वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-९
← वैयाकरणसिद्धान्तमञ्जूषा-८ | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-९ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-१० → |
अथ सनाद्यर्थविचारः
अथ धातुप्रकृतिकसनाद्यर्थो निरूप्यते
'पिपठिषति' इत्यादौ सनर्थः = इच्छा । तत्र धात्वर्थस्य कर्मत्वसमानकर्त्तृ कत्वैतदुभयसम्बन्धेनान्वयो व्यत्पत्तिवैचित्र्यात्, "धातोः कर्मणः समानकर्तृकादिच्छायां वा" [ 3।1।7 ] इति सूत्रस्वरसाच्च । पुनः पुनरतिशयेन वा पचति 'पापच्यते' इत्यादौ यङा तु प्रकृत्यर्थगतं पौनः पुन्यं बाहुल्यं वा बोध्यते । क्वचित् कौटिलयगर्हाद्यपि "नित्यं कौटिल्ये गतौ" [ 3।1।23], "लुपसदचर" [ 3।1।24 ] इत्यादितत्तच्छास्त्रप्रामाण्यात् ।'श्वा मुमूर्षति' इत्यादौ आशङ्का सनर्थः, श्वकर्तृकमाशङ्काविषयो मरणमति बोधः । एवमेव 'कूलं पिपतिषति' इत्यत्रापि ।
इच्छारोपेण प्रत्यय इति मते पूर्वोक्तार्थः पश्चन्मानसबोधविषयः । तत्र चेदृशसमभिव्याहार एव कारणम् । 'पाचयति' इत्यादौ णिजर्थः प्रेरणेत्याद्यूह्यम् ।
इति सनाद्यर्थविचारः ।