शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण २

← अध्यायः २/ब्राह्मण १ शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण २
[[लेखकः :|]]
अध्यायः २/ब्राह्मण ३ →

चित्याग्नेः सप्तपुरुषप्रमाणताया विधानम्

१०.२.२

यान्वै तान्त्सप्त पुरुषान् एकं पुरुषमकुर्वन्त्स प्रजापतिरभवत्स प्रजा असृजत स प्रजाः सृष्ट्वोर्ध्व उदक्रामत्स एतं लोकमगच्छद्यत्रैष एतत्तपति नो ह तर्ह्यन्य एतस्मादत्र यज्ञिय आस तं देवा यज्ञेनैव यष्टुमध्रियन्त - १०.२.२.१

तस्मादेतदृषिणाभ्यनूक्तम् यज्ञेन यज्ञमयजन्त देवा इति यज्ञेन हि तं यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति ते हि धर्माः प्रथमेऽक्रियन्त ते ह नाकं महिमानः सचन्तेति स्वर्गो वै लोको नाको देवा महिमानस्ते देवाः स्वर्गं लोकं सचन्त ये तं यज्ञमयजन्नित्येतत् - १०.२.२.२

यत्र पूर्वे साध्याः सन्ति देवा इति प्राणा वै साध्या देवास्त एतमग्र एवमसाधयन्नेतदेव बुभूषन्तस्त उ एवाप्येतर्हि साधयन्ति पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूनेति पश्चा हैवेदमन्यद्यज्ञियमास यत्किं चामृतम् - १०.२.२.३

सुपर्णो अङ्ग सवितुर्गरुत्मान् पूर्वो जातः स उ अस्यानु धर्मेति प्रजापतिर्वै सुपर्णो गरुत्मानेष सवितैतस्य प्रजापतिरनु धर्ममित्येतत् - १०.२.२.४

स वै सप्तपुरुषो भवति सप्तपुरुषो ह्ययं पुरुषो यच्चत्वार आत्मा त्रयः पक्षपुच्छानि चत्वारो हि तस्य पुरुषस्यात्मा त्रयः पक्षपुच्छानि - १०.२.२.५

तं वा उद्बाहुना पुरुषेण मिमीते। पुरुषो वै यज्ञस्तेनेदं सर्वं मितं तस्यैषा परमा मात्रा यदुद्बाहुस्तद्यास्य परमा मात्रा तामस्य तदाप्नोति तयैनं तन्मिमीते तत्रोप यत्प्रपदेनाभ्युच्छ्रितो भवति तत्परिश्रिद्भिराप्नोति तस्मादु बाह्येनैव लेखां परिश्रिद्भ्यः खनेत् - १०.२.२.६

अथ पक्षयोररत्नी उपादधाति पक्षयोस्तद्वीर्यं दधाति बाहू वै पक्षौ बाहुभ्यामु वा अन्नमद्यतेऽन्नायैव तमवकाशं करोति तद्यत्पक्षयोररत्नी उपादधात्यरत्निमात्राद्ध्यन्नमद्यते - १०.२.२.७

अथ पुच्छे वितस्तिमुपादधाति प्रतिष्ठायां तद्वीर्यं दधाति प्रतिष्ठा वै पुच्छं हस्तो वितस्तिर्हस्तेन वा अन्नमद्यतेऽन्नायैव तमवकाशं करोति तद्यत्पुच्छे वितस्तिमुपादधात्यन्न एवैनं तत्प्रतिष्ठापयति तद्यत्तत्र कनीय उपादधात्यन्ने ह्येवैनं तत्प्रतिष्ठापयत्यथो एतावद्वा इदं मितं भवत्येतावदिदं तद्यदेवं मिमीत एतस्यैवाप्त्यै - १०.२.२.८