वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-८

← वैयाकरणसिद्धान्तमञ्जूषा-७ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-८
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-९ →

अथ तिङर्थविचारः

अथ धातुप्रकृतितिङां प्रसिद्धत्वादर्थो निरुप्यते । 1[fn तिङर्थविचारसाराशः --
'उच्चारित एव शब्दोऽर्थ प्रत्यायको भवति,नानुच्चारितः' इति भाष्यात् ; लोके तथैवानुभवाच्च लादेशानां तिङामर्थनिरूपणाय प्रकरणमिदं प्रारब्धम् । "वर्तमाने लट्" इत्यादिविधायकानाम् " लः कर्मणि" इत्यादिशक्तिग्राहकसूत्राणा़ञ्चादेशार्थं स्थानिन्यारोप्य प्रवृत्तिः ।
तत्र सङ्ख्याविशेषकालविशेषकारकविशेषभावा लादेशमात्रस्यार्थः । धातूनां फलव्यापारावर्यौ, तिङर्थाः कर्तृ कर्मसङ्ख्याकालाः । तत्र सङ्ख्या कर्तृ प्रत्यये कर्तरि, कर्मप्रत्यये तु कर्मणि विशेषणम् । कालस्तु धात्वर्थव्यापारे विशेषणम् । फलव्यापारयोः फलं विशेषण्, व्यापारः प्रधानम् ।
इदमत्र रहस्यम् -- 'क्रियाप्रधानमाख्यातम्' इति निरुक्तान्, "भूवादयोधातवः" इति सूत्रस्थक्रियाप्राधान्यबोधकभाष्याच्च कर्त्राख्याते कर्माख्याते वा सर्वत्र व्यापारमुख्यविशेष्यक एव बोधः । अत एव 'फले प्रधानं व्यापारः तिङर्थस्तु विशेषणम्' इति सङ्गच्छते ।
एव़्च 'ग्रामं गच्छति चैत्रः' इत्यत्र ग्रामाभिन्नकर्मनिष्ठसंयोगानुकूल एकत्वावच्छिन्नचैत्राभिन्नकर्तृको वर्तमानाकालिको व्यापारः ।
'ग्रामो गम्यते चैत्रेण' इत्यत्र तु चैत्राभिन्नकर्तृकवृत्तिवर्तमानकालिक एकत्वावच्छिन्नग्रामाभिन्नकर्मनिष्ठसंयोगानुकीलो व्यापार इति प्राचीनवैयाकरणाः ।
नव्यास्तु -- कर्त्राख्याते व्यापारमुख्यविशेष्यकः, कर्माख्याते तु फलमुख्यविशेष्यको बोधः । 'फले प्रधानं व्यापारः' इत्यादिना व्यापारस्य प्राधान्यबोधनं तु कर्त्राख्याताभिप्रायेण ।
अथवा, तत्र प्रधानाप्रधानोभयपदच्छेदः । प्रधानं कर्तृप्रत्ययसमभिव्यापारतात्पर्यकम्; अप्रधानं तु कर्मप्रत्ययसमभिव्याहारतात्पर्यकमिति न काप्यनुपपत्तिः । अत एव "सुपः आत्मनः क्यच्" इति सूत्रस्थं भाष्यं सह्गच्छते ।
?0वर्तमानत्वादिकालो लडादिद्योत्यः, वाच्योऽपि । पक्षद्वयस्यापि भाष्यादावभिहितत्वात्, युक्तियुक्तत्वाच्च । तथाहि -- तत्तद्धानूनामेव वर्तमानोऽर्थः, लट् तु तद्द्योतकः ।
न च बहूनां धातूनां तत्र शक्तिकल्पने शक्ततावच्छेदकनानात्वाद गौरवमिति वाच्यम्, व्यापारसन्तानस्यैव कालत्वेनाभ्युपगमात् । तस्य च धात्वर्थत्वात् । कालस्य व्यापारसन्तानातिरिक्तत्वे प्रमामाभावात् । तथा च तस्मिन् द्योत्ये लडादय इति "वर्तमाने लट्" इति सूत्रार्थः । तस्माद् द्योतकत्वमेव । लटः ।
एवं वाचकत्वमपि, "वर्तमाने लट्" इति सूत्राद् वर्तमानकाले लड्विधानात्, व्यापारसन्तानस्यकालात्मकत्वाभावाच्च । तथा चोक्तं हरिणा --
'क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।' इति ।
अनेन स्पष्टमेव क्रियापरिच्छेदकत्वं कालस्योक्तम् । नहि स्वपरिच्छेदकत्वं स्वस्य सम्भवति । तस्माद् वाचकत्वमेव लटः ।
नैयायिकास्तु --- लकाराणां कृतौ शक्तिः, कृतित्वजातेः शक्यतावच्छेदकत्वे लाघवात् । 'रथो गच्छति' इत्यादौ व्यापारे लक्षणा । शक्ततावच्छेदकञ्च लकारसाधारणं लत्वमेव । तिप्त्वादिनां शक्ततावच्छेदकत्वे गौरवम् ।
अयमत्र विशेषः -- लत्वेन यत्ने शक्तिः, आत्मनेपदत्वेन च फले । अन्यूनानतिप्रसक्तस्य धर्मस्यैवावच्छेदकत्वनियमेपदत्वस्य तथात्वादित्याहुः ।
?0इति तिङर्थविचारसारांशः ।?0 ] तत्र कर्तृ कर्मविहिततिङामाश्रयोऽर्थः । स च कर्त्तरि व्यापाराश्रयः, कर्मणि फलाश्रयः । आश्रयत्वञ्चाखण्डोपाधिरूपं शक्यतावच्छेदकम् ।

न च तस्याश्रयसम्बन्धनिरूपकादिभेदभिन्नत्वाच्छक्यतावच्छेदकानन्त्यम्, समवायवदेकत्वेऽपि क्षत्यभावात्
। आश्रयतात्त्वञ्चातिरिक्तं सकलाश्रयतानामनुगमकं बोध्यम् । न चाश्रयः प्रथमान्तपदेनैव लब्ध इति 1[ 'तत्र शक्तिः, आश्रयत्वेनत्माभात्' इति ख. पुस्तके । ] न तत्र शक्तिकल्पना युक्ता, अनन्यलभ्यस्यैव शब्दार्थत्वादिति वाच्यम्, 'चैत्रः पचति' इत्यादौ चैत्रत्वादिना तल्लाबेऽपि पचिधात्वर्थव्यापाराश्रयत्वेन तदलाभात् ।

यत्तु नैयायिकाः --- न करतृकरमणी वाच्ये, कृत्याश्रयादेः कर्त्रादित्वेन तत्र शक्तौ गौरवात् । किन्तु कर्तृलकारे कृतिः । न धातुनैव सा लब्धा,'पचति -- पाकं करोति' इति यत्नादेः पृथक्तया विव्रियमाणत्वेन तस्य धात्वशक्यत्वात् । न च घञादिसमभिव्याहृतधातोः फल एव शक्तिः, 'ग्रमो गमनवान्' इति प्रतीत्यापत्तेः, 'काष्ठैः पाकः' इत्यादौ तव कारकन्वयानापत्तेश्च, तव भावनायां कारकान्वयनियमात् । तस्माद् यत्नातिरिक्तव्यापार एव धातुशक्यः ।

ननु 'रथो गच्छति' इत्यादौ कृतेर्बाधात्, करोतेर्व्यापारसामान्यार्थकत्वाच्च धात्वर्थानुकूलवयापार एवाख्यातार्थः । अत एव 'बीजादिनाङ्कुरः कृतः' इति व्यवहारः । 'पचति' इत्यस्य 'पाकं भावयति' इति व्यापारसामान्यार्थकभावयतिना विवरणम्, 'रथो गमनं करोति' इति च विवरणं दृश्यते । कर्तृपदेनापि व्यापाराश्रय एवोच्यते । आख्यातार्थाश्रय इति1 [fn मीमांसकोक्तं इत्यधिकः पाठः ख.] मतन्तु न युक्तम्, आमन्ते कृति च दोषापत्तेः । कृतिरित्यादौ च कृञः कृतौ निरूढलक्षणा । तण्डुलक्रयणादेश्च न पाकाद्यनुकूलत्वम्, अनुकूलताविशेषणस्यैव संसर्गत्वान्न 'पचति' इच्आजिप्रयोगरूपो दोषः2 [fn इत्यकिः पाठः ख. ] । ' पचति ' इत्यादौ यत्नानुभवस्तु यत्नाविनाभूतपाकादिक्रियाविशेषण कारणस्य यत्नस्यानुमानात् । यत्ने वर्तमानत्वप्रतीतिरपि तात्पर्यलिङ्गेन यत्नत्वावच्छिन्ने वर्तमानत्वानुमित्युपगमेनवोपपन्नतादृशवर्तमानत्वप्रतीतौ शाब्दत्वं तु सविवादमेव । वर्तमानत्वाद्यन्वयस्तु आख्यातार्थव्यापार एव, 'पचति, पाकयत्नवान्' इति तु तात्परयार्थविवरणमिति चेत्, न; व्यापारत्वापेक्षया यत्नत्वस्य जातिरूपत्वेन शक्यतावच्छेदकत्वात् ।

करोतेरप्येवम्, वातरोगादिना कम्पमाने चैत्रे स्पन्दानुकूलविजातीयवायुसंयोगरूपव्यापारवत्यपि 'नाऽहं स्पन्दं करोमि, अपि तु वातरोगेण मच्छरीरं कम्पते' इति प्रतीत्या करोतेर्यत्नार्थत्वस्यैवौचित्यात्, पटाङ् कुरयोः कृताकृतव्यवहाराच्च । बीजादिनाङ्कुरः कृत इत्यादावनुकूलव्यापारे कृञो लक्षणा । भावयतीति विवरणमपि कृत्यभिप्रायकमेव । न च कृञो यत्नार्थकत्वे यततेरिवाकर्मकतापत्तिः, शब्द शक्तिस्वभावात् ।

?0यद्वा?0, कॉञ उत्पत्त्यनुकला कृतिरर्थः, यततेर्हि कृतिरर्थः, यततेर्हि कृतिरेवेत्यदोषः । न चैवमुत्पादयतीत्यस्योत्पत्तिं करोतीति विवरमसंगतं स्यात्, उत्पत्तेरूत्पत्त्यभावादिति वाच्यम्, तत्र व्यापारमात्रे लक्षणाङ्गीकारात् । न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया शक्यतावच्छेदकत्वासम्भव इति वाच्यम्, इष्टसाधनताज्ञानजन्यावच्छेदकप्रवृत्तित्वजातिरेवाख्यातप्रवृत्तिनिमित्तत्वोपगमाददोषः । अत एवेश्वरकृतेर्जन्यमात्रजनकत्वेऽपि 'ईश्वरः पचति, ईश्वरो भुङक्ते' इत्यादयो न प्रयोगाः । 'ईश्वको वेदं वक्ति' इत्यादौ तु 'चैत्रः पचति' इतिवन्न स्वारसिकः प्रयोगः । न च 'करोति' इत्यादौ तु व्यापारे लक्षणा, तस्माद् यत्न एवाख्यातार्थः ।

अत एव 'चैत्र एव पचति, नाचेतनं काष्टादि' इति स्वारसिको व्यवहारः । 'काष्ठानि पचन्ति' इति तु 'चैत्रः पचति' इति तु 'चैत्रः पचति' इतिवन्न स्वारसिकः प्रयोगः । न च 'करोति' इत्यादौ द्वेधा यत्नबोधापत्तिः, 'द्वौ' इत्यादिवदुपपत्तेः । 'रथो गच्छति' इत्यादौ च क्रियानुकूलव्यापारे लक्षणा । क्रियायाश्च सामानाधिकरण्यानुकूलत्वाभ्यां व्यापारेऽन्वयः, व्युत्पत्तिवैचित्र्यात् । अतो नान्यदीयगमनानुकूलतोदनादिलक्षणव्यापारवति 'गच्छति' इति प्रयोगः । अनुकूलताविशेषस्यैव वा सम्बन्धत्वान्नातिप्रसङ्गः ।

यदि तु 'निद्राति' इत्यादौ मित्थानाडीमनोयोगरूपनिद्रानुकूव्यापाराप्रसिद्दिः, 'रथो गच्छति' इत्यादावपि तथाननुभवश्चेत्युच्यते, तर्हि 'जानाति,गच्छति, यतते, द्वेष्टि, करोति, निद्राति' इत्यादावश्रयत्वे लक्षणा ।

ननु धात्वर्थस्यैवाश्रयतासम्बन्धेन प्रथमान्तार्थेऽन्वयोस्तु, किं लक्षणाया ? किञ्च, लक्षणापक्षे आश्रयत्वाय सम्बन्धस्याधिकस्य 'जानाति' इत्यादौ भानस्वीकारेण गौरवम् । न च 'तण्डुलः पचति' इत्यादौ तण्डुलादेः कर्मतासम्बन्धेन पाकादावन्वयबोधवारणाय नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युत्पत्त्या न तथा बोधसम्भव इति वाच्यम्, प्रातिपदिकार्थप्रकारक्रियाबोधस्याव्युत्पन्नत्वेऽपि क्रियाप्रकारकप्रातिपदिकार्थविशेष्यकबोधस्याव्युत्पन्नत्वे मानाभावादिति चेत्, न; 'घटः करोति' इत्यादौ 'कृतिकर्मीभूतो घटः' इत्यन्वयबोधवारणाय क्रियाप्रकारकनामार्थबोधस्याप्यव्युत्पन्नत्वात् । सम्बन्धभानगौरवं तु न दोषावहम्, प्रामाणिकत्वात् ।

अस्तु वा तथा, वर्त्तमानत्वाद्यन्वयस्तु सर्वथेदृशे विषये धात्वर्थ एव,न त्वाश्रयत्वादौ । ज्ञानाद्यसत्त्वेऽपि स्वरूपसम्बन्धविशेषरूपस्यातिरिक्तस्य वाश्रयत्वादेः सम्बन्धेऽस्य सत्त्वे जानातीत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादौ तदन्वये तु विशेषणज्ञानादावपि तदन्वयस्यावश्यकत्वेन तस्यैव स्वीकारौचित्यात् ।

न च यत्नस्याख्यातार्थत्वे "कर्त्तरि लः" इत्याद्यनुशासनविरोधः, कृत्यभिधानेनैव प्रथमान्तार्थविशेषणतया कृत्यन्वयेन कृतिविशिष्टस्य कर्त्तुर्बोधनिर्वाहे लस्य तद्बोधकत्वाद् न तद्विरोधः, 'लः कर्मणि' इत्यत्र बोधकताया एव सप्तम्यर्थत्वात्, न तु वाचकता तदर्थः, गौरवेण विशिष्टधर्मिणि शक्तेर्बाधात् । न च 'चैत्रः पचति' इत्यादौ भिन्नाभ्यां रूपाभ्यामेकधर्मिबोधकत्वलक्षणसामानाधिकरण्यानुभवविरोध इति वाच्यम्, तथाननुभवात्, तादात्म्यानन्तर्भावेण स्वार्थान्वितार्थबोधकत्वस्यैव सामानाधिकरण्यस्य प्रतीतेः ।

अस्तु वा तथा सामानाधिकरण्यं लक्षणया, शक्तिस्तु लाघवाद् यत्न एव, अत एव "युष्मद्युपपदे समानाधिकरणे" [ 1।4।105 ] इत्यादीनां नानुपपत्तिः । अत एव च 'किं करोति' इति प्रश्ने 'पचति' इत्येवोत्तरे दत्ते देवदत्तादिपदाभावेऽपि मनसोपस्थिते कर्त्तरि नैकत्वसंशयः, लक्षणयोपस्थते धर्मिणि सङ्ख्यान्वयेनादोषात् ।

'पचति' इत्यादौ कालान्वयस्तु कृतावेव, न तु धात्वर्थे, यत्नशुन्येऽपि पुष्पे तदधीनाग्निसंयोगादिरूपच्याद्यर्थस्य विद्यमानत्वे 'अयं न पचति' इति प्रयोगात्, 'अयं पचति' इत्युक्ते इदानीमयं पाकयत्नवान्न वेति संशयनिवृत्तेस्च । जानातीत्यादौ धात्वर्थ एव तदन्वयध्रौव्यात् । पचतीत्यादावपि तथैव, यत्ननिवृत्तौ पाकानुवृत्तौ 'अयं न पचति' इति तु न भवत्येव पचतीत्यस्यैव दर्शनाच्च ।

एवञ्च कालान्वये नानाकार्यकारणभावकल्पनापिन । इदानीमयं पाकयत्नवान्न वेति संशयनिवृत्तिस्तु तात्पर्यलिङ्गेन यत्नत्वावच्छिन्ने वर्त्तमानत्वानुमित्यभ्युपगमेनोपपन्ने?0त्यन्ये?0 ।

नश्यतीत्यादावुत्पत्तिरपि धात्वर्थः, आख्यातार्थो वा इति तत्रैव कालान्वयः । अतो ध्वंसस्य नित्यत्वेऽपि न सर्वदा नश्यतीति प्रयोगः ।

?0यद्वा?0, उत्त्पतिमदभाव[त्व!] स्यैव नाशपदार्थत्वेन तदेकदेशोत्पत्तौ तदन्वयः । "अनभिहिते कर्त्तरि तृतीया" इत्यादेश्चानभिहितायां कृतावित्यर्थः । कृतिश्चाश्रयत्वादीनामुपलक्षण्, कर्तृधर्मेऽनभिहिते इति यावदिति?0 केचित्?0 । तत्, न ; लकारसामान्यस्यैव कर्तृत्वे शक्तत्वेन 'पच्यते तण्डुलः चैत्रेण' इत्यादावपि तृतीयानापत्तेः । 'किं क्रियते देवदत्तेन' इति प्रश्ने 'पच्यते' इत्युत्तरेण कर्त्तृपदासमभिव्याहृते 'पच्यते तण्डुलः' इत्यादौ 'फलजनकस्पन्दो
वर्त्तमानकृतिजन्यो न वा' इति सन्देहानुदयेन च 'चैत्रेम पच्यते' इत्यस्य 'चैक्षेण पक्वः क्रियते' इति विवरणेन चाख्यातमात्रस्य कर्तृत्वशक्तताया आवश्यकत्वात् । न च कर्तृत्वविशेष्यतया फ्रतिपदिकार्थेऽविवक्षिते सति तृतीया, कर्मत्वविषेष्यतया प्रातिपदिकार्थे विवक्षिते सति द्वितीया इत्याद्यर्थः । अत एव सूत्रे धर्मिनिर्देश्चरितार्थः, अतो न दोष इति वाच्यम्, चैत्रमैत्रोभयकर्तृ कपाकस्थले चैत्रकर्तृकपाककर्त्ता मैत्र इत्यन्वयतात्पर्येण 'चैत्रेण पचति मैत्रः, चैत्रेण पक्ववान् मैत्रः' इत्यादेरप्यापत्तेः ।

न चाश्रयातिरिक्तावशेषणतापन्नं यत् कर्तृ पदम्, तद्विशेषणातानापन्नक्रियायां विशेषणतया प्रातिपदिकार्थविशेष्यकर्तृत्वान्वयविवक्षायां तदुत्तरं तृतीयेति सूत्रार्थः । 'चैत्रेण पाचयति मैत्रः' इत्यादौ ण्यर्थकर्तृत्वविशेषणतापन्नपाकादौ चैत्रादिकर्तृ कत्वान्वयेन तत्र तृतीयासिद्धये आश्रयातरिक्ताविशेषणतापन्नेति ।

तच्चाख्यातार्थाश्रयत्वे विशेषणम् । तस्य चाश्रयातिरिक्तत्वं स्पष्टमेव । कृतिविशेष्यकबोधाभिप्रायेण 'चैत्रेण पचति' इत्येतद्वारणायाश्रविशेषणत्वमुपेक्ष्याश्रयातिरिक्ताविशेषणत्वं निवेशितमिति वाच्यम् सूत्राक्षरैस्तादृशार्थालाभात् । पाचयतीत्यादौ तिप आश्रये लक्षणाग्रहवत्पुरुषीय --- 'चैत्रेण पाचयति मैत्रः' इति प्रयोगे तृतीयाया असाधुत्वापत्तेश्च ।

तस्मात् 'अनभिहिते' इत्यादेरनभिहितसङ्ख्याके इत्यर्थः । न च 'चैत्रेण दृष्टो गटः, घटं दृष्टवान् चैत्रः' इत्यादौ विनापि तिङं सङ्ख्याप्रतीतेः क्लृप्तशक्तिकेन सुपैव सङ्ख्योपस्थितिसम्भवे तिङां न तदभिधायकत्वम् । एवञ्च 'चैत्रः पचति' इत्यादवापि तृतीयापत्तिरिति वाच्यम्, 'चैत्रो मैत्रश्च गच्छतः' इत्यादौ विनापि द्वित्वादिबोधकसुपं द्वित्वादिप्रत्ययात् । न चैकत्वधर्मितावच्छेदकद्वित्वादिबोधः कुतः, एकत्वद्वयाबच्छेदेन द्वित्वधीसम्भवात् । न च सुबैकवचनस्यैव द्वित्वादौ लक्षणास्तु, सुपः प्रकृत्यर्थगतसङ्ख्याबोधकत्वेन चैत्रद्वयमैत्रद्वयबोधापत्तेः ।

ननु कुता सङ्ख्यानभिधानात् तत्र दोष इति चेत्,न ; तत्र कर्तृ कर्माभिधानानभिधानाभ्यामेव व्यवस्थासंभवात् । अन्यतरानभिधाने तृतीयेति सूत्रार्थः । कर्मलकारे कृतिर्न वाच्येति मते तु कृत्यनभिधानमेव तर्तु रनभिधानम् । न च सङ्ख्याभिधानानभिधानाभ्यामेवोक्तानुक्तविभागे सङ्ख्यायाः कर्तृकर्मसाधारण्यनान्वये बाधकाभावेन कर्तृ लकारादौ कर्मादावपि द्वितीयाद्यापत्तिरिति वाच्यम्, एकपदोपात्तत्वेन भावनाविशेष्ये सङ्ख्यान्वयनियमस्वीकारेणादोषात् ।

भावनायाश्चेतरविशेषणीभूतप्रथमान्तपदोपस्थाप्येऽन्वयः, तथैवाकाङ्क्षितत्वात् । भावनापदेन सङ्ख्याकालातिरिक्त आख्यातबोध्यो गृह्यते । तेन जानातीत्यादीनां सङ्ग्रहः । 'नारायण इव नरो हन्ति, चन्द्र इव मुखं दृश्यते' इत्यत्र नारायणे चन्द्रे च सङ्ख्यान्वयवारणायेतराविशेषणेतित् ।

वस्तुतः 'घटो नित्यः' इत्यादितोऽबोधादितरविशेषणत्वेनोपस्थितेः शाब्दमात्रप्रतिबन्धकत्वादत्र विशिष्यतदनिवेशेऽपि क्षत्यभावः । एवञ्च कालेष्टसाधन्त्वाद्यतिरिक्ताख्यातार्थबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकारणभावः फलितः ।

एवञ्च 'न पचति' इत्यत्र भावनानन्वयिन्येव कर्त्तरि तदन्वयेऽपि न दोषः । भावना हि तत्र नञर्थान्वयिनी । 'चैत्रेण सुप्यते' इत्यत्र चैत्रनिष्ठः स्वाप इति बोधाद् विशेष्ये स्वापे तद्वारणाय प्रथमान्तेति । अत एव तत्र भावलकारे प्रथमान्तपदजन्योपस्थित्यभावादनन्वितैव सङ्‌ख्या । अत एव तत्रौत्सर्गिकमेकवचनमेव ।

किञ्च, तवापि कुत्र कर्त्ता वाच्यः, कुत्र कर्त्ता वाच्यः, कुत्र कर्मेत्यत्र विनिगमनाविरहाच्छबादिकं तात्पर्यं वा नियामकं वाच्यम् । तथा च ममापि कुत्र सङ्ख्यान्वय इत्यत्र कुत्र कृतिरेव वाच्या, कुत्र फलमपि, इत्यत्र च तदेव नियामकमिति न काप्यनुपपत्तिः . 'मैत्रेण पच्यते तण्डुलः' इत्यत्र मैत्रनिष्ठभावनाविषयपाकजन्यफलशाली तण्डुल इति बोधः ।

कृतिः फलञ्चाख्यातार्थः । तत्र कृतिर्धात्वर्थविशेषण्, फलं विशेष्यम्, निष्ठत्वं तृतीयार्थः, संसर्गो वा, सङ्ख्यामात्रं तृतीयार्थः, भावनापदेन सङ्ख्याकालातिरिक्त आख्याताथं उच्यते । अत एव भावनाविशेष्ये सङ्ख्यान्वयस्य न भङ्गः । 'रछेन गम्यते ग्रामः' इत्यत्र रथनिष्ठगमनानुकूलव्यापारजन्यफलशालीति बोधः । अत्र निष्ठत्वं तृतीयार्थः । तस्य धात्वर्थे गमनेऽन्वयः । न च फलमपि संसर्गेण गमने, नामार्थधात्वर्थयोर्मेदनान्वयस्याव्युत्पत्तेः ।

?0यद्वा?0, तेन संसर्गेण रथस्याख्यातर्थभावनायमेवान्वयः । न च फलमपि संसर्गोऽस्तु, किं तत्रात्मनेपदस्य शक्तिकल्पनया, तस्य प्रकारतया भानानुभवात् । न च फलावच्छिन्नव्यापारस्य धात्वार्थत्वाद् धातुनैव तल्लाभः, विशेषणविशेष्यभाववैपरोत्यस्याशक्यत्वेन क्रियाजन्यफलालाभात्, यद्रूपविशिष्टे शक्ति, तद्रूपविशिष्टस्यैव पदेनोपस्थितेः । तस्माद् व्यापार एव धात्वर्थः, फलं त्वात्मनेपदार्थः, कृतिश्चेति ।

ननु कृतेरपि तत्राख्यातार्थत्व आख्यातोपस्थापितभावनायाः क्रियाविषयायाः फलेऽन्वयः, उत भावनाविशेष्यक्रियायाः फलेऽन्वयः । नाद्यः, फलस्य क्रियाजन्यफलशालित्वरूपकर्मत्वप्रकारकप्रतीतिविरोधः । अन्त्ये, तिङपस्थाप्यभावनायां क्रियाया विशेषणत्वेनान्यत्र क्लृप्तान्वयो भज्येत, किन्तु तृतीयार्थ एव । 'चैत्रेण पक्वः' इत्याद्युनुरोधेन सुबर्थकृतेः क्रियायां विशेषणत्वेनैवान्वयव्युत्पतेर्द्वितीयप्रकारेणैवान्वयबोधः । 'ग्रामं गच्छति' इत्यादौ तु फलं द्वितीयार्थः ।

वस्तुतस्तु प्रागुक्तानुपपत्त्या कृतेरप्यत्राख्यातार्थत्वमावश्यकम् । व्युत्पत्तयान्ततरमेवात्र कल्प्यमिति प्राञ्चः ।

केचित् तु, धात्वर्थनिरूपणोक्तयुक्तिभिस्तत्तल्फलावच्छिन्नवयापारवाचितैव धातोः । न च धात्वर्थविशेषणत्वेनोपस्थितफलस्य कर्मण्यन्वयावयुत्पत्तेरात्मनेपदार्थफलस्यान्वयो वाच्यः, तस्य च सामान्यरूपेण विशेषरूपेण वा फलसामान्यवाचकत्वात् ।

एवञ्च 'गम्यते ग्रामः' इत्यादौ नियमतः संयोगादिरूपफलशालित्वं ग्रामादेर्न प्रतीयेतेति वाच्यम्, संयोगाद्यवच्छिन्नव्यापारशक्तगम्यादिसमभिव्याहारादेव सामान्यफलशक्तस्याप्यत्मनेपदस्य संयोगादिरूपफलमात्रबोधकताङ्गीकारेणादोषात् । न च विशेषरूपेण फलसामान्यबोधकत्वे शक्त्यानन्त्यम्, इष्टापत्तेः । तदादिवद् बुद्धिस्थत्वेन शक्यतावच्छेदकानुगमेन वा न शक्त्यानन्त्यम् ।

एवञ्च 'गम्येते ग्रामः' इत्यत्र संयोगावच्छिन्नव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधः । 'ग्रामं गच्छति' इत्यादौ द्वितीयार्थश्चाधेयत्वं व्युत्पत्तिवैचित्र्याद् धात्वर्थतावच्छेदकेऽपि फलेऽन्वेति । एकदेशान्वयास्वूकारे तु तत्रापि फलमेव द्वितीयार्थः । ग्रामनिष्ठसंयोगजनकसंयोगावच्छिन्नक्रियानुकूलकृतिमानिति बोध इति वदन्ति ।

अत्र पक्षेऽपि संयोगस्य द्वेधाभानमनुभवविरुद्धमिति द्वितीयात्मनेपदयोर्न फलमर्थः, किन्तु धारोरेव, फलव्यापारौ पृथक् शक्यौ । एवञ्च द्वितीयाया आधेयत्वं कर्माख्यातस्याश्रयत्वम्, फलं तु कर्तृप्रत्ययसमभिव्याहारे धात्वर्थे व्यापारे विशेषणम् । कर्माख्यातसमभिव्याहारे तु1 [fn इदमत्राकूतम् --- यथा तद्यवित्यादिशब्दानां
घटत्वपटत्वादिरूपेण नानार्थशक्ततया नानार्थकत्ववारणाय स्वीयविषयतावच्छेदकत्वसम्बन्धेन वक्तृविशेषोपलक्षिता ये घटत्वपटत्वादयो धर्माः, तदवच्छिन्ने तदादीनां शक्तिस्वीकारेण न नानार्थकत्वम् ; तथाऽत्रापि स्वीयविषयताऽवच्छेदकत्वसम्बन्धेन पचादिधातुप्रयोक्तृसमवेतबुद्दिविशेषोपलक्षिता ये फूत्कारत्वादयो धर्माः तदविच्छिन्नशक्यतानिरूपितशक्ततावत्त्वस्य पचादौ स्वीकारात् ।
अनुनुगतनानाधर्मावचिछिन्नशक्यतानिरूपितशक्ततावत्त्वस्यैव नानार्थकत्वेन प्रकृते बुद्धिविशेषस्यानुगमकस्य सत्त्वेन नानार्थकत्वाभावः । ] 1[fn ख. नास्ति ।] यगात्मनेपदादिरूपतात्पर्यग्राकवशाद् विशेष्यमित्येव साम्प्रतम् ।

'देवदत्तेन ज्ञायते' इत्यादौ विषयत्वं कर्मप्रत्ययार्थः, तृतीयार्थ आधेयत्वम् । 'क्रियते घटः' इत्यादौ साध्यतया कृतिविषयत्वमेव कर्मप्रत्ययार्थः । अतः 'आकाशं करोति' इत्यादयो न प्रयोगाः ।

नन्वेवं कृतामपि कर्तृकर्मणोः शक्तिर्न सिध्येत्, कृतयाश्रयत्वादावेव शक्तेरुचितत्वात् । अव्ययनिपातार्थवत् प्रत्ययस्यापि भेदेनान्वयानुभावकत्वान्न नामार्थयोरभेदानवयव्युत्पत्तिविरोध इति चेत्, न ;
चैत्रो गन्ता गतो ग्र्मः, मित्रा पक्त्री, गतं पुरम् ।
भोक्ता तृप्यति, पक्वानि भुङ्क्ते, पक्ताऽपसार्यताम् ।।
इत्यादौ पुंलिङ्गस्त्रीलिङ्गनपुंसकलिङ्गत्वनियमदर्शनेन पूर्वार्धोपात्तानामभेदान्वय एव साधुत्वोपगमेन तस्य धर्मिशक्तिं विनानुपपत्तेः, भोजनानुकूलकृतौ तृप्त्याश्रयत्वस्य भोजने पाकफलविक्लित्यादिकर्मकत्वस्य बाधाच्च । तस्मात् कर्तृविहितकृतां कर्तरि, कर्मविहितानां तु कर्मणि शक्ति, चैत्रस्य नप्ता इत्यादाविव पदार्थतावच्छेदककृत्यादौ धात्वर्थन्वयः ।

?0यद्वा?0, पक्तेत्यादौ स्वानुकूलकृत्याश्रयत्वसम्बन्धेन पाकादेः कर्त्रादावेवान्वयः । कर्तृत्वकर्मत्वाद्यनभिधाने तृतीयाद्वितीयादय इति न दोषः, कृता विशिष्टस्याप्यनभिधानात् ।

ननु कृतामपि धर्मवाचकत्वमेवास्तु, विशिष्टे तु लक्षणास्तु । 'भोक्ता तृप्यति' इत्यादौ सामानाधिकरण्यानुभवानुरोधात् 'चैत्रो गन्ता' इत्यादावपीति चेत्, न ; विशिष्टशक्त्युच्छेदापत्तेः, सर्वत्रैव धर्मे शक्तिः, विशिष्टे लक्षणेत्यस्य वक्तुं शक्यत्वात् । शक्ततावच्छेदकञ्च श्रूयमाणतित्वादिकमेव, न तु सकलसाधारणतिङ्त्वम्, तस्य दुर्वचत्वात् । न च पाणिनीयसङ्केतविशेषसम्बन्देन तिङ्पदवत्त्वं तत्, "आदिरन्त्येन" [ 1।1।71 ] इत्येतच्च संकेतग्राहमिति वाच्यम्, तदविदुषामपि बोधात् ।

किञ्चैवं घटादिवाचकघटादिपदेष्वपि कस्यचिच्छब्दस्य पुरुषविशषीयसङ्केतसम्भवेन तुल्ययुक्त्या तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकत्वापत्तेः । तिबादिषु पाणिनेस्तिङ्पदसङ्केतवत् पुरुषान्तरीयशब्दान्तरसङ्केतस्यापि सम्भवेन तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततापत्तौ विनिगमनाविरहाच्च ।

एतेन सङ्केतविशेषसम्बन्धेनाख्यातपदवत्त्वादिरूपमाख्यातत्वादिशक्ततावच्छेदकमित्यपास्तम् । नापि लत्वम्, तदजातोऽपि बोधात् ।
किञ्च, तस्य वाचक्तवे शत्राद्यनुरोधेन सल्य नानार्थतापत्तिः ।

किञ्च, स्मारकतावच्छेदकशक्ततावच्छेदकोभयकल्पनापेक्षया शक्ततावच्छेदकस्यैव कल्पने लाघवेन 'पपाच' इत्यादावनेकेषां स्मारकतापत्त्या च स्थनिनामनियतत्वेन चाव्यवहृतत्वेनादेशानां वाचक्त्वेऽस्यैव युक्तत्वम् । अत एवैधामित्यादावामन्तेनैव कर्तृ बोधः ।

न च 'हरेऽव' इत्यादौ पूर्वरूपादिस्थले परलोपादिविधानाद् व्याकरणानां कलहे कियान् सम्बोधनविषयार्थस्य, कियान् क्रियाया इत्यर्थस्य, वस्नसादौ कियान् द्रव्यवाचकः, कियांश्च कर्मत्वादेरित्यर्थस्य च नियन्तुमशक्यत्वेन प्रथमव्युत्पत्तेः समुदाय एव सत्त्वेन च पदे वाक्ये च शक्तिकल्पनापत्तौ वाक्यपदस्फोटापत्तिरिति वाच्यम्, प्रत्येकं पदानामवधृतशक्तिकानां समुदायेन यथा व्युत्पत्तिस्मृतानां तत्तदर्थोपस्थपनद्वारा वाक्यार्थबोधकत्वसम्भवान्न तदापत्तिः । लस्य तु न क्वापि शक्तिरवधृतेति न दोषः इति वदन्ति ।

?0अत्राहुः?0 -- लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्यापि गुरुणि स्वीकारे बाधकाभावः । न च कारणतावच्छेदकत्ववत् शक्यतावच्छेदकत्वं स्वरूपसम्बन्धविशेषः, तच्च सम्भवति 'लघौ गुरौ' न कल्प्यते । लक्ष्यतावच्छेदकत्वं तु न तथेति वाच्यम्, वैषम्ये बीजाभावात् ।

किञ्च, स्वरूपसम्बन्धो यदि तत्तत्स्वरूपम्, तदा गुरुधर्माणामपि सत्त्वात् कानुपपततिः, अतिरिक्तत्वे लक्ष्यतावच्छेदकस्यापि गुरौ कथं कल्पनम् ?

किञ्च, गुरुधर्मेष्ववच्छेदकत्वाभावकल्पनापेक्षया अन्यत्र कल्प्यमानावच्छेदकत्वीयसम्बन्धस्यैव कल्पना युक्ता, भावकल्पनायां लाघवात् ।

किञ्च, अवच्छेदकत्वं न स्वरूपसम्बन्धः, नाप्यतिरिक्तम्, मानाभावात् । किन्त्वन्यूनानतिरिक्तवृत्तित्वमेव । तच्च गुरुण्यपि । एवं कारणतावच्चेदकत्वप्रतियोगितावच्छेदकत्वादीत्यन्यत्र विस्तरः ।

एवञ्चावचछछेदकलाघवगौरवचिन्ताऽयुक्ता ।

किञ्च, यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादः, तत्रैव लघुरूपावच्छिन्ने शक्ति, गुर्ववच्छिन्ने लक्षणा । प्रकृते च कृतित्वेनाख्याताद् बोधः सविवादः । नचानन्तकृतीनां शक्यतावच्छेदकत्वे तद्भेदाच्छक्त्यानन्त्यापत्तिः, आश्रयत्वस्यैकस्यैव शक्यतावच्छेदकत्वात् । तस्य नानात्वेऽप्याश्रयतात्वस्य शक्यतावच्छेदकानुगमकस्य सत्त्वेन शक्त्यानन्त्याभावात् ।

किञ्च, कर्तृतङः कृतिः कर्मतङः फलम्, आश्रयत्वं वेति त्वत्पक्ष एव शक्त्यानन्त्यम्, मम तु सर्वत्राश्रय एवेति न तत् । लक्षणायां विनिगमना विरहाच्च् ।

किञ्च, करोतिरपि धात्वंशस्यैव विवरणम्, विवरणे पाकशब्दश्च विक्लित्तिमात्राभिधायकः । अत एव फलानुत्पाददशायां पाको जातो न वेति प्रश्ने भविष्यतीत्यप्युत्तरं दृश्यते । व्यापारान्तर्भावेण प्रश्ने जायत इति च । न च धात्वर्थात् पृथग्विवरणानुपपत्तिः, पचतीत्यत्र धात्वर्थख्यातार्थयोः संसर्गमर्यादया भासमानस्यानुकूलत्वस्याकारकशक्तिरूपस्यापि पाकमिति द्वितीयया कारकशक्तिरूपेण प्रकारतया विवरणवद् धात्वर्थभूताया अपि कृतेस्तथाविवरणोपपत्तेः ।

अपि च , कृतेर्व्यापारिविशेषतया कृत्तिङभयानुगतत्वेन फूत्कारादौ धातोः शक्तिकल्पनाया आवश्यकत्वेन करोतीत्यादौ धातोर्नैरर्थक्यापत्तेश्च । प्रकृतेरेव शक्तिकल्पनाया युक्तत्वेन धातुत एव लाभात् तत्राख्यातस्य शक्तेरुक्तिसंभव एव न ।

वस्तुतः कॉञोऽपि न यत्नार्थकत्वमिति धात्वर्थंनिरूपणे उक्तम् । वातरोगादिना कम्पमाने देवदत्ते नाहं स्पन्दं करोमीति व्यवहारस्तु स्पन्दोत्पत्त्यकूलासाधारणव्यापारस्य तदर्थत्वादुपपन्नः, तादृशव्यापारस्य देवदत्तेऽभावात, व्यापारमध्ये कृतेरपि निवेशाच्च । अङ्कुरो न कृत इति व्यहारः, उत्पत्त्यनुकुलकृत्यभावमात्राभिप्रायेण, लक्षणा वा तत्र कृञः, तव मते बीजादिना कृत इत्यादाविव व्यापाराणां तत्तद्रूपेण वाच्यत्वेऽपि शक्यतावच्छेदकानां बुद्धिस्थत्वेनानुगमान्न शक्त्यानन्त्यम् । उत्पत्त्यवच्छिन्नव्यापारशक्तसयापि व्यापारमात्रे लक्षणया उत्पत्तिं करोतीत्यादिनिर्वाहः । न च तव मते अभेदसम्बन्देनाख्यातार्थाश्रयप्रकराकबोधं प्रति प्रथमान्तपदजन्योपस्थितिर्हेतुः, तदर्थसङ्ख्याप्रकारकबोधे तदर्थाश्रयोपस्थितिर्हेतुः, तदर्थकालप्रकारकशाब्दबोधे धातुजन्योपस्थितिर्हेतुरिति कार्यकारणभावत्रयम् ।

?0मम?0 तु कालेष्टसाधनत्वाद्यतिरिक्ताख्यातार्थबोधे प्रथमान्तपदन्योपस्थितिर्हेतुरिति सङ्ख्याभावनयोरेक इति लाघवमिति वाच्यम्, किं करोतीति प्रश्ने कर्तृ पदाघटितपचतीत्युत्तरमात्रदाने कर्त्तरि एकत्वसंशयनिवृत्तिदर्शनेन तत्र लक्षणयोपस्थिते कर्त्तरि एकत्वान्वयस्य त्वयाप्यङ्गीकारेण सङ्ख्याप्रकारकबोधे तदर्थकर्त्रुपस्थितिकार्यकारणभावस्य त्वयाप्यवश्यवक्तव्यत्वात् । सर्वत्र तथानङ्गीकारेम तत्तद्वाक्योयत्वनिवेशेनात्यन्तगौरवञ्च । सङ्ख्याभावनान्वयकार्यकारणभावे कालेष्टसाधनत्वाद्यतिरिक्ताख्यातार्थत्वेन निवसेऽधिकगौरवञ्च ।

?0कॢञ्च?0, आख्यातेन क्वचित् कृतेः, क्वचिदाश्रयत्वास्य बोधः, कृतेः क्वचिद् धातुना, क्वचित् प्रत्ययेन बोध इत्यर्थस् पर्यवसितत्वेन तव मतेऽनेकक्लिष्टकार्यकारणभावापत्तिः, तत्तद्व्युत्पत्त्यनुसारेण तथा तथा कार्यकारणभावानां सर्वेषामावश्यकत्वेन तल्लाघवगौरवविचारस्यायुक्तत्वाच्च ।

?0किञ्च?0, "युष्मद्युपपदे" [ 1।4।105 ] इत्यादौ समानाधिकरणे इत्यक्ते ऋष्यनुभवसिद्धसामानाधिकरण्यस्य त्वन्मतेऽनुपपत्तिः । न च तिर्ङ्थसङ्ख्यान्वयिवाचकत्वमेव तत्र सामानाधिकरण्यम्, तादृशस्य सामानाधिकरण्यपदेनाव्यवहारात् । न च लक्षणया सामानाधिकरण्यम्, शक्तेरेवोचितत्वात् । अन्यथा विशिष्टशक्त्युच्छेदः, कृतिमात्रूबोधस्य क्वाप्यभावात् । यदि तु पचतीत्येतावन्मात्रोक्तौ तन्मात्रबोध इत्युच्यते, तर्हि तदुक्तौ कर्त्तरि एकत्वसंशयापत्तिः, पक्ता जात इत्यादौ कृत्यपि कृतिमात्राभिप्रायेण प्रयोगस्य वक्तुं शक्यत्वात् तिङ्कृतौ वैषम्यं दुरुपाद़ञ्च ।

?0किञ्च?0, कालेष्टसाधनत्वाद्यतिरिक्ताख्यातार्थबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकारणभावे व्यभिचारः । कार्यकारणभावान्तरकल्पने तु गौरवम् ।

?0किञ्च?0, विधेयस्योद्देश्यकोटौ प्रवेशानौचित्येन त्वदुक्तार्थोऽनुचितः, कर्त्रादौ युष्मत्समानाधिकरणे यो लः, तस्य स्थाने मध्यम इत्यर्थस्यैवोचितत्वम् ।

?0किञ्च?0, संख्यान्वयनियमोऽपि दुरुपपादः । न च शबादिकं तात्पर्यग्राहकम्, कर्त्रर्थे सार्वधातुके शबित्याद्यर्थस्य सत्त्वेन तेषां सङ्ख्यान्वये तात्पर्यग्राहकत्वस्य निरूपयितुमशक्यत्वात्, यदपि "अनभिहिते" इत्यस्यानभिहितसङ्ख्याक इत्यर्थ इति । तदपि न ; देवदत्तः पक्तेत्यादौ तृतीयापत्तिः ।

?0अपि च?0, तिङ्विधौ ह्येकयरित्यादेरूपस्थितस्य किं लकारार्थस्यैकत्वादावित्यर्थः, उत तिङुपात्तार्थान्वयिगतैकत्वादावित्याद्यर्थः ? आद्ये सिद्धं न इष्टम् । अन्त्ये तु देवदत्तादिपदोत्तरसुपैव तस्योक्तत्वेन तत्र तिङ्विधानानुपपत्तिः ।

?0किञ्च?0, तव मते पचति, ज्ञातेत्यादौ नानारूपं कर्तृं त्वं वाच्यम्, ?0मम?0 तु सर्वत्रैकरूपमेव तत् ।

?0 किञ्च?0, तव लविधौ कर्तृग्रहणस्य नानार्थतापत्तिः, तृतीयादिविधावपि क्वचित् कृतौ, क्वचिदाश्रयत्व इत्याद्यर्थे वैरूप्यम् । न च कृतौ तृतीयेत्याद्येव सूत्रार्थः, 'रथेन गम्यते' इत्यादावनुपपत्त्या तृतीयादीनां लक्षणेति वाच्यम्, सुब्विभक्तौ न लक्षणेति त्वत्सिद्धान्तात्, अर्थनिर्देशस्य व्यर्थत्वापत्तेश्च, अन्यार्थोऽसाधुत्वबोधनं हि तत्फलम्, त्वद्रीत्या लक्षणया सर्वत्र साधुत्वस्येष्टत्वात्, व्यत्ययानुशासनवैयर्थ्यापत्तेश्च ।

?0 किञ्च?0, 'कूलं पिपतिषति'त्यादावचेतने चेतनत्वारोपवद् रथादावपि चेतनत्वारोपेण तिङादीनां कृत्यर्थकत्वोपपत्तौ लक्षणाश्रयणं व्यर्थम् । न च व्याकरणस्मृतेः साधुत्वमात्रे तात्पर्येणार्थव्यवस्थापकत्वान्न दोषः इति वाच्यम्, अर्थविशेषपुरस्कारेणैव साधुत्वस्य वक्तव्यत्वेन ऋष्यनुभवानुरूढार्थानुवादबलेन तादृशार्थ एव साधुत्वस्यौचित्यात् । अत एव पचतीत्युक्ते कः कीदृश इति प्रश्नः, पण्डितो घनश्याम इत्युत्तरञ्च सङ्गच्छते । अन्यथा कर्त्तुरनुपस्थितौ क इति विशेषजिज्ञासानुपपत्तिः ।

किं चैवं कृतामपि कर्तृ वाचकत्वानापतिः । न च चैत्रो गन्तेत्यादौ समानाधिकरणप्रतिपादिकार्थयोरभेदान्वयव्युत्पत्तेर्भेदेनान्वये चैकपदोत्तरविरुद्धविभक्तिमत्पदजन्योपस्थितेर्हैतुत्वाच्च भेदेनान्वयासम्भवेनाभेदान्वयो वाच्यः, स च कर्तुर्वाच्यतां विनाऽनुपपन्न इति वाच्यम्, राज्ञः सुतस्य धनमित्यादौ सति तात्पर्ये उभयविधबोधस्यापि दर्शनेन कार्यकारणभावद्वयस्यापि व्यभिचरितत्वात् तथा तथा बोधे तात्पर्यज्ञानहेतुतयैव निर्वाहस्यावश्यकत्वेन चैत्रो गच्छतीत्यादाविव कृतेराश्रयतया चैत्रेऽन्वयेनाक्षतेः । न चैवमपि मित्रा पक्त्रीति लिङ्गसामानाधिकरण्यात् कृति कर्त्ता वाच्यः, ईदृशानां धर्मवाचत्वेऽपि शुक्लादिपदानामिव विशेष्यनिघ्नत्वस्य वक्तुं शक्यतया वस्त्वव्यवस्थापकत्वात् ।

?0किञ्च ?0समानाधिकरणविशेषणस्य विशेष्यसमानलिङ्गत्ववत् तादृशविशेषणस्य विशेष्यसमानसङ्ख्यत्वनियमादाख्यातस्यापि धर्मिवाचकत्वमावश्यकम् । अन्यथा देवदत्ताः पचतीत्यादेरप्यापत्तेः । चैत्रो मैत्रश्च सुन्दरावित्यादौ व्यभिचारान्न तथा नियम इति चेत्, 'क्षुदुपहन्तुं शक्यम्' इत्यादौ व्यभिचारेण त्वदुक्तनियमस्याप्यभावात् । न च केवलकृतौ प्रयोगाभावः, आख्यातेऽपि समत्वात्, कृत्याश्रयस्यात्मनो जननासम्भवेन पाचको जात इत्यादेः सत्त्वाच्च । न कृति कृतेरेव वाच्यत्वे चैत्रे गन्तेत्याद्यापत्तिः, चैत्रे गच्छतीत्यस्याप्यापत्तेः । यद्यप्याख्यातार्थस्य प्रथमान्तपदोस्थाप्य एवान्वयः, तथापि कृतेर्विषयतया काष्ठादावन्वयविवक्षायां चैत्रे पचति काष्ठमित्यादेर्दुर्वारत्वम्, भोक्ता तृप्यतीत्यादौ तु कृतः कर्त्तरि लक्षणास्तु, तस्मादभेदान्वयानुभव एव कृत्सु कर्तृ शक्तौ प्रमाणं वाच्यः, विशिष्टशक्त्युच्छेदापत्तिश्च ।

एवं च 'पचति कल्पं देवदत्तः , इत्यादावभेदान्वयदर्शनात् त्वद्रीत्या युक्तत्वाच्च चैत्रः पचतीत्यादावन्वयानुभवच्च विशिष्टशक्त्युच्छेदापत्तेश्चाख्यातस्यापि कर्तृवाचक्तवासिद्धिः ।
यत्तु नामार्थयोरित्यत्र नामत्वं न वैयाकरणपरिभाषितम्, किन्तु सुपः पूर्ववृत्तित्वे सत्यर्थवत्त्वात् । एवञ्च तिबुत्तरं सुबभवान्न दोष इति, तत्,न ; आमन्तोत्तरं सुपः सत्त्वेन पाचयामासेत्यादौ कृतेर्भेदेन सम्बन्धेनान्वयानापत्तेः आमन्तोत्तरलिटो धर्मिवाचकत्वे आमन्ततिङन्तयोरभेदान्वयो दुर्लभः ।

?0किञ्चैवं?0विधनामग्रहणे छत्रीत्यादौ प्रकृतिप्रत्ययार्थयोरभेदान्वयापत्तिः, अनुशासनबलादेवार्थान्वययोर्निर्णये तु सिद्धं न इष्टम् । न च कल्पबादीनां कर्त्तरि लक्षणा, पाचक इत्यादावपि सुपां लक्षणयैवोपपत्तेः । आचार्यकल्पावित्यादिवत् कर्तृ द्वित्वादिविवक्षायां पचति कल्पमित्यादावपि द्विवचनाद्यापत्तिः, अनुशा नबोधितार्थे
स्वेच्छामात्रेण लक्षणायामसाधुतापत्तेश्च ।

किञ्च, तत्र कर्त्तरि लक्षणायां पक्ता गच्छतीतिवत् पचति कल्पं गच्छतीत्यस्यापत्तिः ।

यदपि कर्माख्याते फलमात्मनेपदार्थ इति । तत्र धात्वर्थ एव विशेषणविशेष्यभाव्यत्यासमात्रेणोपपत्तौ पृथक् प्रत्ययस्य शक्तिशल्पने गौरवात् । तत्र तात्पर्यग्राहकमात्मनेपदं यगादि चास्तु ।

?0किञ्च?0, नव्यनैयाचयिकनये तत्र कृतेराख्यार्थत्वाभावेन तृतीयान्तासमभिव्याहृत 'किं क्रियते' इति प्रश्ने पच्यत इत्युत्तरानापत्तेः, कृञस्तव यत्नार्थकत्वात् । न च तत्र कृतिरप्याख्यात्र्थः । तस्यां धात्वर्थविशेष्यतायाः क्लप्तत्वेनानान्वयापत्तेः ।

?0किञ्च?0, कृत्यभिधानेनैवाभिधानव्यवस्थाङ्गीकारेण कर्त्तरि तृतीयानापत्तिः । कृतेर्धात्वर्थत्वे तु सिद्धं न इष्टम् ।

?0किञ्च?0, प्राचीननये करोतीत्यादौ कालान्वयस्य धात्वर्थऽङ्गीकारेण पचतीत्यादौ चाख्यातार्थे तदन्वयेन वैषम्यापत्तिः । मम तु सर्वत्र धात्वर्थे एवान्वय इति न दोषः ।

एतेन कालस्य धात्वर्थेऽन्वयात् पदद्वयघटितः कार्यकारणभावस्तव, अस्माकन्त्वाख्यातार्थ एवेति लाघवमित्यपास्तम् । 'भूतं पक्वं जानाति' इत्यादौ कालान्वयाय तस्य तवाप्यावश्यकत्वाच्च ।

?0किञ्च?0, कृतौ कालान्वये पाकशालायां काष्ठज्वलनाद्यनुकूलं व्यापारं कृत्वा पच्यमानमोदनं पश्यति निर्व्यापारतया तिष्ठ देवदत्ते पचतीत्यनापत्तिः । ?0मम तु?0 पाक्यवस्तुतिष्ठविक्लित्यनुकूलव्यापाराधिकरणवृत्तित्वविशिष्टपाकशालावस्थानरूपव्यापारस्य धात्वर्थस्य विद्यमानत्वान्न दोषः इति दिक् ।

?0मीमांसकास्तु?0, फलावच्छिन्नव्यापाररूपधात्वर्थनुकूलो व्यापारः, कृत्यादिरूप आख्यातार्थः । स च व्यापारत्वेनैव । एवञ्च जानातीत्यादौ न लक्षणा । कृत्यादिव्यापारस्तु नैयायिकोक्तयुक्तिजालैर्विशेष्यत्वानुरोधेन च तिङ एव वाच्यः । कालान्वयस्तु धात्वर्थव्यापारे, आख्यातार्थेऽपि वा । धात्वर्थव्यापाराश्रयत्वमेव कर्तृत्वम्, तदर्थफलाश्रयत्वंच कर्मत्वम् । "अनभिहिते" इत्यस्याबोधिते कर्त्रादावित्यर्थः, बोधश्च शक्त्या, आक्षेपद्1[fn मीमांसकमते आक्षेपः = अर्थापत्तिः, येन विना यदनुपपन्नम्, तेन तत् कल्प्यते । यथा 'पीनोऽयं देवदत्तो दिवान भुङ्क्ते' इत्यत्र भोजनं विनानुपपन्नेन योगाब्यसाद्यजनयपुष्टत्वेन भोजनं कल्प्यते । तस्यदिवा बाधे रात्रिभोजने पर्यवसानं भवति । एवं प्रकृते भावनायाः कर्तारं विनानुपपत्त्या सा कर्तृरूपमाश्रयं कल्पयति । तथा चानुपपतिज्ञानमर्थापत्त्यपरनामाक्षेपः । तज्जन्यं ज्ञानमपि तन्नामकं प्रमित्यन्तरम् ।
तार्किकमते आक्षेपोऽनुमानम् । यथा 'भावना क्वचिदाश्रिता, गुणत्वात्,सकर्त्तृकका वा कार्यत्वात्, घटवत्' इत्यनुमितिजनकं व्याप्तिज्ञानादिकमाक्षेपः । एव़्चाक्षेपेण बावनाज्ञानोत्तरमर्थापत्त्या, अनुमित्या वा कर्ता बोध्यते । मीमांसकैराक्षेपलभ्यस्यापि शाब्दबोधविषयत्वाभ्युपगमादाख्यातजन्यशाब्दबोधे भानमविरुद्धम् । एवं फलस्यापि स्वाश्रयं विनाऽनुपपत्त्या तेनस आक्षिप्यते ।
ननु वृत्त्या पदजन्यपदार्थोपस्थितेः शाब्दबोधहेतुत्वेनाक्षेपलभ्यस्य शाब्दबोधे हेतुत्वं न सम्भवति।
किञ्च, अनुपपत्त्यादिज्ञानविधुराणामप्यनुभवसिद्धतद्बोधानुपपत्तिः, आक्षिप्ते तत्राख्यातार्थसङ्ख्यान्दयानुपपत्तिस्च, वृत्त्या पदानुपस्थितत्वात् । तथा चोच्यते 'शाब्दी ह्याकाङ्क्षा शब्देनैव
प्रपूर्यते' इति । शाब्दी = शाब्दबोधविषयिणी,आकाङ्क्षा = जिज्ञासा, शब्देनैव प्रपूर्यते = वृत्त्या पदार्योपस्थितिद्वारा विषयसिद्धिसम्पादनेन निवार्यते इति तदाशयः । इत्यत आह -- लक्षणयेति । ] वा, लक्षणया वा । तत्र कृति शक्त्या, तिङि भावनयाक्षेपेण लक्षणया वा ।

न च विपरीतमेव किं न स्यात्, प्राधान्येन प्रतीयमानत्वात् । भावनायाः प्रत्ययवाच्यत्वे स्थिते तया कर्तुराक्षेपो युक्तस्तिङि, कृति त्वाक्षेपलभ्यत्वे तिङीव तस्याप्रधान्यापत्तिः। प्राधान्येन प्रतीयमानत्वाच्च तस्य वाच्यत्वम् । संख्यान्वयानुपपत्त्या सामानाधिकरण्यानुपपत्त्या "लः कर्मणि" [ 3।4।69 ] इत्यादौ धर्मिनिर्देशेन च कर्त्रादौ लक्षणावसीयते । लक्षितकर्तारमादायैव च 'देवदत्तः पचति' इत्यादौ सामानाधिकरण्योपपत्तिः ।"लः कर्मणि" [ 3। 4। 69 ] इत्याद्यनुशासनं तु लाक्षणिकाद्यनुशासनमिति वदन्ति ।

यद्यपीदमपि प्रागुक्तदूषणैर्दूषितमेव, तथापि कानिचिदन्यान्यप्युच्यन्ते । तथा हि--- शाब्दयामीत्यनुभवविरोधादाक्षेपोन युक्तः।

किञ्चाक्षेपेण प्रतीतस्याभिधाननियामकत्वे कर्मप्रत्ययेऽपि पच्यते इत्यादेः 'पाकः क्रियते' इति विवरणदर्शनेन भावनाया वाच्यत्वाश्यकत्वे तस्याश्च विनाश्रयमनुपपत्त्या कर्त्तुराक्षेपसम्भवात् । र्त्रभिधाने तृतीयानापत्तिः । न च कर्तृप्रत्यये कर्तरि विधानसामर्थ्याल्लक्षणाश्रयणेऽपि कर्मप्रत्ययस्थले आक्षेपलक्षणयोर्मानाभावः । आश्रयाकाङ्क्षायाश्चैत्रादिपदैरेव शान्तिरिति वाच्यमम्, एवमप्याक्षेपलभ्याय अपि व्यक्तेः प्राधान्यस्य तव मते सत्त्वेन प्राधान्यानुरोधाच्छक्तिकल्पना न युक्ता । अन्यथा व्यक्तेरपि वाच्यत्वापत्तावाकृत्यधिकरणोच्छेदापत्तिः । व्यक्तेरविसेष्यत्वे तु वाहदोहाद्यनन्वयः । न च परिच्छेद्यतयावगतत्वाद् द्रव्यं तथा आख्याते परिच्छेद्यतयाक्षिप्तकर्तुस्तद्वदेव विशेष्यत्वापत्तेः ।

?0किञ्च?0, प्रत्ययार्थः प्रधानमित्यजा, छागोत्यादौ व्यबिचरितम् ।

?0किञ्च?0, कर्त्रा भावनाया एवक्षोपोऽस्तु एवाक्षेपोऽस्तु, मास्तु भावनाया एव वाच्यत्वम् । ननु भावनया कर्त्तुराक्षेपो युक्तः, न तु कर्ता तस्याः । कर्मप्रत्ययस्थले भावनाप्रतीत्यन्नापत्तेरिति चेत्, न ; कर्मणोऽपिभावनान्वयित्वेन तदाक्षेपकत्वात् । कर्मकर्तृकृत्सु तदाक्षेपाय त्वयाप्येवं स्वीकर्तव्यात्वात् । अत 'एव किं कार्यं पचनीयम्, किं कृतं पक्वम्' इत्यादि पक्वान् पाकं कृतवानिति व्यवहारः ।न च 'कर्तरि कृत्' [ 3।4।67 ] इत्यनुशासनात् कर्त्तु कृतिवाच्यता, "लः कर्मणि" [ 3।4।69 ] इत्यनुशासनस्य तिङ्क्ष्वपि सत्त्वात् तत एव हि तत्र कर्तृग्रहणमनुवर्तते । न चेदं निरूढलक्षणातात्पर्यग्रहाकमनुशासनम्, "कर्त्तुरि कृत्"[ 3।4।67 ] इत्यस्यापि तथात्वापात्तेः ।

ननु "लः कर्मणि च", "'तिप्तस्झि", "द्वयेकयोः" इत्यादीनामेकवाक्यतया विधायकत्वे कर्तृगतैकत्वेऽभिधेये लस्य स्थाने एकवचनं तिवादि प्रयोक्तव्यमित्यादिक्रमेणार्थान्न कर्त्तुर्वाच्यता सूत्रादायातीति चेत्, न ; ज्विवचादिसञ्ज्ञानामाजदेशनिष्ठत्वेन तद्विधिना "द्वयेकयोः" इत्यादीनामेकवाक्यत्वेऽपि तत्र कर्त्तरीत्यस्याभावेन तस्यैकत्वादिविशेषणत्वासम्भवात् । न लविधितिवादिविध्योरप्येकवाक्यताऽस्तीति चेत्, अस्ति, परन्तु वाक्यैकवाक्यता सा, न पदैकवाक्यता । लविधिलभ्यलकारानुवादेनादेशविधेः प्रवृत्तेः । तथा च लविधिस्थकर्तृग्रहणं स्ववाक्यर्थवेलायामेकत्वादीनामनुपस्थित्या कथं तद्विशेषणं स्यात् । न चादान्तरवाक्यार्थेऽन्वितस्य तदेकवाक्यतावेलायामवृत्त्या एकत्वादिविशेषणमपीति वाच्यम्, आवृत्तौ मानाबावात् ।

ननु "लः कर्मणि "[ 3।4।69] इत्यत्र ल इति ङसन्तम् ; आदेशापेक्षया षष्ठी, लस्य य आदेशः, स
कर्मणीत्यादिक्रमेणार्थः, लकारश्च "वर्त्तमाने लट्" [ 3।2।123 ] इत्यनेनैव विहित इति न दोष इति चेत्, न ; एवं हि लस्यानर्थकत्वं कालवाचकत्वं वा सयात् । तथा च शतृशानचोः कर्तृकर्मादि वाच्यं न स्यात् । तथा चास्यमाने गत इति भावे क्रियमाम इति कर्मणि च शानच् न स्यात् ।

न च शान्चः "कर्तरि कृत्" [ 3।4।67 ] इत्यनुशासनात् कर्तैव वाच्यः, भावकर्मणोस्तु लक्षणेति वाच्यम् शास्त्रातिक्रमेण स्वेच्छामात्रेण लक्षणायामसाधुतापत्तेः । न च "लटः शतृशानचौ" [ 3।2।124 ] इत्यनेनात्मनेपदरस्मैपदविधायकानामेकवाक्यलुप्त्तवादभावस्य वृत्त्यार्थबोधकत्वाभावेन तदर्थो निर्दिष्टः स्यात् । न चाम इत्यादेशविधायकेन सह "लः कर्मणि " [ 3।4।69 ] इत्यस्य वाक्यैकवाक्यत्वाल्लुक्शब्देन तत्सहचरितामन्तलक्षणाच्च न दोषः ।

एवमपि जसन्तत्वे श्रुतेनैव सम्बन्धः, षष्ठ्यन्तत्वे त्वादेशे इत्यध्याहार्यम् । अपि चोक्तारोत्या "लः कर्मणि " [ 3।4।69 ] इति सूत्रे आदेशा अप्यनुवाद्याः । ते च 'लस्य' इत्यधिकृत्य "तिप्तस्झि" [ 3।4।78 ] इति विहिताः । तथा च परिपूर्णवाक्यस्यैवानुवाद्यसमर्थकत्वान्महावाक्यार्थबोधं प्रति कारणत्वाच्च तदेकवाक्यतयैव पदविशेषपुरुषविशेषव्यवस्थापकानामिव वचनविशेषव्यवस्थापकस्यापि प्रवृत्तिध्रौव्ये पुनरिदानीं प्रवृत्तिर्निर्मूला, कर्त्राद्यर्थानां द्विवचनादिस़्ज्ञाविनिर्मुक्तत्वात् ।

?0किञ्च?0, रुनः प्रवृत्तिर्व्यर्था "तिप्तस्ढि" [ 3।4।7।8 ] "द्व्येकयोः" [ 1।4।22 ] इत्याद्येकवाक्यतयैवैकत्वादौ वाच्यतायाः सिद्धत्वात् । न च कर्त्रादौ सक्त्यबोधनेन मीमांसकमतसिद्धिरेव फलम्, मतसिद्धौ पुनरन्वयः, पुनरन्वये च मतसिद्धिरित्यन्योन्याश्रयात् । अपि च पुनः प्रवृत्तिरनिष्टावहा, गौरवस्य सत्त्वात् ।

?0किञ्च?0, कर्त्तरि एकत्वे इत्यर्थाङ्गीकारेऽपि विशेषणतया कर्त्रादीनां प्रवेशात् तद्वाच्यत्वं दुष्परिहरम् । न च लक्षणया तल्लाभान्न वाच्यत्वम्, तत्र तत्र तात्पर्यान्यथानुपपत्त्यौकत्वादिविशिष्टे कर्त्रादावेव लक्षणयोपपत्तौ तस्या अपि वाच्यत्वानापत्तेः । अपि च, सङ्ख्यायाः परिच्छेदकत्वेन विशेषणतैवोचिता -- एकस्मिन् कर्तरीति । तथा च धर्मिणि शक्तिर्दुर्वारा ।

अपि च, "भावकर्मणोः" [ 1।3।13 ] "शेषात्" [ 1।3।78 ] इत्याभिः शत्रादिविधिनैकवाक्यतया यथा धर्मिणि शक्तिर्बोध्यते, तथा तिबादिविध्येकवाक्यतवेऽपि युक्तम्, वैषम्ये बोजाभावात् ।

अपि च त्वदुक्तरीत्याऽनुशासनेन धर्मिणी शक्त्यभावे सिद्धे तिङां धर्मे शक्तिरपि न सिध्येत, अनुशासनाभावात् । तं विनापि तत्सिद्धौ "कर्तरि कृत्" [ 3।4।67 ] इत्यादीनां वैयर्थ्यापत्तिः ।

?0किञ्च?0, जातिशक्तिनये घटमित्यादौ जात्याक्षिप्तद्रव्ये जाचेर्विशेषणत्ववद् भावनाक्षिप्ते भावनाया विशेषणत्वापत्तौ भावनाप्रधानकबोधानापत्तेः । स च तवापि सम्मतः । व्युत्त्पयन्तरकल्पने तु गोरवम् ।

?0किञ्च?0, लक्षितकर्त्रा देवदत्तादेः सामानाधिकरण्यनिर्वाहे पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वं न स्यात्, सामानाधिकरण्यस्याक्षिप्तद्रव्येणैवोपपत्तेः । तथा हि -- दण्डीत्यतो दण्डसम्बन्धवानिति प्रतीतिरनुभवसिद्धा । तत्र "तदस्यास्त्यस्मिन्निति मतुप्" [ 5।2।94 ] मत्वर्थे बहुव्रीहिरित्याद्यनुसासनेन विग्रहे षष्ठ्यर्थंस्यैव प्राधान्यदर्शनेन च सम्बन्ध एव शक्तिः स्यात् । तदाक्षिप्तेन च सामानाधिकरण्योपपत्तिः ।

?0तथा च?0 1[fn अत्र किं वाक्यं भङ्क्त्वा अरुणिमा प्रकारे निवेशनीयः ? किं वा क्रीणातिना सम्बघ्यते ? इति संशये क्रीणातिना सम्बध्यमानः ; तद्योगात् क्रयमकरणं स्यात् । न चामूर्तस्य तद्युक्तमिति नास्य क्रयणसम्बन्ध इतिपृथगेव प्रकरणे निवेशनीय इति पूर्वपक्षः ।
सिद्धान्तपक्षस्तु -- सन्निहितपदार्थान्वये प्रकरणनिवेशातौचित्यात् पिङ्गाक्ष्यदिपदानां द्रव्यवचनतया तस्मिन्नन्वयसौलभ्येन तद्द्वारा क्रीणात्यर्थेनापि साकमन्वयलाभाद् वाक्यघटकत्वमेव तस्येति । स चानुपपन्नः, पिङ्गाक्ष्यादियौगिकानां पदानामुक्तयुक्त्या सम्बन्धार्थकतया द्रव्यस्य तैरनुपादानात् ।
किञ्च, पूर्वपक्षोऽप्यनुपपन्नः, पिङ्गाक्ष्येकहायनीशब्दार्थसम्बन्धस्याप्यमूर्तत्वात् क्रीणातिकरमत्वासम्भवेन क्रीणातिकरणावस्यैतद्वाक्यादलाभादारुण्यस्यैव वाक्यभेदशङ्कायां मूलशैथिल्याच्च । बहुव्रीह्यौररुणपदस्य च लाक्षणिकद्रव्यविधायकताया अविशिष्टत्वेन बहुव्रीह्यादेरेव द्रव्यविधायकत्वम् नारुणपदस्येत्यत्र विनिगमकाभावात् । ] ' अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति' इति वाक्ये द्रव्यानुक्तेरारुण्यस्य स्ववाक्योपात्ते द्रव्य एवान्वयप्रतिपादकारुणाधिकरणोच्छेदापत्तिः । न च लक्षणापक्षे न दोषः, आक्षेपपक्षेऽपि जातिशक्तिनये व्यक्तेः साक्षात्प्रकृतिवृत्त्युपस्ताप्यत्वाभावेऽपि वृत्तिप्रयोज्योपस्थितिविषयत्वमादाय तत्र प्रत्ययार्थाद्यन्वयवदाक्षिप्ते स्ववाक्योपात्तत्वस्यापि वक्तुं शक्यत्वादिति वाच्यम्, एवमपि लाक्षणिकद्रव्यनिवेशेऽरुणपदस्यापि गुणिनी लाक्षणिकत्वात् पदीयद्रव्यनिवेशनैवोपपत्तौ वाक्यीयद्रव्यनिवेशसिद्धान्तासङ्गतिः स्पष्टैव ।

?0मम तु?0 शक्त्युपस्थितद्रव्येणैव निराकाङ्क्षत्वाल्लक्षणाप्रसर एव,नारुणपदे इति सिद्धान्तोपपत्तिः । कॢञ्च, एवं सति विशिष्टशत्युच्छेदापत्तिः । न चाकृत्यविकरणान्यायेनेष्टात्तिः, तेनैव सिद्धौ पृथक्कर्त्रधिकरणारम्भवैयर्थ्यापत्तेः ।

किञ्च, घटादिपदेभ्यो घटत्वविशिष्टस्यैव नियतो बोध इति घटत्वस्य वृत्त्यविषयत्वे शाब्दविषत्वायोगात् तदंशे वृत्तिकल्पनावश्यकत्वे 'नागृहीतविशेषण'न्यायेन तन्मात्रवाचित्वासिद्धौ द्रव्याक्षेपो युक्तः । न चाक्षिप्तस्यापदार्थत्वात् तत्र प्रत्ययार्थाद्यनन्वयप्रसङ्गः, वृत्तिप्रयोज्योपस्तितेरेव तत्र नियामकत्वाददोषः, न चैवं दण्डीत्यादौ ।

नन्वत्रापि दण्डसम्बन्धीति बोधात् सम्बन्धी वाच्यः, सम्बन्धः शक्यतावच्छेदकः, सम्बन्धत्वं च शक्यताव्चछेदकानामुपलक्षणम् । एवञ्चात्रापि घटत्वस्थानीयः सम्बन्धः एव वाच्यः स्यादिति चेत्, न ; जातौ शक्तिर्हि अनन्त्यादिदोषभिया 'नागृहीतविसेषण'न्यायेन अन्वयः स्वीक्रियते, सम्बन्धशक्तावपि तस्य तदवस्थत्वेन न व्यक्तिपक्षाद् विशेषः । न च सम्बन्धशक्तावपि व्यापारपरत्वे आख्यातसामान्यलक्षणस्यास्य भावाख्यातेऽव्याप्त्यापत्तेः, 'चैत्रेण सुप्यते इत्यादौ हि धात्वर्थस्यैव विशेष्यतायास्त्वयाप्यङ्गीकारात् ।'

अपि च, किं कृतमिति प्रश्ने पक्वमित्युत्तरदर्शनात् पक्ववानित्यादेः पाकं कृत्तवानित्यादिविवरणदर्शनाद् धात्वर्थात् पृथक् तद्दर्शनाच्च कृत्यपि भावना वाच्या स्यात् । तस्याञ्च भवद्रीत्या प्राधान्यापत्तिः, प्रत्ययार्थत्वात् ।

यदि तत्र कर्तृ कर्मभ्यामाक्षेपलभ्या, तर्हि तिङ्क्ष्वपि तथैव स्यादिति तयोर्वैषभ्यां दुरुपपादम् । न च कृदुपस्ताप्ये लिङ्गसंख्यान्वयदर्शनात् कर्ता वाच्यः, सङ्ख्यान्वयाय तिङ्यपि कर्तुर्वाच्यतापत्तेः, लिङ्गसङ्ख्यान्वयस्य घटमित्यादाविवाक्षिप्तेनाप्युपपत्तेश्च, कर्त्रा हि कृदन्तमहासंज्ञाकरणेन कृत्तिङोस्तुल्यत्वबोधनाच्च ।

?0किञ्च?0, कारकाणामाख्यातार्थभावनायामन्वये स्थाल्यामित्यादिकारकाणामन्वये स्ववृत्तितण्डुलनिष्ठविक्लितिजनकत्वं सम्बन्धस्त्वया वाच्यः, मम तु स्ववृत्तिवृत्तित्वं सम्बन्ध इति लाघवम् । एवं
काष्ठादेर्यत्नरूपभावनाकरणत्वं न स्वरसत उपपादयितुं शक्यम् । धात्वर्थजनकतया तत्करणत्वेन तद्वारा भवनान्वये तु 'तद्धेतोः'1 [fn 'तद्धेतोरोव तत्त्वे किं तेन' इति न्यायाकारः, लाघवमूलकश्चायम् । तस्य = हेतु - भूतस्य, हेतुः, तद्धवेतुश्चासौ न्यायश्च तद्धेतुन्यायः । कस्मिंश्चित् कार्ये क्लृप्तहेतुनैव सिद्धे पुनस्तद्धेतोर्हतुकल्पनं निष्फलमिति निष्कृष्टोऽर्थः । यथा समाप्तिं प्रति लाघवाद् विध्नध्वंसस्यैव हेतुत्वे क्लप्यमाने विध्नर्ध्वसजनकमङ्गलस्य हेतुत्वकल्पने गोरवम् । ] इति सम्बन्धतवेनोपलक्षणीभूतेनानुगमान्नानन्त्यादिदोषः, परम्परया तदुपलक्षणीकृत्य सम्बन्धिन्येव शक्तेर्ग्रहीतुमुचितत्वात् ।

न चैवं सम्बन्धत्व एव शक्तिरस्तु, तदादिजन्यबोधे बुद्धिस्थत्वादेरिव दण्डीत्यादिजन्यबोधे तदभानात् । नीलादिभ्यश्च नीलत्वेनैव नीलरपवतः प्रतीतेरनुभसिद्धत्वात् । तेषां गुणगतजातावेव शक्तिरिति मतोपपत्तिः ।

एव़ञ्च यज्जन्यबोधे यस्य नियमेन प्रकारतया भानम् अनुगत्वञ्च, तत्रैवाकृत्यधिकरणन्यायप्रवृत्तिः, तत्रैव तादक्षिप्ते सामानाधिकरण्यनिर्वाहः, नान्यत्रेति बोध्यम् ।

'शक्तिः कारकम्' इति पक्षेऽस्माकं तु न दोषः, कर्तृकर्मादिबोधेऽखण्डोपाधिरूपकर्तृत्वादेर्नियमतः प्रकारतया भानेन तत्रैव शक्तिसिद्धौ तदाक्षिप्तेन सामानाधिकरण्योपपत्तेः, शक्तिशक्तिमतोरभेदाद् वा तदुपपत्तिः कर्मपदेन हि शक्तिमदभेदमापन्नैव शक्तिरुच्यत इति "सार्वधातुके यक्" [ 3।1।67 ] इत्यत्र कैयटे स्पष्टम् ।

तस्मात् पूर्वोक्तयुक्तिभिर्भावनाऽपि धातुवाच्यैव । 'प्रत्ययार्थः प्रधानम्' इत्युत्सर्गस्यापि भाष्यकारद्यनुभवबलेन त्यागः ।

?0किञ्चैवम्?0 " क्रियाप्रधानमाख्यातम् " इति निरूक्तादिविरोधः, तत्रत्यक्रियाशब्दस्य प्रत्ययार्थन्यायेन धात्वर्थेऽन्वय एवोचितः ।

कॢञ्च, "कर्तृकर्मणोः कृति" [ 2।3।65 ], "करणे यजः" [ 3।2।85 ] "कर्तृ करणे कृता" [ 2।3।32 ] इत्यादीनामसङ्गत्यापत्तिरित्यलम् ।

ननु कर्त्तृराख्यातार्थत्वे दर्शपूर्णमासप्रकरणपठित1 [fn तत्र हि किमयं प्रतिषेधः पुरुषार्थः, आहोस्वित् क्रत्वर्थ इति संशये, वदेदित्याख्यातात् कर्तृ प्रतीत्या कर्तृ वाचकत्वनिर्णयः । "लः कर्मणि" इत्यनुशासनात् तस्य कर्तृ प्रतीत्या कर्तृ वाचकत्वनिर्णयः । "लः कर्मणि" इत्यनुशासनात् तस्य कर्तृ परत्वलाभाच्च । प्रत्ययार्थत्वेन वदनं प्रति प्राधान्याद् वदनं तावत् पुरुषार्थः, अतः प्रतिषेधोऽपि पुरुषार्थः । निषेधप्रतियोगित्वेन वदनक्रियामनुवदता वदेदिति शब्देन पुरुषार्थतयैव बोधनात् तादृशस्यैवाऽनृतवदनस्यानिष्टसाधनताया विपरीतस्वभावबोधकनञा बोधनादन्यादृशाऽनुतवदनस्य चाऽनुपस्तथितत्वात् । अत एवानारभ्याऽधीतस्मार्त्तवदननिषेधस्याप्येतदेव मूलं भवतीतिलाघवम् । अन्यथा तन्मूलभूतः पुरुषार्थोऽन्योः = निषेधः कलप्य इति गोरवं प्रसज्येतेति पूर्वपक्षे 'अनन्यलभ्य एव शब्दार्थः' इति न्यायाद् भावनैवाख्यातवाच्या, कर्त्ता त्वाख्यातवाच्यभावनाया अविनाभावादाक्षेपलभ्य एवेति न तत्र तस्य शक्तिः । "लः कर्मणि" इत्यादिस्मृतिरिपि 'द्वयेकयोः' इत्यनेनैकवाक्यतया तत्सङ्ख्यातवाचित्चपरैव । 'पचति देवदत्तः' इत्यादौ च 'गौः शुक्लः' इतिवत् सामानाधिकरण्यं लक्षणयैवेति नाख्यातस्य कर्त्तृ वाचित्वमिति कर्त्तुः श्रुतेरनुपस्थितत्वान्न पुरुषार्थता तस्य, किन्तु प्रकरणात् क्रत्वर्थतैवेति निर्णीतं कर्त्रधिकरणे । ] नानृतं वदेत् ' इति निषेधस्य क्रत्वर्थत्वं न सिध्येत्, श्रृत्या पुरुषार्थत्वप्रसङ्गात् । प्रकरणाद्धिक्रत्वर्थत्वम्, तस्य च श्रुत्यपेक्षया दुर्बलत्वं स्पष्टमेवेति चेत्, न; कर्तृ वाच्यत्वे उक्तसिद्धान्तः, उक्तसिद्धान्ते च तदनुरोधेन तस्या वाच्यत्वमिति परस्पराश्रयग्रस्तत्वात् ।

?0किञ्च?0, कर्त्तृराख्यातार्थत्वेऽपि श्रुतिप्रकरणाभ्यामस्यास्तु क्रतुयुक्तपुरुषधर्मता । अन्यथा जञ्जभ्यमानवाक्यस्य वाक्यप्रकरणाभ्यां पुरुषसंस्कारमुखेन क्रत्वर्थत्वसिद्धान्तस्त्वदीय उच्छिद्येत । तदुक्तं ?0भट्टैः?0
स्त्र्युपायमांसभक्षादिः पुरुषार्थमपि श्रुतः ।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ।। इति ।

?0किञ्च?0, कर्त्तुर्वाच्यत्वेऽपि क्रियाया एव प्राधान्यात् कर्त्तुर्गुणभूतत्वाच्चानृतवदनभावनाया न पुरुषार्थत्वम् । एवञ्च भावनायाः कैमर्थ्याकाङ्क्षायां प्रकरणाद् भवतामिव शुद्धक्रत्वर्थत्वमपि वक्तुं शक्यम् । कृत्प्रत्ययस्थले तु कर्तुर्विशेष्यत्वात् तत्संस्कारमुखेनैव क्रत्वर्थत्वमिति ।

?0किञ्च?0, भावनाया वाच्यत्वम्,कर्त्तुराक्षय इति तव मतेऽपि प्रकरणोपस्थाप्यार्थापेक्षया श्रुत्युपस्थितभावनाक्षिप्तकर्त्तुः प्रथमोपस्थित्या क्रत्वर्थत्वं न सिध्येत् तत्सिद्धम् ; आश्रयः, आश्रयत्वं वा कर्तृकर्मतिङ्शक्यम् इति । स्पष्टञ्चेदम् "गत्यर्थलोटा" [ 8।1।51 ] इति सूत्रे भाष्ये ।

तत्र धात्वर्थफलं तदर्थव्यापारे प्रायो विसेषणम्, आख्यातार्थः कारकं धात्वर्थं प्रति विशेषणम्, कालश्च, सङ्ख्या त्वाख्यातार्थान्वयिनो । तत्राश्रयस्य क्व फलेऽन्वयः, क्व व्यापार इति चेत्, अत्र वदन्ति -- तङ्यक्‌चिणादयः फले आश्रयान्वयद्योतकाः, शप्‌श्नमादयो व्यापारे ।

?0वस्तुतः?0 प्रकरणाद्येव द्योतकम्, कर्तृकर्मविषये वैपरीत्यदर्शनात् । न च तिङां शबादीनाञ्चानुशासनबलात् कर्तृवाचकत्वे तस्य वारद्वयं बोधपत्तिः, शबादीनां द्योतक्तवस्वीकारात् ।

?0स्यादेतत्?0 -- आश्रयस्यव प्राधान्यमुचितम्, कालातिरिक्ताख्यातार्थप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेर्हेतुत्वादिति चेत्, न ; आख्यार्थप्रकारकबोधे धातुजन्योपस्थितेरेव लाघवेन हेतुत्वात् । सङ्ख्यान्वयस्तु समानाभिदानश्रत्याख्यातार्थाश्रय एव । कार्यकारणभावान्तरं तु त्वयापि कालान्वयाय कल्प्यमानेन तुल्यम् । किन्तु त्वदुक्तकार्यकारणभावद्वयमपि भिन्नपदघटितत्वाद् गुरु, मम त्वेकघटितत्वाल्लघु ।

?0किञ्च?0, 'करोति,जानाति' इत्यादौ कालान्वयोऽपि धात्वर्थ एवेति सोऽपि तवावश्यक इत्यति गोरवम् ।

?0किञ्च?0, त्वदुक्तकार्यकारणभावस्य 'न पचति चैत्रः' इत्यादौ नञर्थे आख्यातार्थान्वयेन व्यभिचारः, तत्रैव चैत्रे सङ्ख्यान्वयेन भावनान्वयिन्येव सङ्ख्यान्वय इति नियमस्यापि व्यबिचारश्च । न च निपातसमभिव्यवहारस्थले सङ्ख्याभावनयोः पृथगेव कार्यकारणभावो वाच्य इति वाच्यम्, अनेककार्यकारणभावकल्पनया गौरवापत्तेः ।

?0किञ्च?0, 'चैत्रेण सुप्यते' इत्यादौ भावाख्यातेऽपि प्रथमान्तपदाध्याहारापत्तिः, भावार्थकभिन्नत्वविशेषणदाने च सुतरां गौरवम् ।

?0किञ्च?0, 'भावप्रधानमाख्यातम्' इति यास्कविरोधः, तत्समानार्थकक्रियाप्रधानमिति भाष्यपठितवचनविरोधश्च । तिङर्थापेक्षया धात्वर्थः, प्रधानमिति तदर्थः । न च धात्वर्थापेक्षया प्राधान्यमस्तयेव, भावशब्देनापि भावयतीति व्युत्पत्त्या कृतिरेवाच्यत इति वाच्यम्, भावार्थकलकारेऽव्याप्तेः ।

?0किञ्च?0, तव पश्य मृगो धावतीति वाक्यं न स्यात्, ?0मम तु?0 धावनक्रियायादृशि कर्मत्वान्न दोषः । न च तस्या दर्शनविशेषणत्वे क्रियायाः प्राधान्यमिति त्वत् सिद्धान्तविरोधः, प्रत्यासत्त्याऽऽख्यातघटकप्रत्यार्थापेक्षया क्रियायाः प्रधानन्यबोधनादक्षतेः, 'सत्त्वप्रधानानि नामानि' इति वाक्यशेषेण सत्त्ववाचकवाच्यार्थविशेषणत्वाभावस्यैव 'क्रियाप्रधानम्', इत्यनेन बोधानाच्च । अत्र शब्दजन्योपस्थितेरेव शाब्दबोधकारणत्वे कर्मत्वं संसर्ग एव । तव त्वीदृशे विषये भाष्यादिसिद्धैकवाक्यता भज्येत । न च मृगस्यैव दर्शने कर्मत्वेनान्वयः, विभक्त्यर्थमद्वारीकृत्य नामार्थधात्वर्थयोः साक्षात् भेदेनान्वयायोगाद् । न च ततो द्वितीयास्तु, एवमपि प्रागुक्तवाक्यासिद्धिरेव ।

?0किञ्च?0, प्रथमान्तपदजन्योपस्थित्यभावेन धावतीत्यस्य मृगविशषणत्वानापत्तिः ।

?0किञ्च?0, अप्रथमासामानाधिकरण्ये तिङो बाधित्वा शत्राद्यापत्तिः । न च वासरूपन्यायेन तिङोऽपि, लादेशेषु तदभावस्य ?0शब्देन्दुशेखरे?0 प्रतिपादित्वात् । न च वाचनिकी प्रथमैवात्र कर्मत्वार्थेति वाच्यम्, तादृशवाचनानुपलम्भात् । न च यो धावति मृगः, तं पश्य, इत्यध्यहारेणान्वयः, वाक्यभेदापत्तेः, उत्कटधावनक्रियाया एव दर्शनकर्मत्वस्य प्रतिपादयिषितत्वाच्च ।

न च विशिष्टस्य वाक्यार्थस्व कर्मतासंसर्गेण दर्शनेऽन्वयः । एव़्च न व्युत्पत्तिविरोधः, व्युत्पत्तेर्नामार्थविषयत्वात् । विशिष्टवाचकस्याप्रतिपदिकत्वाच्च न द्वितीयापत्तिरिति वाच्यम्, विशिष्टस्य त्वन्मतेऽप्यनतिरिक्तात्वात् । अत एव नीलविशिष्टघटस्य दर्शनकर्मत्वे प्रतिपिपादयिषितेऽपि 'नोलं घटं जानामि' इत्यादौ द्वितीयासिद्धिः ।

?0किञ्च?0, देवदत्तकर्तृकपचिक्रियाकर्मकोत्पत्त्यनुकूलयत्नस्त्वद्वृत्तिरित्यर्थकदेवदत्तः पचति करोषीत्यस्यानापततिः । आख्यातोपात्तक्रियायाः सर्वनामपरामर्शायोग्यत्वेनाध्याहारादिनाऽपिन निर्वाहः ।

अपि च, पाकक्रिया भवतीत्यर्थे पचति भवतीत्यास्यानापत्तिः, पचति वज्रतीत्यस्यापतिश्च । न च तथा तथा व्युत्पन्नानां तथा बोधस्य तथा तथा शक्तिग्रहस्य ससत्त्वेन कथमापत्तय इति वाच्यम्, बोधस्य व्युत्पत्त्यनुसारिणो जायमानत्वेऽपि तादृशेर्थे साधुत्वस्यापाद्यत्वात्, साधुत्वस्यार्थघटितत्वात् । तच्च तदर्थनिरूपणाभियुक्तवैयाकरणासम्मतार्थ एव, नान्यत्रेत्येतावदिहोच्यते ।

न चैवमेधामित्यस्य क्रियाप्रधानत्वानापत्तिस्तिङन्तत्वाभावादिति वाच्यम्, लिटो वाचकत्वादाप्तस्वार्थिकत्वेन चान्यस्य प्रधानत्वं योग्यस्याभावेन, अर्थात् तस्या एव प्राधान्यात्, 1 [fn आख्यातपदेन क्वचिद् धातोर्ग्रहणम् । अत एव 'नामाख्यातोपसर्गनिपाताः' इत्यत्र भाष्ये प्रकृतित्वेनोल्लेखः । अत एव च 'नामान्याख्यातजानि' इति शाकटायनः । "आख्यातमाख्यातेन क्रियासातत्ये" इत्यत्र त्वेतन्मते आख्यातप्रकृतिकतिङन्ते लक्षणा । 'भावप्रधानमाख्यातम्' इत्यत्रापि त्वेतन्मते आख्यातप्रकृतिकतिङन्ते लक्षणा । 'भावप्रधानमाख्यातम्' इत्यत्रापि आख्यातपदेन धातुर्ग्राह्यः ।
शब्दरत्नकारस्तु -- आख्यातपदेन तिङन्तस्य ग्रहणमभिप्रैति । निरुक्तप्रामाण्यात् शब्दशास्त्रे क्वचित् तिङन्तस्य ग्रहणम्, क्वचिच्च धातोर्ग्रहणमाख्यातपदेन । अत आख्यातपदेन तिङो ग्रहणमिति तार्किकोक्तमनादरणीयमेव । ] आख्यातपदेन कृदादेशरहितलान्तग्रहणे तु दोषशङ्कैव न, सत्त्ववाचकप्रत्ययान्तत्वाभावेन 'सत्त्वप्रधानानि ' इत्यस्याप्रवृत्तेश्च ।

किञ्च, 'नानृतं वदेत्' इत्यनारभ्याधीते वचने दर्शपूर्णमासप्रकरणस्थे च विनिगमनाविरहाच्छब्दानृतमर्थानृतं चेत्युभयमपि निषिध्यत इत्यन्यत्र निर्णीतम् ।

तथा च साधुत्वनिर्णायकसूत्रवार्त्तिकभाष्यकारैस्तिङां कर्त्तर्येव साधुत्वकथनात् तदुल्लङ्घनेन याज्ञे कर्मणि भावनारूपेऽर्थे प्रयुञ्जाना मीमांसकादयश्चतुर्थीमिव षष्ठच्याद्यर्थे कथं न प्रत्यवयन्तु, कथं वा यज्ञो नाविगुण इति विचार्यम् । न च निर्मूलमेतदनुशासनम्, तस्मात् 'ब्रह्मणेन निष्कारणो धर्मः ष़डङ्गो वेदोऽध्येयो ज्ञेयश्च' इति श्रुतेर्मूलत्वात् ।

पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् ।
सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न कॢञ्चन ।।

इति पराशरीयपुराणाच्च । जैमिनिप्रभृतीनां त्वत्र तात्पर्याभावद् न तदुक्तिः साधुत्वनिर्णायिका । तदुक्तम् 'साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः' इति व्याकरणस्यापि शक्तिग्राहकत्वं वृद्धैरुक्तम् "शक्तिग्रहं वयाकरणोपमान" इत्यादिना । न चैतेषामसाधुत्वे ततस्तत्तदर्थबोधस्तेषां तेषां न स्यादिति वाच्यम्, वस्तुतोऽसाधुत्वेऽपि भ्रमात्मकतज्ज्ञानसम्भवात्, साधुत्वज्ञानस्य कारणत्वाभावादसाधुत्वनिश्चयस्य बोधप्रतिबन्धकत्वाभावाच्चेति दिक् ।

किञ्च, प्रथमान्तविशेष्यकबोधे कोदृशस्तण्डुल इति प्रश्ने, कीदृशश्चैत्र इति प्रश्ने, कीदृशश्चैत्र इति प्रश्ने च, पक्वस्तण्डुलः, पाचकश्चैत्र इत्युत्तरवत् पच्यते पचतीत्युत्तरस्याप्यापत्तिः । न च 'पश्य मृगो धावति, पचति, भवति' इत्यादौ क्रियायाः कर्तृत्वकर्मत्वादिनान्वये तस्य असत्त्वरूपता न स्यादिति वाच्यम्, कर्तृ कर्मेतरकारकतेवेनान्वयितामात्रेण तथात्वात्, क्रियानाधारकारकत्वेनान्वयाद् वा, कर्मत्वादेरप्रकारत्वाङ्गीकाराद् वा तत्त्वम् ।

न चैवमप्यसिद्धस्य दशनकर्त्वासम्भवात् कथं धावनस्य दर्शनकर्मतेति वाच्यम्, समूहस्यासिद्धत्वेऽवि अवयवशः सिद्धत्वेन प्रत्यक्षकर्मत्वोपपत्तेः ।

नन्वेवमपि रोदितीव पठतीत्यादौ क्रिययोरुपमानोपमेयभावसत्तवात् साधारणधर्माधारत्वरूपस्य सत्त्वस्य "तेन तुल्यम्" [ 5।1।195] इति सूत्रकैयटाद्युक्तस्य सत्त्वेनासत्त्वरूपताभङ्गः । न च प्रत्ययोत्तरमिवशब्दश्रवणेन धात्वर्थयोरुपमा दुर्लभति वाच्यम्, तिङन्तोत्तरमिवशब्दश्रवणेन तदर्थयोस्तसयाः सुलभत्वात् । न चात्र कर्त्रोरेवोपमानोपमेयभावोऽस्तु, तस्य क्रियां प्रति विशेषणत्वेन तत्त्वासम्भवादिति चेत्, न ; तिङतसभभिव्याहृतेवशब्दस्य सादश्यार्थक्तवाभावात् ।

तदुक्तं ?0भाष्ये?0 "न वै तिङन्तेनोपमामस्तीति, किन्तु तत्रत्य भावनार्थ इव शब्दः" इति कैयटः । अत एवालङ्कारिका अपि 'लिम्पतोव तमोङ्गानि' इत्यादावुत्प्रक्षामेवोदाजह्रुः ।

सर्वनामपरामर्शयोग्यत्वरूपमेवासत्त्वं क्रियाया इत्यन्ये । ननु वैयाकरणमतेऽपि "पचति कल्पं देवदत्तः" इत्यत्रान्वयो दुरुपपादः, आख्यातास्य धर्मिवाचकत्वेऽपि कल्पान्तेन क्रियाविशेष्यकबोधजननेनाबेदस्य बाधात् । भेदेनान्वयस्तु नामार्थयोरव्युत्पन्न इति चेत्, न ; यतो नास्माकं भावनाया देवदत्तेऽन्वयः, तस्या आख्याते विशेष्यत्वात् । नापि देवदत्तस्य तस्मात्, कारकविभक्त्यन्तत्वाभावेन तदन्वये मानाभावात्, आख्यातार्थाश्रयान्वयेन तदंशे भावनाया निराकाङक्षत्वाच्च । किन्त्वाख्यातार्थाश्रयेऽभेदेन तस्य विशेष्यकाङक्षायाः सत्त्वेन तदन्‌वयस्यैवोचितत्वाद् नामार्थयोरित्यस्यास्वनामजन्यप्रतीतिविशेष्ययोरभेदेनैवान्वय इत्यर्थः, न तु तयोरेवाभेदान्वय इति न दोषः ।

नन्वेवमपि त्वद्रीत्या पचति भवतीत्यादौ समानवाक्ये तिङ्द्वयलाभेन तद्व्यावृत्त्यर्थं "तिङ्ङतिङ" [ 8।1।28 ] इति सूत्रे अतिङग्रहमस्यावश्यकत्वेन तत्प्रत्याख्यानपरभाष्यविरोध इति चेत्, न ; लौकिकैकवाक्यत्वसतत्वेऽपि 'एकतिङ्वाक्यम्' इति स्वपरिभाषितस्यासत्त्वादिति भाष्याशयात् । लौकिकैकवाक्यत्वञ्च1 [fn 'तिङ्सुबन्तचयो वाक्यम्' इति मुद्रितामरकोशपुस्तकसम्मतः पाठः । ] 'सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता' इतियमरेणोक्तम् । अत्र 'वा' शब्दः समुच्चये ।

?0एवञ्च?B?0, कारकान्वितक्रियाबधकसुप्तिङन्तचय इत्यर्थः । सुप् च तिङ् च सुप्तिङ्, सुब्बिशिष्टं तिङ् सुप्तिङ्, तयोरेकशेषेऽन्तचयानां त्रयाणामपि लाभः । क्रिया वेत्यनेन निरर्थकपदसमुदायव्यावृत्तिः ।

यत्तु 'वा' शब्दस्वारस्यादर्थस्यापि वाक्यत्वमिति। तत्, न ; अर्थे वाक्यशब्दाप्रयोगात्, "वचोऽशब्दसंज्ञायाम्" [ 7।3।67 ] इति निषेधेन कुत्वानापत्तेश्चेति दिक् ।

तत्सिद्धमाख्यातार्थाश्रयापेक्षया धात्वर्थः प्रधानमिति । एवञ्च देवदत्तः पचतीत्यत्रैकदेवदत्तकर्तृ कपाकानुकूलक्रियेति बोधः । तण्डुलः पच्यते चैत्रेणेति कर्मलकारे त्वेकचैत्राश्रयिका एकतण्डुलाभिन्नाश्रयिका या विक्लित्तिः, तदनुकूला वर्त्तमाना भावनेति भावनाविशेष्यक एव बोध इति प्राञ्चः ।

?0नव्यास्तु?0 'पक्वस्तन्‍डुलः' इत्यादौ कर्मकृत्सभभिव्याहारे फलव्यापारयोर्व्यत्यासेन बोधस्यावश्यकतया कर्माख्यातेऽपि फलविशेष्यकएव बोधः । अत एव प्रत्यायार्थे साक्षात्सम्बन्धेन प्रकृत्यर्थविशेष्यान्वयित्वस्य सर्वत्र क्लृप्तस्य न त्यागः । अन्वयित्वं विशेष्यतया विशेषणतया वा । अत एव कर्तृ लकारे न फलविशेष्यको बोधः, क्लृप्तप्रागुक्तनियभङ्गापत्तेः । अत एव 'इष्यते पुत्रः' इत्यर्थे पत्रीयतति न प्रयोगः, भिन्नार्थत्वात् । किन्तु 'पुत्रमिच्छत' इत्यत्रार्थ एव । क्यजन्तात् कर्मणि प्रत्ययस्तु दुर्लभः, अकर्मकत्वादिति स्पष्टम् "सुप् आत्मनः" [ 3।1।8 ] इत्यत्र 1 [fn अत्र हि ---'इष्टः पुत्रः, इष्यते पुत्रः' इत्यत्र यदि क्यच् भवति, तदेच्छामात्रस्य क्वचाऽभिधानादवश्यं कर्मणोऽभिधानाय तद्वाचिना प्रत्ययेनोत्पत्तव्यम् । यथा पुत्रीयतीति कर्त्रभिधानाय तिपेत्याशयिका इच्छाक्यजन्तात् कर्मणि प्रत्ययोत्पत्तिः कथन्नेति शङ्का 'अथेह क्यचा भवितव्यम् -- इष्टः पुत्रः, इष्यते पुत्रः' इत्यादिशब्देन कृता ।
यदा क्रियाफलस्य कर्णः प्राधान्यं प्रतिपिपादयिषितम्, तदा वाक्यमेव प्रयुज्यते -- 'इष्टः पुत्रः' इत्यादि, न तु क्यजन्तः, तस्याकर्मकत्वात् कर्मणि प्रत्ययानुत्पादादित्याशयेन समाधानमाह -- 'केचित् तावदाहुः -- न भवितव्यमित्यादि । पुनश्चाग्रे -- 'समानार्थेन वाक्येन भवितव्यम्, प्रत्ययान्तेन च । यश्चेहार्थो वाक्येन गम्यते' इति । विवरणविव्रियमाणयोः समानार्थकत्वमिति तत्तात्पर्यम् । '] ?0भाष्ये?0 ।

कालस्य तु व्युत्पत्तिवैचित्र्यात् सम्पूर्णधात्वर्थ एवान्वयः । तेन व्यापारापगमे विक्लित्तिसत्त्वे 'पच्यते' इति स्यात्, 'अपाचि' इति न स्यात् । एवं फूत्कारादिदशायां विक्लित्त्यनारम्भे 'पच्यते' इति न स्यादित्यपास्तम् । तत्राभिमतफलजनने सति तन्निष्पादकसकलव्यापारापगमे भूतत्वं फलावच्छिन्नतादृशसकलव्यापारस्य भावित्वे भविष्यत्वं यावच्चाभिमतफलप्रयोजकक्रियायाः समाप्तिर्न भवति, तावद् वर्तमानत्वमित्याद्यनुपदमेव वक्ष्याम इति प्राहुः ।

भावलकारे तु व्यापार एव विशेष्यः क्तान्तादौ सामानाधिकरण्यसम्बन्धेन व्यापारयोरेव परस्परमन्वयदर्शनेनौत्सर्गिकस्य व्यापारनिष्ठफलविशेष्यत्वस्य त्यागे मानाभावात् तिङ्क्षु धात्वर्थानुवादक एव कालद्योतकत्वं त्वस्त्येव, सङ्ख्या तु तत्र नास्त्येव, सङ्ख्यान्वयिकर्तृ कर्मणोऽप्रतीतेः, धात्वर्थस्तु
सङ्ख्यान्वयायोग्य एव, धात्वर्थबहुत्वे 'मैत्रेण स्थीयते, सुप्यते' इत्यानापत्तेश्च ।

एवञ्च सङ्ख्याया अभावे उत्सरग्त एकवचनमेव । मध्यमीत्तामवपिन स्तः, तिङ्समानाधिकरणयुष्मदाद्यभावात् । 'उष्ट्रासिका आस्यन्ते, हतशायिकाः शप्यन्ते' इत्यत्र "सार्वधातुके यक्" [ 3।1।67 ] इति सूत्रस्थभाष्यप्रयोगदेव बहुवचनं साध्विति वदन्ति । 'आकाशोऽस्ति' इत्यादौ चैकाकाशाभिन्नाश्रयकः स्वरूपधारणानुकूलो वर्तमानो व्यापार इत्यादिक्रमेणो ह्यमिति दिक् ।

अथाख्यातार्थवर्त्तमानत्वादीनामन्वयप्रकारस्तल्लक्षणानि चोच्यन्ते

तत्र वर्तमानत्वादीनां धात्वर्थेऽन्वयः, न कर्तृ कर्मणोः, अतीतक्रिये कर्त्तरि पचतीत्यापत्तेः, अपाक्षीदित्यनापत्तेश्च, वर्त्तमानक्रियावाचकाद्धातोर्लडित्याद्यर्थक - "वर्त्तमाने लट्" [ 3।2।123 ] इत्यादिभिः सूत्रैर्धात्वर्थेऽन्वयस्यैव बोधनाच्च । स च सम्पूर्णधात्वर्थव्यापारे इत्युक्तमेव । न चामवातजडीकृतकलेवरे बोधनाच्च । स च सम्पूर्णधात्वर्थव्यापारे इत्युक्तमेव । न चामवातजडीकृतकलेवरे उत्थानानुकूलयत्नस्य विद्यमानतयोत्तिष्ठतीति प्रयोगापत्तिः, तस्योत्थानोद्देश्यकत्वेऽपि उत्थानप्रयोजकत्वाभवात् । अत एव तत्र 'उत्थानाय यतते, नोत्तिष्ठति' इत्येव प्रयोगः । यागपाकाद्युद्देश्यककुण्डमण्डलक्रयणादियत्नव्यापारावादाय यागाद्यर्थम् 'यतते' इत्यादिवत् 'यजति, पचति' इत्यादिवारणाय प्रयोजकताविशेषस्यैव सम्बन्धस्याभ्युपेयत्वात् । एवम् 'गच्छति' इत्यादिवारणाय प्रयोजकताविशेषस्यैव सम्बन्धस्याभ्युपेयत्वात् । एवम् 'गच्छति' इत्यादिवारणाय प्रयोजकताविशेषस्यैव सम्बन्धस्याभ्युपेयत्वात् । एवम् 'गच्छति' इत्यादावुत्तरदेशसंयोगाद्यनुकूलक्रियारूपे धात्वर्थे तदन्वयः । तश्यतीत्यत्रापि प्रतियोगिसहितनाशसामग्रीरूपधात्वर्थे तदन्वयः । अतस्तस्यां सत्यां नश्यति, अतीतायाम् 'नष्टः' इत्याद्युपपद्यते ।

?0केचित्तु?0 -- षड्भावविकारेषु नाशस्यापि गणितत्वादुत्पत्तिवत् सोऽपि चरमक्षणसम्बन्ध एव तत्सत्त्वे नश्यतीति तदत्यये नष्ट इत्याहुः ।

'नश्यति, नङ्क्ष्यति, नष्टः' इत्यत्र क्रमेण प्रत्ययेन वर्त्तमाना, भविष्यन्ती, अतीता चोत्पत्तिः, प्रतियोगित्वं च लक्ष्यते । तथा च तादृशोत्पत्तिमननाशप्रतियोगीत्यादिक्रमेण बोधः । अत एव नाशस्य नित्यत्वात् सर्वदा नश्यतीति, श्वो नङ्क्ष्यति पटादौ परश्वो नङ्क्ष्यति, प्रपूर्वदिननष्टे पूर्वेद्युर्नष्ट इत्यापत्तिर्नेति ?0नैयायिकनव्याः?0 ।

नाशत्वमुत्पत्तिमदभावत्वम् । तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इति ?0तन्नव्यतराः?0 ।

कालश्य क्रियारूप एव, नातिरिक्तः,; मानाभावाद्, गौरवाच्चेति तन्त्रान्तरे स्फुटम् । न च 'क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका' इति ?0वाक्यपदीयविरोधः?0 । नहि स्वपरिच्छेदकत्वं स्वस्यैवोपपद्यत इति वाच्यम्, तत्र कालशब्देन तद्गतवर्तमानत्वादेरेव विवक्षणात् ।


'कालोऽतिरिक्तः' इति मते वा तत् ।
अन्यदीयक्रिययाऽन्यदीयक्रियापरिच्छेदसम्बन्ध इत्यपि ?0केचित्?0 ।

?0एवञ्च?0 तस्य धातुनोक्तत्वात् तद्गतं वर्तमानत्वादि लडादिद्योत्यम्, द्योतकत्वञ्च शक्त्याधायकत्वम् । तच्च नानार्थेषु शक्तस्य स्वसंनिधानेन शक्तिपरिच्छेदकत्वम् । ननु च वाच्य एवास्तु, अनेकधातूनां तत्र
शक्तिकल्पने गौरवापत्तेः, एकस्य लट एव शक्तिकल्पनौचित्याच्च ।

किञ्च, 'वर्त्तमाने लट्' [ 3।2।123 ] इति विशिष्य विधानेऽपि तत्राशक्तौ कर्त्ताऽपि वाच्यो न स्यात्, स्याच्च द्योत्य एव, अविशेषात् ।

किञ्च, वर्तमानत्वविशिष्टक्रियाबोधं प्रति लट्समभिव्याहारस्य कारणत्वं वाच्यम् । तथा च तुल्यत्वाल्लटो वाचकत्वमेवोच्यताम् । न च वाच्यत्वे विशेषेण सामान्यस्य1 [fn अत्रेदं बोध्यम् -- तक्रन्यायेन बाध्यबाधक्तवेन सम्मतशास्त्रजन्यबोधीयविषयतयोर्यत्र व्याप्यव्यापकभावस्तत्र बाधकशास्त्रीयव्याप्यविषयताश्रयातिरिक्तत्वेन बाध्यशास्त्रीयविषयताश्रये सङ्कोचः । एवञ्च -- एककार्यविनियोगोद्देश्येन प्रवृत्तिवाक्यकदम्बघटकव्यापकधर्मावच्छिन्ने तादृशवाक्यकदम्बघटकव्याप्यधर्मावच्छिन्नातिरिक्तत्वेन सङ्कोच इति न्यायस्वरूपम् । अत्र कौण्डिन्यात्वरूपव्याप्यधर्मावच्छिन्नातिरिक्तत्वेन ब्राह्मणत्वरूपव्यापकधर्मावच्छिन्ने संकोचः । एव़्च तक्रदानतः पूर्णं परं वा कौण्डिन्योद्देशकं न दधिदानमिति दिक् । ] तक्रकौण्डिन्यन्यायाद् वाधे कर्तृर्वाच्यतैव न स्यादिति वाच्यम्, 'सः कर्मणि' [ 3।4।69 ] इत्यस्य निरवकाशत्वादिति चेत्, न ;"माङि लुङ्" [ 3।3।175] "लट् स्मे" [ 3।2।118 ] इत्यादौ चारितार्थ्यात्, एकधातुप्रकृतिकानेकलडादेशानां तत्र शक्तिकल्पने गौरवाच्च । तस्माद् द्योतकत्वमेव ।

तत्र वर्त्तमानत्वं प्रारब्धपरिसमाप्तत्वम्, भूतभविष्यद्भिन्नत्म् ; वा । भूतत्वं 'विद्यमानध्वंसप्रतियोगित्वम्' भविष्यत्वञ्च 'वर्तमानप्रागभावप्रतियोगिसमयोत्पत्तिकत्वम् । प्रागभावानङ्गीकारे तु शब्दप्रयोगाधिकरणकालध्वंसाधिकरणसमयोत्पत्तिकत्वं तत् । तस्य च व्यापारसमुदायरूपक्रियायामन्वयः । अवयवव्यापारेष्वेवान्वय इति तु न युक्तम्, तथा सत्यवयवानां त्रिक्षणावस्थायित्वेन तत्र तस्यासम्भवेन पचतीति प्रयोगस्य विषयलाभ एव न स्यात् । 'पञ्चकृत्वः पचति' इत्यत्राप्यतिशयतृप्त्यादिफलेनैकीकृतावृत्तिगणितपाकसमुदाये वर्त्तमानत्वादीनामन्वयः ।'

?0क्वचित्तु?0 'प्रकृतः कटं देवदत्तः' इत्यादाववयवे समुदायरूपारोपेण, अवयवगतातीतत्वस्यैव समुदाये आरोपेण वा भूतकालप्रयोग इति स्पष्टम् "निष्ठा" [ 3।2।102 ] इति सूत्रे भाष्ये ।

न चात्मास्ति, पर्वतास्तिष्ठन्ति, स्थास्यन्ति, अस्थुः ; इत्यादिव्यवहारानुपपत्तिः, क्रियाया आरब्धत्वाभावेन प्रागुक्तवर्त्तमानत्वाभावाद् भूतत्वभविष्यत्वयोरभावात् ; चेति वाच्यम्, तत्तत्कालिकानां राज्ञां क्रिया आदाय तद्विशिष्टात्मसत्तादेरुक्तवर्त्तमानत्वादिसम्भवात् । एवम् 'एको ह वै नारायण आसीत्' इत्याद्युपपद्यते । स्पष्टञ्चेदम् "वर्त्तमाने लट्" [ 3।2।123 ] इत्यत्र भाष्ये ।

एवं भूताद्यतनपरोक्षक्रियार्थकाल्लिट् । 'पपाचेत्यादिवाक्यजबोधे भूतत्वसन्देहानुदयाद् भूतत्वादेरिवानद्यतनत्वादेरपि बोधविषयत्वाम् ।

परोक्षत्वञ्च वक्तृसाक्षात्कारतज्जन्यासंस्कारान्यतराविषयत्वम् । नन्वत्र 'परोक्षे' इति विशेषणमसङ्गतम्, साध्यत्वेनाभिधीयमानः, गुणभूतावयवः, क्रमिकव्यापाराणामेकफलजनकत्वरूपयैकबुद्ध्या विषयीकृतः समूहः क्रिया ।

तत्रा यद्यप्यवयवाः प्रत्यक्षा एव, अत एव 'पश्य मृगो धावति' इत्यादौ क्रियाया दर्शनकर्मता । तथाप्यवयवानां मेलनाभावेन समुदायस्य सर्वस्यापि परोक्षत्वेनाव्यावर्तकत्वात् । तदुक्तं ?0भाष्ये?0 --
क्रियानामियमत्यन्तापरिदृष्टा, न शक्या पिण्डीभूता निदर्शयितुम्' इति सा [ सर्वाप्य ?] नुमानगम्येति चेत्, नः तदनुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्ष्यस्येह विवक्षितत्वात् । तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिट्, यथा -- पपाचेति ।

एवं स्वव्यापारसय् वर्त्तमानस्य वायसङ्गादिना स्वयमप्रतिसन्धाने तत्तत्कार्येणानुमितौ सख्याद्युक्त्या वा ज्ञाने भवत्येव लिट्, यथा -- 'बहु जगदपुरस्तात् तस्य म.ता किलाहम्' इति, 'व्यातेने किरणावलीमुदयनः' इत्यपि "निष्ठा" [ 3।2।102 ] इति सूत्रभाष्योक्तरीत्या भूत्वानद्यतनत्वपरोत्रत्वानामारोपेणोपपन्नम् ।

आरोपफलं तु ग्रन्थेऽति सुकरत्वशीघ्रनिष्पाद्यत्वादिप्रत्यापन्नमैव । तत्फलं तु तत्कालिकाध्येतृणां स्वशिष्याणामर्थप्रविवेकादिफलकममुं ग्रन्थं ज्ञातुमुत्सुकानामाह्लादनमेव । परोक्षत्वारोपोऽथैतत्फलक एव ।

एवं सूक्ष्मकालेन करिष्यामि यत्नकरणकाले स्वेनापि साक्षात्कर्तुमशक्यमित्येवं बोधनादनायासेन ग्रन्थकरममपि व्यङ्ग्यम् । सूर्योपमाप्येतत्पोषिकैव । इतरग्रन्थेभ्योऽस्मिन् ग्रन्थे, तत्कर्तृभ्यश्च स्वस्मिन् व्यतिरेकोऽपि व्यङ्ग्यः । भविष्यतः प्रयोगकाले वास्तवमेव पोरक्षत्वमिति न तदंशे आरोपापेक्षेत्यपि वदन्ति ।

?0केचितु?0 क्रिययामेव पारोक्ष्यम्, न च सर्वापि सा परोक्षैवेत्यव्यावर्तकं तत्, अवयवशः प्रत्यक्षत्वात् । न [च] प्रत्येकं न क्रियात्वम्, तावतापि धात्वर्थत्वक्षतेः, क्रियात्वस्यावयवावयविसाधारणत्वाच्च ।

किञ्च, धातोरित्यस्य धात्वर्थे लक्षणायां स्ववाच्यत्वं सम्बन्धः, साधनलक्षणायां स्ववाच्यसाधनत्वं सम्बन्ध इति गौरवम् । अवयवाश्रयत्वादेव च देवदत्तस्य कर्तृ त्वादि सङ्गच्छत इत्याहुः ।

अनद्यतनत्वं चातीतरात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च कालोऽद्यतनः, तद्भिन्नत्वम् । एवमनद्यतने भविष्यति लुट्, भविष्यत्सामान्ये लृट् ; इत्यादि तत्तदनुशासनवलाद् व्यवहाराच्च बोध्यम् ।

?0अथ विध्यादौ विहितलिङर्थे कॢञ्चिदुच्यते

तत्र विधिः = प्रेरणम्, यथा निकृष्टस्य भृत्यादेः । निमन्त्रणम् = नियोगकरणम्, आवश्यके श्राद्धभोजनादौ प्रवर्त्तनम् । आमन्त्रणम् = कामचारानुज्ञा । अघीष्टः = सत्कारपूर्वको व्यापारः । तच्चतुष्टयानुस्यूतप्रवर्तनासामान्यं विध्यर्थः । विध्यादिसूत्रे चतुर्णां पृथगुपादानं स्पष्टार्थम् । प्रवर्तनात्वं शक्यतावच्छेदकम् । तदतिरिक्तांशस्य प्रमाणान्तरलक्ष्यत्वान्न शक्यत्वम् ।

न च "प्रेषातिसर्गप्राप्तकालेषु कृत्याश्च" [ 3।3।163 ] इति सूत्रे प्रैषादिग्रहणं व्यर्थम्, निमन्त्रणादौ कृत्याभावार्थं तस्यावश्यकत्वात् । लोड्विधानं प्राप्तकालार्थम् प्रवर्तना च प्रकृत्यनुकूलो व्यापारो वक्त्रभिप्रायः । स चेच्छाविशेषरूपः, इच्छागतवैजात्यस्य शक्यतावच्छेदकत्वेन लाघवात् ।

अत एव प्रार्थनस्य पृथग् ग्रहण् । तत्र वक्त्रिच्छासत्त्वेऽपि तस्यानियमेनाप्रवर्तकतयाऽत्र वैजात्यनिवेशस्यावश्यकत्वात् । इच्छा च लोके परुशनिष्ठा, वेदे त्वातीश्वरनिष्ठैव, 'नैवेश्वर अज्ञापयति, नापिध्मसूत्रकाराः पठन्ति' इति भाष्यात् । तक्ष हीश्वराज्ञा वेदः । प्रवर्तकत्वं च स्वातान्त्र्ये सति तादृशर्थबोधकलिङाद्युच्चारयितृत्वादिकमेव ।

यत्तु, इष्टसाधनत्वमेव सवयापारः, इष्टसाधनताज्ञानस्य प्रवृत्तिसामान्ये हेतुत्वावधारणेन तस्यैव वाच्यत्वौचित्यात् । इष्टं च क्वचित् साक्षात्कर्तुरेव क्वचित् परम्परा । अत ए च 'आचार्यप्रेरितोऽहं गामानयामि' इत्यादावाचार्यादेः प्रवर्तकत्वव्यवहारः सङ्गच्छते । भवत्प्रेरणयाऽहमध्यापयामि, न किञ्चिन्ममेष्टमिति व्यवहारस्तु न मे साक्षात् किञ्चिदिष्टमित्येवम्परः ।

प्रवर्त्तकत्वञ्च पवृत्तिजनकेष्टसाधनत्वबोधलिङाद्युच्चारयितत्वादिकमेव । न च राजप्रेरितपदातेस्तादृशलिङाद्युच्चारयितृत्वेन प्रवर्तकत्वापत्तिः, न चेष्टापत्तिः, 'पदातिप्रेरितोऽहं नेदं कुर्वे, किन्तु राजप्रेरितः' इति व्यवाहारानापत्तेः, इति वाच्यम्,स्वातन्त्र्ये सतीति विशेषणात् । पिशुनप्रेरितराज्ञ्यपि स्वातन्त्र्यमस्त्येव । बलात्कारेण गुर्वादिप्रेरितबालाद्यध्यापनेऽपि तदभावप्रयुक्तगुर्वादिक्रोधजन्यताडनाभाव एवेष्टः ।

यद्यपि "स्वरितञि तः" [ 1।3।72 ] इत्यादौ क्रियाफलशब्देन प्रत्यासत्त्याधात्वर्थभूतमेव फलं गृह्यते, तथापीह तथाग्रहणे न किञ्चिन्मानम् । त चेष्टसाधनताज्ञानं न फ्रवर्त्तकम्, अनिष्टसाधने उदासीने च 'कष्टं कर्म' इति न्यायेन द्वेषादप्रवृत्तेरिति वाच्यम्,आन्तरालिकश्रमे द्वेषाभावदशाया तदज्ञानदशायां वा प्रवृत्त्यापत्तेः । न च चिकीर्षायां सत्यामिष्टापत्तिरिति वाच्यम्, इष्टसाधनत्वज्ञानं विना तस्या एवाभावात् ।

एवञ्चेष्टसाधनत्वमेव लिङशक्यम् । तच्च स्वर्गादिसाधनत्वेनैव, तेन रूपेण ज्ञानस्यैव प्रवर्त्तकत्वात् ; न त्विष्टत्वेन, तस्य स्वरूपसत एव हेतुत्वेन तज्ज्ञानानपेक्षणात्, बहुवित्तव्ययायाससाध्ये आमुष्मिके च विशिष्य तज्ज्ञानं विना प्रवृत्त्यभावाच्च ।

तत्र नानार्थत्वपरिहाराय तदादाविव शक्यतावक्छेदकानामनुगमिकेच्छेति बोध्यम् । यथा बुद्धिविषयत्वरूपेणोपस्तितघटत्वपटत्वादिशालिषु बुद्धिविषयतावच्छेदकवति तदादिपदं शक्तमित्येव तदादेः शक्तिग्रहः । बुद्धिविषयत्वमुपस्थितावुपलक्षणयानुगमकमात्रम्, न तु तदंशे शक्तिः । एवमिहापि लिङादिरिच्छाविषयतावच्छेदकस्वर्गत्वादिवत्साधनत्वशक्त इत्येव शक्तिग्रहः ।

न चैवं तावता तदादौ बुद्धिः, इहेच्चआ वा प्रविष्टा । पदार्थोपस्थिरपि तदादौ प्रकरणादिमहिम्ना बुद्धिविषयतावच्छेदकघटत्वादिनोवेहापि समभिव्याहृतस्वर्गपदमहिम्ना स्वर्गादिसाधनमित्ये, न तु बुद्धीच्छयोः शब्दबोधे भानम् ।

एवञ्च विशिष्येष्टवाच्छेदकस्वर्गत्वादिप्रकारेण शाब्दबोधोत्पत्त्या विधिवाक्यात् प्रवर्तकज्ञाननिर्वाहः ।

एवञ्च इच्छाविषयतावच्छेदकत्वोपलक्षितस्वर्गत्वादिविशिष्टसाधनत्वे विधेशक्तिरिति फलितम् ।

न चैतस्यापि स्वर्गकामादिपदाल्लाभेन न तत्र शक्तिः, कामान्तपदात् स्वर्गाद्युपस्तितावपि साधनत्वबोधकाभावात्, विश्वजिदादौ तत्पदसमभिव्याहारस्याप्यभावाच्च । सामान्यत इष्टसाधनत्वमात्रे ज्ञातेऽपि पश्चाद्विशेषजिज्ञासायां तत्तत्पदकल्पनेति त्वन्यदेतत् ।

बलवदनिष्टानुबन्धित्वज्ञानं तु न प्रवर्तकम्, वह्वायाससाध्ये प्रवृत्त्यनापत्तेः । तत्र बहुतरदुः खस्यापि जायमानत्वात्, अल्पदुःखस्यापि कुतश्चिद् बलवत्त्वेनानुगतबलवत्त्वस्य दुर्वचत्वाच्च । न चैवं मधुविषसम्पृक्तान्नभोजनादौ प्रवृत्त्यापत्तिः, तत्तद्विषयकबलवदद्वेषस्य स्वातन्त्र्येण प्रतिबन्धकत्वेनादोषात् । अत एवान्तरालिकश्रमे बलवद्द्वेषवान् ज्योतिष्टोमादौ न प्रवर्तते, अन्यस्तु प्रवर्तत एव ।

एतेन कृतिसाध्यतवज्ञानं प्रवर्तकमितयपास्तम् । कृत्यसाध्ये चन्द्रमण्डलादिग्रहणे प्रवृत्त्यभावश्च तत इष्टाभावेन वृथाश्रमजनकतया द्वेषात् । कॢञ्चाशक्तस्यापि यत्किञ्चित्कृतिसाध्ये प्रवृत्त्यापत्त्या मदंशविशिष्टं प्रवर्तकं वाच्यम् ।

एवञ्च वेदेन तथाबोधयितुमशक्यत्वान्न तच्छक्यम् । यागो मत्कृतिसाध्यः, मतेकृतिसाध्यत्वविरोधिधर्मानधिकरणत्वात् ; इत्याद्यनुमानरूपलौकिकप्रमाणेनापि तद्ग्रहसम्भवेनान्वयलभ्यत्वाच्च । यागो मत्कृतिसाध्यो भवत्विति चिकीर्षा तु लोकतस्तदवगमेनैव सिद्धा ।

अथेष्टसाधनत्वस्य विध्यर्थत्वे 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादौ तृतीया न स्यात्, करणानभिधान एव तद्विधानात् । न च यज्यर्थगतसाधनत्वेऽभिहितेऽपि तद्विशषज्योतिष्टोमादिकार्थगतस्यानभिधानेन तृतीया सिद्धिः, ज्योतिष्ठोमयज्यर्थयोरभेदात् । अत एव 'देवदत्तः पचति' इत्यादौ देवदत्तपदादपि न तृतीया । "अनभिहिते" इत्यस्यानभिहितसङ्ख्याक इत्यर्थ इति वादिभिरपि कृत्साधारण्याय करमतत्सङ्ख्यान्यतराभिधाने इत्यर्थोऽवश्यं वाच्यः; अन्यथा पचनीयस्याल्पेत्यस्याप्यापत्तेरिति चेत्, न ; सव्यापारनिर्व्यापारसाधारणसाधनत्वाभिधानेऽपि कारणत्वशक्तेः, तदाश्रस्य चानभिधानेनादोषात् ।

नन्वेवमपि स्वर्गत्वविशिष्टसाधनत्वं ज्योतिष्टोमे बोधनीयम् ; न च तत् सम्भवति, स्वर्गत्वादेर्गङ्गास्नानवाजपेयादिजन्यस्वर्गादिसाधारण्येन ज्योतिष्टोमादजन्यतानवच्छेदकतया तत्र स्वर्गत्वादिविशिष्टसाधनत्वबाधात् , न हि जन्यतानवच्छेदकधर्मो जनकत्वनिरूपके विशषणं व्यभिचाराच्चेति चेत्, न ; विजातीयतत्तत्साधनत्वस्यैव विधिना बोधाद् न दोषः । वैजात्यं च विधेस्तथाशक्तिस्वीकारादुपस्थितम् । एतदर्थमेव विधेस्तत्तत्साधनत्वे शक्तिरित्युक्तम् ।

ए़वञ्च कार्यवच्छेदकधर्मवत्त्वरूपकार्यत्वस्यावच्छेदकाग्रहे दुर्ग्रहत्वादेव वैजात्यकल्पना, तद्विशिष्टे विदेः शक्तिश्चेति बोध्यम् ।

यद्वा, स्वर्गत्वमेव कार्यतावच्चेदकम् ; अतिप्रसक्तस्याप्यवच्छेदकत्वे दोषाभावात् । ननु तथा सति स्वर्गत्वावच्छिन्नस्यापि अग्निहोत्राज्ज्योतिष्टोमरूपकारमभावेनानुत्पत्त्यापत्तिः, तथाप्युत्पत्तौ च घटादौ रासभवद् व्यभिचारादग्निहोत्रादेरकारणत्वप्रसह्घः, एवं गुणादावपि रूपाद्यापत्तिरिति नातिफ्रसक्तमवच्चेदकमितिचेत्, न ; अग्निहोत्रादिजन्यापूर्वविशिष्टसमवायसम्बन्धेन स्वर्गत्वस्य तत्तद्विधाववच्छेदकत्वान्न दोषः ।

एवं तृणादेरपि तृमत्वावाच्छिन्नसंयोगसम्बन्धेन वह्नित्वावच्छिन्नं प्रति तृमत्वेन हेतुतेति न तत्रापि वैजात्यकल्पना । अत ए 'व्रीहिभिर्यजेत' इत्यादौ परस्परव्यतिरेकेण प्रत्येकं फलजनकत्वंऽपि न दोषः, 'व्रीहिभिर्यष्टव्यः' इति सङ्कल्पापूर्वाच्छिन्नसमयसम्बन्धस्यैव व्रीहिकार्यतावच्छेदकत्वेनादोषात् । सङ्कल्पापूर्वे च फलापूर्वोत्पत्तौ नष्टमिति प्रयोगान्तरे यवादीनामुपादानं नानुपपन्नम् ।

न चैवं रासभस्यापि घटहेतुत्वापत्तिः, यवादेः श्रुत्वा तृणादेररणिमण्यभाववति स्तोमे तृमसत्त्वे तदभावेऽनुत्पत्तिरित्यन्वयव्यतिरेकसहकृताद्यक्षात् तत्सिद्धावपि रासभस्य हेतुत्वे मानाभावात् । किन्त्ववश्यकल्प्यदण्जादिभिरन्यथासिद्धिरेव ।

एवं गुणआदौ रूपापत्तिरपि न; तत्तद्रूपे तत्तद्द्रव्यस्य समवायिकारणताया आवश्यकत्वेन
विशेषसामर्ग्यभावादेव तदभावोपपत्तेः ।

एतेन विधिलभ्यार्थविचारकालेवैजात्यास्वीकारे ज्योतिष्टोमाग्निहोत्रयोः फलसाम्यापत्तौ अल्पवित्तव्ययायाससाध्याग्निहोत्रेणैव सिद्धौ श्रमाद्यधिक्येन द्वषादप्रवृत्तौ ज्योतिष्टोमाश्वमेघादविधीनामननुष्ठनालक्षणाप्रामाण्यापत्तिरिति ?0मीमांसको?0क्तमपास्तम् । यस्यैव लौकिकप्रतिष्ठादिरूपफलेच्छा, तस्यैव प्रृवृत्तेः सम्भवाच्च ।

अत एव सकलशास्त्रविदां युधिष्ठिरादीनां स्वल्पफलकराज्यार्थं गोत्रजब्राह्णआदिहननार्थं प्रवृत्तिः । अत एवाधुनिकानां कर्मासंगत्वं जानतामपि बहुवितव्ययायाससाध्येषु अग्निहोत्राद्यनुष्ठानेषु लौकिकप्रतिष्ठार्थं प्रवृत्तिः सङ्गच्छते ।

?0किञ्च?0, 'सर्वेभ्यः कामेभ्यो ह दर्शपूर्णमासौ' इत्युक्तेस्तस्य नित्यतया काम्यप्रयोगेणैव प्रसङ्गान्नित्यकर्मसिद्धिसम्भवेन प्रयक्तिलाघवलोभात् पुत्रेष्ट्यादौ प्रवृत्त्यनापत्तौ तवापि पुत्रेष्ट्यादीनामानर्थक्यं दुर्वारम् । न च कृताधानस्य पुत्रलोलुपस्य दर्शपौर्णमासात् प्रागपि पुत्रेष्ट्याद्यनुष्ठानसम्मतेनानर्थक्यपरिहारः ।

?0एवमपि?0 मारवधूदर्शपौर्णमासानां काम्येष्टिप्रवृत्तिविलोपो दुर्वारः स्यात्; न च समानफलानामपि कर्मणां शक्ताशक्तभेदेन व्यवस्था । अत एव --

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।
दद्यादयञ्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ।।

इति ?0भारतं?0 सङ्गच्छत इति चेत्, तुल्ये ममापि । अत ए 'वित्तशाठ्यं न कारयेत्' इति तत्तद्व्रतप्रकरणे पठ्यत इत्यलम् ।

ननु 'न कलञ्जं भक्षयत्' इति निषेधवाक्यार्थानुपपत्तिः, कलञ्जभक्षणादेस्तृप्त्यादिरूपेष्टजनकत्वेन तदभावस्य बोधयितुमशक्यत्वादिति चेत्, न ; ईदृशे विषयेऽनिष्टसाधनत्वस्य लिङर्थत्वात् तत्रैव नञ् तात्पर्यग्राहक इत्यदोषः ।

?0यद्वा?0, ऩ्समाभिव्याहारे प्रत्यवायाभावरूपेष्टसाधनत्वं विध्यर्थः, तदभावश्च नञा बोध्यते, साधनत्वञ्चाय तत्सत्त्वे नियमतः प्रत्यवायाभावः, तदभावे नियमतः प्रत्यवाय इत्यन्वयव्यतिरेकवत्वम् । एवञ्चार्थात् तद्भक्षणादौ प्रत्यवायः सिध्यतीति न दोषः । 'ज्वरितो न भु़ञ्चीत' इत्यादौ तु दुःखवृद्ध्यभावरुपेष्टसाधनत्वं विध्यर्थ इत्याद्यूह्यम् ।

न च नित्यनैमित्तिकयोः फलाभावेन तत्रेष्टसाधनत्वमर्थ इति वक्तुमशक्यम्, प्रत्यवायपरोहारूपफलस्य तत्रापि सत्त्वात् । तादृशफले ष्टसाधनत्वज्ञानादेव च तत्र प्रवृत्तिः । विधिबलेन तदकरणे प्राप्तस्य प्रत्यवायस्य तत्करणे परिहारावश्यम्भावात् । न च वेदबोधितत्वान्निष्फल एव प्रवत्तिरिति कल्प्यम्, वेदसहस्रैरपि बोधिते निष्फलत्वज्ञानदशायामप्रवृत्तेः ।

न च --

'अफलाकाङ्क्षिभियंज्ञो विधिदृष्टो य इच्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ।।
(भगवद्गीता 17।11 )
इति भगवद्वचनविरोधः,
ज्ञो दानं तपः1[fn तपश्चैव इति भगवद्गीतापाठः । ] कर्म पावनानि मनीषिणाम् ।
एतान्यपि तु कर्माणि सङ्गं त्वक्त्वा फलानि च ।।
कर्त्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । (भ. गी. 18।5,6 )
इष्यष्टादशे भगवतैव पावनत्वोक्तेः । तस्मादनुद्दिष्टोऽपि प्रत्यवायपरिहारः फलमिति फलं त्यक्त्वापि क्रियमाणस् पावनत्वमिति तदाशयः ।
सन्धयामुपासते ये तु सततं संशितव्रताः ।।
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ।।
इति क्वचिन्नित्येऽपि फलश्रवणाच्च ।

नन्विदं स्तावकस्तुतिश्च प्ररोचनार्था, प्ररोचना च पुरुषप्रवृत्त्यर्थेति चेत्, न; 'सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादिभिः फलाकाङ्क्षानिवृत्तेश्च ।

?0किञ्चार्थवादा?0प्रामाण्यं जानतस्ततः प्रवृत्तेरप्यनुपपत्तिः, 'बहुदुग्धेयं गौः' इति वाक्याप्रामाण्यं जानतस्तद्वाक्यादिव । न च स्वर्गाद्यर्थकतायामप्रामाण्येऽपि प्राशस्त्यबोधकत्वद्वारा स्तावकत्वमित्यभ्युपगतेऽर्थे प्रामाण्यमिति चेत्, न ; तत्फलजनकत्वातिरिक्तप्राशस्त्यस्य क्वाप्यकल्पनात् । धर्मान्तरेण प्राशस्त्यज्ञानस्य प्रवर्त्तकत्वापायाच्च । तस्मात् स्वार्थ एवैषां प्रमाण्यम् ।

एवञ्च 'सन्ध्यामुपासीत' इत्यादौ विधित इष्टावगमेऽपि तस्यावान्तररूपेण बोधनद्वारा शीघ्रोत्पत्तिज्ञापनद्वारा वा प्रवृत्तिविशेषार्थमर्थवाद इति । अत एव सर्वशक्त्याधिकरणे 'काम्यं यथा फलायोपदिष्टं तथा नित्यमपि' इति भट्टैरुक्तम् । तस्मादिष्टसाधनत्वं विध्यर्थं इत्याहुः । तत्, न ; एवं हि अन्येष्टसाधनेऽन्यस्य प्रवृत्त्यापत्त्या मदिष्टसाधनत्वज्ञानं प्रवर्तकं वाच्यम् । तथा च कृतिसाध्यत्ववदस्यापि शकयताया वक्तुमशक्यत्वम् ।

किञ्चैवम् 'पृच्छतु मां भवानित्यर्थे णिच् कस्मान्न भवति' इति "हेतुमति च" ( 3।1।26 ) इति सूत्रस्थभाष्यसङ्कायाः 'द्रव्यमात्रविषयप्रेरणायां लोट्, सक्रियप्रेरणायां णिच्' इत्यादिसमाधानस्य चासङ्गत्यापत्तिः । न हि णिचेष्टसाधनत्वं बोध्यत इति कस्यापि सम्मतम् । तस्मात् प्रागुक्तप्रेरणैव विध्यर्थः ।

?0एवञ्चा?0प्तप्रवर्तनया तत्राज्ञातज्ञप्यत्वमिव श्रेयः साधनत्वमप्याक्षिप्यत इति प्रवर्त्तकेष्टसाधनत्वज्ञानोपपत्तिः । क्वचित् तु स्वर्गकामादसमभिव्याहारादादितो मानसमपि तज्ज्ञानमित्यन्यदेतत् ।

सा च प्रवर्तना लिङ्द्योत्या वाच्या वा ? तत्राद्ये उपपत्तिः, तस्याः प्रत्ययार्थत्वे कर्त्रादीनामर्थानां लकारान्तरे सावकाशानां विध्यादयो वाचकाः स्युः ।

एवञ्च चैत्रेण पचेदिति लिङ्द्योत्या वाच्या वा ? तत्राद्ये उपपत्तिः, तस्याः प्रत्ययार्थत्वे कर्त्रादीनामर्थानां लकारान्तरे सावकाशानां विध्यादयो वाचकाः स्युः ।

एवञ्च चैत्रेण पचेदिति स्यात्, द्विवचनादिकम्, शबादयश्च न स्युः पुरुषव्यवस्था च न स्यात् । द्वितीये
त्वियमुपपत्तिः, विरोधाभावात् "लः कर्मणि" [ 3।4।69 ] इत्यत्र सर्वलकारङ्ग्राहकबहुवचननिर्देशाच्च न क्रर्त्राद्यर्थानामेतैबधिः, सङ्ख्यायाः सङ्ख्येयापेक्षितत्वेन तेषां वाचकत्वावश्यकत्वात् [च] लडादौ वर्तमानत्वपरोक्षत्वादीनां समावेशेन "लः कर्मणि" [ 3।4।69 ] इत्यस्य निरवकाशत्वाच्च ।

न च "माडि लुङ्" [ 3।3।175] इत्यादिभिः कालसामान्यविहितेषु तत्सावकाशम्, तत्रापि विशेष्यासत्त्वभूतभावनायाः कालाकाङ्क्षितत्वेन कालस्य वाच्यतवाङ्गीकारात् । अत एव तस्य सर्वलकारापवादत्वं सङ्गच्छते ।

न च निमन्त्रयेयं भवन्तमिति न स्यात्, निमन्त्रणाया उक्तत्वादिति वाच्यम् ; प्रयोजकनिष्ठयोर्निमन्त्रमयोरन्ययोः प्रत्यार्थत्वस्वीकारात् । तत्र तत्र द्योतकतापक्षो ज्यायान्, 'पच' इत्यादौ प्रत्ययं विनाऽपि प्रवर्तनाप्रतीतेः, प़्चभिर्हलैः कृषतीत्यादौ प्रवर्तनाया धात्वर्थत्वस्य दृष्टत्वाच्च । एवञ्चात्र प्रयोजकव्यापारोऽपि धात्वर्थः, तस्यापि पाकाद्यनुकूलत्वात् । तत्र फलानुकूलत्वात् तदुपस्तितव्यापाराणां मध्ये प्रयोजकव्यापारस्य विषयितया विशेषणनवेत्नान्वयः, इतरेषां तु विषयतया विशेष्यत्वेन ।

एवं द्विप्रकारकान्वये लिङादयस्तात्पर्यग्राहकाः । तथा चैकाश्रयिका प्रवर्तनाविषयीबूता पाकानुकूला क्रियत्यादिप्रकारेण पचेदित्यादौ बोधः ।

न चैवं प्रवर्तनाश्रयस्यापि धात्वर्थव्यापाराश्रयत्वेन कर्तृत्वात् तत्र कर्तरि लकारः स्यादिति वाच्यम्, लिङाद्युत्पत्तेः पूर्वं प्रवर्तनाया अप्रतिपादनात् तदाश्रयस्य कर्तृत्वाभावेन तमादाय "लः कर्मणि" इत्यस्याप्रवृत्तेः । लिङ्क्षु सूत्रद्वयाभ्यामेक वाक्यतापन्नाभ्यां विधीयत इत्यदोष इति बहवः ।

अन्ये तु 'पाचयति' इत्यादौ प्रवर्तनाया विशेष्यत्वस्य क्लृप्तत्वेनात्रापि तथैवास्तु । एञ्चैकाश्रयपाकानुकूलक्रियाविषया प्रवर्त्तनेति बोधः । न चैतस्याः प्रत्ययवाच्यत्वपक्षे 'क्रियाप्रधानमाख्यातम्' इति वचनबोधितधात्वर्थविशेष्यताया एव बोधनेनादोषात् ।

न च णिच्सनादौ प्रकृत्यर्थ एव विशेष्य, औत्सर्गिकप्रत्ययार्थप्राधान्यत्यागेमानाभावात्, अनुभवविरुद्धत्वाच्च 'पाचयिता' इत्यादौ णिजर्थादीनां प्राधान्यस्यावश्कत्वाच्चेत्याहुः ।

तत्र कारकविशिष्टधात्वर्थस्य प्रवर्तनायाम्, तादृशधात्वर्थे,प्रवर्तनाया वान्वयः, कारकान्वयं विना धात्वर्थस्य निरूपयितुमशक्यत्वात् ।

एवञ्च प्रवर्तनाक्षिप्तमज्ञाप्यत्वं श्रेयः साधनत्व़्च विशिष्ट एव, कारकविशिष्टक्रियाया एव प्रवर्तनाविषयत्वात् । धात्वर्थस्य प्राप्तत्वे तु तात्पर्यतो गुणांशे पर्यवस्यत । यथा 'दघ्ना जुहोति' इति । लिहादौ प्रवर्तना च वस्तुतो वर्तमानकालएव भासते, शब्दशक्तिस्वभावाद्, वर्तमानकालस्यान्तरङ्गत्वाच्च । धात्वर्थस्तु भविष्यत्काल एव, शब्दशक्तिस्वभावात् ।

एतेन प्रेरणा प्रयोज्यपाकवर्तमानतादशायां 'पचेत्' इति प्रयोगापत्तिरिति निरस्तम् । विधिलिङ्युत्तमस्तु न, स्वप्रवृत्तौ स्वेच्छायाः स्वरूपसत्या एव कारमत्वेन तज्ज्ञानानुपयोगात् । इदमेवाभिप्रेत्य 'उत्तमपुरुषो विधिशक्तिप्रतिबन्धकः' इति मीमांसकाः ।

'न कलञ्जं भक्षयेत्' इत्यादौ नञ्समभिव्याहारे तु निवृतिर्लिङर्थ इति सर्वेष्टसिद्धिः ।

इति तिङर्थविचारः