वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-५
← वैयाकरणसिद्धान्तमञ्जूषा-४ | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-५ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-६ → |
अथ निपातसामान्यार्थविचारः
नन्वेवम् 'अनुभूयते सुखम्', 'साक्षात् क्रियते गरुः' इत्यादेः सकर्मकत्वं न स्यात्, अनुभवसाक्षात्काररूपफलयोर्निपातार्थत्वेऽपि धात्वर्थत्वाभावादिति चेत्, न ; निपातानां द्योतकत्वेनादोषात् ।
?0यत्तु?0 'प्रजयति' इत्यादौ प्रकृष्टजयो नोपसर्गवाच्यः, अप्रकृत्यर्थत्वेनाख्यातार्थकृतावन्वयानापत्तेः । नचजयो धात्वर्थः, प्रकर्षः प्रशब्दार्थ1 [fn ख. 'नामार्थधात्वर्थयोर्विभक्त्यर्थमद्वारीकृतयसाक्षाद् भेदसम्बन्धेन नान्वय इतिव्युत्पत्तिस्तु उपसर्गातिरिक्तविषया' इत्यधिकः पाठः । ] इति वाच्यम्, एवं हि 'प्रतिष्ठते' इत्यत्र गमनत्वेन रूपेण बोधो न स्यात्, धातोर्गतिनिवृत्त्यर्थत्वेऽभावस्य प्रशब्दार्थत्वेऽपि गत्यभावो नास्तीत्येव प्रत्ययापततेः । न च तथा बोधानुभवः, न च विशिष्टो जयो धात्वर्थः, अर्थान्तरस्येवोपसर्गं विनाप्येतदर्थप्रत्ययापत्तेः ।
किञ्च, प्रत्येकातिरिक्तविशिष्टाभावात् प्रत्येकमुभयत्र धातोः शक्तिर्वाच्या । ए़ञ्च धातोर्जये क्लृप्तशक्तेः प्रकर्षे शक्तावुपसर्गस्य शक्त्यवच्छेदकत्वं शक्ततावच्छेदके विशेषणत्वमात्रमेव तत्त्वम् । एव़ञ्च प्रोत्तरजित्वेन प्रकृष्टजये शक्तिः । न च जिपूर्वप्रत्वेन शक्तिरस्तु, अक्लृप्तशक्तकल्पनापत्तेः, आख्यातार्थानन्वयपसङ्गाच्च ।
शक्त्यवच्छेदकत्वमेव च द्योतकत्वम् । ?0यद्वा?0, धातोस्तत्र तत्रार्थे लक्षणा, उपसर्गास्तात्पर्यग्राहकाः । एतदेव द्योतकत्वम्, 'व्यतिसे' इत्यादौ तद्बोधस्तु लुप्तस्मारणात्, लोपमजानतो बोधस्तु न भवत्येव । यद्वा, शिष्यमाणं लुप्यमानार्थाभिधायीति प्रत्ययस्यैव तदर्थे लक्षणा ।
किञ्च, उपसर्गस्य तदर्थत्वे धातोरकर्मकत्वात् 'अनुभूयते सुखम्' इत्यादौ कर्मणि लकारो न स्यात्, स्वार्थफलव्यधिकरणव्यापारवाचकत्वस्यैव सकर्मकत्वात् । अन्यथा यत्किञ्चित् फलवैयधिकरण्यस्य सर्वत्र सत्त्वेनातिप्रसङ्गात् । एतेन विशिष्टार्थत्वमिति निरस्तम्, विशिष्टस्याप्यधातुत्वात्, धातुत्वेऽडादिव्यवस्तानापत्तिः । तस्मादुपसरगाणां द्योतकत्वम्, चादयस्तु वाचका एव । 'साक्षात्क्रियते' इत्यादौ विषयतासम्बन्धेन प्रत्यक्षादिरूपतत्तत्फलवाचकं साक्षात्पदादिकमेव । तदुत्पत्त्यनुकूलो व्यापारो धात्वर्थः । अत एव "साक्षात्प्रत्यक्षतुल्ययोः"[अ. को., का. 3, ना. व.श्लो. 2822 ] इत्यादिकोश- सङ्गच्छते । नमः पदेन नमस्कारार्थत्वस्य लोकसिद्धत्वाच्च स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वस्य सकर्मकत्वात् । कर्मत्वमप्येतादृशफलाश्रयत्वेमेव । एवञ्च कर्मणि लकारोऽप्युपपन्नः । न च साक्षात्पदाद्यर्थस्य साक्षाद्धत्वर्थेऽन्वयो न युक्तः, 'ओदनः पचति' इत्यादौ कर्मत्वसंसर्गेणान्वयबोधवारणायाभेदातिरिक्तसम्बन्धेन नामार्थप्रकारकशाब्दबोधं प्रति प्रत्ययजन्योपस्थितेर्हेतुत्वादिति वाच्यम्, निपातेतरत्वविशेषणदानात् । न च 'कीदृशः समुच्चयः' इतिवत् 'कीदृशश्च' इत्यसयापत्तिः । एवं 'शोभनः समुच्चयो द्रष्टव्यः' इतिवत् 'शोभनश्च द्रष्टव्यः ' इत्यस्याप्यापत्तिरिति वाच्यम्, निपातैः स्वार्थस्य परविशेषणत्वेनैवोपस्थितेर्विशेषणान्वयाप्रसङ्गात् । न च 'घटश्च' इत्यादौ विना षष्ठीमनन्वयापत्तिः, प्रातिपदिकार्थयोर्विभक्त्यर्थमद्वारीकृत्य भेदेनान्वयायोगात् । अन्यथा 'राजा पुरुषः' इत्यतोऽपि 'राज्ञः पुरुषः' इतिवदन्वयापत्तिरिति वाच्यम्, निपातातिरिक्तत्वविशेषणात् ।
किञ्च, चादीनां समुच्चिताभिधायकत्वान्न भेदनिबन्धना षष्ठी । 'समुच्चितो घटः' इत्यबेदेनैवान्वयः । स्वभावतश्च चाद्युपस्थाप्यस्यासत्त्ववाचकत्वम् । न च समुच्चिते धर्म्यंशे शक्तिकल्पनागौरवम्, प्रामाणिकत्वात् । एवं समुच्चयस्यैकदेशत्वान्न तत्र सुन्दरादिविशेषणान्वयः ।
एतेन 'घटश्च' इत्यादौ विरुद्धविभक्त्यनवरुद्धप्रातिपदिकार्थत्वादभेदान्वयापत्तिः 'घटसमुच्चययोः' इति परास्तम् । घटपदस्य घटपदस्य घटप्रतियोगिके लक्षणयाऽभेदान्वयस्यैवाङ्गीकाराच्च ।
न च 'शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव' [रघु. 4, 66] इत्यस्योस्रदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । तत्रेवशब्दार्थस्य करणत्वऽप्युस्रस्याकरमत्वेनोस्रपदोत्तरतृतीयाया 1 [ ख. 'नैरर्थक्यम् । ..... करणत्वालाभश्च' इति पाठस्त्रुट्तिः । ]नैरर्थक्यम् । इवशब्दात् तु तृतीयाभावेन सदृशस्य करणत्वालाभश्च । उस्रपदोत्तरतृतीयया तु न सदृशगतं करणत्वं बोधयितुं शक्यम्, अप्रकृत्यर्थत्वात् । द्योतकत्वे तु न दोष इति वाच्यम्, इवशब्दोत्तरतृतीयया तद्बोधात् । न च श्रवणापत्तिः, अव्ययत्वेन लुकः सत्त्वात् ।
न च सत्तववाचकत्वान्नाव्ययत्वम्, लिङ्गानन्वयित्वरूपासत्त्वस्याक्षतेः, चादौ पाठसामर्थ्यात् सत्त्वार्थेऽप्यव्ययत्वस्वीकाराच्च । 'उस्रैः' इत्यस्यसदृशे स्वप्रतियोगिकसादृश्यसम्बन्धेनान्वयः । तृतीया तूपमानोपमेययोः समानविभक्तिकत्वस्य ज्ञापकसिद्धात्वात् ।
किञ्च, द्योतकत्वे नञ्समासादावुत्तरपदार्थः, प्रधानमिति व्यवस्था न स्यात्, पूर्वपदस्यानर्थकत्वात् । किञ्च, निपातेभ्यो विभक्त्युत्पत्तिर्न स्यात्, तेषामर्थवत्त्वाभावेन प्रातिपदिकत्वाभावादिति ?0नैयायिकाः?0 । तत्, न; उपसर्गाणामपि वाचकत्वापत्तेः । अर्थवत्त्वमपि द्योत्यार्थमादायैव । अथैप्रतीजिजनकज्ञानविषयशब्दत्वमर्थवत्वम्, न तु शक्तिलक्षणान्यतरसम्बन्धेन बोधकत्वम् । उत्तरपदार्थप्राधान्यमपि द्योत्यार्थापेक्षयैव ।
नन्वेवम् 'रामः' इत्यादौ 'रा' इत्यतोऽपि विभक्त्यापत्तिः, न च सङ्ख्यावाचकत्वाभावान्न सा, निपातेभ्योऽप्यनापत्तेः, औत्सर्गिकैकवचनस्यात्रापि दुर्वारत्वाच्च । न च 'एकाज्द्विर्वचन'न्यायेन1 [Fn "एकाचो द्वे प्रथमस्य" [ 6।1।1 ] इति सूत्रे भाष्ये -- 'निज्, इज् नि, इ' इति चत्वार एकाचः । तत्र इज्शब्दस्य, निशब्दस्य, इशब्दस्य वा द्वित्वे रूपासिद्धिः, 'नेनिजुः, नेनिजति' इत्यादौ जकारेण व्यवधानाज्जुसाद्यप्राप्त्या दोषश्च, इत्युक्त्वा 'सिद्धन्तु तत्समुदायैकाच्त्वात् शास्त्राहानेः' इति ।
अस्यायमर्थः -- समुदायस्यैकाच्त्वात् = एकाज्भावाद् द्विर्वचनं भविष्यति । एवं हि शास्त्रमहीनं भवति । अग्रे च -- तत्र बहुव्रीहिनिर्देशेऽनच्कस्य द्विर्वचनं प्राप्तोतीत्याशङ्क्य तद्गुणसंविज्ञानपक्षमाश्रित्य समाहितम् । तदेवं चतुषप्रकारकम् एकाच्त्वमेव द्विर्वचनन्यायतात्पर्यमिति बोध्यम् । ]
?0यत्तु?0, ज्यादेर्लक्षणिकत्वे ततोऽनुभवानापत्तिः, लाक्षणिकस्याननुभावकत्वादिति । तत्, न; बोधकत्वेनैवानुभावकत्वात् । अत एवापभ्रं शादितः परमतेऽनुभवः ।
वस्तुतोऽनुमितिशाब्दयोः 'अनुभूतम्' इत्यप्रत्ययादनुभवत्वं प्रत्यक्षत्वव्याप्यमेवेति न दोषः । शाब्दबोधोऽपि लाक्षणिकान्नेति तु वक्तु मप्यशक्यम् । किञ्च, धातोर्लक्षणास्वीकारे घटादिपदस्थचरमवर्णस्यैकाक्षरनिघण्टुवशात् तत्तदर्थकस्य घटत्वादिविशिष्टे लक्षणया बोधोपपत्तौ घटादिपदानामप्यावाचकत्वप्रसङ्गः । न चावयशक्तिमविदुषीऽपि समुदायशक्तिज्ञानात् तथा बोधात् तेषां शक्तिकल्पनम्, धातोः शक्तिमविदुषोऽप्युपसर्गस्य तद्ग्रहवतो बाधात् तथात्वस्यावश्यकत्वात् । न च प्रकारतासम्बन्धेनाख्यातार्थविशेष्यकशाब्दं प्रति धातुजन्योपस्थितेर्हेतुत्वरूपाकाङ्क्षाविरहादुपसर्गशक्तिग्रहेऽपिन बोध इति वाच्यम्, तादृशकारणत्वग्रहशालिपुरुषीयशाब्दएव तस्य हेतुत्वात् । 'व्यतिसे' इत्याद्यनुरोधादाख्यातार्थविशेष्यकशाब्दं प्रति निपातजन्योपस्तितेरपि हेतुत्वकल्पनस्योचितत्वाच्च ।
?0वैयाकरण?0नयेऽपि प्रकारतासम्बन्धेन धात्वर्थविशेष्यकबोधं प्रति निपातजन्याप्युपस्थितिर्हेतुरिति न दोषः । अन्याश्च व्युत्पत्तयो निपातातिरिक्तविषया इति नान्येऽपि दोषाः ।
अस्तु वा, प्रकृष्टो धर्मी प्राद्यर्थः, तेनाभेदेनैवान्वयान्न दोषः । न च वाचकत्वे केवलानां प्रयोगापत्तिः, 1 [fn 'न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः' इति भाष्याद् यथा केवलायाः प्रकृतेः, केवलायाः प्रकृतेः, केवलस्य च प्रत्ययस्य प्रयोगो न भवति, तथैव केवलानां निपातानामपि प्रयोगो न भवति ।
?0इदमत्राकूतम्?0 -- लोके अर्थप्रत्यायनाय शब्दाः प्रयुज्यन्ते, लोके चयथा केवलया प्रकृत्या केवलेन च प्रत्ययेन नार्थबोधो भवति, तथैव केवलेन निपातेनाप्याकाङ्क्षाविरहाद् बोधो न भवति । ] प्रकृतिप्रत्ययवत् समाधानात् । किञ्च, तद्बोध्यप्रकर्षादेर्विना सम्बन्धिनमनन्वयात् केवलप्रयोगासम्भवः । समुच्चिताद्यबिधायकत्वेऽपि विशेषतस्तयोरुपस्थितिं विना प्रतीत्यपर्यवसानान्नित्यपरतन्त्रतयैव प्रयोगः । किञ्च, 'न' इत्येवोक्तोऽभावशाब्दबोधस्य सर्वसिद्धत्वात् पदान्तरसमभिव्याहाराभावे द्योतकत्वासम्भवः । अत एव "नञ्" [ 2।2।6 ] सूत्रे भाष्ये 'न न ' इत्यत्राभावो नास्तीत्यर्थप्रदर्शनं कृतम् । अस्तीति क्रियायाश्चात्राद्याहारः । किञ्च, द्योतकत्वे पदान्तराणां तत्र वृत्तिः कल्प्या, चादिषु च द्योतकत्वशक्तिः कल्प्येति गोरवम् । अत एव नञः पर्युदासे लक्षणेति ?0मीमांसको?0क्तिः सङ्गच्छते । तस्माद् वाचकत्वमेव युक्तमिति चेत्, न ; अन्यलभ्ये शक्तिकल्पनायोगात् । अन्वयव्यतिरेकौ तु तात्पर्यग्राहकत्वेनान्यतासिद्धौ ।
वस्तुतस्तु निपातानां शक्तिं गृहीतवतो लक्षणाद्यज्ञानेऽपि बोधात् तच्छक्तिज्ञानकार्यकारणभाव आवश्यकः । एवं तच्छक्तिमजानतां लक्षणाज्ञानेनैव बोधात् तत्कार्यकारणभावोऽप्यावश्यक इति द्योतकत्वं शक्यत्वञ्चेत्युभयमपि निपातानामिति मतिनिष्कर्षः । सर्वथा निपातानां वाचकत्वम्, उपसर्गाणां द्योतकत्वमित्यर्धजरतीयं नैयायिकोक्तं हेयमेव1,[ ख. 'हेयमेव' इत्यनन्तरम् 'न च निपाताना वाचकत्वे' 'इवास्ति' इत्याद्यपि 'सादृश्यमस्ति' इत्यादिवत् स्यादिति वाच्यम्, प्रतियोग्युपमानादिपदोपादानेनैव बोधकत्वाङ्गीकारात्' इत्यधिकः पाठः । ] शक्तिसम्बन्धेन निपातपदवत्त्वरूपस्याखण्डोपाधिरूपस्य जातिरूपस्य वा निपातत्वस्यैव सामान्ये प्रमाणानां पक्षपाताद् द्योतकतायाः शक्तताया वा अवच्छेदकत्वस्य युक्तत्वात्2 [fn 'युक्तत्वात्' इत्यनन्तरम् 'तत्तदर्थनिरूपितद्योतकत्वस्य वाचकत्वस्य वा तत्तन्निपातवृत्तितया तत्तद्वृत्त्यसाधारणधर्मस्यावच्छेदकताया आवश्यकत्वेनासामान्यधर्मस्यावच्छेदकत्वे मानाभावात्, निपातत्वाद्यजानतोऽपि बोधाच्च । द्योतकत्वस्य वाचकत्वस्य वाचकत्वाभावस्य वा सामान्याच्छेदेन साधकहेतोरुभयवादिसम्मतस्याभावाच्च -- इत्याधिकः पाठः ।
क्वचिच्चोपसर्गाणां वाचकत्वमपि, यथा -- 'प्रतिष्ठते' इत्यादौ धातोर्गतिनिवृत्तिवाचकत्वम्, 'प्र'शब्दस्य तु गतिवाचकत्वम् । तदुक्तं हरिणा --
स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा ।
[ वा. 2, 160 ]
इति द्वितीयः पक्षः ।
सम्भूय धातूपसर्गावर्थमाहतुः, उपसर्गस्तु शक्तिमात्रं कुरुत इत्यर्थभिधाने सहकारिण उपसर्गाः । उक्तञ्च वाक्यपदीये --
शक्याधानाय धातोर्वा सहकारी प्रयुज्यते ।।
[ वा. 2, 190 ]
इति तृतीयः पक्षः ।
उक्तेषु त्रिषु पक्षेषु कतमः पक्षः श्रेष्ठ इति मीमांसायामुपसर्गाणां द्योतकत्वमेव समुचितम् । 'प्रतिष्ठते' इत्यत्र धातूनामनेकार्थत्वात् 'स्था' -- धातोरेव गतिरर्थः, प्रशब्दस्तु तस्यार्थस्य द्योतकः । तदुक्तं वाक्यपदीये --
स्थादिभिः केवलैर्यच्च गमनादिर्न गम्यते ।
तत्रानुमानाद् द्विविधात् तद्धर्मा तद्धर्मा प्रादिरुच्यते ।। इति ।
[ वा. 2, 161 ]
अयमर्थः -- तिष्ठतिर्गतिनिवृत्तिं प्रसिद्ध्याऽभिदधाति । अतस्तेन केवलेन गमनं न फ3तिपाद्यते । 'अनेकार्था धातवः' इति कृत्वाऽनुमानाद् गतिवाचकत्वमपि तस्य व्यवस्थाप्यते । उपसर्गस्तु तद्द्योतक एव ।
धातूनामनेकार्थत्वमुपसर्गाणा़्च द्योतकत्वमनुमानेन साधयन्नाह -- तत्रेति । अनुमानप्रकारश्च -- 'धातु अनेकार्थः, धातुत्वात् ; उभयवादिसम्मतानेकार्थयजधातुवत्' । 'प्र' -- शब्दो द्योतकः, 'प्र' शब्दत्वात्, 'प्रपचति' इत्यादिदृष्टप्रशब्दवदिति । एवं चादिनिपातेष्वपि पक्षत्रयं बोध्यम् । तदुक्तं हरिणा --
निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः ।
आगमा इव केऽपि स्युः सम्भूयार्थस्य वाचकाः ।। इति ।
[ वा. 2, 164 ]
अत्रापि द्योतकत्वपक्ष एव न्याय्यः, केवलानां चादीनामप्रयोगात् । यदि वाचकाः, स्युः, तदागवादिवत् केवला अपि प्रयुज्येरन् । तस्मात् 'चादयो न वाचकाः स्युः, तदा गवादिवत् केवला अपि प्रयुज्येरन् । तस्मात् 'चादयो न वाचकाः, केवलानामप्रयोगात्, प्रत्ययवत्' इत्यनुमानं फलितम् । तदुक्तं वाक्यपदीये --
चादयो न प्रयज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ।। इति ।
[ वा. 2, 166 ]
एवञ्च प्रादीनां चादीनाञ्च निपातानां द्योतकत्वमेवेति हरीणां हृदयम् ।
नागेशभट्टस्यापि अयमेव पक्ष इष्टः, मञ्जीषायां पुनः पुनस्तस्यैव समर्थनात् ।
भट्टोजिदीक्षितप्रभृतयः प्राचीनवैयाकरणास्तु -- निपातत्ववच्छिन्नानां सकलनिपातानां द्योतकत्ववाचकत्वे मन्वते ।
प्रादीनां द्योतक्तवं चादीनां वाचकमेवेति नैयायिकरीतिस्तु न साध्वी, वैषम्ये बीजाभावात् । अत एव द्योतकत्वपक्षं व्यवस्थाप्य --
निपातानां वाचकत्वमन्वयव्यतिरेकयोः ।
[ वै. भू. निपातनि, पृ. 380 ] इत्यादिना वाचकत्वपक्षोऽपि समर्थितो भूषणादौ ।
उपसर्गातिरिक्तनिपाता वाचका द्योतकाश्चेति भगवान् भाष्यकारः । स हि "अव्ययं विभक्ति." [ 2।1।6 ] इति सूत्रे भाष्ये 'सुमद्राः, सुमगाधाः, सपुत्रः' इत्यादावव्ययाभावसमासमाशङ्क्य पूर्वपदप्रधानस्याव्ययीभावत्वेनात्र पूर्वपदप्राधान्यं नास्तीत्युक्त्वा 'अयवा नेमे समासार्था निर्दिश्यन्ते, किं तर्हि ? अव्यायार्था इमे निर्दिश्यन्ते । एतेष्वर्थेषु यदव्ययं वर्तते, तत्सुबन्तेन सह समस्यते' इत्यवोचत् । कैयटेन चाव्ययस्य श्रुतत्वादन्तरङ्गत्वात् तस्यैव विभक्त्यादयो विशषणानि । तत्र यदोत्तरपदार्थावच्छिन्नाः समृद्ध्यादयः प्रतिपिपादयिषिताः, तदाऽव्ययं समृद्ध्यादीनां वाचकमितितेषां तदर्थता भवति । सुमद्रा इत्यत्र तु मद्रशब्द एव समृद्धिविशिष्टमर्थमाह, सुशब्दस्तु समृद्धिद्योतकः, न तु वाचक इत्यादि व्याख्यातम् । अनेन भाष्यकैयटव्याख्यानेन स्पष्टमेव निपातानामुभयं प्रतिभाति, उपसर्गाणां तु द्योतकत्वमेव ।
स्पष्टञ्चैतत् "गतिर्गतौ"[ 8।1।70] इति सूत्रभाष्ये । तत्रत्यभाष्यं तु -- 'ननु पूर्वं धातुरूपसर्गेण युज्यते, पश्चात् साधनेन । नैतत् सारम् ... ' इत्यादि । '] । 'अथ शब्दानुशासनम्' [ म. भा. प्रा. ] इत्यत्रानुशासनशब्द एव तद्बोधकः, भाष्यकृतोऽपि द्योतकत्वपक्ष एव सम्मत इत्युपलभ्यते । ?0पस्पशायाम्?0, "अदिपरी अनर्थकौ" [ 1।4।93 ] इत्यत्र "नञ्" [ 2।2।6 ]सूत्रे च तथा स्वरसादित्यलम् ।
इति निपातसामान्यार्थविचारः1 । [fn इदमत्राकूतम् -- निपातार्थविषये शास्त्रेषु पक्षत्रयं दृश्यते । निपातार्थानामनुभवादीनां धातुमात्रतो बोधाभावेनोपसर्गसम्बन्धात् तदवगम इत्युपसर्गाणां विशेषार्थद्योतकत्वमेव । यथा 'अनुभवति' इत्युत्रानुभवरूपस्यार्थस्य ' अनु'शब्दो द्योतकः । तदुक्तं हरिणा --
क्वचित् सम्भविनो भेदाः केवलैरनि [भि]दर्शिताः ।
उपसर्गेण सम्बन्धे व्यज्यन्ते प्र- परादिना ।।
[ वा. 2, 286]
इति प्रथमः पक्षः ।]