वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-६

← वैयाकरणसिद्धान्तमञ्जूषा-५ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-६
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-७ →

अथ नञर्थविचारः

अथ प्रसङ्गान्निपातविशेषनञर्थो विचैर्यते । स्यादेतत्--नञर्यो नाभावः, तथाहि--सत्यभावस्य प्रतियोगितानिरूपितविशेष्यतयैव भानस्य सर्वसिद्धत्वात् 'अघटः'इत्यादौ 'घटभिन्नः' इति बोधे उतरपदार्थप्राधान्यं तत्पुरुषस्य भज्येत । 'अतिसर्वाय' इत्यादिवत् 'ञ्प्रसः' इत्यादौ सर्वनामकार्याभावापत्तिश्च : अबावे प्रतियोगिनो विशेषयमत्वस्य सर्वसिद्धत्वेन गौणत्वात् । इतरपदार्थविशेषणत्वेनोपस्थितिविषयत्वं हि गौणत्वमिति चेत्, नः आरोपविषयत्वं नञर्थः, आरोप एव वा, विषयत्वं तु संसर्गः, तस्य च विशेषत्वात् 'आरोपिकतो घटः' इति बोधः ।
एवञ्च 'असः'इत्यादौ तत्पदार्थस्य विशेष्यत्वान्न गौणत्वमिति न दोषः । इदञ्च समासविषय एव, असमासविषये त्वभावोऽर्थः । स द्धिविधः--भेदोऽत्यन्ताभावश्र । तत्रान्त्यः क्तियान्वय्येव, नञर्यात्यन्ताभावविशेष्यकबोधे भावनोपस्थितेर्हेतुत्वत् । अत एव 'अहं नास्मि' 'घटो नास्ति' इत्यादौ पुरुषव्यवस्था, 'घटो न स्तः' 'घटा न सन्ति' इत्यादौ वचननियमश्चोपपद्यते, युष्मदादेस्तिङ्सामानाधिकरण्यात् ।'घटाभावोऽस्ति' इत्यन्वये च स न स्यात्1 [fn ख. नच 'घटो नास्ति' इत्यादेः 'सत्ताश्रयत्वाभाववान् घटः'] इति बोधात् पुरुषवचनव्यवस्था सिद्धेति वाच्यम्, सर्वानुभवसिद्धघटाभावबोधानुपपत्तेः । मम तु घचकर्तृकसत्ताभावस्य समनियतभावानानैक्येन घटाभावाभिन्नत्वेन तदुपपत्तेः, आख्यातोपस्थाप्यसङ्ख्याभावनान्वयिन्यन्वय इति नान्वयभङ्गापत्तेश्र, वक्ष्यमाणरित्याऽऽख्यातार्थस्य धात्वर्थविशेषणत्वे तद्बोधासम्भवाच्च । न चाधिकरणालिङ्गिताभावबुद्धेरभावात् 'इह घटो नास्ति' इत्यादौ 'एतदधिकरणाभावप्रतियोगि घटः सत्ताश्रयः' इति बोधान्न तदनुपत्तिः, कारताणं क्रियान्वय एव साधुत्वस्य व्याकरणसम्मततयेहेत्यादिनामसाधुतापत्तेः । तेषां सत्तायामेवान्वये तु यत्किञ्चिन्निष्ठभावप्रतियोगि घटो नास्तीत्येव बोधः स्यात्, न तु घटाभावस्य ।
न च तेषां क्रियान्वयितत्समभिव्याहतनञः सद्वृत्त्यभावे लक्षणाङ्गीकारान्न दोषः । एतद्देशवृत्त्यभावप्रतियोगिघटे एतद्वृत्तिसत्ताभावनिश्रयसत्त्वात् तत्र सताश्रयत्वान्वयानुपपत्तेरिति यत् किञ्चिदेतत् ।
किञ्च, तिङोपस्थाप्यक्रियाया न भेदे प्रतियोगित्वेनान्वयः, 'न पचति गच्छति' इत्यादितस्तथा बोधाभावात् । अत एव तिङन्तसमभिव्याहतनञोपात्ताभावार्थकत्वमेवेत्यपि बोध्यम् । एतन्मुलकमेव पर्युदासापेक्षया प्रसज्यप्रतिषेधस्य बलवत्तवं वदन्ति । ]

न चैवमसमस्तनञः क्तियान्वये 'यजतिषु ये यजामहं करोति, नानुयाजेषु' इत्यत्र वैकल्पिकत्वात् समासाभावेऽपि पर्युदास एव, लाघवान्न प्रसज्यप्रतिषेधः । तथा सति निषेधस्य प्राप्तिपूर्वकतया प्राप्तेश्चात्र शास्त्रतोऽन्यतोऽसम्भवाद् 'यजतिषु' इति शास्त्रादेव सा वाच्या । एवञ्च शास्त्रियविहितप्रतिषिद्धत्वाद् विकल्पापत्तिः ।
न च 'निषेधस्य विध्युन्मूलकत्वेन बलवत्त्वम्, उपजिव्यत्वेन विधेरपि बलवत्त्वात्' इत्यादिमीमांसासिद्धान्तो भज्येतेति वाच्यम्, असमासे प्रतिषेधार्थकनञ एव क्तियान्वयाभ्युपगमात् । प्रतिषेधपदेनात्यन्ताभावः ।
अत एव "सुडनपुंसकस्य"[1।1।43़] इति सुत्रे नपुंसकस्य नेत्यर्थे नहि नपुंसकेन सामर्थ्यम्, केन र्ताह भवतिना'इति भाष्यं सङ्गच्छते । समासे 'असन्देहाः' 'अविवादः' इत्यादौ प्रतिषेधार्थकनञोऽप्यक्तियान्वात् 'असमासे' इत्युक्तम् ।
न चात्र नित्याव्ययीभावापत्तिः, 'अद्रुतायाम्र, असंहितम्, असन्देहाः, प्रयोजनम्' इति भाष्याभ्यामर्थाभावे उभयोरपि प्रवृत्तेर्ज्ञापनात् ।
एवञ्च यत्पदोपस्थापितप्रतियोगिनोऽनुयोगिनि आधाराधेयभावसम्बन्धेनान्वयः, तत्र तदत्यन्ताभावबोधः ।यथा 'भूतले घटो नास्ति' इत्यादौ, 'घटो नास्ति' इत्यादावप्येवम्, आख्यातार्थाश्रयस्य सत्तायामाधेयत्वेनान्वयात् । यद्वृत्तित्वेन च प्रतियोगिप्रत्ययः, तद्वत्तित्वविशिष्ट एवैत्यन्ताभावो नञा बोध्यते, समभिव्याहारबलादिति बोध्यम् ष तेन यत्किञ्चिन्निष्ठाभावमादाय 'भुतले घटो नास्ति' इति नप्रत्ययः ।
एतेन 'भूतले न घटः' इत्यादौ तात्पर्यवशात् कदाचिद् भूतलादौ घटाद्यभावः, कदाचिच्च घटादौ
भूतलवृतित्वाभावः प्रतियत इत्यपास्तम्, अत्यन्ताभावार्थकनञः प्रतियोगिभूतक्तियान्वयित्वनियमात्; कारकाणां क्तियान्वयित्वनियमाच्च ।
  किञ्चैवमव्ययिभावस्य नित्यसत्वाद् वाक्यस्यैव दुर्लभत्वापत्तिः । न चैवम् 'पृधिव्यां गन्धः, न जले' इत्यादौ प्रतितेरेकविशेष्यकत्वानुभवो न स्यादिति वाच्यम्, इष्टापत्तेः, तथाऽनुभवस्यैवाभावात् । यत्र तु प्रतियोगिनोऽनुयोगिन्यभेदान्वययोग्यता, तत्रान्योत्याभावः, कद्वान् वा तदर्थः । [यथा] 'घटः पटो न' इत्यादौ । 'मैत्रस्येदं न चैत्रस्य' इत्यादौ तु स्वत्ववान् षष्ठचर्थः, तस्यापि शेषत्वात् । एवञ्च मैत्रसम्बन्धिस्वत्वदिदं चैत्रसम्बन्धिस्वत्ववद् भिन्नमिति बोधः ।
एतेनात्र स्वत्वाभावस्य बोधात् प्रतिषेधार्थकनञः क्तियान्वयित्वमयक्तमित्यपास्तम्' । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं चात्र व्युत्पत्तिबललभ्यम्, निलघटवति अत्र 'घटो नास्ति' 'नीलघटो न घटः' इत्याद्यव्यवहारात्, पितघटवति 'नीलघटो नास्ति', 'पीतघटोन निलघटः' इत्यादिव्यवहाराच्च । जातौ 'जातिर्नास्ति' इत्यादौ तु यद्यपि जातिकर्तृकजात्यधिकरणकसमवायसम्बन्धाव च्छिन्नसत्ताऽप्रसिद्धेति कथं तदभावबोधनम् ? तथापि खण्‍डशः प्रसिद्धिसत्तवान्न दोषः, स्वरुपसत्पदार्थसत्ताया बोधेऽपेक्षणाच्चेत्यादि प्रपञ्चितमन्यत्र।
'न घटोऽस्ति' इत्यादौ घटभिन्नो़ऽस्तिति बोधः, निपातातिरिक्तनामाव्यवहितपूर्वर्वातनञः प्रायेण पर्युदासबोधकत्वात् । 'न खलु न खलि बाणः सन्निपात्योऽयमस्मिन्' [अभि.अ.2] इत्यादौ तत्प्रतीतिवारणाय निपातातिरिक्तेति । इदमेवाभिप्रेत्य 'सजं न काचिद् विजहौ' इति श्लोके नञा.ऽस्भानत्वमुक्तं काव्यप्रताशकृता । 'काचिद् भीन्नाविजहुः' इति विरुद्धार्थस्यापि प्रत्ययादित्यवधेयम् । अन्याभावत्वात्यन्ताभावत्वे चाखण्‍डोपाधि इत्याहुः ।
'यतु 'घटो नास्ति' इत्यादावप्यरोपिता घटकर्तृका सत्तेत्यादिक्तमेणैव बोधः । एवम् 'पीतः शङ्गो नास्ति' इत्यत्रारोपिता पीतशङ्गकर्तृका सत्तेति बोधः । न च विशिष्टसत्ताया अप्रसिद्धेः कथमारोपः, खण्डशः पदार्थानां प्रसिद्धेः । मेलनाप्रसिद्धिश्चाप्रयोजिका । अस्तु वा आहार्या विशिष्टप्रसिद्धिः, प्रतियोगिज्ञानस्याभावधिहेतुत्वेऽनाहार्यत्वनिवेशे गौरवाद् विशेषणतावच्छेदकप्रकारकज्ञानकारणतैव प्रतियोगिज्ञानकारणतेति पक्षेऽप्याहार्यज्ञानादाहार्य एव । वशिष्टवैशिष्टचबोधः ।
एवञ्च प्रतियोगिज्ञानसम्भवान्नानुपपत्तिः । आहार्यः शाब्दबोधो नास्तीति त्वश्रद्धेयमेव । एतन्मते चाथिकम् 'घटो नास्ति' इत्यभावाज्ञानमादाय नञर्थविशेष्यको बोध इति व्यवहारः । प्रतियोगिज्ञानप्रतिबन्वादि च सङ्गमनियमिति । तत्, न; अनुभवसिद्धेरपलापे मानाभावात् ।
किञ्त, [असमासे] क्व क्तियान्वय इन्यान्वय इत्यत्र तव मते नियामकाभावः, मम त्वारोपितत्वार्थकत्वे' द्रव्यान्वायः; अत्यन्ताभावार्थकत्वे क्तियान्वय इति सम्भवति व्यवस्था । तोञेच, 'घटो नास्ति' इति बोधोत्तरं घटवत्ताज्ञानप्रतिबन्धो न स्यात् । न चाग्रे तज्ज्ञानं जायते, तेन प्रतिबन्ध इति वाच्यम्, नियमतस्तज्ज्ञापकाभावात् । न चारोपितत्वज्ञानमेव तथा, इदञ्च तवाप्यावश्यकम्; अन्यथा कदाचिदत्यन्ताभावबोधः, कदाचिदे भेदबोध इति व्यवस्था न सिध्येत् ।
मम तुसंसर्गारोपे आद्यः, तादात्म्यारोपेऽन्त्य इति न दोष इति वाच्यम्, संसर्गाद्यारोपनियामकस्‌यैवात्यन्ताभावादिबोधकत्वसम्भवात्2. [fn ख.लौतितप्रत्यक्ष एवारोपस्य हेतुत्वाच्च--पाठः ।] नचप्रमायां गुणस्य कारणत्वानुरोधेन प्रतियोग्यारोपस्याभावप्रमायां हेतुत्वात् सर्वत्रैव स हेतुरिति वाच्यम्, प्रमाया गुणजन्यत्वे मानाभावात्, प्रमात्वस्य कार्यतानवच्छेदकत्वाच्च ।
अस्तु वा, अरोपः कारणम्, तथापि शब्दान्न तद्बोधोऽनुभवसिद्धः, अभावबोधस्यैव सर्वानुभवसिद्धत्वादिति सम्प्रदायः3.[fnख. वस्तुतस्तु--यत्र नञसमभिव्याहारे . प्रतियोग्यनुयोगिनोराधाराधेयभावेनान्वयः, तत्ररोपिततद्बोधोत्तरं नियमेनात्यन्ताभावबोधः । अन्यत्र भेदबोध इति व्यवस्था । एवञ्च नञः सर्वत्रैकयैव शाक्त्या निर्वाह्ग इत्यपरे--इत्यधिकः पाठः ।

नव्यास्तु--समासेऽपि भेद एव नञर्थः, परन्तु स विशेषणम्, भेदप्रतियोगी घट इत्येव बोधः । अतः सर्वनामकार्य तत्पुरुषस्योत्तरपदार्थप्राधान्यञ्च 'अत्वं भवसि,अनहं भवामि' इत्यादौ पुरुषव्यवस्था च । 'रक्षोहागमलध्वसन्देहाः' इत्यादावपि अभावप्रतियोगी सन्देह इत्येव बोधः । एवञ्च 'अनेकम्' इत्यादावेकवचननियमोऽप्युपपन्नः । 'पतन्त्यनेके' इति त्वेकशेषेण साधु । स्पष्टं चेदं भाष्ये इत्याहुः, तत्, न;अनुभवविरोधात् । 'अधटमानय' इत्युक्ते घटानयनानापत्तेश्च । यत्किञ्चिद्भेदप्रतियोगिघटानयनस्यैवापत्तेश्च ।
परे तु 'घटभिन्नः' इत्येव बोधः । 'अत्वं भवसि' इत्यादौ नञो द्योतकत्वेन युष्मदस्तद्भिन्ने लाक्षणिकत्वाद् भिन्नरूपयुष्मदर्थेन सामानाधिकरण्यात् पुरुषव्यवस्या सर्वनामकार्यमपि, "एतत्तदोः सुलोपोऽकोरनञ समासे" [6।1।132] इति ज्ञापकात् सिद्धम्, भिन्नस्यात्तरपदार्थत्वाच्च । "अनेकमन्यपदार्थे"[2।2।24] इत्येकवचनं तुविशेष्यभुत 'सुप्' इत्यस्यैकवचनान्तत्वाद् जात्यभिप्रायेण वा तत् । 'सेव्यतेऽनेकया' इत्यत्रापि 'योषया' इति विशेष्यानुरोधात् प्रत्येकं सेवानान्वयानुरोधाच्चैकवचनम् । अत एव 'पतन्त्यनेके' इत्यादौ बहुवचनमपीति वदन्ति, तत्, न; "तस्य भावः" [ 6।1।111] इति सूत्रस्थभाष्यविरोधादिति प्रपञ्चितं शब्देन्दुशेखरे ।

?0इति नञर्थविचारः ।