वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-४

← वैयाकरणसिद्धान्तमञ्जूषा-३ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-४
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-५ →

अथ धात्वर्थविचारः

अथ सकलशब्दमूलभूतत्वाद् धात्वर्थो निरुप्यते ।

अत्र ?0प्राभाकराः?01[Fn अत्र मीकांसकेषु मण्डनमिश्राः -- फलमेव धात्वर्थः, अनुकूलव्यापारस्तु आख्यातार्थ, लडाद्यर्थवर्त्तमानत्वादीनां व्यापारेऽन्वयः, एकपदोपात्तत्वात् । फलसयाख्यातार्थव्यापारं प्रति विशेषणत्वम् इति ।
अन्ये मीमांसकास्तु व्यापारमात्रं धात्वर्थः, फलं च द्वितीयार्थ इति मन्यन्ते ।
नव्यमीमासकाश्च -- फलव्यापारौ धात्वर्थः । उभयत्र खण्डश एकाशक्तिः । तत्र जन्यजनकभावः संसर्गः । व्यापारमुख्यविशेष्यकश्चबोधः, तत्रैव कर्मातिरिक्तकारकाणामन्वयः, कर्मकारकस्यच कर्तृपदसमभिव्याहारे फलेऽन्वय इत्याहुः ।
नैयायिकास्तु -- फलव्यापारौ धात्वर्थः, आख्यातार्थः कृतिः, प्रथमान्तार्थमुख्यविशेष्यकश्च शाब्दबोध इतयामनन्ति ।
अत्र प्राचीनवैयाकरणाः --- "फलव्यापारयोर्धातु" इति द्विवचने फलनिरुपिता व्यापारनिरूपिता च धातोः पृथक् शक्तिः, अत एव फले स्तोकादिरूपकर्मणोऽभेदेन ग्रामादिरूपकर्मणश्च भेदेनान्वयः । विशिष्टे शक्तिस्वीकारे पदार्थैकवशत्वे फले कर्माद्यनन्वयापत्तिः ।
नागेशभट्टास्तु -- फलविशिष्टव्यापारे, व्यापारशिष्टफले च धातूनां शकतिः, अन्यथा व्यापारोद्दे श्यकफलविधेयकस्यफलोद्देश्यकव्यापारविषेयकस्य बोधापत्तिः, उद्देश्यविधेयबावेनान्वयप्रयोजिकायाः पृथगुपस्थितेः सत्त्वात् । फलावच्छिननव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणमिति न सर्वत्र समवोधप्रसङ्गः इति । ] -- फलमेव धात्वर्थः, भावना तु वाच्यैव न, तद्विषयकशाब्दबोधस्य विवादग्रस्तत्वात् । लिङ्येव परं सा आख्यातवाच्या । किं करोतीति कीदृशो यत्न इत्यर्थकप्रश्ने 'पचति' इत्युत्तरं तु पाकवाचकधातोस्तद्विषयत्वे लक्षणयाप्युपपन्नम् । कर्ममात्रविषयके 'किं करोति' इति प्रश्ने च पाकमात्रविषयकमुत्तरमप्युपपन्नम् । 'पाकं करोति' इति विवरणमपि अशब्दार्थकर्मत्वविरणवदुपपन्नमिति न तद् भावनावाच्यत्वसाधकम् ।

कॢञ्च, 1 [Fn ख. 'स्वाश्रयकृतिजन्यत्वसम्बन्धेन चैत्रः पाके विशेषणम्' इति पाठः । ]स्वजनककृति[मत्त्व]सम्बन्धेन पाकश्चैत्रे विशेषणम् । एवञ्च संसर्गघटककृतेरेव तद्विवरणम् । अन्यथा द्वितीयाख्याताभ्यां कर्मत्वाश्रयत्वयोरपि विवरणेन तयोरपि वाच्यतापत्तेः । धात्वर्थप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेरेव च हेतुत्वम् । अन्यथा "धत्वार्थप्रकारकबोधे तिबादिजोपस्थितिर्हेतुः, तिबाद्यर्थेबोधे च प्रथमान्तपदजन्योपस्थितिः" इति कार्यकारणभावद्वयम्, आख्यातस्य शक्तिश्च कल्प्येत्यतिगौरवं स्यात् ।

अबेदातिरिक्तसंसर्गकनामार्थप्रकारकपोधेनिपातसुबादिजोपस्तितेर्हेतुत्वान्न 'तण्डुलः पचति' इत्याद्यापत्तिः । आक्यातार्थस्तु सङ्ख्याकालावेव, कारकान्वयो धात्वर्थफल एव, 'काण्ठैः पाकः' इति त्विष्यत एवेत्याहुः, तत्, न ; कृञोऽपि यत्नमात्रार्थकत्वे यतिवदकरमतापत्तेः ।

कॢञ्च, कर्मस्थक्रियत्वाभावात् कर्मकर्त्तरि यागादिकं न स्यात् । उत्पत्तेः कृञर्थत्वेऽप्युत्पद्यत इतिवदकर्मकतापत्तिः । कॢञ्च, धातीनां फलमात्रार्थकत्वे सकर्मकाकर्मकत्वविभागोच्छेदः ; कॢञ्च, 'ग्रामो - गमनवान्' इति प्रतीत्यापत्तिः । अपि च पाकानुकूलव्यापारारम्भेऽपि फलानुत्पत्तिदशायाम् 'पाको भवति' इत्यनापत्तिः,'ग्रामचैत्रयोर्मिथः संयोगः' इतिवन्मिथो गमनमित्यापत्तिश्च, व्यापारविगमे फलसत्त्वे 'पाकोऽभूत्' इत्यनापत्तिश्चेति1 [Fn ख. 'व्याप्र .... अनापत्तिश्च' इति नास्ति । किञ्च, 'भावप्रधानमाख्यातम्' इति निरुक्ते प्रतिपादितस्याख्यातलक्षणस्य 'पचति' इत्यादावव्याप्तिः, धात्वर्थफलस्यैव धात्वर्थरूपक्रियात्वाङ्गीकारेम
विशेष्यत्वाङ्गीकारे तु 'चैत्रः पचति' इत्यादौ बेदसम्बन्धेन नामार्थस्य धात्वर्थेऽन्वयो न स्यात्, उक्तयुक्तेः -- इत्यधिकश्च पाठोऽसति । ] दिक् ।

?0 यत्तु मण्डनमिश्रमतानुयायिनः?0 -- फलमेव धात्वर्थः, व्यापारः प्रत्ययार्थः, प्रत्ययार्थव्यापारव्यधिकरणफलवाचक्वं सकर्मकत्वम् । तत्समानाधिकरणफलवाचकत्वञ्चाकर्मकत्वम् । कर्मत्वमपि प्रत्ययार्थव्यापारव्यधिकरणधात्वर्थाश्रयत्वमेव । 'घटं भावयति' इत्यादावपि णिच्प्रत्यार्थव्यापारव्यापारव्यधिकरणोत्पत्त्याश्रयत्वेन घटादेः कर्मत्वम् । अन्तर्भावितण्यर्थेऽपि प्रत्ययस्यैव णिजर्थे लक्षणेति न दोषः । प्रत्ययार्थव्यापारश्रयत्वेमेव कर्तृत्वम् । अत एव 'घटं भावयति' इत्यादौ कर्मणोऽपि घटस्य 'घटो भवति ' इत्यादौ कर्तृत्वमेव । णिचः प्रयोजकव्यापारार्थकत्वेऽपि 'भवति' इत्यादावाख्यातस्य कर्तृव्यापारमात्रार्थकत्वात् ।

एवञ्च कालस्य स्ववाचकाख्यातवाच्यव्यापारान्वितत्वमपि लभ्त इत्यपरमनुकूलम् । 'जानाति' इत्यत्रापि लभ्यत इत्यपरमनुकूलम् । 'जानाति' इत्यात्रापि ज्ञानजनकमनः स्योगरूपप्रत्ययार्थव्यापारेएव तदन्वयोन धात्वर्थे । भावविहितघञादीनां व्यापारवाचकत्वाच्च न 'ग्रामो गमनवान्' इत्याद्यापत्तिः । घ़ञर्थभावनान्वयादेव 'ओदनस्य पाकः' इत्यादौ कारकविभक्तयः । कर्तृकर्मकृताञ्च कारकभावनोभयवाचकत्वात् 'ओदनस्य पक्ता' इत्यादावपि न कारकान्वयानुपपत्तिः ।
नन्वेवं जानातेः सकर्मकत्वानापत्तिः, धात्वर्थज्ञानव्यधिकरणव्यापारस्य देवदत्तादौ बाधादिति चेत्, न ; फलतावच्छेदकविषयतासम्बन्धेन ज्ञानानधिकरणवृत्तित्वरूपस्यैव वैयधिकरण्यस्य व्यापारे सत्त्वेनाक्षतेः । अन्यथा कालिकादि सम्बन्धेन सर्वेषामेव फलसमानाधिकरणव्यापारवाचित्वेन बहूपप्लवः स्यात् ।

न च व्यापारस्य धात्वर्थत्वे क्रियावाचकत्वे सति गणपठितत्वरूपधातुत्वानुपपत्तिः । तत्र हि क्रियात्वं न व्यापारत्वम्, किनत्वाख्यातार्थनिरूपितजनकतानाश्रयत्वे सति लिङ्गसङ्ख्याद्यनन्वयित्वम्, अतो न दोषः । धात्वर्थत्वमेव वा तत् । न चान्योन्याश्रयः, यतो न प्रागुक्तं धातुत्वम्, क्रियात्वस्यैकक्याभावेनाननुगमात् । किन्तु सञ्ज्ञाविशेषः । सञ्ज्ञीशब्दाश्च जातिशब्दा एवेति जातिविशेष एव तत् ।

?0यद् वा?0, सङ्केतविशषसम्बन्धेन धातुशब्दवत्त्वमेव तत् । तत्परिचायकञ्च 'भूवादि' सूत्रम् । न च व्यापारस्याख्यातार्थत्वे 'क्रियाप्रधानमाख्यातम्' इति यास्कविरोधः । तत्र ह्याख्यातशब्देनाख्यायते सर्वप्रधानीभूतोऽर्थोऽनेनेति व्युत्पत्त्या धातुरूपमुच्यते । 'नामाख्यातोपसर्गनिपाताः' इति प्रकृतीनामेव तत्रोद्देशात्, अग्रेऽपि तत्र 'नामान्याख्यातजानि' इति शाकटायनो नैरुक्तसमयश्चेति उक्तत्वात्1 [Fn शब्दशास्त्रे आख्यातशब्देन क्वचित् धातोः, क्वचिच्च तिङन्तस्य ग्रहणम्, व्युत्पत्तिबलात् । ] ।

न ह्याख्यातप्रत्ययजं नाम सम्भाव्यते, किन्तु धातुजमिति वाच्यम्, आख्यातशब्देन । तिङन्तस्यैव ग्रहणात्, तत्र 'एतन्नामाख्यातयोर्लक्षणम्' इत्युपक्रम्य 'भावप्रधानमाख्यातम्' इति यास्कोक्तेः । त्वद्रीत्या हि धातुलक्षणस्य कृत्प्रकृतिभूतवातावव्याप्त्यापत्तिः । अत एव भाव - काल - कारक - सङ्ख्याश्चत्वारोऽर्था आख्यातस्य । तत्र 'भाव प्रधानम्' इति तद्भाष्यं सङ्गच्छते । कारकस्याख्यातार्थत्वकथनं च तदर्थाक्षिप्तत्वमात्रेण । अत एव 'देवदत्तः पचति' इत्यादौ सामानाधिकरण्योपपत्तिः । नामाख्यातोपसर्गेत्यत्र च धातुप्रकृतिकप्रत्ययान्तनामसाहचर्येणाख्यातस्यापि तादृशस्यैव ग्रहणमुचितम् ।

अत एव ?0भाष्ये ?0"प्रर्शसायां रूपप्" [5 । 3 । 66] इति सूत्रे 'पचतिरूपम्, पचतोरूपम्, पचन्तिरूपम्' इत्याद्यसिद्धिमाशङ्क्य 'क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नाम, यतः क्रियां पृष्टस्तिङाचष्टे -- किं देवदत्तः करोति
? पचतीति द्रव्यं पृष्टम्, कृताचष्टे कतरो देवदत्तः, यः पाचकः' इत्युक्तं सङ्गच्छते । उपसर्गनिपातयोस्तुद्योतकत्वादक्रियासमभिव्याहारवशाच्च पृथगुक्तिः ।

नामान्याख्यातजानीति तु लक्षणयाऽगत्या धातुपरम् । 'पच्यते तण्डुलः' इत्यादौ तण्डुलादेः स्वनिष्ठफलजनकत्वेन सम्बन्धेन व्यापारे एवान्वयः । एत एवौत्सर्गिकं प्रत्यार्थप्राधान्यमप्यनुगृहीतं भवतीति प्राहुः, तत्, न ; 'पचति, पक्ष्यति, पक्ववान्' इत्यादौ फूत्कारादीनां प्रतीतये तत्रानेकप्रत्ययानां शक्तिकल्पनापेक्षयैकस्य धातोरेव श्कतिकल्पनाया उचितत्वात् ।

किञ्च, फूत्कारादेः प्रत्ययार्थत्वे 'गच्छति' इत्यादावपि तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारः कारणं वाच्यमिति पचेरेव सा युक्ता । कॢञ्च, अस्त्यादौसत्ताद्येव व्यापारः, अवच्छेदकतारूपा व्याप्तिः फलम् । अत एव 'मासमस्ति' इत्यादौ मासादेः कर्मत्वमिति भाष्यादौ स्पष्टम् । तथा च तत्र सत्तांशे क्लृप्तधातुशक्तित्यागे, अक्लृप्तप्रत्ययशक्तिकल्पने च महद् गौरवम् ।

किञ्च, 'चैत्रेण सुप्यते' इति भावार्थकलकारे प्रत्ययस्य कालातिरिक्तार्थाभावेन चैत्रस्य कर्तृत्वानापत्तेः । 'क्रियाप्रधानम्' इत्याख्यातलक्षणाव्याप्तिश्च । अपि च, 'गुरुः शिष्याभ्यां पाचयति' इत्यद्यनापत्तिः । तत्र हि प्रयोजकव्यापारस्य पिजर्थत्वे स्थते प्रयोज्यव्यापाल आख्यातार्थो वाच्यः ।

एव़्च सङ्ख्यायाः स्ववाचकाख्यातार्थव्यापारेऽन्वयिन्येवान्वयात् शिष्याभ्यां द्विवचनानापत्तिः, 'पाचयति' इत्येकवचनानापत्तिर्वा, गुरोरनभिधानेन तत्र प्रथमाया अनापत्तेश्च, शिष्यशब्दात् तदापत्तेश्च, णिर्थव्यापारस्याख्यातार्थप्रयोज्यव्यापारं प्रति प्रकृत्यर्थत्वात् प्राधान्यानापतिश्च ।


न च तत्र फलं धात्वर्थः, व्यापारानुकूलप्रयोजकव्यापारो ण्यर्थः । तत्र फलस्यानुकूलतयाद्यव्यापारेऽन्वयः, तिङस्तु कालसङ्ख्ये प्रयोजकव्यापारश्चार्थः, 'द्वौ' इत्यादिवन्न बोधावृत्तिः, प्रधानत्वात् "लः कर्मणि"[3।4।69] इत्यादिसौत्रानुवादबलाच्च प्रयोजकव्यापारेणैव धर्मिण आक्षेपः, "अनभिहिते" इत्यादेश्च शक्त्याक्षेपसाधारणाबोधित इत्येवार्थ इति न दोष इति वाच्यम्, "हेतुमति च" [ 3।1।26 ] इति सूत्रेण तथाऽलाभात् । अस्मद्रोत्याऽक्लेशेनैव सकलसामञ्जस्ये क्लिष्टकल्पनानुपयोगादिति दिक् ।

?0यत्तु प्राचीननैयायिकाः?0 --- धातोः केवलव्यापार एव शक्तिः, फलं कर्मप्रत्ययार्थः, कर्मप्रत्ययापेक्षया बहूनां धातूनां फले शक्तिकल्पनस्य गुरुत्वात् । किञ्च, धातोः फलबोधकतामते नामार्थधात्वर्थयोराश्रयतासम्बन्धेन साक्षादन्वयासम्भवेन फलाश्रयत्वस्य प्रत्ययार्थत्वमभ्युपगत्य कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानक्ल्पनेन गौरवम् । फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं सम्बन्ध इति लाघवम् । संयोगरूपफलभाने 'गम्' समभिव्याहारस्य, विभागभाने 'त्यजि' समभिव्याहारस्य च कारणत्वान्न 'ग्रामं गच्छति, त्यजति' इत्यनयोर्विभागसंयोगबोधकत्वम् ।

न चैवं त्यागो गमनमित्यनयोरविशेषापत्तिः, एकस्या एव सयोगविभागजनकत्वादिति वाच्यम्, अनादितात्पर्यवशेन कर्मपदासमभिव्याहृततादृशप्रयोगे विभागाद्यवच्छिन्ने व्यापारे धातोर्लक्षणस्वीकारेणादोषात् । स्वान्विप्रत्ययार्थफलव्यधिकरणव्यापारवाचित्वं सकर्मकत्वम् । कर्मत्वञ्च धात्वर्थन्वितप्रत्ययबोध्यफलत्त्वमेव । अकर्मकत्वञ्च तदभाव एव कर्मणि तादृशफलकृतविशेषवत्त्वमेव ।

कर्मस्थत्वं क्रियाया इति क्रियत इत्यादौ कर्मकत्र्तरि यगादिसिद्धिः । सविषयकधातुस्थले विषयितयान्वयित्वमेव1 [Fn ख. 'विषयित्वमेव सकर्मकत्वम्' इति पाठः । ] सकर्मकत्वम् । अत एव 'करोति' 'जानाति' इत्यादेः कर्मणि प्रत्ययः । यतिस्तु न सकर्मकः, यतस्तदुपस्थापितयत्ने विषयत्वेन नान्वयः, किन्दूद्दे श्यत्वेनैवेति न दोषः ।

अत एवाभुञ्जानेऽपि 'भोजनाय यतते' इति प्रयोगः । फलान्वितस्वार्थबोधक्तवं च गम्यादेः स्वभावाधीम् । तदभावात् स्पन्दिप्रभृतिष्वकर्मकत्वव्यवहार इति । तत्, न ; गत्यर्थादिकर्मणि1 [Fn गत्यर्थकर्मणि द्वितीयाचतुथ्यौ चेष्टायामनध्वनि [ 2।3।12 ] ] द्वितीयाचतुर्थ्योर्विधानेन, 'ल्यब्लोपे कर्मणि' [ वा. 2।4।31 ] प़्चम्या विधानेन 'क्तेस्येन्विष्यस्य कर्मणि' [वा. 2।3।36 ] इति सप्तम्या विधानेनानेकसुपां तिङा़ञ्च फले शक्तिकल्पनापेक्षया फलविशेषबोधे तत्तद्धातुसमभिव्याहारस्य कारणत्वकल्पनापेक्षया च धातोरेव फलेऽपि शक्तिकल्पनाया उचितत्वात् ।

मम तु कर्मविहितप्रत्ययजन्याश्रयबोधे धातुजनयफलोपस्थितिर्हतुरित्येक एव कार्यकारणभावः । 'ग्रामो गम्यते स्वयमेव' इतयादिकर्मकर्तृप्रयोगानुरोधेन फलस्यापि धातुवाच्यत्वावश्यकत्वाच्च, 'ग्रामध्यास्ते' इत्यादावाश्रयस्य द्वितीयार्थतया क्लृप्तत्वाच्च । एवञ्च द्वीतीयाया नानार्थत्वापत्तिः । किञ्च, 'या, गमि' फ्रभृतीनामिव 'त्यजि, गमि' प्रभृतीनामपि पर्यायतेति भ्रमदशायाम्, 'याति, 'गच्छति' इतयादिवत् 'त्यजति, गच्छति' इत्यादितोऽप्यविलक्षणबोधोत्पत्त्या धातुविशेषसमभिव्याहारस्य फविशेषबोधनियामकताकल्पनायना असम्भवः ।न च'ग्रामं गच्छति' इति वाक्यज्ञानघटितसामग्र्याः समानविषयकानुमित्यादिप्रतिबन्धकतायां फलडनकत्वनिष्ठप्रकारतानिरूपितव्यापारविशेष्यताकधातुजन्योपस्थितेर्निवेश्यतया तस्यास्तादृशविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामग्रीप्रतिबन्धकताधिक्यमवच्छेदकगौरवञ्च ।

?0मन्मते?0 द्वितीयाजन्यफलोपस्थितेः सामग्र्यन्तर्निवेशश्च भवन्मतसिद्धतज्जन्योपस्थितिस्थानीय इति न गौरवमिति वाच्यम्, धातोः फलावच्छिन्नव्यापारे द्वितीयायाश्चाश्रयत्वे शक्तिभ्रमवतो लाक्षणिकत्वग्रहवतश्च 'ग्रामं गच्छति' इत्यादिशाब्दसामग्रयां तादृशानुमित्यनुदयेन तदनुरोधात् तादृशप्रतिबन्ध्यप्रतिबन्धकभावस्य तवाप्यावश्यकत्वात् । किञ्च, 'विष्णुं यजते, विष्णुर्यष्टव्यः' इत्यादौ चतुर्थ्यर्थविहितद्वितीयादेरुद्देश्यत्वेनैवान्वयबोधकत्वाद् यतिवद् यजेरप्यकर्मकत्वापत्तिः, विष्णोर्धात्वर्थकर्मत्वाभावेन तस्मिन कर्मणि लतव्यादीनामनापत्तिश्च । उद्देश्यताख्याविषयतया विष्णुर्यागविषय इति चेत्, भोजनमपि यत्यर्थस्य तथेति तस्यापि सकर्मकत्वापत्तिः । किञ्चैवम् 'भोजनाय क्रियते' इत्यत्र भोजनमिति स्यात् , यतिवत् कृञोऽप्यकर्मकतापत्तेश्च । न चाकर्मकभिन्नत्वं सकर्मकत्वम् । तत्र च प्रयोगानुरोधात् कृञ्जानात्यादिभेदो न निवेश्य इति वाच्यम्, सकर्मकाणामप्यर्थन्तरेऽकर्मकत्वेनासम्भवापत्तेः । तुल्ययुक्त्याऽकर्मत्वमपि सकर्मकान्यत्वमेव वाच्यम्, अन्यादृश्स्य तस्य दुर्वचत्वात् । एव़ञ्चान्योन्याश्रयापत्त्या "लः कर्मणि" [ 3।4।69 ] इत्यादेर्बोधकत्वानापतिः ।

किञ्च, प्रत्ययार्थव्यधिकरणेत्यादिप्रागुक्तसकर्मकलक्षणं कर्मलक्षण़्च 'घटं भावयति, एधयति' इत्यादिण्यन्तसकर्मकेषु तत्कर्मणि चाव्याप्तम् । तत्र फलस्यान्वयव्यतिरेकाभ्यां धातुलभ्यत्वेनान्यलभ्यत्वाद् गौरवच्च प्रत्ययार्थत्वासम्भवादिति दिक् ।

तस्मात् फलानुकूलो व्यापारो धात्वर्थः । द्वितीयार्थाश्रयान्वयस्तु "कर्मणि द्वितीया" [ 2।3।2 ] इत्याद्यनुशासनाद् व्युत्पत्तिवैचित्र्याच्चैकदेशेऽति फले । एतेन 'गमनं न व्यापारः' इति प्रयोगः स्यादित्यपास्तम्, व्यापारभेदस्यैकदेशे फलेऽन्वये व्युत्पत्त्यभावात्1 [Fn ख. 'नञर्थस्य समभिव्याहृतपदजन्यप्रतीतिविशेष्य
एवान्वयानुत्पत्तेः' इत्यधिकः पाठः । ] अस्तु वा -- फलव्यापारयोः पृथगेव शक्तिः । तत्र फलांश उत्सर्गतो व्यापारं प्रति विशेषणम्, जन्यत्वं संसर्गः प्रायेण । क्वचित् तु विषयत्वं संसर्गः । ?0यथा पश्यत्यादे?0स्तत्पर्वकदर्शने वृत्तिः । एवमन्येऽपि सम्बन्धा यथायथमूह्याः ।

फलत्वञ्च कर्तृ प्रत्ययसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वम् । एकपदोपस्थाप्ययोरपि कृतीष्टसाधनत्वयोः परस्परान्वयस्य परैरप्यङ्गीकारात् । कर्मप्रत्ययसमभिव्याहारे तु विशेष्यताऽपि । तत्रान्तरङ्गत्वात् फलमादौ व्यापारविशेषणतामनुबूयैवार्थान्तरेणान्वयि । अत एव 'गमनं न स्पन्दः' इति नः, तञः समभिव्याहृतपदजन्यप्रतीतिविशेष्य एव स्वार्थान्वयव्युत्पत्तेरौत्सर्गिकत्वात् । कर्मकारकातिरिक्तसर्वकारकाणां व्यापारेऽन्वयः साक्षात् परम्परया वा, कर्मणस्तु फले । न च कारकाणां भावनान्वयनियमविरोधः, धात्वर्थस्यैव भावनात्वात् । अस्तु वा---तस्यापि फलद्वारा व्यापार एवान्वयः । व्यापारश्च फूत्कारादिः । अत्र क्रियाशब्दस्य सांकेतिकी शक्तिः,
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभीधीयते ।।
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।।
इति भूवादि [ 1।3।1 ] सूत्रस्थाभाष्यार्थप्रतिपादकहरिग्रन्थात् क्रमजन्मनामेषां व्यापाराणां समूहः स्वभावतो गुणभूतैः = ततद्रूपेण भासमानैरवयवैर्युक्तः सङ्कलनात्मिकयैकत्वबुद्ध्या प्रकल्पिताभेदः क्रियते व्यवह्रियत इति द्वितीयकारिकार्थः । 'पचति' 'पक्ष्यति ' इत्यादावसिद्धम्, 'अराक्षीत्' इत्यादौ सिद्धं वा साध्यत्वेनाभिधीयमां क्रिया । आश्रितेति योगप्रदर्शनम् । क्रियते = अवयवानां क्रमेणोत्पत्त्या क्रमेणोत्पाद्यते इति क्रियत्यर्थः ।

तत्र सिद्धत्वम् -- उद्देश्यत्वावधित्वाभ्यामन्वययोग्यतावच्छेदकम् । लिङ्गाद्यन्वययोग्यतावच्छेदक़्च यद्वैजात्यम्, तद्रूपम् । इदमेव च क्रियान्तराकाङ्क्षोत्थापकतावच्छेदकम् । साध्यत्व़्च पूरवापरीभूतवयवत्वसमानाधिकणं कारकान्वयादियोग्यतावच्छेदकं यद्वैजात्यम्, तदूपम् । तत्र सिद्धत्वम् 'पाकः' इत्यादौ घञा बोध्यते, साध्यत्वं तु सर्वत्रैव धातुप्रतिपाद्यम् ।

?0यत्तु?0, उद्देश्यत्वादिनानन्वयित्वं लिङ्गाद्यनन्वयित्वं साधनत्वेनानन्वयित्वं क्रियीन्तराकाङ्क्षानुत्थापकताच्छेदकपरूपवत्त्वं वा साध्यत्वम् । तत्द न बोधे भासते, 'साध्यत्वेनामिधीयते' इत्युक्त्या तत्प्रकारकबोधस्य प्रतिपादनात्, लिङ्गाद्यनन्वयित्वमेव कुतः इति प्रश्ने तन्नियामकवैजात्याङ्गीकारस्यावश्यकत्वाच्च ।

?0यत्तु?0, उत्पाद्यमानत्वरूपं तद्भासते, अतएव क्रियाया न करमत्वेनान्वयः, उत्पन्नस्यैव लोके करमत्वदर्शनादिति । तत्, न ; 'जायमानेन पाकेन वैरं कृतम्' इत्याद्यनापत्तेः, 'ज्योतिष्टोमेन यजेत' इत्याद्यनापत्तेश्च, 'कृष्णं नमेच्चेत् सुखं यायात्' 'भुक्त्वा तृप्यति' 'मानिनीं नत्वा मृदयति' इत्यादावसिद्धस्य साधनत्वेनान्वयाच्च । मम तु न दोषः, तादृशवैजात्येन तत्र फलांशाभावात् । व्यापारमात्रवृत्त्येव वा तद्वैजात्यम् । स व्यापार एव भावनेत्युच्यते । न च धातुतः क्रियान्तराकाङ्क्षाभावेनान्वयो न स्यादिति, वाच्यम्, यच्छब्दचेच्छब्दसमभिव्याहारप्रयुक्तकाङ्त्रोत्थानात् । 'भुवत्वा' इत्यत्रापि धातुसम्बन्धे विधीयमानक्त्वासमभिवयाहारात् सा । 'पचति भवति' इत्यादौ पचतीत्यसयाकाङ्क्षाभावेऽपि भवतीत्यादेः कर्त्राद्यपेक्षत्वाद्योग्यतावशादन्यतराकाङ्क्ष्येवान्वयेनादोषात् । तत्र सकलसाधारणक्रियात्वं जातिः शक्यतावच्छेदिका । सकलसाधारणधातुत्वमेव शक्ततावच्छेदकम्, फलं विक्लितित्वादि तत्तद्रूपेण वाच्यम् । पचित्वादि च शक्ततावच्छेदकम् । तत्तद्रूपेण बोधस्तु तथा बोधे तत्तत्समभिव्याहारस्य कारणत्वेन निर्वाह्य इति प्ऱ्चः ।

नव्यास्तु -- फूत्कारादिर्व्यापारः फूत्कारत्वाधः सन्तापनत्वादितत्तद्रूपेणैव वाच्यः, तथैव बोधानुभवात्, सकलसाधारणानुगतैकधर्मान्तरस्य वक्तुमशक्यत्वाच्च । न च विक्लित्याद्यनुकूलत्वं तथा, करणव्यापारस्यापि धात्वर्थापत्तावेकसञ्ज्ञाधिकारेम काष्ठादैः कर्तृत्वापत्तौ तस्य चोक्तत्वेन 'काष्ठैर्देवदत्तः पचति' इत्यादौ प्रथमापत्तेः ।

न च निरवकाशत्वात् कारणसञ्ज्ञा कर्तृसञ्ज्ञां बाधिष्यति इति वाच्यम्, गतेर्वक्ष्यमाणत्वात् । न च जातिविशेषः क्रियाशब्दशक्यतावच्छेदकत्वादिना सिद्धः, तथा जलशब्दशक्यतावच्छेदकतया जलत्वातिसि?0द्धेर्लीलावत्युपाये?0 दर्शनादिति वाच्यम्, तेन रूपेण बोधाननुभवात्, तत्तद्र5पेण बोधस्यैवानुवाच्च । तथा कार्यकारणभावा?0वश्यकत्वे कल्प्यमानधर्मेणापि कार्यकारणभावान्तरकल्पने गौरवापत्तेः ।?0 ?0अन्यथा सैन्धवादि?0पदशक्यतावच्छेदकतयाऽश्वलवणादिवृत्त्येकधर्मकल्पनापत्ते । अश्वत्वादिनैव तप्रततीतिरनुभवसिद्धेति चेत्, प्रकृते समम् । अत एव विभुपदशक्यतावच्छेदकतया न विभुत्वजातिसिद्धिः,परममहत्परिमाणवत्त्वेनैव1 [Fn ख. 'सर्वभातसंयोगित्वेन वा' इत्यधिकः पाठः । ] ततो बोधात् । अत एव 'देवदत्तः पचति' इत्युक्ते 'देवदत्तः कृतिमान् न वा' इत्यादिसन्देहो न । न च नानार्थता, इष्टापत्तेः, बुद्धिस्थत्वादेः शक्यतावच्छेदकानां तदादाविवानुगमकस्य सत्त्वाच्च2 [Fn ख. 'न च.... सत्त्वाच्च' इति नास्ति । ] तत्र यदा यो बुद्धिस्थस्तदा सोऽभिधीयते, तदा च तदाश्रयः कर्ता । अत एव 'काष्ठानि पचन्ति ' इत्युपपन्नम् । तद्व्यापारस्य धवार्थत्वाविवक्षायाम् 'काष्ठौः पचन्ति' इत्यपि । शक्ततावच्छेदकं च पचित्वादिकमेव । धातुत्वं शक्ततावच्छेदकमिति तु न युक्तम्, धातुत्वमजानतोऽपि बोधात् ।

एतेन फूत्कारादिकं विनापि चैत्रनिष्ठक्रियान्तरमादाय सिद्धज्वालया जायमाने ओदने 'चैत्रः पचति' इति प्रयोगानापत्तिः । तत्तद्व्यापारस्य तत्तद्रूपेण वाच्यत्वे यागः, इच्छा, ज्ञानं वेति वादिविप्रतिपत्त्यनुपपत्तिश्चेति ?0मीमांसक?0नव्योक्तं परास्तम् । फूत्कार एव गृतशक्तिकस्य व्यजनेन वह्निप्रज्वालनदशायाम् 'पचति' इति प्रयोगो न भवत्येव । वादिविप्रतिपत्तिरपि स्वीयस्वीयतादृशबोधानुसारादेवोपपन्ना । न च फूत्कारस्यातीतत्वमात्रेम व्यापारान्तरवर्तमानतादशायाम् 'अपाक्षीत्' इत्यादिप्रयोगापत्तिः, भूतत्वादैः समुदाय एवान्वयस्य निरूपयिष्यमाणत्वादित्याहुः ।

?0अन्ये तु?0 कृत्यतिरिक्तव्यापारे पचित्वं शक्ततावच्छेदकम्, कृतेस्तु सर्वधातुष्वनुस्यूततया प्रतीयमानत्वेन तत्र सकलसाधारणधातुत्वमेव शक्ततावच्छेदकमाहुः ।

नन्वेवमस्त्यादीनां धातुत्वानापत्तिः, तेषआं सत्तामात्राद्यर्थत्वेन व्यापाररूपक्रियावाचकत्वाभावादिति चेत्, न ; तत्रापि सत्ताद्यनुकूलव्यापारस्यैवार्थत्वात् । भावनाफलयोरेकनिष्ठत्वाच्च गच्छतीत्यादाविव स्फष्टं न प्रतीयते । न चैवम् 'किं करोति' इति प्रश्ने 'पचति' इत्यस्येव 'अस्ति' इत्यस्याप्युत्तरत्वं स्यात् । आसन्नविनाशं कञ्चिदुद्दिश्य 'किं करोति' इति प्रश्ने 'अस्ति' इत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतय निविचते 'किं करोति' इति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणात् 'अस्ति' इति नोत्तरम्। अस्तेः स्वस्वरूपधारणानुकूलव्यापारोऽप्यर्थः, धारणां चोत्तरकालसम्बन्धः, ते ?0'आत्मास्ति' इत्यादौ नानुपपत्तिः । उत्पत्त्यनुकूलो व्यापारोऽपि 'घटो भवति' इत्यादौ । सकर्मकत्वं च व्यापा?0रव्याधिकरणफलवाचकत्वम् । तत्समानाधिकरणफलवाचकत्वं चाकर्मकत्वम् । एत एवास्त्योदेरवच्छेदकतारूपव्याप्तयनुकूलसत्तारूपव्यापारार्थकत्वे 'मासमास्ते' इत्यादौ सकर्मकत्वमपीति स्पष्टं भाष्य ?0इत्याहुः?0 ।

?0अन्ये?0 तु --- अस्त्यादौ व्यापार एवार्थः, न फलम् । स च सत्तादिरूप एव, तस्यैव प्रागुक्तवैजातयाक्रान्ततया भानात् । अत एव 'पश्यति भवः' इत्यादौ निवृत्तप्रेषणे विषयतारूपस्यैव फलस्य
क्रियात्वमभ्युपगतम् । अतस्तदाश्रयस् कर्तृत्वम् 'भवं पश्यति' इत्यादौ तु न विषयत्वस्य व्यापारत्वमिति न तदाश्रयस्य कर्तृत्वम्, कर्मसञ्ज्ञाया बादाच्च । क्रियात्वं तद्धात्वर्थनिष्टानुकूलतानिरूपकत्वानाश्रयत्वे सति तद्धातुजन्यशाब्दबोधविषयत्वमेव । इदञ्च 'भवं पश्यति' इत्यादौ विषयत्वस्य नेति न दोषः । केवलव्यापारवाचकत्वमकर्मकत्वम् । फलव्यापारोभयवाचकत्वं सकर्मकत्वमित्याहुः ।

नन्वेवं जीवनृत्यादेः सकर्मकत्वापत्तिः, फ्राणधारणगात्रविक्षेपणादिरूपफलस्य सत्त्वात्, व्यापारव्यधिकरमत्वाच्चेति चेत्, न ; फलाश्रयावाचकत्वे सत्यविवक्षाविरहविशिष्टफलव्यधिकरणव्यापारवाचित्वस्य सकर्मकत्वाददोषः । एतेषां हि प्राणगात्रादिरूपफलाश्रयवाचकत्वात् । अविवक्षितकर्मस्वतिव्याप्तिवारणाय ?0विवक्षाविरहविशिष्टेति ।?01?0 ?0 [Fn ख. 'अत्राद्यमतमेव युक्तम् । अन्त्यमते हि 'उत्तिष्ठति' इत्यादौ ऊर्द्धवदेशसमयोगरूप उत्थानाद्येवार्थः स्यात् । एवञ्चोर्द्धवदेशसंयोगादेर्विद्यमानत्वेन 'उत्थितः' इत्यादिप्रयोगानापत्तिः । मम तु तदनुकूलव्यापारस्यातीतत्वात् तस्य विद्यमानत्वेऽपि तथा प्रयोगो भवतीति तत्त्वम् ।
अपरे तु -- अकर्मकत्वं व्यापारख्याधिकरणफलवाचकत्वाभावः । स एवं स च क्वचित् सामानाधिकरण्याभावात, क्वचित् फलांशाभावात् । एवञ्चास्त्यादौ केवलसत्ताद्येवार्थः, 'उत्तिष्ठति' इत्यादावुभयमिति न दोष इत्याबुः' इत्याधिकः पाठः । ]

?0 ?0पचेर्विक्लत्यनुकूलव्यापारोऽर्थः । ?0 यत्तु?0 -- तेजः संयोगमात्रं पचर्थ इति । तत्, न ; अग्निसंयोगानुकूलकृत्यभाववति भक्तविक्लित्यनुकलाश्रयणकर्तरि 'पचति' इति प्रयोगानापत्तेः ।

ज्ञाधातोर्विषयत सम्बन्धेन ज्ञानं फलम्, आत्ममनः संयोगो व्यापारः । ?0यद् वा?0, आवरणभङ्गो विषयता वा फलम् । नष्टस्यापि बुद्ध्युपारोहात् फलशालित्वम् ।2 [Fn ख. 'घटं करोति' इत्यादावपि । ] सत्कार्यवादाभ्युपगमे तु न काचिद् दोषाशङ्का 'आत्मानं जानाति' इत्यादावाप्यात्मभेदः कल्प्यः । एकः शरीरावच्छिन्नोऽपरोऽन्तः करणावच्छिन्नः । तत्रान्तः करणावच्छिननः कर्त्ता, शरीरावच्छिन्नः, कर्मेति फलवयापारयोर्भिन्ननिष्ठत्वाक्षतिः । स्पष्टं चेदम् 'कर्मवत्' [ 3।1।86 ] सूत्रे भाष्ये ।1 [Fn ' ननु 'हन्त्यात्मानमात्मा' 'आत्मना हन्यत आत्मा' इत्यादावेकस्यैव वस्तुनः कथं शब्दभेदमात्रेण भिन्नधर्मता इत्यर्थके "कः पुनरात्मानं हन्ति, को वात्मना हन्यते" इति प्रश्ने "द्वावातमानौ शरीरात्मा, अन्तरात्मा च । अन्तरामा तत्कर्म करोति, येन शरीरात्मा सुखदुःखे अनुभवति । शरीरात्मा तत्कर्म करोति, येनान्तरात्मा सुखदुःखे अनुचवति" इत्युक्तम् । ' ]
जनेरुत्पत्तिमात्रम्, तत्समानाधिकरणव्यापारो वार्थः ।
'नश्यति' इत्यत्र नाशानुकूलप्रतियोगिसहितनाशसामग्रीसमवदानरूपो व्यापारोऽर्थः ।

पतेर्गमिवत् सकर्मकत्वमेव । अत एव "द्वितीयाश्रित" [ 2।1।24 ] इति सूत्रे 'नरकपतितः' इत्युदाहरणं सङ्गच्छते । अकर्मकत्वमपि2 [Fn 'पत' धातोरित शेषः । ] व्यापारमात्रपरत्वे बोध्यम् ।

कृञ उत्पत्तिव्यधिकरणस्तदनुकूलव्यापारोऽर्थः, यत्नमात्रार्थत्वेऽकर्मकत्वापत्तेः । ननु यद्धआतूच्चारणे कर्माकाङ्क्षा नियता, स सकर्मकः । एवञ्च कृञोऽपि यतेरिव यत्नामात्रार्थकत्वेऽपि न दोषः । कर्मत्वादिपदोपस्थआप्यसय क्रियाकाङ्क्षत्वाभावेऽपि द्वितीयोपस्थआप्यस्य तत्साकाङ्क्षत्ववत् कृञ्पस्थाप्यस्य यत्नस्य कर्माकाङ्क्षोपपत्तेः ।

अविवक्षितकर्मणां सकर्मकत्वस्य वारणीयत्वे चाविक्षाभाववैशिष्ट्यमपि निवेश्यम् । एवमेकस्यैवार्थभेदेन सकर्मकत्वम्, अकर्मकत्वं चोपपन्नम् । यदर्थेऽविवक्षाविरहविशिष्टकर्माकाङ्क्षा यस्य, स तत्रार्थे सकर्मक इत्य(न)
नुगतस्यैव लक्षणत्वादिति चेत्, न ; गच्छत्यादिषु कर्माकाङ्क्षाविरहेणाव्याप्तेः । अत्रत्य 'कुत्र', 'किम्' इत्याकाङ्क्षायाः 'यतते,' 'भवति' इत्यादिषु 'कुत्रकिम्' इत्याकाङ्क्षातुल्यत्वात् । किञ्च, कृञो लक्षणा बोध्या1 [Fn ख. 'धातुनामनेकार्थत्वाद् वा तत्र वृत्तिः' इत्यधिकः पाठः । ] । सकर्मकधात्वन्यतमत्वं सकर्मकत्वमिति तु न युक्तम्, एकस्यैवार्थभेदेन सकर्मकाकर्मकत्वव्यवहारादिति दिक् ।

?0इति धात्वर्थविचारः

?0*********