवली च इयम् तस्याः कण्ठात् मया तदा।
सा एषा अद्य तापसानर्हा विक्रेया मम वर्तते॥१.८.१७७॥
एतत् श्रुत्वा पुराध्यक्षः गत्वा भूपम् व्यजिज्ञपत्।
भूपः अपि आकर्ण्य तत् ताम् च बुद्ध्वा तत्मौक्तिक- आवलीम्॥१.८.१७८॥
प्रेक्षणप्रेषित- आयातवृद्ध- आप्तवनितामुखात्।
श्रुत्वा च दृश्यशूलाङ्काम् जघने सत्यम् एव ताम्॥१.८.१७९॥
ग्रस्तः सुतः मे डकिन्या तया इति उत्पन्ननिश्चयः।
स्वयम् तस्य अन्तिकम् गत्वा मन्त्रिपुत्रतपस्विनः॥१.८.१८०॥
पृष्ट्वा च निग्रहम् तस्याः पद्मावत्याः सः तत्गिरा।
पितृभ्याम् शोच्यमानायाः पुरात् निःवासनम् व्यधात्॥१.८.१८१॥
निर्वासिता- अटवीस्था सा विग्ना अपि न जहौ तनुम्।
उपायम् मन्त्रिपुत्रेण तम् संभाव्य तथा कृतम्॥१.८.१८२॥
दिनान्ते ताम् च शोचन्तीम् अश्व- आरूढौ उपेयतुः।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृप- आत्मजौ॥१.८.१८३॥
आश्वास्य आरोप्य तुरगे स्वराष्ट्रम् निन्यतुः च ताम्।
तत्र तस्थौ तया साकम् राजपुत्रः सः निर्वृतः॥१.८.१८४॥
दन्तघाटः तु अरण्ये ताम् क्रव्यादैः भक्षिताम् सुताम्।
मत्वा व्यपादि शोकेन भार्या च अनुजगाम तम्॥१.८.१८५॥
इति आख्याय सः भूयः तम् वेतालः नृपम् अब्रवीत्।
तत् मे अत्र संशयम् छिन्द्धि दंपत्योः एतयोः वधात्॥१.८.१८६॥
मन्त्रिपुत्रस्य किम् पापम् राजपुत्रस्य किम् नु वा।
पद्मावत्याः किम् अथ वा त्वम् हि बुद्धिमताम् वरः॥१.८.१८७॥
जानानः च न चेत् राजन् मम तत्त्वम् वदिष्यसि।
तत् एषः शतधा मूर्धा निःचितम् ते स्फुटिष्यति॥१.८.१८८॥
इति उक्तवन्तम् वेतालम् विजानन् शापभीतितः।
सः त्रिविक्रमसेनः तम् एवम् प्रत्यब्रवीत् नृपः॥१.८.१८९॥
योग- ईश्वर किम् अज्ञेयम् एतत् न एषाम् हि पातकम्।
त्रयाणाम् अपि राज्ञः तु पापम् कर्णोत्पलस्य तत्॥१.८.१९०॥
वेतालः अपि आह राज्ञः किम् ते हि तत्कारिणः त्रयः।
काकाः किम् अपराध्यन्ति हंसैः जग्धेषु शालिषु॥१.८.१९१॥
राजा ततः अब्रवीत् च एनम् न दुष्यन्ति त्रयः अपि ते।
मन्त्रिसूनोः हि तत् तावत् प्रभुकार्यम् अपातकम्॥१.८.१९२॥
पद्मावतीराजपुत्रौ तौ हि कामशराग्निना।
संतप्तौ अविचारार्हौ अदोषौ स्वार्थम् उद्यतौ॥१.८.१९३॥
कर्णोत्पलः तु राजा सः नीतिशास्त्रेषु अशिक्षितः।
चरैः प्रजासु अनन्विष्यन् तत्त्वशुद्धिम् निजासु अपि॥१.८.१९४॥
अजानन् धूर्तचरितानि इङ्गित- आदि- अविचक्षणः।
तथा तत् निःविचारम् यत् चक्रे तेन सः पापभाक्॥१.८.१९५॥
इति आकर्ण्य विमुक्तमौनम् उदिते सम्यङ् नृपेण उत्तरे
स्कन्धात् तस्य सः दार्ढ्यम् आकलयितुम् मायाबलात् तत्क्षणम्।
वेतालः नृकलेवरान्तरगतः क्व अपि अप्रतर्क्यः ययौ
निःकम्पः सः च भूपतिः पुनः अमुम् प्राप्तुम् व्यधात् निःचयम्॥१.८.१९६॥


इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शाङ्कवतीलम्बकेऽष्टमस्तरङ्गः ।

मुकुटोपरि टिप्पणी

तुलनीय - भविष्यपुराणम् ३.२.१

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_01&oldid=108002" इत्यस्माद् प्रतिप्राप्तम्