शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/चतुर्दशः सर्गः(श्रीकृष्णार्घदानवर्णनम्)

← त्रयोदशः सर्गः(श्रीकृष्णसमागमवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
चतुर्दशः सर्गः(श्रीकृष्णार्घदानवर्णनम्)
माघः
पञ्चदशः सर्गः(शिशुपालक्रोधवर्णनम्) →


चतुर्दशः सर्गः ।

 तं जगाद गिरमुद्गिरनिव स्नेहमाहितविकासया दृशा ।
 यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकद्वदो नृपः ॥१॥

 तमिति ॥ वदतीति वदः । पचाद्यच् । कुत्सितस्य वदः कद्वदः गर्ह्यवाक् । गर्ह्यवादी तु कद्वदः' इत्यमरः । 'रथवदयोश्च' (६।३।१०२) इति कोः कदादेशः । स न भवतीत्यकद्वदः साधुवादी नृपो युधिष्ठिरो यज्ञकर्मणि यज्ञानुष्ठाने मनः समादधत्सम्यगादधत् । तदेव हृदि निधायेत्यर्थः । आहितविकासया कृतप्रसादया दृशा दृष्ट्या स्नेहमुद्गिरन्नुद्वमन्निवेत्युत्प्रेक्षा । दृष्टिविकासात्प्रकटितस्नेहः सन्नित्यर्थः । वाचो विन्दन्ति वक्तुं विवेकं च जानन्तीति वाग्विदो वाक्यकोविदाः । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । तेषां वरं श्रेष्ठं तं हरिं गिरं जगाद । ब्रूतेरर्थग्रहणात् 'दुह्याच्-' इत्यादिना गदेर्द्विकर्मकत्वम् । अत्रोत्प्रेक्षावृत्त्यनुप्रासयोः संसृष्टिः । अस्मिन्सर्गे रथोद्धता वृत्तम् । 'रानराविह रथोद्धता लगौ' इति लक्षणात् ॥ १॥

 'गिरं जगाद' (१४१) इत्युक्तं तामेव गिरं दशभिः प्रपञ्चयति-

 लञ्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
 व्रीडमेति न तव प्रियं वदन्हीमतात्रभवतैव भूयते ॥ २॥

 लजत इत्यादिभिः ॥ परोऽन्यः कश्चित्पुमान्प्रियं गदितः । प्रियवाक्यमुक्तः सन्नित्यर्थः । गदेर्दुहादित्वादप्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनाम्' इति वच-


पाठा०-१'अतिरक्त•'. नात् । न लज्जते । तस्योत्सुकत्वादिति भावः । किंतु वक्तुः स्तोतुरेवाधिका त्रपा भवति । भयादिना मिथ्यास्तावकत्वादिति भावः । प्रकृते तु नैवमित्याह-तव प्रियं वदन् । त्वां स्तुवन्नित्यर्थः । व्रीडं नैति । अनन्तगुणाधारे त्वयि बहोरपि प्रियस्या मिथ्यात्वादिति भावः । किंतु स्तवनेनात्रभवता पूज्येनैव हीमता त्रपावता भूयते प्रत्युत त्वमेवात्र जिहेषीत्यर्थः । महतामनुत्सुकत्वादिति भावः । 'पूज्यस्तत्रभवान्' इति सज्जनः । 'इतराभ्योऽपि-' (५।३।१४) इति सार्वविभक्तिके तसिल्प्रत्यये 'सुप्सुपा' इति समासः ॥ २॥

 तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
 अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ॥३॥

 तोषमिति ॥ परस्त्वदन्यः वितथैरसत्यभूतैः स्तवैः स्तोत्रैः । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः । तोषमुत्सुकतामेति । ते च तस्य परस्य ते मिथ्यास्तवाः शरीरिभिः प्राणिभिः सुलभाः । असंबद्धप्रलापानामनिरर्गलत्वादिति भावः । त्वयि तु नैवमित्याह-अस्तीति । हे स्तोत्रयोग्य । गुणाकरत्वादिति भावः । अत एव तव संबन्धि स्तुतिवचोऽनृतं नास्ति न भवति, तेन स्तुतिवचसा न च तुष्यसि न प्रसीदसि । गम्भीरत्वादिति भावः । अत्र श्लोकद्वये पुरुषान्तरादुपमानभूतादाधिक्यकथनाद्यतिरेकालंकारः ॥ ३ ॥

 बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।
 संभवन्ति यददोषदूषिते सार्व सर्वगुणसंपदस्त्वयि ॥ ४ ॥

 बह्वपीति ॥ अयं जनः । स्वयमित्यर्थः परामृश्यते । बह्वपि तव प्रियं ब्रुवन् सन् अनृतवादितां मिथ्यावादित्वं न व्रजति न गच्छति । यद्यस्मात् हे सार्व, सर्वहितत्वात्सार्वः तत्संबोधने । 'सर्वपुरुषाभ्यां णढञौ' (५।१।१०) इति णप्रत्ययः। दोषदूषितो न भवतीत्यदोषदूषिते सर्वागुणवर्जिते त्वयि सर्वगुणसंपदः संभवन्ति । अनारोपितगुणवादो भूयानपि न विपर्येतीति भावः । अत्रोत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ४ ॥

 सा विभूतिरनुभावसंपदां भूयसी तव यदायतायति ।
 एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥५॥

 सेति ॥ हे ऊढगुरुभार । विश्वंभरत्वादिति भावः । एतत् भरतस्य राज्ञ इदं भारतं भारताख्यं वर्षम् । 'वर्षोऽस्त्री भारतादौ च' इति हैमः । 'लोकोऽयं भारतं वर्षम्' इत्यमरः । अद्येदानीमायतायति बहुतरकालम् । स्थितं यथा तथेत्यर्थः । 'उत्तरः काल आयतिः' इत्यमरः । मम वशे आयत्ततायां वर्तत इति यावत् । 'वश आयत्ततायां च' इति विश्वः । सा तद्वशवर्तनम् । विधेयप्राधान्यात्स्त्रीलिङ्गता । तवानुभावसंपदां सामर्थ्यातिशयानां भूयसी महती विभूतिर्महिमा । कार्यमिति यावत् । त्वत्प्रसादलब्धमिदमैश्वर्यमित्यर्थः । अत्र निजैश्वर्यस्य भगवदनुभावसंपदं विना संबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ ५॥  तदेवं स्तुत्या हरिमभिमुखीकृत्य कृत्यांशमावेदयति-

 सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।
 मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥६॥

 सप्तेति ॥ सप्त तन्तवः संस्था यस्य तं सप्ततन्तुं ऋतुम् । 'सप्ततन्तुर्मखः ऋतुः' इत्यमरः । अधिगन्तुं प्राप्तुमिच्छतो ममानुज्ञयानुज्ञादानेनानुग्रहं प्रसादं कुरु । साहाय्यं कुर्वित्यर्थः । स्वतः समर्थस्य किं मदनुग्रहेणेत्याह-हे प्रभो, त्वयि मूलतां मुख्यकारणतामङ्घ्रित्वं चोपगते सति मया धर्ममयवृक्षता धर्मात्मकवृक्षता प्रापि प्राप्ता । प्राप्नोतेः कर्मणि लुङ् । प्रागपि त्वदनुग्रहादेव धर्ममर्जयन् धर्मराजोऽहमस्मीति भावः । अत्र नृपस्य धर्मवृक्षत्वेन हरेस्तन्मूलत्वेन च रूपणात्सावयवरूपकम् । तेन त्वदनुग्रहः सर्वथा प्रार्थनीयो मया धर्मार्थिनेति तात्पर्यं व्यज्यते ॥ ६॥

 संभृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
 त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥७॥

 संभृतेति ॥ निर्मलां निर्दोषामिष्टिं यागम् । यजेः स्त्रियां क्तिन् ‘वचिस्वपि' (६।१।१५) इत्यादिना संप्रसारणम् । कर्तुमभिवाञ्छता अत एव संभृतोपकरणेन संपादितसाधनेन मया त्वं वलजान् धान्यराशीन् । 'वलजो धान्यराशिः स्यात्' इति वैजयन्ती । पुपूषता पवितुं शोधितुं निर्बुसीकर्तुमिच्छता । पुनातेः सन्नन्ताल्लटः शत्रादेशः 'सनि ग्रहगुहोश्च' (७२।१२) इति चकारादिटः प्रतिषेधः । कर्षकेण कृषीवलेन समीरणो वायुरिव प्रतीक्षितः । प्रवाते शूर्पादिना धान्यस्योत्क्षेपः पवनम् । तद्वातं विनेव त्वां विना समाहृतसंभारेणापि मया यागो दुष्कर इति भावः ॥ ७॥

 वीतविघ्नमनघेन भाविता संनिधेस्तव मखेन मेऽधुना ।
 को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥८॥

 वीतविघ्नमिति ॥ अधुना तव संनिधेर्हेतोर्मे मखेन ऋतुना कर्त्रावीतविघ्नमविघ्नं अनघेन निर्दोषेण भाविता । भविष्यत इत्यर्थः । भावे लट् 'स्यसिच्सीयुट्' (६।४।६२) इत्यादिना लुटि चिण्वद्भावाद्वृद्धिः। तथा हि-अशीतदीधितावुष्णांशावास्थितोदये प्राप्तोदये सति को वासरश्रियं दिनशोभा विहन्तुमलं शक्तः। न कोऽपीत्यर्थः । अत्र हरिमरीचिमालिनोर्वाक्यभेदाद्बिम्बप्रतिबिम्बतया संनिहितद्योतितया समानधर्मतया निर्दोषो दृष्टान्तालंकारः । 'यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मवाक्योक्तेः स दृष्टान्तो निगद्यते ॥' इति लक्षणात् ॥ ८॥

 खापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत ।
 तीर्थगामि करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥९॥

 स्वापतेयमिति ॥ यत्स्वपतौ स्वामिनि साधु तत् स्वापतेयं वित्तम्। 'पथ्यतिथिवसतिस्वपतेर्ढञ्' (१।४।१०४) 'द्रव्यं वित्तं स्वापतेयम्' इत्यमरः । धर्मतः क्षत्रियस्य


पाठा०-१ 'खलु'. विजितमिति शास्त्रोक्तप्रकारादित्यर्थः । अधिगम्य लब्ध्वा यत्नेन पर्यपालयं पालितवान्, अवीवृधं वृद्धिं च प्रापितवान् । तत्तीर्थगामि विप्राधीनं करवै करिष्यामि। विधानतः पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत्' (याज्ञ० आ० ३१७) इति स्मरणात् । तच्च पात्रं त्वमेवेत्याह-तत्सर्वं जुषस्व सेवस्व । सदैव भुङ्क्ष्वेत्यर्थः । 'जुषी प्रीतिसेवनयोः' इति धातोर्लोट् । अनले जुहवानि च जुहुयाम् । तन्मुखेनापि तवैव भोक्तृत्वादिति भावः । जुहोतेः संप्रश्नलोटि मेर्निरादेशः ॥ ९ ॥

 पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
 सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥१०॥

 पूर्वमिति ॥ वेति पक्षान्तरे । अथवेत्यर्थः । अङ्ग हे कृष्ण, 'अथ संबोधनार्थकाः । स्युः प्याटपाडङ्ग हे है भोः' इत्यमरः । पूर्वं त्वमेव जुहुधि । यजस्वेत्यर्थः । 'हुझल्भ्यो हेर्धिः' (६।४।१०१) इति हेर्धिरादेशः । सोमपायिनि त्वयि अवभृथे यज्ञे । 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः । स्नातवति सति ततोऽनन्तरं मया वाञ्छित उत्तमो वितानः क्रतुः राजसूयाख्यः । 'ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । तेन यथा याजिना भविष्यते । भावे लुट् । त्वयि इष्टवति पश्चादहं यक्ष्य इत्यर्थः । अत्र श्लोकद्वयेन हरेर्यागासंबन्धे तत्संबन्धोक्तेरतिशयोक्तिः ॥ १० ॥

 किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसंपदा ।
 शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ॥११॥

 किमिति ॥ अथवा त्वत्प्रसादेन त्वदनुग्रहेण जितया जयलब्धयाऽनयाऽर्थसंपदा धनसंपदा किं विधेयं किमनुष्ठेयं विधीयतां त्वयैव क्रियताम् । अहं तु न स्वतन्त्र इत्याह-हे जगत्त्रयस्य शासक । न तु ममैवेति भावः । मां शाधि । नियुङ्क्षेत्यर्थः । शासेर्लोटि 'हुझल्भ्यो हेर्धिः' (६।४।१०१) इति धिरादेशः । 'झलो झलि' (८।२।२६) इति सकारलोपः । सहानुजः सानुजः सन् 'वोपसर्जनस्य' (६।३।८२) इति सहशब्दस्य सभावविकल्पः । भवतस्तवाश्रवो विधेयोऽस्मि । 'विधेयो विनयग्राही वचने स्थित आश्रवः' इत्यमरः । अत्रानाश्रवस्याश्रवत्वसंबन्धोक्तेरतिशयोक्तिरिति दशश्लोक्याप्रियतरामतेऽतिप्रियतराख्यानात्प्रेयोऽलंकारः । 'प्रेयः प्रियतराख्यानम्' इति लक्षणात् । आधुनिकास्तु भावनिबन्धने प्रेयोऽलंकार इति लक्षयन्ति । स चोन्नीतस्तत्र तत्रोन्नेष्यते च ॥ ११ ॥

 तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः।
 व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥१२॥

 तमिति ॥ अथानन्तरं विष्टराविव श्रवसी यस्य स विष्टरश्रवाः कृष्णः । 'विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः' इत्यमरः । इति एतादृशं तं वदन्तं नृपम् । समस्तभूभृतः सर्वान्नृपाञ्श्रावयन् दशनांशुमण्डलमिति व्याजोऽपदेशो यस्य तेन हारेण मुक्ताहारेण शबलं शारं वपुर्दधद्व्याजहार व्याहृतवान् । अत्र दशनांशुमण्डलस्य व्याजशब्देनासत्यत्वप्रतिपादनादपह्नवभेदः ॥ १२ ॥

 यदुक्तं 'सा विभूतिः' (१४५) इत्यादि तत्रोत्तरमाह-

 सादिताखिलनृपं महन्महः संप्रति वनयसंपदैव ते ।
 किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १३ ॥

 सादितेति ॥ संप्रति ते तव महन्महस्तेजः स्वनयसंपदैव निजनीतिमहिनैव सादिताखिलनृपं विजितसमस्तराजकं न तु मदनुभावादिति भावः । तथा हि पथ्या हिता वृत्तिरन्नपानादिक्रिया यस्य सोऽप्यरोगितामारोग्यं समश्र्नुते यदि प्रामोतीति चेत् । सोऽपि तदारोग्यमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गता । परस्य भिषजः स गुणः किं नेत्यर्थः । अपथ्यवृत्तेरारोग्यमौषधसाध्यत्वाद्भिषजो गुणोऽस्तु, हितमेध्याशिनो न तथेत्यर्थः । स्वयमसमर्थः । पराधीनसिद्धिरित्युपचार इति भावः । दृष्टान्तालंकारः सुगमः ॥ १३ ॥  यदुक्तं 'पूर्वमङ्ग जुहुधि त्वमेव' (१४।१०) इति तत्राह-

 तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।
 द्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥१४॥

 तदिति ॥ तत्तस्मादुक्तरीत्या । तवैवाधिकारित्वादित्यर्थः । सुराज्ञि विजयप्रजारक्षणादिगुणयोगाच्छुद्धक्षत्रिये । 'न पूजनात्' (५।४।६९) इति समासान्तप्रतिषेधः । भवति त्वयि पुरः स्थिते सति । कः । त्वदन्यः क इत्यर्थः । राज्ञः क्षत्रियस्य लक्षणं चिह्नमसाधारणं यस्य तं क्रतुम् । राजसूयमित्यर्थः । यजतु । न कोऽपीत्यर्थः । 'राजा राजसूयेन यजेत' इति राजाधिकारताश्रवणाद्राजा त्वमेवेति भावः । संभावनायां लोट् । अत्र दृष्टान्तमाह-भुव उद्धृतौ भुव उद्धरणे श्रीवराहमादिवराहमपहाय कस्य पुनर्योग्यता सामर्थ्यं भवति । न कस्यापीत्यर्थः । योगाय प्रभवतीति योग्यः । 'योगाद्यच्च' (५।१।१०२) इति यत्प्रत्ययः । अत्र राजवराहयोर्वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः ॥ १४ ॥

 यच्चोक्तं 'संभृतोपकरणेन' (१४।७) इत्यादिना, तत्र गृहीतलक्षणोऽस्मीत्याह-

 शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष कामतः ।
 त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः ॥१५॥

 शासन इति ॥ गुरुण्यतिदुष्करेऽपि शासने नियोगे व्यवस्थितम् । त्वदाज्ञाकरमित्यर्थः । मां कृत्यवस्तुषु कर्तव्यार्थेषु कामतो यथेच्छं नियुङ्क्ष्व प्रेषय । अनुचितमेतन्नियन्तरीति संकोचं वारयन्नाह-त्वदिति । त्वत्प्रयोजनमेव धनं यस्य तम् ।त्वदर्थैकनिष्ठमित्यर्थः । मां धनानि जयतीति धनंजयोऽर्जुनः । 'संज्ञायां भृृतृृवृजिधारिसहितपिदमः' (३।२।४६) इति खश्प्रत्यये मुमागमः । तस्मादेषोऽन्यः कृष्ण इति मां मावगाः मावेहि च । नियोगसमुच्चयार्थश्चकारः । अवपूर्वादिणो 'माङि लुइ', (३।३।१७५) 'इणो गा लुङि' (२।४।४५) इति गादेशः 'न माङ्योगे' (६।४।७४) इत्यदप्रतिषेधः । उभयोस्तत्कार्यनिबन्धनान्नारायणात्मत्वाच्च नावयोर्मेदप्रतिपत्तिः कार्येत्यर्थः । तथा च तद्वदेव कर्मसु नियोगेऽप्यसंकोच उचित इति भावः । अत एवानयोर्वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः। स च कृष्णयोर्भेदाभेदरूपातिशयोक्तिमूल इत्यनयोरङ्गाङ्गिभावेन संकरः ॥ १५ ॥ यच्चोक्तं 'वीतविघ्नम्' (१४८) इत्यादि तत्राभयदानं प्रतिजानीते-

 यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
 तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः ॥ १६ ।।

 य इति ॥ यो भूपतिः तवेहास्मिन् सवने यज्ञे । 'सवनं यजने स्नाने सोमे निर्दलनेऽपि च' इति विश्वः । कर्मकरवद्भृत्यवत्कर्म न करिष्यति तस्य भूपतेर्वपुः जगतां बन्धुः । क्षेमंकरत्वादिति भावः । एष सुदर्शनो मच्चक्रम् । 'शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्' इत्यमरः। कबन्धतां शिरःशून्यतां नेष्यति प्रापयिष्यति । चक्रेणास्य शिरश्छेत्स्यामि इत्यर्थः । 'कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे' इति विश्वः । अतो विघ्नशङ्का न कार्येति भावः । अत्र सुदर्शने बन्धुत्वरूपणाद्रूपकालंकारः ॥ १६ ॥

 इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
 सर्वसंपदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥१७॥

 इतीति ॥ इतीत्थमुदीरितगिरमुपन्यस्तवाचं शौरिं हरिं नृपो युधिष्ठिरः त्वयि श्रेयस्यभ्युदये विषये स्थितवति सति । त्वयि क्षेमंकरे सतीत्यर्थः । मम सर्वसंपत् स्थिरेत्युक्तवान् । मुदमुद्वहन् सहायसंपत्त्या संतुष्यन् सन् । क्रतावुदस्थित । क्रतुं कर्तुमुद्युक्तवानित्यर्थः । तिष्ठतेर्लुङि 'उदोऽनूर्ध्वकर्मणि' (॥३।२४) इत्यादिनात्मनेपदं 'स्थाध्वोरिच' (१।२।१७) इति सिचः कित्वादिकारः । 'हस्वादङ्गात्' (८।२।२७) इति सकारलोपः ॥ १७ ॥ अथ पञ्चत्रिंशच्छ्शोकैरनेकधा क्रतुं वर्णयति-

 आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
 आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥

 आननेनेत्यादि ॥ आननेन शशिनः कलामिव कलां कान्तिं दधत् । निदर्शनालंकारः । शशिमुख इत्यर्थः । अन्यत्र शशिखण्डधरेत्यर्थः । दर्शनेन ज्ञानेन क्षयितौ नाशितौ कामविग्रहौ कामक्रोधौ येन सः, अन्यत्र दृष्टिदग्धस्मरशरीरः । विमलैर्जलैः आप्लुतः स्नातः । नद्यां स्नातीति दीक्षायां स्नानविधानादिति भावः । अन्यत्र गङ्गोदकसिक्ता । गङ्गाधरीत्यर्थः । स नृपः अष्टानां पूरणी अष्टमी । 'तस्य पूरणे डट्' (५।२।४८) इति डट् प्रत्ययः । 'नान्तादसंख्यादेर्मट्' (५।२।४९) इति मडागमः ‘टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । अष्टानां मूर्तीनां समाहारोऽष्टमूर्तिः । तद्धितार्थ-' (२।१।५१) इत्यादिना समाहारे द्विगुरेकवचनं नपुंसकं च । तस्य धरो धारयिताऽष्टमूर्तिधरः शिवः तस्याष्टमी मूर्तिरभूत् । सोमदीक्षितोऽभूदित्यर्थः । तस्याप्यागमे शिवमूर्तित्वप्रसिद्धः । अत्र प्रकृताप्रकृतयोर्नृपशिवयोः शिवशब्दमात्रसाधर्म्याच्छ्लेषालंकारः ॥ १८ ॥

 तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।
 कर्तृता तदुपलम्भतोऽभवद्वृतिभाजि करणे यथविजि ॥ १९ ॥

 तस्येति ॥ क्रियाः कर्माणि होमादीनि, अन्यत्र पुण्यपापकर्माणि । स्वयमकुर्वतोऽननुतिष्ठतः, अन्यत्र उदासीनस्य । अत एव सांख्यपुरुषेण सांख्यशास्त्रोक्तेनात्मना तुल्यतां बिभ्रतस्तस्य राज्ञः करणेऽन्तःकरणे यथा । बुद्धाविवेत्यर्थः । ऋतौ यजतीति ऋत्विग्याजकः । 'ऋत्विजो याजकाश्च ते' इत्यमरः । 'ऋत्विग्दधृग् (३।२।५९) इति निपातः । तस्मिन् वृत्तिभाजि । होमादिव्यापारं कुर्वतीत्यर्थः । अन्यत्र पुण्यपापकारिणि सति तदुपलम्भतः तस्या ऋत्विग्वृत्तेरुपलम्भान्ममेदमित्यनुसंधानादेव कर्तृता क्रियानुष्ठातृत्वमभवत्। तथैव विधिसामर्थ्यादिति भावः । अत एवाह भगवाञ्जैमिनिः- 'अन्यो वा स्यात्परिक्रिया स्नानात्सत्यप्यात्मनेपदे' इति, अन्यत्र तदुपलम्भतस्तस्या बुद्धिवृत्तेरुपलम्भात्साक्षित्वेनानुसंधानादेव कर्तृत्वमभवत् । स्वयं क्रियाभोगरहितोऽप्यात्मा बुद्धेः संनिधानाद्रक्तस्फटिकवत्तथा भवतीत्यर्थः । उपमालंकारः ॥ १९ ॥

 शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।
 याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥२०

 शब्दितामिति ॥ वाक्यलक्षणविदो मीमांसाशास्त्रज्ञाः । यजनकर्मिणो यजनव्यापारवन्त ऋत्विजः । व्रीह्यादित्वादिनिप्रत्ययः । अनूच्यत इत्यनुवाक्या तयानुवाक्यया । 'अनूच्यया याज्यया जुहोति' इति श्रुतेः । सा च प्रशास्तृपाठ्या । तदभावे होतृपाठ्या देवताह्वानी ऋक् । वचेः 'ऋहलोर्ण्यत्' (३।१।१२४) 'चजोः कु घिण्यतोः' (७।३।५२) इति कुत्वम् । शब्दसंज्ञात्वात् 'वचोऽशब्दसंज्ञायाम्' (७।३।६७) इति न प्रतिषेधः । उच्चकैः अनपशब्दं यथा तथा शब्दिताम् । मन्त्रवर्णेनोच्चैः प्रकाशितामित्यर्थः । 'उच्चैर्ऋचा क्रियत' इति विधानात् । 'शब्द संशब्दने' इति धातोश्चौरादिकात्कर्मणि क्तः । देवतामिन्द्रादिकामपदिश्य द्रव्यजातं पशुपुरोडाशादि हविःसमूहं इज्यतेऽनयेति याज्या सा च होतृपाठ्या यागाङ्गसाधनमृक् । 'याज्यया जुहोति' इति श्रुतेः । पूर्ववत् 'ऋहलोर्ण्यत्' (३॥१॥१२४) इति करणे ण्यत् । 'यजयाचरुचप्रवचर्चश्च' (७३।६६) इति कुत्वप्रतिषेधः । तया अत्यजन् अयजन्नित्यर्थः । 'देवतोद्देशेन द्रव्यत्यागो याग' इति लक्षणात् । स च त्यागः सामान्यत आहवनीये जुहोतीति तदाहवनीय इति सामान्यन्यायाद्विधानादन्यत्रेति ध्येयम् । द्रव्यत्यागस्याध्वर्युमात्रकर्तृत्वेपि याज्यापुरोनुवाक्याद्वारा होतृप्रशास्त्रोरपि साहित्यादत्यजन्नितिबहुत्वव्यपदेशः । तथा च मैत्रावरुणेन पुरोनुवाक्यायामनूक्तायां तत्प्रकाशितदेवतोद्देशेनाध्वर्युहातृपठितयाज्यान्ते वषट्कारेण सोमादिकं हविरग्नावत्याक्षीदित्यर्थः । स्वभावोक्तिरलंकारः ॥ २० ॥

 सप्तभेदकरकल्पितखरं साम सामविदसङ्गमुज्जगौ ।
 तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ २१ ॥

 सप्तेति ॥ तत्र क्रतौ । सामानि वेत्तीति सामवित् उद्गाता सप्तभेदं सप्तप्रकारं यथा तथा करेण हस्तेन कल्पिताः संपादिताः स्वरा निषादादयो यस्य तत् । करविन्यासभेदादिभिर्व्यञ्जितसप्तस्वरमित्यर्थः । 'निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त' इत्यमरः । यद्वा स्वराः कष्टादयः । कष्टः प्रथमो द्वितीयो मन्दो नीच इत्यादयः । साम बृहद्रथन्तरादिकमसङ्गमस्खलितमुज्जगावुदगायत् । किंच सूनृतगिरः प्रियसत्यवाचः । 'प्रियं सत्यं च सूनृतम्' इत्यमरः । सूरयो विद्वांसो होत्राध्वर्वा्यदयः पुण्यं श्रेयस्करम् । ऋचश्च यजूंषि च तत् ऋग्यजुषम् 'अग्निमीळे' 'इषे त्वा' इत्यादिकम् । द्वन्द्वैकवद्भावः 'अचतुर' (५।४।७७) इत्यादिना द्वन्द्वे समासान्तनिपातः । अध्यगीषत । इङो लुडि 'विभाषालुङ्लुडोः' (२।४।५०) इति गाङादेशपक्षे 'गाङ् कुटादि' (१।२।१) इति सिचः कित्त्वे 'घुमास्था' (६४६६) इत्यादिना ईत्वम् । अत्र सामसामेत्यादौ वृत्त्यनुप्रासभेदो द्रष्टव्यः ॥ २१ ॥

 बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
 शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ २२ ॥

 बद्धेति ॥ बद्धं दर्भभयं दर्भविकारं काञ्चिदाम रशनागुणो यस्यास्तया । आग्नीध्रसंनद्धयेत्यर्थः । 'आशासाना सौमनसमित्युत्तरेण गार्हपत्यमूर्ध्वर्जुमासीनां पत्नीं संनह्य तिष्ठन्तीं वाचयतीत्येके, मौञ्जन दाम्नान्यतरतः पाशेन योक्रेण च' इत्यापस्तम्बवचनात् । दामेति 'डाबुभाभ्यामन्यतरस्याम्' (४।१।१३) इति डाप्प्रत्ययः । यजमानो यष्टा । 'पूङ्यजोः शानन्' (३।२।१२८) इति यजेः शानन्प्रत्ययः । तस्य जायया पन्त्या वीक्षितानि दृष्टानि हवींष्याज्यानि । 'पत्नयवेक्षते' इत्याज्यस्य पत्नयवेक्षणसंस्कारविधानादर्थप्रधानत्वात्सर्वेषामाज्यादीनां प्राणभृन्न्यायेन वीक्षितत्वव्यपदेशः। प्रणयनं नाम गार्हपत्यादुद्धृत्य मन्त्रेणायतने सादनम्। आदिशब्दात् परिस्तरणसमिदाधानसंमार्गादिसंस्कारसंग्रहः । तैः प्रणयनादिभिः संस्कृते अहितातिशये शुष्मण्यग्नौ । 'बर्हिः शुष्मा कृष्णवर्त्मा' इत्यमरः । अत्राप्याहवनीये जुहोतीति हूयमानेऽध्वर्युः कर्ता । 'जुहूपात्रव्यापृतया स्रुवाहवनीयं प्रधानम्' इति न्यायवचनात् । तैः ऋत्विग्भिः जुहवांबभूविरे । जुहोतेः कर्मणि लिट् 'भीहीभृहुवाम्' (३।१।३९) इति विकल्पादाम्प्रत्ययः । अत्र विषयस्य योक्रस्यानुपादानेन विषयिणः काञ्चीगुणस्यैव तदभेदेन निर्देशानेदेऽभेदरूपातिशयोक्तेरनुप्रासेन संकरः ॥ २२ ॥

 नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
 तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलाः प्रयोगिणः ॥२३॥

 नेति ॥ तत्र तस्मिन्कर्मणि यज्ञकर्मणि । अन्यथाश्रुतस्य शब्दस्यान्यथालिङ्गवचनादिभेदेन विपरिणमनमूहः । तत्र कुशलाः । प्रयोग एषामस्तीति प्रयोगिणः प्रयोक्तार ऋत्विजः आगमे आम्नाये निखिलाभिर्विभक्तिभिः प्रथमादिभिः सुब्विभक्तिभिस्ति

ङ्विभक्तिभिश्च । विभक्तिग्रहणं वचनोपलक्षणम् । व्यक्तिभिर्लिङ्गैश्चाञ्जसा सुखेन निगदितुं पठितुं न भवन्त्यशक्यत्वादिति नाञ्जसा निगदितुम् । 'अञ्जस उपसंख्यानम्' (वा०) इति अलुक् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अथवा अञ्जसेति तृतीयान्तप्रतिरूपकमव्ययं तत्त्वाथ । 'अञ्जसा तत्त्वतूर्णयोः' इति विश्वः । अञ्जसा तत्त्वत इत्यर्थः । अस्मिन्पक्षे नैकपद्यनियमः । तं मन्त्रं कर्माङ्गदेवतारूपवाक्यं विपर्यणीनमन् विपरिणमन्ति स्म । विपरिणमितवन्त इत्यर्थः । विपरिपूर्वकाण्ण्यन्तात् णमधातोर्लुङ् । सन्वद्भावे 'सन्यतः' (७|४|७९) इत्यभ्यासस्येत्वम् । 'दीर्घो लघोः' (७|४|९४) इति दीर्घः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८|४|१४) इति णत्वम् । अत्र नाञ्जसेति पाठविशेषणगत्या मन्त्रविपरिणमनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ २३ ॥

 संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति ।
 शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥२४॥

 संशयायेति ॥ संशयाय संदेहोत्पादनाय सरूपतां सादृश्यं दधतोः । उभयत्र रूपसाम्यादयं समासोऽयं वेति संशयं कुर्वतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रेन्द्रस्य शत्रुः शातयिता हन्तेति षष्ठीतत्पुरुषः, उतेन्द्रः शत्रुर्यस्येति बहुव्रीहिरिति सारूप्यसंशयः । तत्रानियमे दोषमाह-दूरेति । क्रिया प्रकृतं कर्म तां प्रति। तामुद्दिश्येत्यर्थः । दूरभिन्नमत्यन्तविलक्षणं फलं ययोर्दूरभिन्नफलयोस्तयोरर्थभेदात्कर्मणः फलभेदं प्रतिपादयतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रैव षष्ठीसमासस्येष्टत्वे वृत्रस्येन्द्रहन्तृत्वम्, बहुव्रीहौ तु तस्येन्द्रेण वध्यत्वमिति फलभेद इति भावः । समासयोरेवंविधयोः प्रसक्तयोः सतोरित्यर्थः । भावलक्षणे सप्तमी । शब्दशासनविदः शब्दशास्त्रज्ञाः । अन्येषामनधिकारादिति भावः । ते प्रकृता ऋत्विजः स्वरेण तत्तत्समासविहितस्वरवशेन विग्रहं वाक्येन समर्थाभिधानं व्यवससुनिश्चिक्युः । अस्मिन् स्वरेऽयं समासः, तत्रायं विग्रह इति अन्यतरपक्षावधारणं चक्रुः । यथेन्द्रशत्रुरित्यत्रैव पूर्वपदे उदात्तत्वेन बहुव्रीहिवरेण बहुव्रीहिसमासनिश्चयः । इन्द्रः शत्रुर्यस्येति विग्रहावधारणमित्यर्थः । व्यवपूर्वस्य स्यतेर्लिटि 'आदेश-' (८३५९) इत्यात्वे द्विर्वचनादिकार्ये झेरुसादेशः । अत्र संशयजनकत्वफले भेदप्रतिपादकपदार्थयोर्विशेषणगत्या संदिग्धे न्यायः प्रवर्तत इति न्यायेन विग्रहस्य व्यवसायहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ २४ ॥

 लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
 प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥२५॥

 लोलेति ॥ लसता प्रकाशमानेन लोलाश्चला हेतयो ज्वाला एव रसना रसज्ञाः । 'वह्नेयोर्वालकीलावर्चिहेंतिः शिखा स्त्रियाम्' इति, 'रसज्ञा रसना


पाठा०-१ 'यज्ञे नैव क्रमनियमः'. जिह्वा ' इति चामरः । तासां शतानि तेषां प्रभामण्डलेन हसन्निवेति रूपकसं- कीर्णोत्प्रेक्षा । पावको वह्निः वषट्कृतं वषट्कारेण त्यक्तम् । हुतमित्यर्थः । 'हुतं त्रिषुवषट्कृतम्' इत्यमरः । निर्मलीमसम् अमलिनं । शुद्धमित्यर्थः । 'मलीमसं तु मलिनम्' इत्यमरः । 'ज्योत्स्नातमिस्रा-' (५।२।११४) इत्यादिना मलिनशब्दान्मत्वर्थे ईमसच्प्रत्ययान्तो निपातः । प्राज्यं प्रभूतमाज्यमसकृदलीढ आस्वादयत् । लिहेः स्वरितेत्त्वाल्लङि कृते 'हो ढः' (८।२।३१) इति ढत्वं 'झषस्तथोऽर्धोधः' (८॥२॥४०) इति धत्वे ष्टुत्वे ढूलोपदीर्घौ ॥ २५ ॥

 तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।
 वर्णसंपदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥२६॥

 तत्रेति ॥ तत्र क्रतौ । मन्त्रेरुत्पवनादिमन्त्रैः पवितं पवित्रितम् । शोधितमित्यर्थः । 'पूङ्श्च' (७।२।५१) इति विकल्पादिडागमः । हविराज्यादिकमश्नतो भुञ्जानस्य । अशेर्भोजनार्थाल्लटः शत्रादेशः । हवींषि भुङ्क्त इति हविर्भुजोऽग्नेः संबन्धि। अतिस्फुटामतिविकसितां वर्णसंपदं रूपसमृद्धिं दधत् केवलमेकम् । 'केवलं त्वेककृत्स्नयोः' इति शाश्वतः । वपुरेवोज्वलमोजिष्ठं नाभूत् । किंतु अतिस्फुटामतिव्यक्तार्थां वर्णसंपदमक्षरसमुदायं दधत् । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरे' इत्यमरः । नाम हविर्भुगिति नामधेयं चोज्वलं रूढमभूत् । निरन्तरं हविर्भोजनाद्वपुः पुष्टिमाप, नाम चार्थवदासीदित्यर्थः । अत्र भोजनस्याश्नत इति विशेषणगत्या हेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ २६ ॥

 स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।
 गन्धतोऽपि हुतहव्यसंभवाद्देहिनामदहदोघमंहसाम् ॥ २७ ॥

 स्पर्शमिति ॥ उचितं स्वाभाविकमुष्णमुष्णाख्यं स्पर्शं स्पर्शनेन्द्रियमात्रग्राह्यं गुणविशेषं दधद्दधानः शिखी शिखावानग्निः । व्रीह्यादित्वादिनिः । हविराज्यादिकं ददाह भस्मीचकारेति यत् तदद्भुतं न । उष्णस्पर्शसहकृतस्याग्नेः पार्थिवद्रव्यदहनशक्तेः स्वाभाविकत्वादिति भावः । कुतः। हुतहव्यसंभवाद्भुतहवनीयहविर्जन्याद्गन्धतो गन्धादपि । सांक्रामिकगुणादपीत्यर्थः । देहिनां गन्धं जिघ्रतां प्राणिनामित्यर्थः । अंहसां पापानां ओघं समूहं,अदाह्यमपीति भावः । अदहद्भस्मीकतवान् । नाशितवानित्यर्थः । अदाह्यदहनं त्वाश्चर्यमिति भावः । अत्रोष्णस्पर्शधारणस्य शिखिविशेषणभावेनास्य हविर्दाहहेतुकत्वात्पदार्थहेतुकं तावदेकं काव्यलिङ्गम् । उत्तरार्धे त्वंहसां भस्सीकरणाभावलक्षणदाहविरोधस्य नाशलक्षणया समाधानाद्विरोधाभासे लक्ष्यस्य वाच्याभेदाध्यवसायमूलातिशयोक्तिप्रतिभोत्थापितः स एवादाह्यदाहकत्वरूपो वाक्यार्थभूतपूर्वोक्तपदार्थहेतुककाव्यलिङ्गसहकृतो हविर्दहनाद्भुतत्वहेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गमन्यैः प्राधान्येन संकीर्यते ॥ २७ ॥

 उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
 द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥२८॥

 उन्नमन्निति ॥ सपदि होमक्षण एवोन्नमन्नुद्गच्छन् दिशो धूम्रयन् धूम्रवर्णाः

कुर्वन् सान्द्रतां नीरन्ध्रतां दधत् अत एवाधःकृताम्बुदः शोभयावधीरितमेघो मेघोपरि गतश्च दहनस्याग्नेः केतनः केतुः । धूम इत्यर्थः । द्यौरोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । अथवा दिवमोको येषामिति विग्रहः । 'दिवं स्वर्गान्तरिक्षयोः' इति विश्वः । तेषां प्रियमिष्टं कीर्तयन् कथयन्निव कीर्तनहेतोरिव । कीर्तनार्थमिवेत्यर्थः । अत एव फलोत्प्रेक्षा । कीर्तयन्निति 'लक्षणहेत्वोः क्रियायाः' (३।२।१२६) इति हेत्वर्थे लटः शत्रादेशः । द्यामन्तरिक्षमियाय प्राप । इणो लिट् ॥ २८ ॥

 निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।
 नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ २९ ॥

 निर्जितेति ॥ नाकः स्वर्ग एषामस्तीति नाकिनो देवाः अखिलानां महार्णवौषधीनां महार्णवमन्थनसमये उत्थितानां दिव्यौषधिलतानां स्यन्दो मन्थनान्निःसृतो रसः तस्य सारो मृष्टांशः। अमृतमिति यावत् । स निर्जितो येन तत् । अमृतादपि स्वाद्वित्यर्थः । अमृतं हविराख्यातम् । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इति मेदिनी । ववल्गिरेऽभ्यवजह्नुः । 'वल्ग भोजने' कर्तरि लिट् । 'वल्गंं चाभ्यवहारं प्रत्यवसानं च जेमनं जग्धिः' इति हलायुधः । तस्यामृताधिक्यं व्यनक्ति । अनले हूयमानं दीयमानममृतमिति भावः । प्रतीक्षितुं कथमपि विषेहिरे सोढवन्तः । होमविलम्बं कथंचिदसहन्तेत्यर्थः । तृष्णा तु प्रागेव जिघ्रतीति रसातिशयोक्तिः । अत्र हविषोऽमृतमित्यभेदोक्त्या भेदरूपातिशयोक्तिस्तद्विशेषणपदार्थस्य वल्गनहेतुत्वात्काव्यलिङ्गभेदस्तया संकीर्यते । परिनिविभ्यः सेवसितसयसिवुसह-' (८।३।७०) इत्यादिना सहेः षत्वम् ॥ २९ ॥

 तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।
 गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥३०॥

 तत्रेति ॥ तत्र क्रतौ नित्यं विहितोपहूतिषु कृताह्वानेषु पतिषु भर्तृषु इन्द्रादिषु प्रोषितेषु प्रवासं गतेषु । वसेः कर्तरि क्तः 'वसतिक्षुधोः-' (७।२।५२) इतीडागमः । द्युयोषितां स्वर्गस्त्रीणामिन्द्राण्यादीनां शिरसि वेणयो जटा एव गुम्फिता ग्रथिता अभवन् । प्रफुल्ला विकसिताः सुरपादपस्रजो मन्दारमाला न गुम्फिता अभवन् । अत्र सुरयोषितां वेण्यसंबन्धेऽपि संबन्धोक्तेः स्रक्संबन्धेऽप्यसंबन्धोक्तेश्च संबन्धेऽसंबन्धरूपा असंबन्धे संबन्धरूपा चातिशयोक्तिः । ताभ्यां च क्रतोरजस्रत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ३० ॥

 प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
 उद्धतानधिकमेधितौजसो दानवांश्च विबुधा विजिग्यिरे ॥३१॥

 प्राशुरिति ॥ विबुधाः सुरा अत्र क्रतौ आशु क्षिप्रं हूयत इति हवनीयं हविर्यत्प्राशुः प्राशितवन्तः । 'अश भोजने' लिट् द्विर्वचनादिकार्ये 'अत आदेः' (७।४।७०) इत्यभ्यासदीर्घः । तेन हविःप्राशनेन दीर्घं चिरभोग्यममरत्वं देवत्वमध्यगुः प्रापुः । 'इणो गा लुङि' (२।४।४५) इति गादेशः । किंच अधिकमत्यन्तमेधितौजसो वर्धितबलाः सन्तः उद्धतानुदृप्तान् दानवान् , असुरांश्च विजिग्यिरे जितवन्तः । विपूर्वाज्जयतेः कर्तरि लिट् । 'विपराभ्यां जेः' (१।३।१९) इत्यात्मनेपदम् । अत्र विबुधानां दीर्घामरत्वासुरविजयित्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । एधितौजस्त्वस्य विशेषणगत्या विजयहेतुत्वात्काव्यलिङ्गं तदुत्थापितश्चामरत्वासुरविजयक्रियासमुच्चय इति संकरः । गुणक्रियायौगपद्यं समुच्चयः ॥ ३१ ॥

 नापचारमगमन्क्वचित्क्रियाः सर्वमत्र समपादि साधनम् ।
 अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्च संपदः ॥ ३२ ॥

 नापचारमिति ॥ अत्र क्रतौ क्वचित् कुत्रापि क्रियाः कर्माण्यपचारं लोपविषयविपर्यासादिदोषं नागमन् । गमेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अनपचारे हेतुमाह-अत्र सर्वं साधनंं समपादि संपन्नम् । पद्यतेः कर्तरि लुङ् 'चिण् ते पदः' (३।१।६०) इति चिण् प्रत्ययः कर्मणि वा । संपादितमित्यर्थः । 'चिण् भावकर्मणोः' (३।१।६६) इति चिण्प्रत्ययः । साधनसंपत्तिमेव व्यनक्ति-अतीति । सत्त्रं यज्ञतन्त्रं येषामस्तीति सत्त्रिणामृत्विजाम् । 'सत्त्रमाच्छादने यज्ञे' इत्यमरः । धिय उत्तरोत्तरप्रयोगविज्ञानानि । तदुक्तम्-'आचतुर्थात्कर्मणोऽन्ते समीक्षेतेदं करिष्यामि' इति । तथा नरपते राज्ञः संपदः पदार्थसमृद्धयश्च परस्परमत्यशेरतातिशयितवत्यः। उभयेऽप्यतिसमग्रा इत्यर्थः । ज्ञानद्रव्ये हि क्रियासाधने तत्संपन्नस्य कुतः क्रियापचार इति भावः । अत्रानपचारवाक्यार्थस्य साधनसंपत्तिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । तस्य परस्परातिशयक्रियारूपधर्मसाम्यगम्यौपम्यकेवलप्रकृतधीसंपद्गोचरया तुल्ययोगितयोज्जीवितेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ ३२॥

 दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।
 दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः॥३३॥

 दक्षिणीयमिति ॥ अथानन्तरं दक्षिण औदार्यवान् । 'दक्षिणे सरलोदारौ' इत्यमरः । क्षितिपती राजा । दक्षिणामर्हतीति दक्षिणीयो दक्षिणार्हः । 'दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि' इत्यमरः । 'कडङ्करदक्षिणाच्छ च' (५।१।६९) इति छप्रत्ययः । तं पङ्क्तेः स्वाधिष्ठितायाः पावनं पावयितारं पङ्क्तिपावनम् । पावयतेः कर्तरि ल्युट् । द्विजव्रजं ऋत्विग्वर्गमित्यर्थः । पङ्क्तिशः पङ्क्त्यनुसारेणाधिगम्य प्राप्य सदसि राजसूयकीः । राजसूयकाण्डोक्ता इत्यर्थः । दक्षिणाशब्दः स्फुटार्थः । राजसूयकीति दक्षिणार्थ एव ढको विधानात् । व्यशिश्रणद्विश्राणयति स्म । वितीर्णवानित्यर्थः । 'विश्राणनं वितरणम्' इत्यमरः । 'श्रण दाने' इति धातोः 'णै चङ्युपधाया ह्रस्वः' (७।४।१)। वृत्त्यनुप्रासोऽलंकारः ॥ ३३ ॥

पाठा०-१ मधिगम्य'; 'मुपगम्य'. २ 'सपदि'.

 वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।
 भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपत् ॥३४॥}}

 वारीति ॥ नराधिपो राजा सत्क्रियाभिरभिषेकसंस्कारैर्लब्धा शुद्धिर्निर्दोषता याभिस्तास्वखिलासु । द्विजा एव क्षेत्रभूमयः केदारभूमयस्तासु । 'क्षेत्रं गेहे पुरे देहे केदारे योनिभार्ययोः' इति वैजयन्ती । भावि भविष्यन्महत्फलं स्वर्गादिकं धान्यादिकं च बिभ्रति । बिभ्राणानीत्यर्थः । 'वा नपुंसकस्य' (७।१।७९)इति विकल्पान्नुमागमप्रतिषेधः । धनानि बीजवद्बीजैस्तुल्यं वारिपूर्वमुदकदानपूर्वकमवपदुप्तवान् । दत्तवानित्यर्थः । अत्र बीजवदित्युपमानम् 'तेन तुल्यम्-' (५।१।११५) इति तुल्यार्थे वतेर्विधानात् । तथापि वापक्रियायोगाद्द्विजक्षेत्रेति रूपकसमासो नोपमितसमासः । किंतु रूपकस्याङ्गमुपमा तदुत्थापितत्वादिति संकरः॥३४॥

 किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।
 राजतः पुपुविरे निरेनसःप्राप्य तेऽपि विमलं प्रतिग्रहम् ॥३५॥

 किमिति ॥ भूपतिरधिवेदि वेद्याम् । मखवेद्यामित्यर्थः । अत्र विभक्त्यर्थेऽव्ययीभावः । द्विजगणानृत्विग्गणान् दक्षयन्हर्षयन् दक्षिणाप्रतिग्रहेण सदक्षिणान्कुर्वन् । प्रतिग्राहयन्नित्यर्थः । तत्क्षणे दक्षिणां प्रतिगृह्येति श्रुतिदर्शनात् । 'दक्ष नैपुण्ये' इति धातोर्ण्यन्ताल्लठः शत्रादेशः । अत एव 'निष्णाते दक्षिणे वापि नैपुण्ये निपुणेऽपि च' इति भट्टः । अपूयत पूतोऽभवदिति कर्मकर्तरि लङ् । किं चित्रं दाता पूत इति । न चित्रमित्यर्थः। किंतु प्रतिग्रहीतापि पूत इति चित्रमाह । ते द्विजगणा अपि निरेनसो निष्पापात् राजतो राज्ञः । पञ्चम्यास्तसिल् । विमलं शुद्धं प्रतिग्रहं प्राप्य पुपुविरे पूता बभूवुः । 'विशुद्धाच्च प्रतिग्रहः' इत्यभिधानादिति भावः । अत्रापि पूञः कर्मकर्तरि लिट् । प्रतिग्रहीतापि शुद्ध इति विरोधः। स एव वाक्यार्थभूतश्चित्रत्वनिषेधहेतुरिति विरोधवाक्यार्थहेतुककाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः ॥ ३५॥

 स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
 आ शशाङ्कतपनार्णवस्थितेर्विप्रसादकृत भूयसीर्भुवः ॥३६॥

 स इति ॥ पाको नाम कोऽपि राक्षसस्तस्य शासनः शासको हन्ता पाकशासनः इन्द्रस्तेन समानं शासनं तुल्याज्ञा यस्य स इत्यर्थः । स राजा स्वहस्तेन कृतं लिखितं चिह्न स्वनामलेखनादिलाञ्छनं येषु तानि शासनानि नियमपत्राणि यस्य सः। दत्तस्वहस्तलेखाङ्कितशासनः सन्नित्यर्थः । आ शशाङ्कतपनार्णवस्थितेः शशाङ्कतपनार्णवानभिव्याप्य । आकल्पमित्यर्थः । अभिविधावाङ् । 'आङ्रमर्यादाभिविध्योः' (२।१।१३) इति विकल्पादसमासः । भूयसीर्भुवो देयभूमीः विप्रसाद्विप्राधीनाः । 'देये त्रा च' (५।४।५५) इति चकारत्सातिप्रत्ययः । अकृत कृतवान् । दत्तवानित्यर्थः । कृञो लुङि तङ् 'उश्च' (१।२।१२) इति सिचः कित्त्वात् 'ह्र्स्वादङ्गात्' (८।२।२७) इति सकारलोपो गुणाभावश्च । पाकशासनसमानशासन इत्युपमानुप्रासयोः संसृष्टिः ॥ ३६ ॥

 शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसंकरैः।
 पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥३७॥

 शुद्धमिति ॥ असौ नृपः शुद्धमाचारपूतम् । अन्यत्र विभक्तिविपरिणामेन शुद्धैरकङ्कैः । श्रुतिविरोधि वेदविरुद्धं न भवतीत्यश्रुतिविरोधि शास्त्रं बिभ्रतमात्मनि धारयन्तम् । सकलवैदिकशास्त्राभिज्ञमित्यर्थः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुम्प्रतिषेधः । अन्यत्र श्रुत्यविरोधिभिः पुराणादिभिः । वाच्यमानमन्वयगुणादिक्रमेण प्रस्तूयमानम् , अन्यत्र वाच्यमानैर्द्विजगणेन व्याख्यायमानैरित्यर्थः । वचेश्चौरादिकात्कर्मणि लटः शानजादेशः । द्विजन्मनां ब्राह्मणानां गणं अवर्णसंकरैरसंकीर्णाक्षरैः, अन्यत्र जातिसंकररहितमिति विपरिणामः । पुस्तकैः समं पुस्तकाक्षरैर्वाक्यैः सह अशृणोत् । दानकाले प्रत्येकं ब्राह्मणानां गुणान् गोष्टीश्च श्रुतवानित्यर्थः । मुखस्थविद्यानामपि पुस्तकधारणं विलक्षणत्वेनोक्तमित्यदोषः। अन्यत्र पुस्तकैः समं द्विजगणमशृणोदिति संबन्धिभेदभिन्नयोः श्रवणयोरभेदाध्यवसायभेदेऽभेदरूपातिशयोक्तिचमत्कारिणी द्विजानां प्रकृतत्वात् पुस्तकानीव द्विजानिति वैवक्षिकोपमानोपमेयभावपर्यवसायिनी श्लेषसंकीर्णसहोक्तिरलंकारः । 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेष्यते' इति लक्षणात् । केचित्पुस्तकैः समं वाच्यमानमिति योजयित्वा पुस्तकेषु द्विजगणान् , लेख्येष्वायतमानानिति व्याचक्षते । तैः पुस्तकेषु शास्त्रभरणासंभवादवर्णसंकरेति श्लिष्टविशेषणावगतप्रकृतश्लेषभङ्गः पुस्तकानां च वाचनकरणत्वात्समादिशब्दवैयर्थ्यमुक्तसहोक्त्यलंकारभ्रंशश्चेत्येवमादयो दोषा दुस्तरा इत्यलं विस्तरेण ॥ ३७॥

 तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
 आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥३८॥

 तदिति ॥ अनिवारिता अप्रत्याख्याता अतिथयो येन स आश्रमाणां ब्रह्मचर्यादीनां गुरुर्नियन्ता स राजा । आ समन्ताज्जुह्वत्यस्मिन्नित्याहवनं यागम् । जुहोतेर्ल्युट् । द्रष्टुमुपेयुषामागतानाम् । अत एव प्रणीतमनसां सत्कर्मदर्शनाद्धृष्टचित्तानामग्रजन्मनाम् द्विजानाम् । अतिथिषु साध्वातिथेयमतिथिसत्कारम् । 'पथ्यतिथि-' (१।४।१०४) इत्यादिना ढञ्प्रत्ययः । कर्तुं नाश्रमन्न श्रान्तः । श्राम्यतेः पुषादित्वाल्लुङि च्लेरङादेशः । अत्रानिवारितातिथित्वस्य विशेषणगत्या श्रमनिषेधहेतुत्वात्काव्यलिङ्गं तदनुप्रासेन संसृज्यते ॥ ३८॥

 मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।
 आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥

 मृग्यमाणमिति ॥ यद्रत्नं मृग्यमाणमन्विष्यमाणमपि दुरासदं दुर्लभम् । भूरिसारं महासारमुपदीकृतमुपायनीकृतम् । मनसा यथासंकल्पितमित्यर्थः ।'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । तद्रत्नं श्रेष्ठवस्तु । 'रत्नं श्रेष्ठे मणा- पाठा०-१ "प्रतीत". २ 'आलेख्येयेष्वाभिलिख्यायमानम्'. वपि' इति विश्वः । नृपाः स्वयमुपनीय तस्य राज्ञोऽवसरकाङ्क्षिणः सेवावसरं प्रतीक्षमाणा बहिरासत स्थिता इत्यैश्वर्यातिशयोक्तिः । अत्र रत्ने उपदात्वस्यारोप्यमाणस्य प्रकृतोपयोगात्परिणामालंकारः ॥ ३९ ॥

 एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः।
 त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥४०॥

 एक इति ॥ एक एव नृपो यद्वसु धनं ददौ । उपायनमिति भावः । तद्धनमेव क्रतोः समापकं संपूरकमतर्क्यत । दक्षिणादानादिसर्वक्रतुव्ययपर्याप्ततया तर्कितमित्यर्थः । तपःसुते धर्मपुत्रे त्यागशालिनि सति सर्वपार्थिवधनान्यपि क्षयं व्ययं ययुः । अत्रैकपार्थिवधनस्य क्रतुसमापकत्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तयोश्च सापेक्षत्वात्सजातीयसंकरः ॥ ४०॥

 प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।
 स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥४१॥

 प्रीतिरिति ॥ ददतो दानं कुर्वतोऽस्य राज्ञस्तथा तेनैव प्रकारेण राजोपायनानामर्थिसात्करणेनैव प्रीतिरभवदासीत् । न तु कोशगृहार्पणेनेत्यर्थः । कुतः । येन प्रकारेण तस्य राज्ञः प्रियचिकीर्षवः प्रियं कर्तुमिच्छवः । मधुपिपासुप्रभृतित्वाद्द्वितीयासमासः । नृपाः स्पर्शितैः प्रतिपादितैः । 'स्पर्शनं प्रतिपादनम्' इत्यमरः । उपायनैरुपहारैरधिकं यथा तथा मुदमागमन् प्राप्ताः । तथैव प्रभुप्रीतिसिद्धेः स्वोपायनानां सिद्धिनियोगलाभाच्चेति भावः । अधिवेश्म वेश्मनि निहितैरुपायनैर्मुदं नागमन् । तथोक्तप्रयोजनासिद्धेरिति भावः । येनैव राज्ञां मोदः स्वस्य च महान्धर्मलाभः तेनोपायनानामर्थिसात्करणादेव राज्ञः प्रीतिरासीत् , न कोशगृहार्पणादित्यर्थः । अत एव दानसंग्रहयोः प्रकृतयोः प्रीतेः संग्रहपरिहारेण दान एव नियमनात्परिसंख्यालंकारः । 'एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्ये' ति लक्षणात् । एतेन सर्वस्वदानं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४१ ॥

 यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
 सस्पृहं नृपतिभिर्नृपोऽपरैगौरवेण ददृशेतरामसौ ॥ ४२ ॥

 यमिति ॥ लघूकृता अल्पीकृता अहिताः शत्रवो येन सः । स राजा शिष्येण तुल्यं शिष्यभूतम् । 'भूतं क्षमादौ पिशाचादौ न्याय्ये सत्योपमानयोः' इति विश्वः। सुप्सुपेति नित्यसमासः । यं नृपं लघुन्यप्यल्पेऽपि यज्ञीयपशुरक्षणादिकर्मण्यशिषदाज्ञापितवान् । 'सर्तिशास्त्यर्तिभ्यश्च' (३।१॥५६) इति लुङि च्लेरङादेशः 'शास इदङ्हलोः' (६।४।३४) इतीकारः । असौ कर्मकरो नृपः अपरैस्ततोऽन्यैनृपतिभिः सस्पृहं अहो संमान इति साभिलाषं गौरवेण ददृशेतरामतिशयेन दृष्टः । दृशेः कर्मणि लिट् 'तिङश्च' (५।३।५६) इति तरपूप्रत्यये किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (५।४।११) इत्यामुप्रत्ययः । 'तद्धितश्चासर्वविभक्तिः' (१।१।३८) इत्यव्ययसंज्ञा । अत्र कर्मकरनृपस्येतरनृपकर्तृकविशिष्टदर्शनकर्मत्वा- संबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । तया राज्ञो निरङ्कुशाज्ञत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४२ ॥

 आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
 वाचि रोपितवताऽमुना महीं राजकाय विषया विभेजिरे॥४३॥

 आद्येति ॥ आद्यकोल आदिवराहः । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । तेन तुलितां कल्पादौ उद्धृताम् । तथापि प्रकम्पनैः प्रक्षोभकैर्हिरण्याक्षप्रमुखैः कम्पितां क्षोभितां महीम् । अनीदृगात्मन्यनेवंरूपायां केनाप्यकम्पितायामस्खलितायां वाचि रोपितवता स्थापितवता । स्थिरेण रोपणेन स्थिरीकुर्वतेत्यर्थः । अमुना राज्ञा राजकाय राज्ञां समूहाय । 'गोत्रोक्ष-' (४।२।३९) इत्यादिना वुञ्प्रत्ययः । विषया देशाः । 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । विभेजिरे अस्यायमिति विभक्ताः । प्राक् दिग्विजयोद्धृतान् राज्ञः पुनः पदेषु स्थापयामासेत्यर्थः । अत्रादिवराहो महीमुद्धृतवानेव वाचैवासौ तु निरातङ्कं स्थापितवांश्चेत्युपमानादुपमेयस्याधिक्यकथनाद्व्यतिरेकालंकारः ॥ ४३ ॥

 आगताद्व्यवसितेन चेतसा सत्त्वसंपदविकारिमानसः ।
 तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥४४॥

 आगतादिति ॥ सत्त्वसंपदा सत्त्वगुणाधिक्येन अविकारिमानसः। लोभाभिभवाभ्यामनुपप्लुतचित्त इत्यर्थः । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः' इति विश्वः । असौ राजा तत्र तस्मिन्नासमन्ताज्जुह्वत्यस्मिन्नित्याहवो यागः । 'ऋदोरप्' (३।३।५७) इति जुहोतेरप्प्रत्यये गुणावादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । 'आङि युद्धे' इति ह्वयतेराङ्पूर्वादप्प्रत्ययः संप्रसारणम् । 'आहवो यागयुद्धयोः' इति विश्वः । महांश्चासौ स च महाहवस्तस्मिन्महाहवे व्यवसितेन निश्चितेन धनलाभं निश्चितवता । अन्यत्र शेत्रोर्मृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मणि कर्तरि क्तः । 'प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । चेतसा आगतात् । चेतसा स्वयं निश्चित्यागतादित्यर्थः । अर्थिनो याचकात् । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययो राक्षसवत् । तस्मादिव पराङ्मुखो नाभवत् । 'आहवेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥' (मनु० ७।८८) इति मनुस्मरणादिति भावः । श्लेषसंकीर्णेयमुपमा ॥ ४४ ॥

 नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् ।
 नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः॥४५॥

 नैक्षतेति ॥ स राजा अर्थिनं याचकं मुहुरवज्ञया अनादरेण नैक्षत । तर्हि विलम्बितं किं, नेत्याह-याचितस्तु प्रार्थित एव कालं नाक्षिपन्न यापयामास । याचकबहुत्वात् । तर्ह्यल्पदाता नेत्याह-अल्पमपि नादित न ददौ । किंतु यथार्थिकाममिति भावः । ददातेर्लुङि तङि 'स्थाघ्वोरिच्च' (१।२।१७) इतीकारः 'ह्रस्वा- पाठा०-१ 'लोभभयाभ्यां'. २ 'जयो मृत्युर्वेति'. दङ्गात्' (८।२।२७) इति सलोपः । तर्हि विकत्थनः किं, नेत्याह-न व्यकत्थयदात्मश्लाघां न चकार । 'कत्थ श्लाघायाम्' । किंच इष्टं प्रियमपि दत्तं वस्तु नान्वशेत नानुतप्तवान् । दत्तानुतापस्यातिप्रत्यवायहेतुत्वादिति भावः । अत्रार्थिसंदोहयाञ्चादिबाहुल्यरूपकारणसामग्र्येऽपि विलम्बादिकार्यानुत्पत्तेर्विशेषोक्तिरलंकारः । 'तत्सामग्र्यादनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् । तथा दातुः सात्विकत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४५ ॥

 निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् ।
 वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ ४६॥

 निर्गुण इति ॥ दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । भूपतेः पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत् , किंतु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । अत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तेरित्याशयेन दृष्टान्तमाह-वर्षुकस्येति । अपो जलानि । 'न लोक-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । वर्षुकस्य वर्षणशीलस्व । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्यये लघूपधगुणः । कृतोन्नतेः कृतोदयस्याम्बुदस्य । अम्बुदेनेत्यर्थः । 'कृत्यानां कर्तरि वा' (२।३।७१) इति षष्ठी । 'स्यादूषः क्षारमृत्तिका' इत्यमरः । तद्वत्क्षेत्रमूषरम् । 'उषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली' इत्यमरः । 'ऊषसुषिमुष्कमधो रः' (५।२।१०७)इति रप्रत्ययः । परिहार्यं त्याज्यं किम् । नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बतया समानधर्माभिधानादृष्टान्तालंकारः ॥ ४६ ॥

 प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
 दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥४७॥

 प्रेमेति ॥ तस्य राज्ञो गुणेष्वधिकं प्रेम नेति न, किंत्वस्त्येवेत्यर्थः । स राजा गुणान्तरं गुणविशेषं न वेद न वेत्ति स्मेति न च, किंतु वेदैवेत्यर्थः । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् 'विदो लटो वा' (३।४।८३) इति णलादेशः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । संभावितयोरविमर्शादेवागुणप्रीतिज्ञानयोर्निषेध इति भावः । तदपि तथापि । पृथिव्या ईश्वरः पार्थिवः । 'सर्वभूमिपृथिवीभ्यामणञौ' (५।१।४१) इत्यञ्प्रत्ययः । दित्सया दातुमिच्छया। सर्वपात्रदानकौतुकेनेत्यर्थः । 'सनि मीमा-' (७।४।५४) इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' (७।४।५८) इत्यभ्यासलोपः । अर्थिनं याचकं गुणी गुणवान् अगुण्यो नायं गुणवानिति न व्यजीगणन्न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यौ न गणयामासेत्यर्थः । गतेर्णौ चङि 'ई च गणः' (७।४।९७) इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणप्रियत्वगुणज्ञत्वरूपकारणसामग्र्येऽपि गुणागुणविमर्शरूपकार्यानुत्पत्तेः दित्सयेत्युक्तनिमित्ता विशेषोक्तिरलंकारः। 'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यत' इति लक्षणात् ॥४७॥

पाठा०-१ शौण्डतया अर्थिगतगुणावगुणौ न'.

 दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति ।
 प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ॥४८॥

 दर्शनेति ॥ वनीयकजनेऽर्थिजने । दर्शनानुपदं राजविलोकनान्तरमेव । प्रार्थनामकृत्वेत्यर्थः । 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । कामतो यथेच्छं स्वं धनमधिगच्छति लभमाने सति तदा दीयतामिति वचो दीयतामित्येतत्पदं प्रार्थना याचा 'मह्यं दीयताम्' इति वाञ्छा, सैवार्थस्तेन रहितं शून्यं सत्तदा अतिसर्जने त्यागेऽभवदवर्तत । 'मह्यं दीयताम्' इत्यर्थिवाक्याभावात् 'अस्मै दीयताम्' इति दातृवाक्यमेवान्वर्थमभूदित्यर्थः । अर्थिनामागमनमेव याचनमिति विवेकिनां किं याञ्चादैन्यदर्शनचापलेनेति भावः । अत्र दीयतामिति वचः संप्रार्थनार्थवर्जनेनासीत् । तेनातिसर्जनार्थताकथनादेकस्यानेकत्वप्रसक्तावेकत्र नियमनाख्या परिसंख्या ॥४८॥

 नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा ।
 इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः॥४९॥

 नेति ॥ अर्थकाम्यता अर्थमात्मन इच्छता धनार्थिना । 'काम्यच्च' (३।१।९) इति काम्यच्प्रत्यये सनाद्यन्तत्वेन धातुत्वाल्लटि शत्रादेशः । तत्सद उपेयुषा प्राप्तवता पुरुषेणानवाप्तवसुना अलब्धधनेन न प्रत्यगामि न प्रत्यावर्ति । रोगिणोपेयुषा अचिकित्सितगदेनाशमितरोगेण । 'रोगव्याधिगदामयाः' इत्यमरः । न प्रत्यगामि । अशितुं भोक्तुं इच्छता उपेयुषा अनाशुषा च अनशितेन । अभुक्तवतेत्यर्थः। 'उपेयिवाननाश्वाननूचानश्च' (३।२।१०९) इति क्वसुप्रत्ययान्तो निपातितः । न प्रत्यगामि किंतु सर्वेणापि पूर्णकामेनैव प्रत्यगामीत्यर्थः । गमेर्भावे लुङ् । अत्रार्थिरोगिक्षुधितानां प्रकृतानामेव पूर्णकामत्वसाम्याद्गम्यौपम्यत्वात्केवलप्रकृतविषया तुल्ययोगिता । तथा च यो यत्काम आगतः स तत्सर्वमेवास्मादलभतेति व्यज्यते ॥४९॥

 खादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसंकरैः ।
 भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ ५० ॥

 स्वादयन्निति ॥ अनेकानि बहूनि संस्कृतानि हिङ्गुमरीचादिना कृतसंस्काराणि प्राकृतानि प्रकृतिसिद्धानि संस्कारं विना स्वादूनि चूतफलादीनि च येषु तैः । अन्यत्रानेकविचित्रसंस्कृतप्राकृतौ भाषाविशेषौ येषु तैः । अकृतः पात्राणां भाजनानाम्, अन्यत्र भूमिकानां च संकरो व्यतिकरो येषु तैः । भावशुद्धिः पदार्थानां मृष्टता, अथवा भावशुद्धिः गर्हाविरहः तत्सहितैः । अन्यत्र भावाः स्थायिनो रत्यादयः तेषां शुद्धिः सजातीयविजातीयातिरस्कृतरूपकम् । 'सजातीयैविजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति तल्लक्षणात् । तत्सहितैर्भोजनैरभ्यवहारैर्नाटकै रूपकविशेषैरिव रसं मधुरादिकं शृङ्गारादिकं च स्वादयन्ननुभवन् जनो भोक्तृजनः सामाजिकजनश्च मुदमानन्दं बभार । श्लेषसंकीर्णेयमुपमा ॥ ५० ॥

 रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।
 अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥५१॥

 रक्षितारमिति ॥ इतीत्थं भूपतियुधिष्ठिरः तत्र कर्मणि राजसूयाध्वरे दुष्टानां दमने मर्दने क्षमं समर्थ हरिं रक्षितारं विघ्नेभ्यस्त्रातारं न्यस्य निधाय अक्षतान्यविहतानि दानहोमयजनानि निरवर्तयदन्वतिष्ठत् । स्वकीयस्य द्रव्यस्य स्वत्वनिवृत्त्या परस्वत्वोत्पादनं दानम् । देवतोद्देशेनाग्नौ हविषः प्रक्षेपो होमः । हुतस्य देवतोद्देशेन वाङ्मनसाभ्यां न ममेति त्यागो यागः । अत्र दुष्टदमनक्षमत्वस्य विशेषणगत्या हरे रक्षाधिकारहेतुन्यासहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥५१॥

 एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
 यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥५२॥

 एक इति ॥ सुन्वतां सोमाभिषवं कुर्वताम् । सोमयाजिनामित्यर्थः । सुनोतेर्लटः शत्रादेशः । सुसखा सत्सहायः । 'न पूजनात्' (५।४।६९) इति समासान्तप्रतिषेधः । एषः शौरिरेक एवेत्यभिनयादिव तद्व्यञ्जकचेष्टां कृत्वेवेत्युत्प्रेक्षा । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । भूर्देवयजनभूमिः । चषालो यूपकटकः । 'चषालो यूपकटकः' इत्यमरः । तेन तुलितं । समीकृतमित्यर्थः । तुलयतेः 'तत्करोति' (ग०) इति ण्यन्तात्कर्मणि क्तः । तदङ्गुलीयकमूर्मिका यस्य तम् । अङ्गुलीयकोपमानचषालमित्यर्थः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाङ्गुलेश्छः' (४।३।६२) इति भावे छप्रत्ययः । उच्चकैरुन्नतं यूपं पशुबन्धनदारुविशेषं रूपकं स्वरूपं यस्य तं भुजमनीनमदुन्नमितवती । नमेर्णौ चङि सन्वत्कार्थम् । अत्र सापेक्षत्वादुपमोत्प्रेक्षयोः संकरः ॥ ५२ ॥

 इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ धर्मजन्मना ।
 अर्घदानमनु चोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः॥५३॥

 इत्थमिति ॥ इत्थमत्र क्रतौ विततक्रमे विस्तृतानुष्ठाने सति अथानन्तरं धर्माज्जन्म यस्य तेन धर्मजन्मना धर्मात्मजेन ।जन्माद्युत्तरपदो बहुव्रीहिर्व्यधिकरण' इति वामनः । धर्मं वीक्ष्य । धर्मशास्त्रमनुस्मृत्येत्यर्थः । अर्घदानं पूजादानमनु । सदस्यपूजामुद्दिश्येत्यर्थः । 'सदस्यं सप्तदशं कौषीतकिनः समामनन्ति' इति शास्त्रात् । 'मूल्ये पूजाविधावर्घः' इत्यमरः । चोदितः कस्मै देयमिदमिति पृष्टः शन्तनोः सुतो भीष्मः । सभ्यं सभायां साधु । 'सभाया यः' (१।४।१०५) इति यप्रत्ययः । वचो वाक्यमभ्यधिताभिहितवान् । दधातेर्लुङि तङि 'स्थाध्वोरिच्च' (१।२।१७) इति सिचः कित्वे 'ह्रस्वादङ्गात्' (८।२।२७) इति सकारलोपः । वृत्त्यनुप्रासोऽलङ्कारः ॥ ५३ ॥ अथासर्गसमाप्तेर्भीष्मवचः सप्रपञ्चमेव सफलं दर्शयति-

 आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
 यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥५४॥

 आत्मनेति ॥ तत्रात्मनो बहुमानकरणात्प्रीतस्तत्रभवान्भीष्मो राजानं ताव- पाठा०-१ 'यूपमङ्गुलिमिवोदनीनमत्'. २ 'दारुविशेषं अङ्गुलिमिवेत्युत्प्रेक्षा । उदनीनमत्=उन्नमितवती'. दुत्साहार्थमेकेनोपश्लोकयति । वेत्तीति विदो ज्ञाता । इगुपधलक्षणः कप्रत्ययः । कसो विद्यास्थानस्य विदः कोविदः । गुणदोषयोः कोविदो विवेक्ता । करणीय- वस्तुषु कर्तव्यार्थेष्वात्मनैव स्वयमेव । परोपदेशानपेक्षयैवेत्यर्थः । प्रकृत्यादित्वा- तृतीया । किं न वेत्सि । सर्वं जानासीत्यर्थः । तथापि ज्ञातापि त्वं गुरून्न पृच्छ- सीति न, किंतु पृच्छस्येवेति यत् । ज्ञानप्रसक्तपृच्छानिवारणाय नञ्द्वयम् । तत्र गुर्वनुयोगे अयं क्रम इति एषा सदाचारपरिपाटीत्येतदेव कारणं न त्वज्ञा- नमित्यर्थः । अत्र कर्तव्यार्थप्रश्नस्याज्ञानहेतुकत्ववारणेनापरहेतुकत्वे नियमनात्पूर्वो- क्तलक्षणपरिसंख्यानम् ॥ ५४ ॥

 एवं राजानमुपश्लोक्य प्रश्नस्योत्तरमाह-

 स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।
 अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः॥५५॥

 स्नातकमिति ॥ स्नातको गृहस्थविशेषस्तम् , गुरुं पित्रादिकम् , अभीष्टमिष्ट- बन्धुम्, ऋत्विजं याजकम्, संयुज्यत इति संयुक् संबन्धी जामाता तेन सह मेदिनीपतिं राजानं च । तं च मेदिनीपतिं चेत्यर्थः । षट् षडेतेऽर्घभाजः पूजा इति । इतिशब्देनाभिहितत्वान्न कर्मणि द्वितीया यथाह वामनः-'निपातेनाप्य- भिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति । कीर्ययन्ति कथ- यन्ति । वृद्धा इति शेषः । न च ते दूर इत्याह-ते च षडपि ते तव सदः सभां युगपदागताः प्राप्ताः । अत्र स्नातकादीनां प्रकृतानामेवार्घभाक्त्वसाधादौपम्या- वगमात्तुल्ययोगिताभेदः ॥ ५५ ॥

 शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
 त्वन्मखं मुखभुवः स्वयंभुवो भूभुजश्च परलोकजिष्णवः॥५६॥

 शोभयन्तीति ॥ किंच १प्रतापयितुं शीलं येषां ते प्रतापिनः शत्रुतापकाः । ताच्छील्ये णिनिः । अन्यत्र तेजस्विनः। 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । 'अत इनिठनौ' (५।२।११५) इति इन्प्रत्ययः । मन्त्रशक्त्या वेदमहिम्ना, अन्यत्र विचारसामर्थ्येन विनिवारिता आपदो दैवमानुषविपत्तयो यैस्ते । वेद- भेदे गुप्तवादे मन्त्रः' इत्यमरः । परलोकस्य लोकान्तरस्य, शत्रुजनस्य च जिष्णवो जयशीलाः । स्वयंभुवो ब्रह्मणो मुखभुवो मुखजाता ब्राह्मणाः । 'ब्राह्मणोऽस्य मुखमासीत्' इति श्रुतेः । भूभुजो राजानश्च । त्वन्मखं तव ऋतुं परितः शोभ- यन्ति परिष्कुर्वन्ति । सर्वेऽप्यागत्य वसन्तीत्यर्थः । अत्र राज्ञां ब्राह्मणानां च प्रकृतानामेव प्रतापित्वादिसाधर्म्येणौपम्यावगमात्तुल्ययोगिताभेदः । साधर्म्यं च लेषनिबन्धनमिति संकरः ॥ ५६ ॥

 आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी।
 एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपीष्यते विधिः ॥५७॥

 आभजन्तीति ॥ हे पार्थ पृथापुत्र, 'तस्येदम्' (४।३।१२०) इत्यण् ।सामान्यस्य योग्यविशेषपर्यवसाननियमादपत्यार्थलाभः । अन्यथा 'स्त्रीभ्यो ढक्' पाठा०-१'प्रतापनशीला: प्रतापिनस्तीव्रतपसः'. (४|१|१२०) इति ढक् स्यात् । गुणिनो गुणाढ्या अमी पूर्वश्लोकद्वयोक्ताः स्नातकादयः पृथक्पृथक् प्रत्येकमकृत्रिमामकपटां सस्कृतिं सत्कारमाभजन्ति अर्हन्ति । सममेषां प्रत्येकं पूजा कार्येत्यर्थः । अथ स्वाभिमतं पक्षान्तरमाह-अथवेति । अथवा गुणवत्तमोऽतिगुणवानेक एव पूज्य इत्ययमपि विधिः शास्त्रमनुष्टानं वेष्यते। वृद्धैरिति शेषः । अत्र स्नातकादीनां पूज्यत्वे गुणो विशेषणगत्या हेतुरिति काव्यलि- ङ्गभेदः । तदपेक्षया गुणवत्तमत्वमेकस्यैव पूज्यत्वे तथैव हेतुरिति काव्यलिङ्गान्तर- मिति सजातीयसंकरः॥ ५७ ॥

 अत्र क एकस्तथा सर्वोत्तरः पुमानस्तीत्याकाङ्क्षायां कोऽन्यो हरिं विनेत्याह-

 अत्र चैष सकलेऽपि भाति मां प्रत्यशेषगुणबन्धुरर्हति ।
 भूमिदेवनरदेवसंगमे पूर्वदेवरिपुरर्हणां हरिः ॥ ५८ ॥

 अत्रेति ॥ अत्रास्मिन्कालेऽपि भूमिदेवा ब्राह्मणाः नरदेवा राजानस्तेषां संगमे । ब्राह्मणक्षत्रियसमवाय इत्यर्थः । अशेषगुणानां बन्धुः सुहृत् । सर्वगुणाढ्य इत्यर्थः । असाधारणगुणानाह-पूर्वेति । पूर्वदेवाः सुरद्विषस्तेषां रिपुर्हन्ता एष हरिः कृष्णः अर्हणां पूजामर्हति प्राप्नोतीति मामधिकृत्य भाति । मम प्रतिभातीत्यर्थः । अन्ये तु नार्हन्तीत्यपि सिद्धमिति भावः । अत्र तत्रान्येषु च प्रसक्तायां पूजायां हरावेव नियमात्परिसंख्यालंकारः । 'एकस्य वस्तुनः प्राप्तावनेकत्रैकधा यदा । एकत्र नियमः सा हि परिसंख्या निगद्यते' इति तल्लक्षणात् ॥ ५८ ॥

 ननु एतस्मिन्ब्राह्मणक्षत्रियसमूहे कथमस्यैव पूज्यत्वमित्याशङ्क्य सर्वोत्तमत्वा- दस्येत्याशयेनासर्गसमाप्तेरेनं स्तौति-

 मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।
 अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः॥५९॥

 व्मर्त्येत्यादि ॥ आनमिताः प्रह्वीकृता दैत्या दितिसुताः, दानवा दनुसुताश्च येन तमेनं हरिं भवान्मर्त्यमानं मनुष्यमात्रं मावदीधरत् न जानीयात् । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः । कुतः । एषः कृष्णो जनतातिवर्तिनः सर्वलोकातीतस्य प्रतिजनं जने जने कृतस्थितेः कृता स्थितिः येन तस्य । सर्वभूता- न्तर्यामिण इत्यर्थः । वेधसः परमात्मनोंऽशः कला । अतो न मर्त्यमात्रमित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ५९॥

 पुनरप्यमानुषत्वमेव व्यनक्ति-

 ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।
 आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ॥६० ॥

 ध्येयमिति ॥ योगिनो नारदादयः एकमद्वितीयमुत्तमं सर्वोत्तमं यमेनं ध्येयं ध्यातव्यम् । एकार्थगोचरात्मधारणं ध्यानं तदहमित्यर्थः । तथापि धियो ज्ञानस्थापथेऽमार्गे स्थितम् । तदगोचरमित्यर्थः । 'पथो विभाषा' (५|४|७२) इति समासान्तः । 'अपथं नपुंसकम्' (२।४।३०) इति नपुंसकत्वम् । आमनन्ति । कथयन्ति । 'पाघ्रा-' (७|३।७८) इत्यादिना म्नाधातोर्मनादेशः । स्तुत्यं स्तोतुमर्हम् । तथापि अतीतो वाक्पथो येन तम् । अवाङ्मनसगोचरमित्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । आमनन्ति आदरादास्थया उपास्यं सेव्यम् । तथापि अतीवात्यन्तम् । अतीवेति निपातसमुदायोऽत्यन्तार्थेऽव्ययम् । दूरवर्तिनमामनन्ति यमेनमचिन्त्यरूपमामनन्ति तमेनं मर्त्यमानं माऽवधारयेदिति पूर्वेणान्वयः । अवाङ्मनसगोचरत्वदूरवर्तित्वानां ध्येयत्वस्तुत्यत्वोपास्यत्वैः सह विरोधस्य हरेरचिन्त्यमहिमत्वेन समाधानाद्विरोधाभासोऽलंकारः ॥ ६० ॥

 ननु हरिहरहिरण्यगर्भादयस्त्रयो देवाः सर्वोत्तरमहिमानः सन्ति, एनं न जानीम इत्यत आह-

 पद्मभूरिति सृजञ्जगद्रजः सत्त्वमच्युत इति स्थितिं नयन् ।
 संहरन्हर इति श्रितस्तमस्त्रैधमेष भजति त्रिभिर्गुणैः ॥ ६१ ॥

 पद्मभूरिति ॥ एष हरिः रजः रजोगुणं श्रित आश्रितो जगत्सृजन् पद्मभूर्ब- ह्मेति, सत्त्वं सत्त्वगुणं श्रितः जगत्स्थितिं नयन्स्थापयन् अच्युतो विष्णुरिति, तमस्त- मोगुणं श्रितो जगत् संहरन् हर इति, त्रिभिर्गुणैः सत्त्वरजस्तमोभिस्त्रैधं त्रैविध्यं भजति । 'द्वित्र्योश्च धमुञ्' (५।३।४५) इति विधार्थे धमुञ् प्रत्ययः । अस्यैव गुणभिन्नास्तास्तिस्रोऽपि मूर्तय इत्ययमेव सर्वोपास्य इति भावः । अत्र सत्त्वादि- गुणयोगस्य सृष्ट्यादिगुणयोगस्य च विशेषणगत्या त्रैविध्यहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ६१ ॥

 तर्हि कीदृशमस्य स्वरूपं कुतो वा मानुषविग्रहसंबन्ध इत्यपेक्षायामुभयं निरूपयन्नाह-

 सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः।
 क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः॥६२ ॥

 सर्वेति ॥ अमुं कृष्णं सर्ववेदिनम् । नित्यसर्वज्ञमित्यर्थः । अत एवानादिमा- दिरहितम् । अनादिनिधनमित्यर्थः । तथापि देहिनां प्राणिनामनुजिघृक्षयाऽनुग्रही- तुमिच्छया । भूभारावतरणार्थमित्यर्थः । गृहेः सन्नन्तास्त्रियाम् 'अ प्रत्ययात्' (३।३।१०२) इत्यप्रत्यये टाप् । वपुरास्थितं मानुषविग्रहमास्थितम् । न तु कर्मारब्धशरीरभाजमित्यर्थः । अत एव क्लेशकर्मफलभोगवर्जितम् । क्लेशाः पञ्च अविद्यास्मितारागद्वेषाभिनिवेशाख्याः । कर्माणि पुण्यपापानि तेषां फले सुख- दुःखे तयोर्भोगोऽनुभवस्तेन क्लेशैश्च वर्जितम् । तैरसंस्पृष्टमित्यर्थः । ईश्वरमीश्वर- शब्दितं पुंविशेष क्षेत्रज्ञविलक्षणं पुरुषविशेषं परमपुरुषं वा विदुर्विदन्ति । सन्त इति शेषः । 'विदो लटो वा' (३।४।८३) इति झेरुसादेशः । अत्राकर्मारब्ध- त्वान्नित्यज्ञानत्वादिविरोधसमर्थनाद्विरोधाभासोऽलंकारः । तेषामेव गुणानां विशे- षणगत्या पुंविशेषहेतुत्वात्काव्यलिङ्गमिति संकरः ॥ ६२॥

 एवं हरेः स्वरूपं निरूप्य तदुपासनात्फलं युग्मेनाह-

 भक्तिमन्त इह भक्तवत्सले संततस्मरणरीणकल्मषाः।
 यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः॥६३॥

 भक्तिमन्त इति ॥ भक्तवत्सले भक्तप्रिये इहास्मिन् हरौ भक्तिमन्तोऽनुराग-

वन्तो जनाः । पूज्येष्वनुरागो भक्तिः संततं सततं तत्स्मरणेन निरन्तरध्यानेन रीणकल्मषाः क्षीणपापाः सन्तः । 'री क्षये 'ल्वादिभ्यः' (८|२।४४) इति निष्ठानत्वम् । अस्यानुभूयमानस्य कृष्णस्य संसृतिः संसारस्तस्य क्लेशो दुःखं तदेव नाटकमिति रूपकम् । तस्य विडम्बनाभिनयस्तस्य निर्वहणं समाप्तिं यान्ति । मुच्यन्त इत्यर्थः । 'तमेवंविद्वानमृत इह भवति' (श्वेता० ६।१५) इति श्रुतेरिति भावः ॥ ६३ ॥

 ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
 दुर्गमेकमपुनर्निवृत्तये१ यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥

 ग्रामेति ॥ ग्रामे भवा ग्राम्याः प्राकृताः । मूढा इति यावत् । 'ग्रामाद्यखजौ' (४।२।९४) इति यप्रत्ययः । तेषां भावस्तमपहातुं मोक्तुमिच्छवो मुमुक्षवो मोक्षार्थिनः अपुनर्निवृत्तयेऽपुनरावृत्तये पुनरावृत्त्यभावाय । मोक्षायेत्यर्थः । दुः- खेन गम्यत इति दुर्गं दुष्प्राप्यं एकमेवाद्वितीयं वशिनं स्वतन्त्रं यं हरिं योगमार्ग- पतितेन ध्यानमार्गनिविष्टेन । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । चेतसा विशन्ति ध्यायन्तीत्यर्थः। यं विशन्ति इह भक्तिमन्त इति पूर्वेणान्वयः॥६॥

 अथ भक्त्युद्रेकान्नमस्करोति-

 आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने ।
 बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥६५॥

 आदितामिति ॥ देहिनां प्राणिनामादितां कारणताम् । अन्तोऽन्तकरो नाश- हेतुः । 'तत्करोति-' (ग०) इति ण्यन्तादन्तयतेः पचाद्यच् । तस्य भावस्तत्ता- मन्ततां च दधते । 'यतो वा इमानि भूतानि जायन्ते' (तैत्ति० ३।१) इत्यादि- श्रुतेः । स्वयमजननाय जन्मरहिताय । अपायोऽस्यास्तीत्यपायी स न भवतीत्यन- पायी तस्मा अनपायिने नाशरहिताय च । कालतोऽपरिच्छिन्नायेत्यर्थः । देशतोऽपि तथेत्याह-सदाऽधः पाताले भुवं बिभ्रते कूर्मरूपेण दधते । अथ च तथैव ब्रह्मणो लोकस्याप्युपरि तिष्ठते । सर्वव्यापिन इत्यर्थः । तस्मै । हरय इति शेषः । नमः नमस्कारः। 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अत्र हरेरनादि- निधनत्वेन तद्व्रतः पुरुषान्तरादाधिक्यवर्णनाद्व्यतिरेकालंकारः ॥६५॥

 केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
 धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥६६॥

 केवलमिति ॥ सृजतिश्च संहृतिश्च शास्तिश्च सृजतिसंहृशास्तयः । 'सृज विसर्गे' 'हृञ् हरणे' संपूर्वोऽयं 'शासु अनुशिष्टौ' इत्येते त्रय इत्यर्थः । 'इक्श्तिपौ धातुनिर्देशे' (वा० ) इति वचनादेवं निर्देशः । धातवो 'भूवादयो धातवः' (१| ३|१) इत्युक्तलक्षणाः शब्दविशेषाः। इहास्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृवाचिनः कर्तृकारकवाचकान्दधति । तदन्ता एव भवन्तीत्यर्थः ।

पाठा०-१ 'पुनर्विवर्तये'. जातु कदाचित् कर्मणि प्रत्ययान्कर्मार्थे विहितान्यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच्च सृजति स्रष्टा, संहरति हर्ता, शास्तीति शासिता इत्यादिभिः कर्तृत्वेन निर्दिश्यते न कदाचित्सृज्यते, संह्रियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाच्चेति भावः । किंच अत्र भगवति स्तौतिः । 'ष्टुञ् स्तुतौ' इति धातुः । विपरीतं कारकं यस्य स विपरीत- कारकः स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव न तु कदाचित्स्तौति स्तोता इत्यादि- कर्तृप्रत्ययान्तः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । अत्र शब्दानां कर्मकर्तृप्रत्ययविधिनिषेधद्वारा भङ्गयन्तरेण सर्वकर्तृकत्वसर्वोपास्यत्वादिसूक्ष्मार्थ- बोधपरत्वात्सौम्याख्यो गुणः । 'अन्तःसंकल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते' इति लक्षणात् । अत्र भगवतः सृष्ट्यादिकर्तृत्वकर्मत्वोभयप्राप्तावेकत्रैकनियमात्परि- संख्या। तत्र न जातु कर्मणीति शब्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शब्दात्स्तुतौ कर्तृत्वनिवृत्तिरार्थीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीते- व्य॑तिरेकश्च प्रतीयत इत्यलंकारेणालंकारध्वनिः ॥६६॥

 पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।
 तच कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥६७॥

 पूर्वमिति ॥ एष हरिः पूर्वं प्रथममपः सृष्टवान् । किलेत्यैतिह्ये । तास्वप्सु अनिवार्यं दुर्वारं वीर्यं रेतः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । आदधावाहितवान् , तद्वीर्यं तु हिरण्यस्य स्वर्णस्य विकारः हिरण्मयम् । 'दाण्डिनायन-' (६|४।१७४) इत्यादिना निपातः । ब्रह्मणश्चतुर्मुखस्य कारणमभूत् । ब्रह्माण्डं जातमित्यर्थः । असौ तदुत्पन्नो ब्रह्मा ब्रह्माण्डमिदं जगदसृजत् । सर्वस्यापि प्रपञ्चस्यायमेव मूलकारणमिति भावः । अत्र मनुः-'अप एव ससर्जादौ तासु वीर्यमथासृजत् । तदण्डमभवद्दैमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥' (मनु०१|८,९) इति । अत्र वीर्यमनिवार्यमिति वृत्त्यनुप्रासः ॥६७ ॥

 अथैनं त्रिभिर्विशिनष्टि-

 मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः ।
 गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥६॥

 मत्कुणाविवेत्यादिना ॥ पुरा पूर्वं परिप्लवौ चञ्चलौ । मुहुरितस्ततश्वलन्तावित्यर्थः । 'चञ्चलं चपलं तूर्णं पारिप्लवपरिप्लवे' इत्यमरः । मधुकैटभावसुरविशेषौ मत्कुणौ सुप्तासृक्पायिनौ मञ्चोद्भवौ कीटविशेषौ ताविवेत्युपमा । सिन्धुनाथः सरित्पतिः स एव शयनं तत्र निषेदुषो निषण्णस्य । समुद्रशायिन इत्यर्थः । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति लिटः क्वसुरादेशः । विभोः प्रभोः यस्य हरेः क्षणं निद्रायाः संबन्धिनः आगतं वा नै यत्सुखं तस्य विनतां विघातुकतां गच्छतः स गतौ । तादृशावपि महासुरौ मत्कुणाविव क्षणमात्रेण प्रनष्टाविति भगवतः प्रभावातिशयोक्तिः । एषां त्रयाणां पूर्वेणान्वयः ॥ ६॥

 श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्वलम् ।
 श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥६९।।

 १श्रौतेति ॥ श्रौतमार्गस्य सुखं सुखकरं यद्गानं तस्य कोविदोऽभिज्ञः । कोविदो व्याख्यातः । स चासौ ब्रह्मा च स एव षट्चरणः भृङ्गः स गर्भे यस्य तत् उज्ज्वलं निर्मलं यस्य हरेर्नाभिरेव सरसी । सरः कासारः। 'कासारः सरसी सरः' इत्यमरः । तस्यां रोहतीति सरोरुहं पद्मं श्रियो मुखमेवेन्दुस्तस्य सविधे समीपेऽपि शोभत इति विरोधः । स च मुखस्येन्दुत्वरूपणायत्त इत्यनयोरङ्गाङ्गिभावेन संकरः ॥६९॥

 सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।
 जन्म विभ्रतमजं नवं२ बुधा यं पुराणपुरुषं प्रचक्षते ॥ ७० ॥

 सत्येति ॥ यं हरि सत्यवृत्तमकपटचरितमपि । मायिनं मायाविनं कपटवृत्त- मिति विरोधः । माया नाम शक्तिः तद्वन्तमित्यविरोधः । व्रीह्यादित्वादिनिप्र- त्ययः । जगद्वृद्धं सर्वलोकपितामहत्वात्स्थविरमपि । 'प्रवयाः स्थविरो वृद्धः' इत्य- मरः । उचितनिद्रं परिचितयोगनिद्रमर्भकं डिम्भम् । 'वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि' इत्यागमवचनादिति भावः । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । न जायत इत्यजो जन्मरहितः । 'अन्येष्वपि दृश्यते' (३।२। १०१) इति जनेर्डप्रत्ययः । तमपि जन्म बिभ्रतम् । कामवशात्कृष्णादिजन्मभाज- मित्यर्थः । नवं रमणीयत्वादभिनवं तथापि पुराणं प्राचीनमनादिं च पुरुषं प्रचक्षते । बुधा इति वाक्यं सर्वत्र संबध्यते । सर्वेऽपि विरोधा हरेरचिन्त्यमहिमत्वेनाभास्या इति विरोधाभासचतुष्टयसंसृष्टिः ॥ ७० ॥

 अथ षोडशभिरवतारान्वर्णयिष्यन्वराहावतारं तावदेकेनाह-

 स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।
 उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुंधराम् ॥ ७१ ॥

 स्कन्धेति ॥ स्थूलनासिकवपुर्वराहमूर्तिरयं हरिः स्कन्धस्य कंधरायाः धून- नेन कम्पनेन विसारिभिरुत्सर्पिभिः केसरैः सटाभिः क्षितोऽवकीर्णः सागरस्य महाप्लवो महापूरः यस्यास्ताम् । जलापसारेण प्रकाशितामित्यर्थः । वसुंधरां भुवं मुहूर्तं क्षणमात्रम् । 'मुहूर्तमल्पकालेऽपि' इति शब्दार्णवे । उद्धृतामनावृतत्वा- त्सागरादुत्क्षिप्तामिव ऐक्षत प्रेक्षितवानित्युत्प्रेक्षा । ईक्षतेर्लङि 'आडजादीनाम्' (६।४।७२) 'आटश्च' (६।१।९०) इति वृद्धिः ॥ ७१ ॥

 द्वाभ्यां नृसिंहावतारमाह-

 दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
 दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ ७२ ॥

 दिव्येति ॥ दिव्यकेसरिवपुर्दिव्यसिंहमूर्तिः । एष हरिः आयुधैर्वज्रादिभिरपि नैव पाठा०-१ 'श्रोत्र".२ "नवं नवं'. लब्धशममप्राप्तशान्ति । दुर्निवारा दुर्जया रणकण्डूर्यस्य तत् । रणव्यसनीत्यर्थः । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति ह्रस्वः । सुरद्विषो हिरण्यकशिपोर्वक्षः कोमलैर्नखैः निरदारयदभिनत् । वज्राद्यभेद्यस्य कोमलनखविदार्यत्वं भगवत्प्रभा- वादिति विरोधाभासोऽलंकारः ॥ ७२ ॥

 वारिधेरिव कराग्रवीचिभिर्दिमतङ्गजमुखान्यभिघ्नतः ।
 यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥७३॥

         (युग्मकम् ।)

 वारिधेरिति ॥ कराग्राणि वीचय इवेत्युपमितसमासः । वारिधेरिवेति लिङ्गात् । ताभिः कराग्रवीचिभिः । दिगन्तवितताभिरिति भावः । अत एव दिङ्मतङ्गजानां मुखान्यभिनतो रोषातिरेकात्प्रहरतो यस्य सिंहमूर्तेर्हरेर्वारिधेरिव चारुनखाः शुक्तय इव । पूर्ववदुपमितसमासः । स्फुरन्मौक्तिकप्रकरो दिग्गजकु- म्भसंभूतमुक्तावातो गर्भेऽन्तर्गतो यासां तासां भावस्तत्ता तां दधुः । एष निर- दारयदिति पूर्वेणान्वयः । एतेन नरहरिक्रोधस्य सामर्थ्यं महासुरेऽपि न पर्याप्त- मिति व्यज्यत इति वस्तुना वस्तुध्वनिः । उपमालंकारः ॥ ७३ ॥  अथ चतुर्भिर्वामनावतारमाह-

 दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
 आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ।। ७४ ॥

 दीप्तीत्यादि ॥ आत्मनो भवतीति आत्मभूः स्वयंभूरपि । अवरजाश्चरमजा अखिलाः प्रजा जना यस्य सोऽपि । सर्वज्येष्ठोऽपीत्यर्थः । अयं हरिः दीप्तिनिर्जितविरोचनात् ज्योतिर्विजितमार्तण्डात् । विरोचनः प्रह्लादपुत्रः । 'विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने' इत्युभयत्रापि विश्वः । तस्य सुताद्बलेर्गां भुवमभीप्सतः प्राप्तुमिच्छतोऽभ्याहर्तुमिच्छतः । सन्नन्तादाप्नोतेर्लटः शत्रादेशः । स्वर्पतेरवरजत्वमिन्द्रानुजत्वं ययौ । बलिध्वंसनार्थमिति शेषः । लोकानुग्रहार्थिनः किं न कुर्वन्तीति भावः । अत्राजत्वावरजत्वसामानाधिकरण्यविरोधो भगवत्प्रभावादाभासीकृत इति विरोधाभासोऽलंकारः ॥ ७४ ॥

 किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
 तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः॥७५॥

 किमिति ॥ एष वामनः खर्वः । 'खर्वो हस्त्रश्च वामनः' इत्यमरः । किं क्रमिष्यति इत्थमनेन प्रकारेण दानवा यावन्नाहसन् तावत्ततः प्रागेव लवितेऽतिक्रान्ते अर्कशशिमण्डले येन सोऽस्य हरेः क्रमः पादविक्षेपो नभस्तले न ममौ न परिमाणं गतवान् । यथा न माति तथा ववृधे इत्यर्थः । अत्राधारान्नभस्तलादाधेयस्य क्रमस्याधिक्यकथनादधिकालंकारभेदः । आश्रयाश्रयिणोराधिक्यमधिकमिति लक्षणात् ॥ ७५॥

 गच्छतापि गगनाप्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
 क्रान्तकंधर इवाबलो बलि: स्वर्गभर्तुरगमत्सुबन्धताम् ॥७६॥

 गच्छतेति ॥ गगनाग्रं गगनोपरिभागं गच्छतापीति विरोधः । भूधरगरीयसेत्युपमा । यस्य वामनस्योच्चकैरुन्नतेनाङ्घ्रिणा क्रान्तकंधरोऽवष्टब्धकण्ठ इवाबलो दुर्बलो बलिर्वैरोचनिः स्वर्गभर्तुरिन्द्रस्य सुखेन बध्यत इति सुबन्धः । 'ईषदुःसुषु-' (३।३।१२६) इत्यादिना खल्प्रत्ययः । तत्तामगमत् । गुरुद्रव्यावष्टब्धकण्ठो हि सुखेन बध्यत इति भावः । 'न लोका-' (२।३।६९) इत्यादिना कृद्योगलक्षणाया एव षष्ट्या निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी । अत्र क्रान्तकंधर इवेत्युत्प्रेक्षाया भूधरगरीयसेत्युपमासापेक्षत्वात्संकरः । विरोधेन त्वनपेक्षिता संसृष्टिः॥ ७६॥

 क्रामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।
 व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥७७॥

 क्रामत इति ॥ क्रामतः पादं विक्षिपतोऽस्य संबन्धिनं दूरमायतमलिनीलं भृङ्गश्याममूरुं सक्थि दिवौकसो देवा व्योम्नि दिव्यसरितो मन्दाकिन्या अम्बुपद्धत्या जलप्रवाहेण स्पर्धया उत्थितमूर्ध्वतः प्रवृत्तं यमुनौघं यमुनाप्रवाहमिव ददृशुरित्युत्प्रेक्षेयमुपमासंकीर्णा ॥ ७७ ॥

 अवतारान्तरमाह-

 यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
 कान्तवक्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥७८॥

 यस्येति ॥ कायनिग्रहेणामृतविभागकाले देहच्छेदेन गृहीतविग्रहो बद्धवैरः कृती कुशलो राहुर्यस्य हरेः किंचिदपदकर्तुमक्षमः सन् कान्तं रम्यं यद्वक्त्रं हरि मुखं तेन सदृशी आकृतिर्यस्य तम् । तत्सुहृदमित्यर्थः । इन्दुमधुनापि बाधते पीडयति । उपरागमिषेणेति भावः । अत्र साक्षात्प्रतिपक्षहरिनिग्रहाशक्त्या राहोस्तदीयेन्दुनिग्रहोक्त्या प्रत्यनीकालंकारः । तथा च सूत्रम्-'प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्' इति ॥ ७० ॥

 दत्तात्रेयावतारमाह-

 संप्रदायविगमादुपेयुषीरेष नाशमविनाशिविग्रहः ।
 सर्तमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥

 संप्रदायेति ॥ अविनाशिविग्रहोऽनपायस्वरूपः अत एव अप्रतिहता स्मृतिः स्मरणशक्तिर्यस्य स एष हरिः संप्रदाय उपदेशपरम्परा तस्य विगमादपायान्नाश कालदोषाध्ययनविच्छेदमुपेयुषीः प्राप्ताः । 'उगितश्च' (४।१।६) इति ङीप् । श्रुतीर्वेदान् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । स्मर्तुम् । श्रुतिसंप्रदायं प्रवर्तयितुमित्यर्थः । दत्त इति विख्यात इति शेषः । अत्रिगोत्रे जातोऽत्रिगोत्रजोऽभवत् । दत्तात्रेयोऽभूदित्यर्थः । अत्रानपायित्वस्मृत्यप्रतिघातयोर्विशेषणगत्या श्रुतिस्मृतिहे- तुत्वोक्त्या काव्यलिङ्गम् ॥ ७९ ॥

 परशुरामावतारमाह-

 रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहतिः ।
 लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ ८०॥

 रेणुकेति ॥ अयं हरिः रेणुकातनयतां परशुरामत्वमुपागतः सन् । अर्जुनः कार्तवीर्यार्जुनः । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः' इत्यनेकार्थत्वेऽपि रेणुकेयविरोधित्वान्निश्चयः । तदुक्तं हरिणा-'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति । स एव वनं तत् । शातिता छिन्ना प्रचुरा प्रभूता पत्रसंहतिर्वाहनसमूहः पर्णसंघातश्च यस्य तत् । 'पत्रं स्याद्वाहने पर्णे' इति विश्वः । लूनाश्छिन्ना भूरयः प्रचुरा भुजा एव शाखा यस्य तत् । उज्झिता छाया कान्तिरनातपश्च यस्य तत्तथा व्यधाद्विहितवान् । दधातेर्लुङि 'गातिस्था-' (२|४|७७) इत्यादिना सिचो लुक् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अत्र समस्तवस्तुविषयं सावयवं रूपकं व्यक्तं तच्च छायेति पत्रेति च श्लेषप्रतिभोत्थापिताभेदातिशयोक्त्यानुप्राणितमिति संकरः ॥ ८० ॥

 रामावतारमाह-

 एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।
 राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ ८१॥

 एष इति ॥ किंचेति चार्थः । रक्षितप्रजः एष हरिदशरथस्यापत्यं पुमान्दाशरथी रामः । 'अत इञ्' (४|१|९५) तस्य भावः दाशरथिभूयं रामत्वम् । 'भुवो भावे' (३।१।१०७) इति क्यप् । एत्य प्राप्य ध्वंसितो हत उद्धतो दृप्तो दशाननो रावणो यस्यां तामपि राक्षसी रक्षःसंबन्धिनी पुरी लङ्कां तेजसा स्ववीर्येणाधिकविभीषणामत्यन्तभीषणामकृतेति विरोधः । भयहेतोरुद्धतस्य रावणस्य ध्वंसनादधिको महान्विभीषणो रावणानुजो यस्यां तामित्यविरोधः । अत एव विरोधाभासोऽलंकारः ॥ ८१ ॥

 अथ पञ्चभिः प्रस्तुतं कृष्णावतारमाह-

 निष्प्रहन्तुममरेश विद्विषामर्थितः स्वयमथ स्वयंभुवा ।
 संप्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ ८२ ॥

 निष्प्रहन्तुमिति ॥ अथ रामावतारानन्तरं अयं हरिः अमरेशविद्विषां निष्पहन्तुम् । चैद्यादीनिन्द्रशत्रून् हन्तुमित्यर्थः। 'जासिनिप्रहण-' (२।३।५६) इत्यादिना कर्मणि षष्ठी । स्वयंभुवा ब्रह्मणा स्वयमात्मनैवार्थितः प्रार्थितः सन् संप्रतीदानी वसुदेवरूपिणो वसुदेवमूर्तिधरस्य कश्यपस्य पुत्रतां श्रयति व्रजति कृष्णरूपेणेति भावः । अत्र स्वयंभूप्रार्थनाया विशेषणगत्या वसुदेवपुत्रताप्राप्तिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ८२॥

 तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।
 यः सुरैरिति सुरौघवल्लभो बल्लवैश्व जगदे जगत्पतिः ॥८३॥

 तातेति ॥ सुरौघवल्लभः सुरगणप्रियः । जगत्पतिर्यो हरिः सुरैर्देवैः बल्लवैर्गोपालैश्च हे तात जनक, नेति छेदे, उदधिविलोडनं समुद्रमथनं प्रति, नो इति छेदे, दधिविलोडनं दधिमन्थनं च प्रति त्वद्विना । त्वां विहायेत्यर्थः । 'पृथग्विना-' (२।३।३२) इत्यादिना विकल्पात्पञ्चमी । अथ वयं न नो वोत्सहामहे न क्षमामहे इति जगदे गदितम् । अत्र हरिवर्णनाङ्गत्वेन सुराणां बल्लवानां च प्रकृतानामेव नोदधिशब्दमूलाभेदाध्यवसायलब्धदध्युदधिविलोडनक्षमत्वकर्मसाम्यागम्यौपम्यत्वात्तुल्ययोगिताभेदः । तेन च हरेर्दधिमन्थनकलावदुदधिमन्थनमपीति वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ८३ ॥

 नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।
 योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः॥८४ ॥

 नात्तगन्धमिति ॥ किंचेति चार्थः । यो हरिः शत्रुभिरवधूयाभिभूय नात्तगन्धमनाघ्रातसौरभमनभिभूतं च । 'आत्तगन्धोऽभिभूतः स्यात्' इत्यमरः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। छाययानातपेन, पालनेन च 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कर्षयोः कान्तिसच्छोभापतिषु स्त्रियाम्' इति विश्वः । शमितामरश्रमं निवारितसुरखेदं पारिजातं वृत्रविद्विषः शक्रस्याभिमानमहंकारमिव दिवः स्वर्गादुदमूलयदुन्मूलितवानिति पारिजातहरणोक्तिः । श्लेषसविशेषणेयमुपमेति केचित् । श्लेषवच्चान्ये ॥ ८४ ॥

 यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् ।
 चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ।। ८५ ॥

 यमिति ॥ किंचेति चार्थः । ललाटमेव लेखा तया ललाटलेखया ललाटदेशेन शंभोर्विभ्रमं सौन्दर्यं बिभ्रतः । ललाटलोचनमित्यर्थः । चेदिपस्य शिशुपालस्य लोचनं तृतीयनेत्रं कर्तृ यं हरिमेव चण्डमारुतं चण्डमारुतमिव समेत्य प्रदीपवत्प्रदीपेन तुल्यम् । 'तेन तुल्यम्'-(५।१।११५) इति वतिप्रत्ययः । निरवान्निर्वाति स्म । नष्टमित्यर्थः । निपूर्वाद्वाधातोर्लङ् । “निरवाप' इति क्वचित्कः पाठः स न सम्यक् । वातेः प्रक्रियाविरोधादाप्नोतेरसंगतार्थत्वादिति अनेकार्थेयमुपमा ॥ ८५ ॥

 यः कोलतां बल्लबतां च विभ्रदंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।
 मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ।। ८६॥

 य इति ॥ यो हरिः कोलतां वराहत्वम् । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । बल्लवतां गोपालत्वं च बिभ्रत् । आशु गुर्वी दंष्ट्रां भुजां च यथासंख्यमिति भावः । उदस्योद्यम्य दुस्तरायां तोयापदि जलसंकटे एकत्र समुद्रकृतायां, अन्यत्र वर्षकृतायामिति विवेकः । मग्नस्य गोमण्डलस्य भूगोलस्य, धेनुवृन्दस्य चोद्धरणं चकार । अत्र कोलत्वबल्लवत्वयोः प्रकृतयोरेव श्लेषमूलाभेदाध्यवसायेन गोमण्डलोद्धरणस्य बिम्बप्रतिबिम्बभावेन दंष्ट्राभुजोधमनस्य च साम्यादौपम्यगम्यतायां तुल्ययोगिता सती यथासंख्येन संकीर्यते । इन्द्रवज्रा वृत्तम् । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति लक्षणात् ॥ ८६ ॥

 एवं देवं स्तुत्वानन्तरं कर्तव्यमुपदिशति-

  धन्योऽसि यस्य हरिरेष समक्ष एव
   दूरादपि ऋतुषु यज्वभिरिज्यते यः ।
  दत्त्वार्घमत्रभवते भुवनेषु याव-
   संसारमण्डलमवामुहि साधुवादम् ॥ ८७ ॥

 धन्योऽसीति ॥ धनं लब्धो धन्यः पुण्यवानसि । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । 'धनगणं लब्धा' (४४८४) इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्ष्णोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येsव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७) इति समासान्तः । अत एव 'तृतीयासप्तम्योर्बहुलम्' (२।४।८४) इति सप्तम्या अमभावः । अन्यत्र को विशेषस्तत्राह-यो हरिः दूरादपि परोक्षेऽपि ऋतुषु यागेषु यज्वभिर्विधिवदिष्टवद्भिः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' (३।२।१०३) इति ङ्वनिप्प्रत्ययः । इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमा–अत्रभवते । पूज्यायेत्यर्थः । 'पूज्यस्तत्रभवान्' इति सज्जनः । 'इतरेभ्योऽपि दृश्यते' (५।३।१४) इति सार्वविभक्तिके त्रल्प्रत्यये सुप्सुपेति समासः । अर्धं पूजां दत्त्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः । भुवनेषु साध्विति वादः शब्दस्तं साधुवादं साधुसमाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः। वसन्ततिलका वृत्तम् ॥ ८७ ॥

  भीष्मोक्तं तदिति वचो निशम्य सम्य-
   क्साम्राज्यश्रियमधिगच्छता नृपेण ।
  दर्तेऽर्घे महति महीभृतां पुरोऽपि
   त्रैलोक्ये मधुभिदभूद[१]नर्घ एव ॥ ८८ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के श्रीकृष्णार्घ-
दानो नाम चतुर्दशः सर्गः ॥ १४ ॥

 भीष्मेति ॥ 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्' इत्यमरः । सम्राजो भावः साम्राज्यं तदेव श्रीस्तां श्रियमधिगच्छता भजता नृपेण युधिष्ठिरेण इतीत्थं भीष्मोक्तं तद्वचः सम्यङ्गिशम्य श्रुत्वा । महीभृतां राज्ञां पुरोऽग्रे महति अर्घे पूजायां दत्तेऽपि मधुभिद्धरिः त्रयो लोकास्त्रैलोक्यम्| चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । तत्र त्रैलोक्ये कृष्णोऽन[२]र्घः पूजारहित एवाभूदिति विरोधः । अमूल्य एवाभूदित्यविरोधः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अत्रार्घयोरभेदाध्यवसायाद्विरोधः, तदनध्यवसायादविरोध इति विरोधाभासोऽलंकारः । प्रहर्षिणी वृत्तम् ॥ ८८॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध-
काव्यव्याख्यायां सर्वकषाख्यायां चतुर्दशः सर्गः ॥ १४ ॥


  1. °दनर्घ्य
  2. नर्घ्यः[* 'अत्र सजसादिमे...चरणमेकतः पठेत्' इत्यपि पाठो नारायणभट्टीवृत्तौ ।