वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-७

← वैयाकरणसिद्धान्तमञ्जूषा-६ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-७
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-८ →

अथैवकारार्थविचारः

1[fn अयमाशयः--
अयोगं तथैवान्ययोगमत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिधामतः ।।
इत्यभियुक्तोक्तदिशा एवकारस्यार्थत्रयम् । तथाहि--यत्र विशेषणान्वित एवकारस्तत्र विशेषणस्य असम्बन्धरूपमयोगं निषेधति । यथा--'शङ्खः पाण्डुर एव' इत्यत्र पाण्डुरस्य विशेषणत्वेन तवन्वितेनैवकारेण विशेष्ये शङ्ख पाण्डुरत्वासम्बधं व्यवच्छिन्दता शङ्खस्य पाण्डुरत्वं नियम्यते । तया च शङ्खत्वावच्छेदेन
पाण्डुरत्वसमवायाभावाभावः प्रतियते । पाण्डुरत्वसम्बन्धाभावाभाववान् शङ्ख इति भोधः ।
यत्र पुर्नावशेष्यगत एवकारस्तत्र विशेष्येतरस्मिन् विशेषणिभूतधर्मसम्बन्धं वारयति । यथा--'पाथ एव धनुर्धरः' इत्यत्र पार्थभिन्न धनुर्धरत्वसम्बन्धं वारयन् पार्थे धनुर्धरत्वं नियमयति । अत्र एवार्थोऽन्ययोगव्यवच्छेदः, अन्यशब्दस्य भेदाश्रये शक्तिः, योगः=सम्बन्धः, व्यवच्छेदोऽभावः, पार्थस्य प्रतियोगिकत्वसम्बन्धेन भेदेऽन्वयः । तदाश्रयस्य वृत्तित्वसम्बन्धेन सम्बन्धे, तस्य च सम्बन्धस्य प्रतियोगिताकत्वसम्बन्धेनाभावपदार्थे तस्य धनुर्धरत्वे तस्य च पार्थेऽन्वयः ।
एवञ्च पार्थप्रतियोगिकभेदाश्रयसम्बन्धप्रतियोगिकाभावववद्धनुर्धरत्ववान् पार्थ इति बोधः ।
यत्र तु क्रियान्वित एवकारः, तत्रात्यन्तः सर्वदा योऽयोगः=असम्बन्धः, तस्य निषेधरः । तत्क्रियाश्रये कुत्रचिदपि सम्बन्धबोधक इति तु फलितो।र्थः । यथा 'निलं सरोजं भवत्येव'। अत्र हि न सकले निलत्वं नियम्यते, नाप्यकमलेऽनिलत्वम्, अपि तु यस्मिन् कस्मिन्नपि कमले निलत्वसम्बन्धः।
अत्रैवकारेण सरोजत्वव्यापकत्वं नीलभवनाभावे प्रतिषिध्यते । एवञ्च सरोजनिप्ठो योऽभावस्तत्प्रतियोगि नीलभवनाभावः, सरोजनिष्ठं निलभवनमिति यावतु अभावाभावस्य प्रतियोगिरूपत्वात् । ] एवशब्दस्यायोगव्यवच्छेदे, तद्वति च शक्तिः । तत्र विशेषणसङ्गचस्याद्ये, विशेष्यसङ्गतस्य द्वितीये । न च 'पृथिव्यामेव गन्धः' इत्यादौ विशेषणसङ्गतेऽपि ग्वितीयस्य बोधात्; 'ज्ञानमर्थ गृह्णात्येव' इत्यादौ क्तियायाःसर्वविशेष्यत्वेन तत्सङ्गतेऽप्याद्यस्य बोधात्; इदमत्ययुक्तमिति वाच्यम्, विशेषणपदस्य विघेयार्थकत्वेन विशेष्यपदस्य चोद्देश्यार्थकत्वेनागोषात् । उद्देश्यत्वविधेयते चातिरिक्तो एव विषयते,न तु विशेष्यताप्रकारतारूपे, तत्समनियते वा । अत एव तत्र धात्वर्थक्तियाविधेयत्वप्रतीतिः ।

अयमुत्सर्गः--'चन्द्रेणैवास्तु सदृशं मुखम्' इत्यादौ विशेषणभूचविधेयचन्द्रसमभिव्याहतैवतारेणाप्यन्ययोगव्यवच्छेदबोधनात् । तस्मात् तथाबोधे तात्पर्यमेव नियामकम् । अत एव महाभाष्ये "कर्मणि द्वितीया"[2।3।2] इत्यत्र 'कर्मण्येवद्वितीया' इति नियमे योगव्यवच्छेदं हदि निधाय 'असामान्यापेक्षनियमः' इत्युक्तम् । अन्ययोगव्यवच्छेदं मत्वा 'प्रकृतार्थापेक्षः प्रत्ययनियमः' इत्युक्तमिति बहवः ।

तत्रायोगः=सम्बन्वाभावः, तदभावः । एवमेव सम्बन्धाभावोऽन्योगव्यवच्छेदः ।'शङ्खः पाण्डुर एव' इत्यैदौ पाण्डुरत्वायोगाभाववान् शङ्ख इति बोध इति केचित्, तत्,न;इतरविशेषणत्वेनोपस्थितसस्यापायण्डुरस्यान्यत्वे योगेऽन्वयायोगात् । तस्मात् पाण्डुरतादात्म्याभाववान् शङ्ख इति बोधः । शङ्खत्वावच्छेद्न च तदन्वयः, अन्यश्च । यत्र 'एव' समभिव्याहृतस्य येन सम्बन्धेनेतरत्रान्वयः, स एव योग एवकारर्थतया तत्र त्र भासते । समभिव्याहारवशात् 'शङ्खे पायण्डुरत्वमेव' इत्यादौ पाण्डुरत्वान्यतादात्म्याभाववत्कर्तृका शङ्खाधिकरणिका सत्तेति बोधः ।
यद् वा, पाण्डुरत्वायोगाभावकर्तृका तदधिकरणिका सर्त्तेति बोधः । तत्र प्रायः पाण्डुरत्वादिसम्बन्धत्वावच्छिन्नाभावाभावः शङ्खत्वाद्यवच्छिन्ने भासते । यत्र तु तथा न बोधः, तत्र सामानाधिकरण्येनाप्यन्वयः । यथा 'नीलं सरोजं भवत्येव' इत्यादौ । यथा अत्र हि
'नीलभवनसम्बन्धाभालसमानाधिकरणसरोजत्ववत्कर्तृका सत्ता इति सरोजत्वसामानाधिकरण्येनैवान्वयः, न त्ववच्छेदकावच्छेदेन, बाधात् । एवावतैव क्तियासमभिव्याहृते अत्यन्तायोगव्यवच्छेदबोध इति प्रसिद्धिः ।

यद् वा सरोजत्वसमानाधिकरणतादात्म्यसम्बन्धेन नीलाभिन्नसरोजकर्तृकमयोगव्यवच्छेदि भवनमिति बोधः ।

यत्तु, क्तियासङ्गतस्थले सर्वत्रात्यन्तायोगव्यवच्छेदः प्रतीयत इति ।तत्, न; 'ज्ञानमर्थ गृह्णात्येव' 'आकाशं, परममहत्त्ववद् भवत्येव' इत्यादौ अयोगव्यवच्छेदमात्रप्रतीतेः । 'पार्थ एव धनुर्धरः' इत्यादौ पार्थान्यतादात्म्याभाववदभिन्नो धनुर्धर इत्यन्ययोगव्यवच्छेदप्रतीतिः । अत एव पार्थाकाशावेव धनुर्धराविति न, अन्ययोगव्यवच्छिन्नत्वावच्छिन्नस्येतरपदार्थेऽन्वयात् समभिव्याह्णतपदार्थतावच्छेदेन च पार्थान्ययोगव्यवच्छेदवदप्रतीतेर्न 'पार्थ एव अग्धरः' इत्याद्यापत्तिः ।

ये तु पार्थान्यतादात्म्याभाववान् धनुर्धरः पार्थ इति बोधमाहुः, तेषां पार्थपदार्थस्य द्वेधान्वयो व्युत्पत्तिवैचिञ्यात् पार्थाकाशावेवेति वारणायावश्यक इति बोध्यम् ।

अत्रचान्यस्मिन् योगे व्यवच्छेदे तद्वति च शक्तिः । एतेनान्ययोगत्वावच्छिन्नव्यवच्छेदश्चेत्, अन्यतादात्म्यरूपयोगस्य सत्त्वेनाप्रसिद्धेः कथं सक्तिः ? अन्यसम्बन्धप्रतियोगिकव्यवच्छेदस्याद्रव्यत्वे सत्त्वात् पार्थ इवाद्रव्यमित्यात्तिः । अन्यसंयोगत्वसमवायत्वावच्छिन्नव्यवच्छेदश्चेत्, 'पार्थ एव धनुर्धरः' इत्यादौ पार्थान्यतादात्म्यव्यवच्छेदस्य प्रतीयमानस्यानापत्तिरिति परास्तम् । तत्रन्यपदार्थैकदेशेऽन्यत्वे पार्थदेरन्वायो घटादन्य इत्यादाविव, व्युत्पत्तिवैचिञ्यात् । एकप्रातिपदिकोपस्थितिविशयाणांपरस्परान्वयोऽपि तत एव ।

अत्र व्यवच्छेदे शक्तिः, इतरत्र लक्षणेति नैयायिकनव्याः । एवमयोगव्यवच्छेदेऽपि बोधेयम् । एवम् 'र्पथिव्यामेव गन्धः' इत्यतः पृथिव्यन्यावृत्तिर्गन्धः पृथिवीवृत्तिरिति । अत एव 'पृथिव्यामेवाकाशः' इति न, तस्यावृत्तित्वात् । यत्पदसमभिव्याहारेण यः सम्बन्धः प्रतोयते, एवकारसमभिव्याहारे तस्यैवान्ययोगस्य व्यवच्छेदप्रतीतिरिति न कोऽप्यतिपेरसङ्गः । विभक्त्यर्थ विना कस्याप्यर्थस्यासत्त्वाग् नान्वयः, व्युत्पत्तिवैचिञ्यादिति ।

केचित्तु, पृथव्यतादात्म्याभाववद्वृत्तिर्गन्ध इति बोधः । एवकारार्थबलादेव समभिव्याहृतपदार्थतिवच्छेदकावच्छेदेन तद्वृत्तित्वस्य बोधान्न पृथिव्यामेव रूपमिति प्रयोगः । एवशबेदोत्तरं सप्तम्या लुक्, पृथिव्यामिति सप्तमि साधुत्वार्था, एवशब्दस्य सप्तम्यन्तत्वद्योतनाय । वस्तुतस्तस्यापि पृर्थत्वात् तस्याप्याधारत्वं बोध्यमित्याहुः ।

'चैत्रस्यैवेदं धनम्, मैत्रस्यैवायं आता' इत्यादौ चैत्रान्यस्वत्वव्यवच्छेदस्य मैत्रान्य आतृत्वव्यवच्छेदस्य च बोघः । एतेन सर्वत्रायोगव्यवच्छेद एवार्थः, इत्यपास्तम्, उभयस्वामिकेऽपि चैत्रस्वत्वायोगस्योभयआतृके मैत्रआतृत्वायोगव्यवच्छेदस्य च सत्त्वेन तथाप्रयोगापत्तेः।

किञ्च, 'पृथिव्यामेव सत्ता' इति प्रयोगापत्तिः, पृथिवीयोगाभावाभावस्य सत्तायां सत्तवात् । अन्ययोगव्यवच्छेद एव शत्तिरित्यपि चिन्त्यम् । अथैवम् 'गमनं कुरु' इत्यादावयोगव्यवच्छेदस्यैव स्वरसतः प्रतीतेः 'दण्डादेव घटः' इत्यादेर्विनापि लक्षणामयोगव्यवच्छेदे बोधे साधोरसाधुतापत्तेश्र ।

ननु यत्समभिव्याहृत एवकारः, तदन्वितान्ययोगव्यवच्छेदस्य तदन्वयिन्येव प्रतीतेर्गन्धे पृथिव्यन्यावृम्, तत् । 'शीत एव स्पर्शो जले' इत्यादौ शीतान्यतादात्म्यव्यवच्छेदवान् स्पर्शो जलवृत्तिरित्यर्थः स्यात् ।

एवञ्च 'शीच एव स्पर्शो द्रव्ये' इत्यपि स्यादिति चेत्, न; साघुत्वार्थकविशेषणविभक्त्यन्तसमभिव्याहृतैवकारस्थले भेदेन स्वान्वितविशेष्यान्ययोगव्यवच्छेदस्येतरपदार्थेऽन्वयाङ्गिताकान्न दोषः । एवञ्च शीतस्पर्शाश्रयत्वाभाववज्जलवृत्तिशीतस्पर्श इति बोधः ।

यद्वा, जलवृत्तिस्पर्शत्वावचछेदेन शीतान्यत्वव्यवच्छेदान्वयः । 'चैत्रेणैवायं यज्ञदत्तो दृश्यते' इत्यत्र यज्ञदत्ते चैत्रान्यस्य स्वकर्त्कदर्शनकर्मत्वरूपसम्वन्धव्यवच्छेदो यज्ञदत्ते प्रतीयते, व्युत्पत्तिवैचित्र्यात्, न तु दर्शनचैत्रान्यवृत्तित्वव्यच्छेदः । एवं हि चैत्रदर्षनस्य तदन्यवृत्तित्वेनोभयदृश्यमानेऽपि तादृशयोगापत्तिः स्यात् ।

यद्वा, ईदृशविषये स्वेतरकारकान्वितक्तियात्वाच्छेदेन तदन्यवृत्तित्वप्रत्ययः, व्युत्पत्तिवैचित्र्यात्, अतो नोक्तदोषः । अन्ययोगेत्यत्र योगश्र यत्रैव सम्बन्धभेदेनान्वेति, तत्र भेदरूपः: यत्राभेदेनान्वेति, तत्राभेद इति बोघ्यम् । अन्ययोगव्यवच्छन्नो शक्तौ तु तादात्म्यमेवेति द्रष्टव्यम् ।

'घटत्वं पृथिवोवृत्त्येव' इत्यादावेवकारस्य पृथिव्यन्यवृत्तित्वव्यवच्छेदादौ लक्षणा । समासे उपसर्जनस्य पृथिवीपदार्थस्यान्येनान्वयासम्भवात् ।पृथिवीवृत्त्यन्ययोगव्यवच्छेदबोधस्तु 'द्रव्यत्वं पृथिविवृत्ति' इत्यपि स्यात् । 'जातिमत्येव सत्ता' इत्यत्र जातिमदन्यावृत्तिः सत्तेति बोधः ।

यदि त्वेकार्थसमबायेन सत्ताया अपि जातिमदन्यावृत्तिः सत्तेति बोयधः, यदि त्वेकार्थसमवायेन सत्ताया अपि जातिमदन्यवृत्तित्वम्, तदा समवैतोति अध्याहारेणासमवाये जातिमदन्यानुयोगिकत्वव्यवच्छेदो द्रष्टव्यः । समवायसम्बन्धावच्छिन्नाधारत्वं सप्तम्यर्थः । जातिमदन्यतादात्म्याभाववदधितकणिका सत्तेति बोधो वा ।

'इह भवने मैत्रणैव पक्ष्यते 1. [fn'निष्ठानं तुतेमनं स्यात्' [अभिघान.चि., 3 का., 63 श्ले. ]इतितोषाद् आक्द्रत्वसम्पादको वस्तुविशेषो लोके 'कठी'पदवाच्यो भोज्यपदार्थस्तेमनपदेनोच्यते । तेमनम्]' इत्यादौ एतद्भवनाधिकरणकतेमनकर्मकभविष्यात्मकक्तियात्वावच्छेदेन मैत्रान्यकर्तृकत्वच्छेदप्रतीतिः, व्युत्पत्तिवैचित्र्यात् ।

'रूपं पृथिव्यां वर्तत एव' इत्यादौ 'पृथिव्यधिकरणकवर्तनायोगव्यवच्छेदवद्रपकर्त्तृकं वर्तनम्' इति बोधः, व्युत्पत्तिवैचित्र्यात् । यद्वा, 'रूपकर्तृकंपृथिव्यधिकरणकमयोगव्यवच्छेदि वर्तनम्' इति बोधः ।

'ऋतौस्वदारान् [धावान्]गच्छेदेव' इत्यत्र 'ऋतुकालावच्छिन्नस्वदारकर्मकगमनायोगव्यवच्छेदकर्तृकं गमनं प्रत्यवायाभावरूपेष्टसाधनम्' इति बोधः, व्युत्पत्तिवैचित्र्यात् । इष्डस्य प्रत्यवायाभावरूपत्वं तु 'ऋतुस्नातां तु यो भार्याम्' इतेयादिवचनैकवाक्यतयाऽवगम्यते । अत एकऋतौ गमनेऽपि ऋत्वन्तरे प्रत्यवायपरिहारार्थ प्रवृत्तिः । एवञ्च 'ऋतुकालैकविशेषणतया [तादात्मीय] तदीयगमनाभावः कर्मतासम्बन्धेन सदारनिष्ठः प्रत्यवायसाधनम् । यद्वा, तादृशं गमनं प्रेरणविषय इति बोधः ।

अन्ययोगव्यवच्छेद एव शक्यः । अयोगव्यवच्छेदबोधस्तु लक्षणाविपरीतं वेति तु न विचारसहम्, निपातानामनेकार्थत्वात् । न चैवम् 'शङ्खः पाण्डुर एव, नापाण्डुरः', 'त्वन्मुखं त्वन्मुखेनैव तुल्यम्, नान्येन केनचित्' इत्यादौ 'नापाण्डुरः' इत्यादीनां पौनरुक्त्यापत्तिरिति वाच्यम्, 'अपाण्डुरः शङ्खो न', 'अन्यो धनुर्धरो
न', 'मुखमन्यप्रतियोगिकसादृश्याभाववत्' इत्यर्थेनादोषात् ।

न च पाण्डुराद्यन्यतादत्म्यादिव्यवच्छेदे बुद्धेरनुमानेन व्यञ्जनया वा तदर्थबोधस्यापि जातत्वेन पौनरुक्त्यं तदवस्थमेव, आर्थ्या वृत्तया लब्धस्य पुनः शब्देन प्रतिपादनेऽपि पौनरुक्त्यभावस्यालङ्कारिकैरुक्तत्वात् । 'लवणमेवासौ भुङ्क्ते' इत्यादौ प्राचुर्याद्यर्थकत्वस्यापि दृष्टत्वेन तदर्थकत्वव्यावृत्तये एवकारार्थविवरणमेतदित्यन्ये ।

एवं रीत्या एवकारस्य वाचकत्वेऽनेकस्थलेषु नानाविधाक्लृप्तव्युत्पत्ति[कल्पनागौरवमिति द्योतकतापक्ष एव ज्यायान् । तत्रैव समभिव्याहृतपदस्य क्वचित् स्वान्ययोगव्यवच्छेदवति, क्वचित् स्वान्ययोगव्यवच्छेदे, क्वचित् स्वायोगव्यवच्छेदे, क्वचिद् व्यवच्छेदविशिष्टे स्वार्थे, क्वचिते स्वायोगव्यवच्छेदवति, क्वचिद् एवसंयुक्तविशेषणविशिष्टान्यतत्सजातीयसम्बन्धाभाववति लक्षणेत्याद्यूह्यम् ।

'चैत्रेणैवायं यज्ञदत्तो दृश्यते' इत्यादौ चैत्रान्यावृत्तित्वविशिष्ट इतरकारकविशिष्टे दर्शने लक्षणा, इतरत्तात्पर्यग्राहकम् । यद्वा, चैत्रपदस्य चैत्राद्यतादात्म्याभाववति लक्षणा, 'ऋतौ दारान् गच्छेदेव' इत्यादौ गमे ऋतुकालावच्छिन्नस्वजारकर्मकगमनायोगव्यवच्छेदवत्कर्तृ के लक्षणेत्याद्यूह्यम् । नान्येनेत्यादौ पौनरुक्त्यपरिहारस्तु प्राग्वदेव ।

एवञ्च एवकारसमभिव्याहारे एवार्थः परिसङ्ख्या1. [fn उभयस्य युगपत्प्राप्तावितरनिवृत्तिफलको विधिः परिसङ्ख्याविधिः।तथा हि--
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्रप्तौ परिसङ्खयेति गीयते ।। इति ।
अयमर्थः--अत्यन्तमप्राप्तौ विधिः । यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तम्, तस्य तदर्थत्वेन यो विधिः, सोऽपूर्वविधिः । यथा 'स्वर्गकामो यजेत' अत्र स्वर्गफलकत्वं यागस्य प्रमासान्तरेण न प्राप्तन्, किन्त्वनेनैव वचनेनेत्यपूर्वविधित्वमस्य

नियम इति । यो विधिः पक्षे प्राप्तमर्थ नियमयति, स नियमविधिः । यथा 'व्रीहिन् अवहन्ति' । अस्प वचनस्याभावे तण्डुलनिष्पादनाय वैतुष्यकार्य नखविदलनेनावघातेन च प्रप्तम्, द्वयोर्युगपदसम्भावेन नखविदलनप्राप्तिवेलायामवहननस्यप्राप्त्य भावात् तस्य पाक्षिकी प्राप्तिः स्यात् । सति च तस्मिन् विधौ श्रवघातेनैव वैतुष्यं सम्पादनीयमिति नियमे जाते विदलनं सवर्तते । श्रवघातेनैव नैतुष्यकरणेऽपूर्वोत्पत्तिस्वीकारादिति नियमविधिः ।

तत्र चान्यत्र च प्राप्तौ । उभयस्य युगपत्प्राप्तौ इतरनिवृत्तिफलको विधिः परिसंख्या विधिः । यथा 'पञ्च पञ्चनखा भक्ष्याः' इति । अनेन वाक्येन न भक्षणं विधीयते, तस्य रागतः नायं नियमविधिः, युगपत् प्राप्तेः प्राप्तत्वात् । नायं नियमविधिः, युगपत् प्राप्तेः । तथा च पञ्चपञ्चनखपठ्चेतरपञ्चनखभक्षणस्य युगपत् प्राप्तौ पञ्चपञ्चनखभक्षणेनैन क्षुन्निवृत्तिः कार्या इत्यनेन परिसंख्यायते । पञ्चेतरपञ्चनखभक्षणन्तु निवर्तते इति परिसंख्या विधिरयम् ।] । परिसङ्ख्या चोपात्तातिरिक्ते समभिव्याहृतपदार्थाभावप्रत्ययरूपा । यथा 'पार्थ एव धनुर्धरः' इत्यत्र पार्थान्यस्मिन् धनुर्धरत्वाभावः । स् च नैवकारघटितवाक्यार्थः, किन्त्वार्थ एव, उक्त्रीतेः । शाब्दस्तु 'त्वन्मुखं त्वन्मुखेनैव तुल्यम्, नान्येन केनचित्' इत्यादौ तु प्राप्तानुवादस्य वैय्यर्थ्याद् भक्षेः पञ्चातिरिक्तपञ्चनखकर्मकत्वाभाववति भक्षणे लक्षण । तादृशभक्षणकर्मीभूताः पञ्चसङ्ख्याकपञ्चनखा इति बोधः ।

तत्र 'लोहितोष्णीषाः' इत्यादिवत् प्राप्ताप्तविवेकेन भक्षणए पञ्चातिराक्तपञ्चनखकर्मकत्वाभावे विधेयता बोध्या । तत्र पञ्चातिरिक्तपञ्चनखेषु भक्षणकर्मत्वाभावप्रतीतिरार्थी । एषाप्यार्थ्येव परिसङ्ख्या ।

यत्तु पञ्चपदस्य पञ्चातिरिक्तो लक्षणा, भक्ष्यपदस्य भक्ष्यत्वाभाववति, तेन 'पञ्चातिरिक्ता भक्षणकर्मत्वाभाववन्तः' इति बोध इति । तत्,न; पदद्वयलक्षणापेक्षयोक्तप्रकारस्यैव न्याय्यत्वात्,

'किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः'

इत्यार्थीपरिसङ्ख्योदाहरणमिति प्रकाशादिग्रन्थासङ्गतेश्च । त्वद्रीत्या हि 'द्युसरित्सविधातिरिक्तमासेव्यत्वाभाववत्' इति बोधेन तस्याः शाब्दत्वःत् ।

किञ्च, किमासेव्यमिति प्रश्ने उत्तरत्वानापत्तिः, प्रश्नसामान्यार्थत्वाभावात् । न च प्रश्नवाक्येऽपि लक्षणा, बाधाद्यभावात् ।अत एव शब्दपरिसङ्खयाम् 'कि भूषणं सुदृठमत्र यशो न रत्नम्' इत्युदाहृतं प्रकाशकारैः ।े

किञ्च, कर्मणि द्वितीया[2।3।2] इत्यादेः 'कर्मणि द्वितीयैव' इत्यादि नियमार्थत्वमिति स्पष्टम् । भाष्ये तत्र कर्मणि द्वितीयातिरिक्ता न भवतीत्यर्थः ।

एवञ्च द्वितीयाः कर्मबोधकत्वे साधुत्वाबोघनादे, राजपुरुषाद्येकदेशराजादिभ्यो निरर्थकदिवितीयाद्यापत्तिप्दुर्वारा, अषां शास्त्राणां शक्तिग्राहकत्वानापत्तिश्च ।

न च 'कर्मणि द्वितीया' इत्यपि नियमः, आवृत्तौ मानाभावात्, पर्युदासं विधाय कर्मातिरिक्तोऽर्थे तद्वाकणेऽपि कर्मणि. विधानाभावेनोक्तराजदिभ्यो निरर्थकद्वितीयाद्यापात्तिर्दुर्वारा । मम तु न गोषः, 'द्वितीयातिरिक्तविभक्तिबोध्यत्वाभाववति कर्मणि द्वितीया, इत्यर्थेन निरर्थकेऽप्राप्तेः ।

एतेनात्र नियमे 'अव्ययेभ्यः सप्तापि विभक्तयः' इति परास्तम् । 'कर्मण्येव द्विकीया' इति पक्षेऽपि 'कर्मातिरिक्तार्थबोधकत्लवाभाववति कर्मणि द्वियीयेति वाक्याथन्नि कश्चिद् दोषः । स्वार्थहानिपरार्थकल्पनाप्राप्तबाधपूपदोषत्रयमपि समभिव्याहृतैवपदस्य लक्षणया तत्र पदेऽन्यत्र क्लुप्तस्वार्थत्यागस्य अक्लृप्तपदार्थस्य कल्पनात् पदे दोषद्वयं प्राप्तबाधश्चार्थकल्प्यमानवाक्येनेति मयापि सूपपादमिति सुधियो विभावयन्तु ।

?0इत्येवकारार्थविचारः