शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/त्रयोदशः सर्गः(श्रीकृष्णसमागमवर्णनम्)

← द्वादशः सर्गः(प्रयाणवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
त्रयोदशः सर्गः(श्रीकृष्णसमागमवर्णनम्)
माघः
चतुर्दशः सर्गः(श्रीकृष्णार्घदानवर्णनम्) →


त्रयोदशः सर्गः ।

 यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुनोच्यते ।
 स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया॥१॥

 यमुनामिति ॥ अथ यमुनातरणानन्तरं तपसस्तनूजो धर्मनन्दनः अधुना यमु- नामतीतममुं हरिं शुश्रुवान् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्कसुप्र- त्ययः । इति नोच्यते किंतु स हरिर्यदा निजपुरादचलत् तच्चलनमादिर्यस्मिन्कर्मणि तत्तदादि तत्प्रभृति अहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावे अत्यन्तसं- योगे द्वितीया । नृपतेर्धर्मराजस्य वार्तया इह निविष्ट इतो निर्गत इति वृत्तान्तेन समचारि संचरितम् , आगतमिति यावत् । भावे लुङ् । संनिहितयमुनातरणवृत्ता- न्तवव्द्यवहितसकलदैनंदिनवृत्तान्तो निजनगरप्रस्थानाव्प्रभृति प्रतिक्षणमागत एवेत्यर्थः । अस्मिन्सर्गे मञ्जुभाषिणी वृत्तम् । 'सजसा जगौ भवति मञ्जुभाषिणी' इति लक्षणात् ॥१॥

 यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
 सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययौ २

 यदुभर्तुरिति ॥ ततो हरेर्यमुनोत्तरणश्रवणानन्तरं स वसुधाधिपो धर्मराजः यदुभर्तुर्हरेरागमनेन लब्धजन्मनो लब्धोदयात् । जातादित्यर्थः । प्रमदाद्धर्षात् । 'प्रमदसंमदौ हर्षे' (३।३।६८) इत्यप्प्रत्ययान्तो निपातः । महीयस्यतिविपुलेऽपि पुरे अमान् हर्षकृतशरीरवृद्धेरिवापरिमितविकासः सन्नित्युत्प्रेक्षा । सहसा अनुजन्मभि- रनुजैः सहितोऽस्य हरेरभिमुखं निर्ययौ । नगरान्निर्गत इत्यर्थः ॥ २॥

 रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
 समवादि वक्तृभिरभीष्टसंकथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥३॥

 रभसेति ॥ रभसो हर्षः । 'रभसो वेगहर्षयोः' इति विश्वः । तेन प्रवृत्तैः कुरुचक्रदुन्दुभिध्वनिभिः कौरवसेनातूर्यघोषैः, बधिरीकृतश्रुतेर्विकलीकृतश्रोत्रे- न्द्रियस्य श्रोतृजनस्य, वक्तृभिः कथकैरभीष्टसंकथास्विष्टालापेषु प्रकृतस्य वक्तुं प्रक्रान्तस्यार्थस्याभिधेयस्य शेषं वक्तव्यावशिष्टम् , अथ बाधिर्यानन्तरं हस्तसंज्ञया हस्तसंकोचेन समवादि संवादितम् । श्रीकृष्णस्यागमनसंतोषात्तथा दुन्दुभीनाजघ़ुः यथा कण्ठोक्तशेषं करसंज्ञया निष्पाद्यत इत्यर्थः । अत्र बधिरीकरणस्य जनवि- शेषणद्वारा हस्तसंज्ञया वदनहेतुत्वात्काव्यलिङ्गभेदः ॥३॥

 अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः।
 जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः॥४॥

 अपदेति ॥ द्रुतं शीघ्रं भ्रमिताः परिवर्तिताः । हेमनेमयः कनकप्रधयो येषां ते। 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः । अत एव जविना वेगवता मारुतेनाञ्चितानि कम्पितानि परस्परमुपमान्तीति परस्परोपमान्यन्योन्य- सदृशानि क्षितिरेणुकेतुवसनानि स्वोत्थापितभूरेणवः स्वारोपितध्वजपटाश्च येषां ते, क्षितिं क्षियन्तीशते इति क्षितिक्षितः क्षितीशाः । "क्षि ऐश्वर्ये निवासे च' इति धातोस्तौदादिकात्क्विपि तुक् । क्षितिपतिष्वेवासौ क्षितिक्षिदिति भट्टमल्लः । तेषां संबन्धिनः पताकाः सन्तीति पताकिनो रथाः । व्रीह्यादित्वादिनिः । परितः सर्वतः नास्ति पदस्यान्तरमवकाशो यस्मिन्कर्मणि तदपदान्तरं संसक्तं यथा तथा । 'संसक्ते त्वव्यवहितमपदान्तरमित्यपि' इत्यमरः । अपतन्नधावन् । अत्र स्वराष्ट्रव- र्णने रेणूनां केतूनां च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । तथा च पर- स्परोपमेति विशेषणाद्रेणुवत्केतवः, केतुवच्च रेणव इत्युपमेयोपमया के रेणवः के वा केतव इति संशयश्च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ४ ॥

 द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।
 ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥५॥

 द्रुतमिति ॥ अश्वचरणक्षतास्तुरगखुरताडिता भुव उपरि पृष्ठभागे पाणिवृत्तयः करताडनानि येषां ते उपरिपाणिवृत्तयः पणवा वाद्यविशेषा इवेत्युपमा । द्रुतं द्रुततरमेवाध्वनन् ध्वनन्ति स्म । द्रुतं शीघ्रम्' इत्यमरः । वारिधरशब्देन तद्गर्जितं लक्ष्यते । तद्वद्धीरैर्गम्भीरैः वारणध्वनिभिर्गजबृंहणैर्हृष्टा अत एव कूजितकलाः । कलकूजिता इत्यर्थः । ततो विशेषणसमासः । कलापा येषां सन्तीति कलापिनो बर्हि णश्च ननृतुः नृत्यन्ति स्म । अत्रोपमयोः संसृष्टिः । वारिधरोपमया कलापिनां गजबृंहितेषु घनगर्जितभ्रान्तिमन्तरेण नृत्यासंभवाभ्द्रान्तिमदलंकारो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ५ ॥

 व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा ।
 रुरुषे विषाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ॥६॥

 व्रजतोरिति ॥ तदा तस्मिन्समये असुरारिपाण्डुसुतसैन्ययोः हरिपार्थ- सैन्ययोः प्रणयपूर्व स्नेहपूर्वकमेकतामैक्यं व्रजतोर्गच्छतोः सतोरपि विषाणिभि- रुभयसेनावर्तिभिः गजैरनुक्षणं प्रतिक्षणं मिथः परस्परं रुरुषे चुक्रुधे । भावे लिट् । तथा हि-मदेन मूढबुद्धिषु विपरीतप्रज्ञेषु प्राणिषु विवेकिता कार्याकार्यविचारिता कुतः । नास्त्येवेत्यर्थः । अथ तेषां स्वामिसौहार्देऽपि स्वयं विरोधिता न दोषायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥६॥

 अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
 अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति संभ्रमेण सः॥७॥

 अवलोक इति ॥ दूरतो दूरादवलोके हरेर्दर्शन एव रभसाद्धर्षाद्रथादवत- रीतुमवरोढुम् । 'वृतो वा' (७।२।३८) इति विकल्पाद्दीर्घः । इच्छतो नृपतेर्ध- र्मराजात्प्रथमम् । तदवतरणात्पूर्वमेवेत्यर्थः । आत्मना स्वयमेव । प्रकृत्यादित्वात्तृ- तीया । अवतीर्णवान् रथादवरूढः सन् । 'निष्ठा' (३।२।१०२) इति तरतेः क्तव- तुप्रत्ययः 'ऋत इद्धातोः' (७।१।१००) इतीत्वं 'र्वोरूपधाया दीर्घ-' (८।२।७६) इति दीर्धे 'रदाभ्याम्-' (२।४२) इति निष्ठानत्वे 'रषाभ्याम्-' (४१) इति णत्वम् । स हरिः संभ्रमेण त्वराविशेषेण विनयं अनौद्धत्यं विशेषयति स्मातिशाययति स्म । एतेन हरेः पूज्यविषयो रत्याख्यो भावो ध्वन्यते ॥ ७ ॥

 वपुषा पुराणपुरुषः पुरःक्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
 भुवनैर्नतोऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ८

 वपुषेति ॥ पुराणपुरुषो हरिः। सर्वलोकज्येष्ठोऽपीति भावः। तथा भुवनैर्लॊकैः नतो नमस्कृतोऽपि विहितं संपादितमात्मनो गौरवमुत्कर्षों येन स सन् । पूज्येषु नमस्याया औन्नत्यहेतुत्वादिति भावः । अत एवात्र विचित्रालंकारः । 'विचित्रं स्वविरुद्धस्य फलस्य स्यात्समुद्यमे' इति लक्षणात् । पुरःक्षितावग्रभूमौ परिपुञ्ज्य- माना परितः पुञ्जीक्रियमाणा पृथुः स्थूलो हारो मुक्तावलिः यष्टिरिव यस्य तेन वपुषा शरीरेण । न त्वञ्जलिमात्रेण । तथास्य पूज्यत्वादिति भावः । पूज्यत्वे हेतुमाह- पितृष्वसुस्तनयमिति पितृभगिनीपुत्रम् । धर्मराजमित्यर्थः ।'विभाषा स्वसृपत्योः' (६।३।२४) इत्यस्य वैकल्पिकत्वेन षष्ट्यालुक् । 'मातृपितृभ्यां स्वसा' (८।३।८४) इति षत्वम् । नाम प्रकाशं प्रणनाम । प्रणामं कृतवानित्यर्थः । प्रपूर्वान्नमेर्लिट् । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८।४।१४) इति णत्वम् । अत्रापि पूर्ववद्धा- वध्वनिः । भुवनैर्नतोऽपि हरिः लोकन्नयानुवर्तितया स्वयमेनं नतवानिति विरोधा-

पाठा०-१ 'तां कुकुराधिनाथकुरुनाथसैन्ययोः'. २ 'कुकुराधिनाथकुरुनाथसैन्ययोः'. भासोऽलंकारो विचित्रेणोक्तेन संकीर्णः नामनामेति वृत्त्यनुप्रासभेदश्च संसृष्ट

इत्याधूह्यम् ॥८॥

 मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ।
 क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥९॥

 मुकुटेति ॥ स हरिः मुकुटांशुभी रञ्जितः स्ववर्णमापादितः परागो रेणुर्यस्य तदग्रतः पुरतो महीतलं शिरसा यावन्नाप । नास्पृशदित्यर्थः । तावत्क्षितिपेन धर्मराजेनानपेक्षितक्रमं अनपेक्षितः क्रमः परिपाटी यस्मिन्कर्मणि तत्तथा । भुजा- भ्यामेव पञ्जरेणेति रूपकम् । रभसाद्वेगादगृह्यत गृहीतः । प्रणामक्रियासमाप्तेः प्रागेवोत्थाप्याश्लिषदित्यर्थः ॥९॥

 न ममौ कपाटतटविस्तृतं तनौ मुरवैरिवक्ष उरसि क्षमाभुजः ।
 भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे १०

 नेति ॥ कपाटतटविस्तृतं विशालं मुरवैरिणो हरेः वक्षः, तनावल्पे क्षमाभुजो धर्मराजस्योरसि न ममौ । न परिमितमित्यर्थः । तथापि विकटीकृतेन विपुलीकृतेन दीर्घयोर्भुजयोर्युगलेन युग्मेन परितः समन्तादभिषस्वजे आलिङ्गितम् । वक्षसा भुजाभ्यां च कथंचित्परिच्छिन्नमभून्न तु वक्षसैवेत्यर्थः । 'सदिस्वञ्जोः परस्य लिटि' इति धातुसकारस्य पत्वनिषेधात्स्थादित्वेऽप्यभ्यासस्यैव पत्वम् । अत्र हरिवक्षसो वैपुल्यादतिशयद्योतनाय नृपवक्षःसंमानेऽप्यसंमानोक्तेः संबन्धेऽसंबन्धरूपाति- शयोक्तिश्च । अनयोश्च स्वतःसिद्धकविप्रौढोक्तिसिद्धयोरप्यतिशययोरभेदाध्यवसा- यादुत्थापनमिति रहस्यम् ॥ १० ॥

 गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ।
 कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ११

 गतयेति ॥ नाभ्यां परिनाभि । विभक्त्यर्थेऽव्ययीभावः । वारिजम् । नाभि- कमलमित्यर्थः । अवमुच्य विहाय अध्युर उरसि । विभक्त्यर्थेऽव्ययीभावः । निरन्तरं निवासं गतया सर्वदोरसि स्थितया श्रिया शोभया, रमया च नाभिसरोज- त्यागेनात्र निवासेन तस्मादपहृतमिति ध्वनितम् । कुरुराजस्य या निर्दयनिपीडना गाढाश्लेषरूपा ततो भयान्मुरवैरिणो मुरद्विषो मुखमध्यरोहि अधिरूढम् । भीता ह्युत्सेधमारोहन्तीति लोकवेदयोः प्रसिद्धमिति भावः । नूनमित्युत्प्रेक्षा । अत्र वाच्यायाः सुहृदाश्लेषप्रभवायाः शोभायाः श्रियेति श्लेषमहिम्ना प्रतीयमानया रमया सहाभेदाध्यवसायात्क्रमेण नाभिमुखकमलाधारसंबन्धाभिधानाच्छेषमूलातिशयो- त्युत्थापितः तावदाद्यः पर्यायभेदः । "क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एक- स्मिन्नथ वानेकं पर्यायालंकृतिर्मता ॥” इति लक्षणात् । तदुपजीविना च श्रीमुखा- रोहणस्य भयहेतुकत्वकथनादुत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ ११ ॥

 शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।
 यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥१२॥

 शिरसीति ॥ नृपो धर्मराजः सुरारिबन्धने पुरा बलिबन्धने छलवामनं कपटवामनं तदा पार्थोपपत्तिसमये तु विनयवामनम् । विनयनम्रमित्यर्थः ।तं हरिमिति शेषः । वीर्यविजितामरद्रुमप्रसवेन पारिजातहरणे शौर्यलब्धपारिजात- कुसुमेन यशसेव पारिजातविजयप्रसूतया कीर्त्येवेल्युत्प्रेक्षा । वासितशिरोरुहे सुर- भितकेशे शिरसि जिघ्रति स्म । 'प्रवासादेत्य मूर्धन्यवघ्राणम्' इति स्मरणात् । पुरा किल भगवान्सत्यभामाप्रीतये बलादिन्द्रलोकादपहृत्य पारिजातं निजगृहेष्वा- रोपितवानिति कथात्रानुसंधेया ॥ १२ ॥

 सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।
 कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥१३॥

 सुखेति ॥ वसुदेवाज्जन्म यस्य तस्मिन्वसुदेवजन्मनि वासुदेवे । जन्मोत्तर- पदत्वाव्द्यधिकरणो बहुव्रीहिः वामनवचनादित्युक्तं प्राक् । शिथिलीकृतेऽपि विश्ले. पिते सत्यपि सुखवेदनया आलिङ्गनसुखानुभवेन हृषिता उद्गता रोमकूपा रोम- मूलानि यस्यां तया । 'हृषेर्लोमसु' (७।२।२९) इतीडागमः। कुरुभर्तुर्धर्मराजस्याङ्ग- लतया विकसतः कदम्बनिकुरम्बस्य कदम्बमुकुलजालस्य चारुता कमनीयत्वं न तत्यजे न त्यक्ता । किंतु स्वीकृतेत्यर्थः । आश्लेषापगमेऽपि तज्जन्मसुखानुवृत्या तत्कार्यस्य रोमहर्षस्यानुवृत्तिरिति तात्पर्यार्थः । अत एव शिथिलीकृते हृषितरोम- कूपयेत्यकारणकार्यकथनाद्विभावना तदपेक्षया चेयमुत्पन्ना कदम्बनिकुरम्बचारुता- निदर्शनतया सहाङ्गेन संकीर्यते ॥ १३ ॥

 इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
 स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ।।

 इतरानिति ॥ जनसभाजनोचितः सर्वजनसंभावनार्हः प्रसभेन बलादु- द्धृता असुरसभासुरसङ्घो येन सः प्रमनाः हृष्टचित्तः स हरिः प्रमोदपरिफुल्लच- क्षुषो हर्षोत्फुल्लनेत्रानितरान् भीमादीन् क्षितिभुजो नृपस्यानु पश्चाजन्म येषां ताननुजन्मनोऽनुजान्यथोचितं यथार्हमसभाजयत्सभाजयति स्म । आलिङ्गनादि- भिरानन्दयामासेत्यर्थः । 'आनन्दनसभाजने' इत्यमरः । 'समाज प्रीतिदर्शनयोः' इति धातोश्चौरादिकाल्लुङ् ॥ १४ ॥

  सममेत्य तुल्यमहसः शिलाघना-
   न्घनपक्षदीर्घतरवाहुशालिनः ।
  परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः
   कुलिशात्परेण गिरयो गिरीनिव ॥१५॥

 सममिति ॥ तुल्यमहसः समतेजस्कान् , शिला इव शिलाभ्यश्च घनान् दृढान् घनैः पक्षैरिव दीर्घतरबाहुभिः बाहुभिरेव पक्षैश्च शालन्त इति तथोक्तानेवंभूतान्

क्षितिपतीनेवंभूताः क्षितीश्वराः समं युगपदेत्यागत्य । आङ्पूर्वादिणः क्त्वो ल्यपि तुक् । कुलिशात्परेण परतः । कुलिशक्षतेः पविपक्षच्छेदात् पूर्वमित्यर्थः । संप्रत्यसंभवादिति भावः। परेणेति विभक्तिप्रतिरूपकमव्ययम् । गिरयो गिरीनिव परिशिश्लिषुरालिङ्गितवन्तः । उपमा ॥ १५॥

 इभकुम्भतुङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः ।
 परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥१६॥

 इभेति ॥ इभकुम्भा इव ये तुङ्गाः कठिनाश्च इतरेतरासां स्तनभारास्तैर्दूरे विनिवारितान्यतिकार्यादस्फुटतया स्थापितान्युदराणि यासां ताः । 'स्वाङ्गाच्च-' (४।१०५४) इति विकल्पादनीकारः । परिफुल्लगण्डफलकाः हर्षपुलकितगण्ड- स्थलाः कुकुरकौरवस्त्रियो यादवपाण्डवागनाः परस्परं परिरेभिर आश्लिष्टवत्यः । 'परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम्' इत्यमरः । परिफुल्लेति फुल्लतेः पचाद्यजन्तं न तु फलतेः निष्टान्तम् । अनुपसर्गादिति कथनविरोधात् ॥ १६ ॥

  रथवाजिपत्तिकरिणीसमाकुलं
   तदनीकयोः समगत द्वयं मिथः ।
  दधिरे पृथक्करिण एव दूरतो
   महतां हि सर्वमथवा जनातिगम् ॥ १७ ॥

 रथेति ॥ रथवाजिपत्तिकरिणीभिः समाकुलं संकीर्णम् । करिणीग्रहणं पुंगज- व्यावृत्त्यर्थम् । अतो युद्धानर्हतया तासामसेनाङ्गत्वान्न द्वन्द्वैकवद्भावः । तदनीकयोः तयोर्यादवपाण्डवसैन्ययोः। 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । द्वयं मिथश्चान्योन्यं समगत संगतम् । गमेर्लङि ‘समो गम्यृच्छि-' (१।३।२९) इत्यादिनात्मनेपदं 'वा गमः' (१॥२॥१३) इति सिचः कित्त्वात् 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः 'हस्वादङ्गात्' (८।२।२७) इति सकारलोपः। करिणः पुंगजाः दूरत एव पृथगसंगतं दधिरे घृताः । स्थापिता इत्यर्थः । अथ वा किमत्र चित्रमिति भावः । महतां महासत्त्वानां संबन्धि सर्वं चेष्टितमिति शेषः । जनानतिगच्छतीति जनातिगमतिजनम् । सर्वलोकविलक्षणमिति भावः । सामा- न्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १७ ॥

 अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
 अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः १८

 अधीति ॥ अथ हरिरधिरुह्यतां रथ आरुह्यतामित्येवं महीभृता धर्मराजेनोदित उक्तः सन् । वदेः कर्मणि क्तः । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । कपिकेतुनार्जुनेनार्पितकरो दत्तहस्तः सन् । अवलम्बितोऽवष्टब्ध ऐलविलस्य कुबेरस्य पाणिपल्लवो हस्तो येन स मेघवाहन इन्द्रो मेघमिव रथं श्रयति स्म आरूढ- वानित्यर्थः । उपमा ॥१८॥

 रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
 अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः॥१९॥

 रथमिति ॥ किंचेति चार्थः (१)। अथ रथारोहणानन्तरं रथमास्थितस्यारूढस्य पाठा०-१ 'घटित'. पुराभिवर्तिन इन्द्रप्रस्थाभिगामिनः, त्रिपुराभिवर्तिनश्च मुरद्विषो हरेस्तिसृणां पुराणां रिपोस्त्रिपुरान्तकस्येव । 'न तिसृचतसृ' (६।४।४) इति नामि दीर्घप्रतिषेधः । धर्ममूर्तिर्धर्मात्मा प्रजाप्रतिर्जनेश्वरो धर्मराजो, ब्रह्मा च अनुरागभावितः सन् । प्रवीयते प्रेर्यतेऽनेनेति प्रवयणं प्राजनम् । प्रतोद इति यावत् । अत एव 'प्रवयणो दण्डः प्राजनो दण्डः' इति काशिका । अजेः करणे ल्युट् । 'वा यौ' (२।४।५७) इति विकल्पादजेर्वीभावः 'पूर्वपदात्संज्ञायाम्-' (८।४।३) इति णत्वम् । स्वयमा- दित गृहीतवान् । सारथ्यं कृतवानित्यर्थः । ददातेः कर्तरि लुङि तङ् । 'स्थाध्वोः-' (१।२।१७) इतीकारे कृते सिचः कित्त्वे च 'हस्वादङ्गात्' (८।२।२७) इति सलोपः । अन्न त्रिपुरहरणे ब्रह्मा हरस्येव हरेरयं सारथ्यं चकारेत्युपमा । तस्याः प्रजापतिरिति राजब्रह्मणोः श्लेषमूलाभेदाध्यवसायादतिशयोक्तिनिर्यूढतेति ॥ १९ ॥

 शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः ।
 पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरधुवत्प्रकीर्णकम् ॥ २० ॥

 शनकैरिति ॥ किंचेति चार्थः । अथास्य हरेस्तनुषु सूक्ष्मेषु जालकान्तरेषु गवाक्षरन्ध्रेषु स्फुरितस्य प्रसृतस्य क्षपाकरकरोत्करस्य शशिकिरणपुञ्जस्याकृतिरिवा- कृतिर्यस्य तत्प्रकीर्णकं चामरं निम्नगापतेः समुद्रस्य पृथु विपुलं फेनकूटं फेनपुञ्ज- मिव मरुतः सूनुर्भीमसेनः शनकैरधुवद्भुवति स्म । धुवतिरयं तौदादिक इत्यु- क्तम् । उपमयोः संकरः ॥ २० ॥

 विकसत्कलायकुसुमासितद्यूतेरलघूडुपाण्डु जगतामधीशितुः ।
 यमुनाहृदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम्॥२१॥

 विकसदिति ॥ विकसत्कलायकुसुमं कालपुष्पम् । 'कलायः स्यात्काले' इति वैजयन्ती । तद्वदसितद्युतेर्नीलवर्णस्य जगतामधीशितुर्जगन्नाथस्य हरेः जिष्णुर- र्जुनः अलघूडुपाण्डु स्थूलनक्षत्रधवलम् अत एव यमुनाहदस्योपरिगमुपरिगतम् । 'अन्यत्रापि दृश्यते' (वा०) इति डप्रत्ययः । तस्य हंसमण्डलस्य द्युतिं शोभां जिष्णु जयनशीलम् । 'ग्लाजिस्थश्च-' (३।२।१३९) इति ग्स्नुः । उष्णवारणमातपत्रमभृत भृतवान् । भृञः कर्तरि लुङ् । 'स्वरितञितः-' (१।३।७२) इत्यात्मनेपदम् । "उश्च' (१।२।१२) इति सिचः कित्त्वादगुणता 'हस्वादङ्गात्' (८।२।२७) इति सकारलोपः । अत्राप्युपमासंकरः ॥ २१ ॥

 पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।
 दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥२२॥

 पवनेति ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना भीमार्जुनमध्यगतेन रुचिरेण चारुणा चक्रिणा हरिणा उभयोरर्कादिग्रहाणामन्यतमयोरन्तरे मध्ये स्थित्या वासेन कारितं संपादितम् । वृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगो व्याख्यातः । दुरुधरेत्याख्या यस्य तं दुरुधराख्यं योगं दधता । अर्कान्यग्रहमध्यगतेनेत्यर्थः । इन्दुनेवेत्युपमा । नितरामतिशयेन । 'किमेत्तिङव्ययघा-' (५।४।११) इत्यामु- पाठा०-१शनकैश्च तस्य'. २ क्षरित'. ३ 'अव्ययादाम्वद्रव्य-'. प्रत्ययः । अरोचि अशोभि । रोचतेर्भावे लुङ् । स्वभावरमणीयस्यानुरूपान्तर- समायोगाच्छोभातिशयो जायते । रत्नकाञ्चनयोरिवेति भावः । अत्र भगवाना- चार्यमिहिरः-'हित्वार्कं सुनफाऽनफादुरुधराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः' (बृहज्जातके १३।३) इति । एतदेव स्पष्टीकृतं कल्याणवर्मणा 'रविवर्जं द्वादश- गैरनफा चन्द्राद्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञिकोऽतोऽन्यः॥' इति ॥ २२॥

 वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
 विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥२३॥

 वशिनमिति ॥ अथ भीमार्जुनोपवेशनानन्तरं वशिनमिन्द्रियजयवन्तम् । अव्यसनिनमिति यावत् । क्षितीश्वरं भूपतिम् । अयः शुभावहो विधिर्नितिर्नय- स्ताविव । देवपुरुषकाराविवेत्यर्थः । नियतमाचारनिष्ठं यतिं जितेन्द्रियम् । 'यतिनो यतयश्च ते' इत्यमरः । नियमः शरीरातिरिक्तदेशकालादिसाधनापेक्षः संध्योपासनजपादिः । यमः शरीरमात्रसाधनापेक्षोऽहिंसादिः । 'शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः । नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् ॥' (इत्यमरः) स च यथा यमनियमाविवेत्यर्थः । 'इववद्वायथाशब्दाः' इति दण्डिनाभिधानात् । विजयश्रिया युतं आसन्नविजयम् । विजिगीषू रिपुमित्यर्थः । अर्कमारुताविव दस्रयो- रश्विनोः सुतौ नकुलसहदेवौ । 'नासत्यावश्विनौ दस्रौ' इत्यमरः । तं हरिमनु- सस्नतुरनुचेरतुः । पृष्ठोपसर्पणं चक्रतुरित्यर्थः । इह सर्वकर्तृमनोरथानुकूलव्यापार- वत्त्वमनुसरणम् । इयं मालोपमा ॥ २३ ॥

 मुदितैस्तदेति दितिजन्मनां रिपावविनीयसंभ्रमविकासिभक्तिभिः ।
 उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥२४॥

 मुदितैरिति ॥ तदा तस्मिन्समये इतीत्थं मुदितैर्हृष्टैरविनीयोऽकल्कः । अकपट इति यावत् । यः संभ्रम आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । 'विपुयविनीयजित्या मुञ्जकल्कहलिषु' (३।१।११७) इति कल्कार्थे निपातः । नपुंसकपूर्वपदः स्त्रीलिङ्गपूर्वपदो वा बहुव्रीहिः। अविनीतं शासतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवैः दितिजन्मनां रिपौ कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवांसोऽन्तेवासिनः । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति सदेर्लिटः क्वसुरादेशः । तैरुपसेदिवद्भिरन्तेवासिभिः शिष्यैः इति यावत् । उरुपदेष्टरि गुरा- विवेत्युपमा। विनीतमनुद्धतं ववृते वृत्तम् । भावे लिट् । ननु विकासिभक्तिरित्यत्र कथं पूर्वपदस्य पुंवद्भावः । भक्तिशब्दस्य प्रियादिपाठात् 'स्त्रियाः पुंवत्-' (६।३।३४) इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधादिति । विकासिशब्दस्याविकासिनीवृत्तिमात्रपरतयाऽस्त्रीत्वस्य विवक्षितत्वान्नपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योक्तं वृत्तिकारेण 'दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धिः' इति । एतदेव स्पष्टीकृतं गणव्याख्याने-'दृढं भक्तिर्यस्येति नपुंसकं पूर्वपदम्, धात्वर्थविशेषणमात्रपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितम्' इति । भोजराजस्तु ' भक्तौ कर्मसाधनाया'मित्यनेन सूत्रेण भज्यते सेव्यते इति कर्मार्थत्वेन दृढभक्तिरित्यादि भवति । भावसाधनायां तु दृढभक्तिर्भवत्येव' इत्याह । तदेत- त्सर्वमस्माभिः कालिदासत्रयसंजीविन्यां 'दृढभक्तिरिति ज्येष्टे' (रघुवंशे १२।१९) इत्यादिषु विवेचितम् । तस्माद्विकासिभक्तिभिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वे नपुंसकत्वे च रूपसिद्धिरस्तीति सिद्धम् ॥ २४ ॥

 गतयोरभेदमिति सैन्ययोस्तयोरथ भानुजह्नुतनयाम्भसोरिव ।
 प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥२५॥

 गतयोरिति ॥ इति इत्थं गतयोः सैन्ययोः भानुजह्वतनये यमुनाजाह्नव्यौ तयोरम्भसी प्रवाहौ तयोरिवाभेदमैक्यं गतयोः सतोः । 'यस्य च भावेन भाव- लक्षणम्' (२।३।३७) इति सप्तमी । एतेन सैन्ययोरवार्यत्वमुक्तम् । अथ सैन्य- मेलनानन्तरम् । आनकैर्मङ्गलदुन्दुभिभिः परमया मुदेव हर्षेणेवेत्युत्प्रेक्षा । प्रति- नादितानि प्रतिध्वनितान्यमरविमानानि द्रष्टुमागत्याम्बरस्थितानि विमानानि देव- यानानि यस्मिन्कर्मणि तद्यथा तथा नितरां दध्वने ध्वनितम् । भावे लिट् ॥२५॥

 मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
 उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥२६॥

 मखमिति ॥ क्षितिपतेर्धर्मराजस्य मखं क्र्ततुमीक्षितुमुपेयुषां ततस्तत आग- तानां भूभृतां राज्ञां बलैः सैन्यैः बहिः परितः प्रकल्पितानि निर्मितानि निकेत- नानि निवासा यस्य तदत एवोपरुध्यमानं शत्रुसेनावेष्ट्यमानमिव स्थितमित्यु- त्प्रेक्षा । पुटभेदनं पत्तनं मयकृतमिन्दप्रस्थम् । 'पत्तनं पुटभेदनम्' इत्यमरः । दनुसुतारिर्दानवहन्ता हरिः पुरोऽग्रे ऐक्षतापश्यत् ॥ २६ ॥

 प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
 रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः २७

 प्रतीति ॥ प्रतिनादैः प्रतिध्वानैः पूरितं व्यासं दिशामन्तरमन्तरालं येन सः पुरगोपुरं पुरद्वारं प्रति । 'गोपुरं तु पुरद्वारि द्वारमात्रे नपुंसकम्' इति विश्वः । एवं च न परशब्दस्य पौनरुक्त्यशङ्का । पतन धावन् स सैन्यसागरः सेनासमुद्रः हिमाचलगुहामुखस्योन्मुखोऽभिमुखः सुरसिन्धोर्गङ्गाया अयं सौरसैन्धवः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (७।३।१९) इत्युभयपदवृद्धिः । पयसां प्रवाह इव रुरुचे रेजे । उपमालंकारः ॥ २७ ॥

 असकृट्टहीतबहुदेहसंभवस्तदसौ विभक्तनवगोपुरान्तरम् ।
 पुरुषः पुरं प्रविशति स पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः २८

 असकृदिति ॥ असकृद्धहुशो गृहीतो लोकधारणाय स्वीकृतो बहुषु देहेषु मत्स्यकूर्मादिषु शरीरेषु संभवः प्रादुर्भावो येन सः, अन्यत्र स्वकर्मणा प्राक्तनयोनिसंबन्धरूपसंभव इत्यर्थः । असौ पुरुषः पुराणपुरुषो हरिर्जीवश्च विभक्तानि नवानि प्रत्यग्राणि गोपुरान्तराणि द्वारविशेषा यस्य तत् , अन्यत्र नवसंख्याकानि गोपुरान्तराणीन्द्रियद्वारभेदा यस्मिंस्तत् पुरं पत्तनं शरीरं च । 'पुरं पुरि शरीरे च' इति विश्वः । पञ्चभिरिन्द्रियैः सममिव पञ्चभिर्नरेन्द्रसूनुभी राजपुत्रैः पाण्डवैः सहासौ हरिस्तत्पुरं प्रविशति स्म । जीवो हि देहादेहान्तरं पूर्वेन्द्रियैः सह प्रवि- शति । लिङ्गशरीरस्यानपायादिति भावः । श्लेषसंकीर्णेयमुपमा ॥२८॥

 तनुभि स्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।
 प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः॥२९॥

 तनुभिरिति ॥ यत्र पुरे नराः पुरुषाः त्रिनेत्रख्यम्बकः । 'पूर्वपदात्संज्ञायाम- गः' (८।४।३) इति णत्वं तु रघुनाथादिवण्णत्वरहितस्य संज्ञात्वे न प्रवर्तते । तस्य नयनेनानवेक्षितस्य स्मरविग्रहस्य द्युतिरिव द्युतिर्यासां ताभिस्तनुभिमूर्तिभिः । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः। अद्युतन् द्योतन्तेऽस्म । 'द्युत दीप्तौ' 'द्युभ्द्यो लुङि' (१।३।९१) इति विकल्पात्परस्मैपदं । 'पुषादि' (३।११५५) सूत्रेण च्लेरङादेशः । प्रमदाः स्त्रियश्च राज्ञश्चन्द्रस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । 'राजानं यक्ष्मा आरत्' इति श्रवणात् । 'राजयक्ष्मा क्षयः शोथः' इत्यमरः । तस्मात्परतः । पूर्वमित्यर्थः । निशाकरवन्मनोरमैः । अक्षीणेन्दुसुन्दरैरित्यर्थः । मुखैरद्युतन् । तत्पुरं प्रविष्ट इति पूर्वेणान्वयः । उपमयोः संसृष्टिः ॥ २९ ॥

 अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
 अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोपितः॥३०॥

 अवलोकनायेति ॥ अथ हरेः पुरप्रवेशानन्तरं पटहप्रणादैर्दुन्दुभिध्वनिभिर्विहितोपहूतयः । कृताह्वाना इवेत्यर्थः । पुरे भवाः पौरास्तेषां योषितः पौरयोषितः । स्त्रियाः पुंवद्भावः । सुरद्विषामसुराणां द्विषो हरेरवलोकनाय दर्शनार्थमवधीरितान्यकरणीयास्त्यक्तान्यकार्याः ताश्च ताः सत्वराश्च ताः सत्यः रथ्यां प्रति प्रतिरथ्यम् । यथार्थेऽव्ययीभावः । ईयुः प्राप्ताः । एतेन स्त्रीणां हरिविलोकने कालाक्षमत्वलक्षणमौत्सुक्यमुक्तम् । अत्र पौराङ्गनाप्राप्तेः प्रवेशवाद्यश्रवणानन्तर्यात्तदुपाह्वानोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ ३० ॥

 अथाष्टादशभिः पौराङ्गनाशृङ्गारचेष्टां वर्णयति-

 अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः।
 दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः॥३१

 अभीति ॥ सामिकृतमण्डनमर्धविरचितप्रसाधनं यथा तथा यतीर्गच्छन्तीः । इणः शतरि ङीप् । कररुद्भनीवीनि करगृहीतग्रन्थीनि गलदंशुकानि स्रंसमानपरिधानानि यासां ताः । लसदिति पाठान्तरं तदा लसदुल्लसदित्यर्थः । अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीययोः' इति शब्दार्णवे । स्त्रियः स्त्रीरभिवीक्ष्य सौधपङ्क्तयः यः अधिभित्ति भित्तिषु । भक्त्यर्थेऽव्ययीभावः । पटहप्रतिस्वनैस्तूर्यप्रतिध्वनिभिः स्फुटमुद्गतमट्टहासमुच्चैर्हसितमिव दधिरे इवेत्युत्प्रेक्षा । विकृतिदर्शनाद्धासो भवतीति भावः । अत्र कुतूहलाख्या चेष्टोक्ता । 'कुतूहलं रम्यदृष्टौ चापल्यं परिकीर्तितम्' इति लक्षणात् ॥ ३१ ॥

 रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।
 परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः॥३२॥

 रभसेनेति ॥ रभसेन त्वरया हारपदे मुक्तादामस्थाने वक्षसि दत्तकाञ्चयो न्यस्तरशनाः प्रतिमूर्धजं मूर्धजेषु केशेषु । विभक्त्यर्थेऽव्ययीभावः । विहिताः कर्णपूरकाः कर्णावतंसा याभिस्ताः । परिवर्तितं विपर्यासेन धृतमम्बरयुगं उत्तराधरवाससी याभिस्ताः । परिधानीकृतमुत्तरीयं कुचांशुकं च जघने दत्तमित्यर्थः । वलयीकृताः कंकणीकृताः श्रवणपूरकाः कुण्डलानि याभिस्ताः स्त्रियः समापतन्नधावन् । एतेन विभ्रमाख्या चेष्टोक्ता । 'विभ्रमस्वरया काले भूषास्थानविपर्यये' इति लक्षणात् । स च भ्रममूल इति भ्रान्तिमदलंकारो व्यज्यते ॥ ३२॥

 व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।
 द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ॥३३॥

 व्यतनोदिति ॥ काचन स्त्री रसवशेन हरिवीक्षणपारतन्त्र्येण । 'गुणे रागे द्रवे रसः' इत्यमरः । प्रसाधिकाया अलंकर्त्र्याः करपल्लवाञ्चरणमपास्य असमाप्तावेवाक्षिप्य । हरार्धतां हरस्यार्धाङ्गतां गता । अन्यथैकपादालक्तकासंभवादिति भावः । गिरिजा गौरीव । द्रव(द्रुत)यावकेनालक्तकेन एकपदेन चित्रिता चित्रवर्णीकृता अवनिर्यस्यास्तां पदवीं व्यतनोदकरोत् । उपमालंकारः । एषापि कुतूहलाख्या चेष्टा रम्यदिदृक्षाजनितचापलरूपत्वादिति ॥ ३३ ॥

 व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।
 भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥३४॥

 व्यचलन्निति ॥ विशङ्कटानां विशालानां कटीरकस्थलीनां कटिभागानां शिखरेष्वग्रेषु स्खलन्त्यो लुठन्त्योऽत एव मुखराः शब्दायमानास्ताभिर्मेखलाभिराकुलाः तुङ्गेषु तपनीयसंक्रमेषु कनकसोपानेषु क्रमणेन क्वणन्तः कनकनूपुरा यासां ताः स्त्रियः भवनानि हर्म्याणि व्यचलन् । तत्र गत्वारोहन्नित्यर्थः । चलेर्गत्याल्लङ् । एतदपि पूर्ववदतिकुतूहलमेव । वृत्त्यनुप्रासोऽलंकारः ॥ ३४ ॥

 अधिरुक्ममन्दिरगवाक्षमुल्लसत्सुदृशो रराज मुरजिद्दिदृक्षया ।
 वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ॥३५॥

 अधीति ॥ मुरजितो हरेर्दिदृक्षया द्रष्टुमिच्छया । दृशेः समन्तात् 'अ प्रत्य- यात्' (३।३।१०२) इति स्त्रियामप्रत्यये टाप् । रुक्ममन्दिरस्य कनकहर्म्यस्य गवाक्षे- ऽधिरुक्ममन्दिरगवाक्षम्। विभक्त्यर्थेऽव्ययीभावः। उल्लसत्प्रकाशमानं सुदृशः स्त्रिया वदनारविन्दमुदयाद्रेः कन्दराया गुहाया विवरस्योदरे मध्ये स्थितमिन्दुमण्डलमिव रराजेत्युपमा । अत्रापि सुदृशो गवाक्षाक्रमणस्य रम्यदर्शनार्थचापलरूपत्वात्कुतूहलं मुरजिद्दिदृक्षयेत्यादिना व्यक्तमेव ॥ ३५ ॥

पाठा०-१ 'व्यगलन्'. २ गलेः'.

 अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
 विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत्॥३६॥

 अधीति ॥ उच्चकैर्निजनिकेतं स्वसौधमधिरूढया आरूढवत्या पवनेनावधूतः कम्पितो वसनान्तो वस्त्राञ्चलो यस्यास्तया एकया कदाचिदङ्गनया हेतुना तन्नगरमिन्द्रप्रस्थं माधवे उपयात्यागच्छति । यातेर्लटः शत्रादेशः। पताकया वैजयन्त्या विहितोपशोभं कृतशोभमिवालंकृतमिवेत्युत्प्रेक्षा । व्यरोचत व्यराजत । कृत्स्नस्यापि नगरस्य स्वयं पताकेव बभावित्युत्प्रेक्षा । तस्याः सकलपौराङ्गनातिशायि लावण्यं व्यज्यत' इत्यलंकारेण वस्तुध्वनिः । अत्रापि प्रासादारोहणं पूर्मवत्कुतूहलमेव ॥३६॥

 करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् ।
 अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥३७॥

 करेति ॥ प्रतिवेश्म वेश्मनि । विभक्त्यर्येऽव्ययीभावः । अङ्गनाः पुरंध्र्यः । करयुग्मान्यञ्जलयस्तानि पद्ममुकुलानीवेत्युपमितसमासः । तैरपवर्जितैरावजितैरत एवावदीर्णैर्विभिन्नैः शुक्तिपुटैः शुक्तिकोशैर्मुक्ता उत्सृष्टा ये मौक्तिकप्रकरा मुक्तानिकरास्तैरिव स्थितैरित्युत्प्रेक्षा । लाजाः, कुसुमानीव तैर्लाजकुसुमैः । आचारलाजैरित्यर्थः । प्रियं रथाङ्गं चक्रं यस्य तं प्रियरथाङ्गं चक्रिणम् । हरिमित्यर्थः । अवाकिरन व्याक्षिपन् , मङ्गलार्थमित्यर्थः ॥ ३७॥

 हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः।
 अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ३८

 हिमेति ॥ हिममुक्तः शिशिरापगमाद्धिमान्निर्मुक्तो यश्चन्द्रः स इव । रुचिः, अन्यत्र तेन रुचिरः । पद्मेन, पद्मया च सह वर्तत इति सपद्मः स एव सपद्मकः पद्महस्तः, सश्रीकश्च । शैषिकः स्वार्थिको वा कप् प्रत्ययः । अन्यत्र सपङ्कजः । शैषिकः कप्प्रत्ययः । द्विजान्ब्राह्मणान् , अन्यत्र पक्षिगणान् कोकिलादीन् मदयन् हर्षयन् जनितमीनकेतनः प्रद्युम्नजनकः, अन्यत्र मदनोद्दीपक इत्यर्थः । प्रसादिता अनुगृहीताः सुरा देवा येन सः । अन्यत्र प्रसादिता निर्मलीकृता सुरा मदिरा यस्मिन् स माधवो हरिर्वसन्तश्च । 'माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । प्रमदैव जनस्तस्य प्रमदाजनस्य । जातावेकवचनम् । चिराय महोत्सवोऽभवत् । तद्वदानन्दकरोऽभूदित्यर्थः । इहानन्दकरत्वसाम्येन माधव महोत्सवरूपणाद्रूपकसिद्धिः । श्लेषस्तु हरिवसन्तयोरिह नास्त्येव । प्रकृताप्रकृतश्लेषे विशेष्यश्लेषायोगात् । किंतु शब्दशक्तिमूलो ध्वनिरेव ॥ ३८ ॥

 धरणीधरेन्द्रदुहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति ।
 मदनेन वीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः॥

 धरणीति ॥ असौ स्वदाहको विषमेक्षणस्त्र्यक्षः धरणीधरेन्द्रदुहितुः पार्वत्याः सपत्नीशङ्किन्या इति भावः । 'भीत्रार्थानां भयहेतुः' (१।४।२५) इति पञ्चमी भयात्स्फुटं सत्यं अमूः पौरयोषितः न पश्यतीति हेतोरिति विश्वासादित्यर्थः । अत एव गम्योत्प्रेक्षा । मदनेन वीतभयमधिष्ठिता आक्रान्ताः अत्यारूढमदना इत्यर्थः । पुरोविलासिनीः स हरिः क्षणमीक्षते स्म । सविस्मयमिति भावः ॥ ३९॥

 विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
 मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥४०॥

 विपुलेनेति ॥ युगक्षये कल्पान्ते । सागरे शेते इति सागरशयस्य । 'अधिक- रणे शेतेः' (३।२।१५) इत्यच्प्रत्ययः । 'शयवासवासिष्वकालात्' (६।३।१८) इति विकल्पादलुगभावः । यस्य हरेर्विपुलेन कुक्षिणा भुवनानि पपिरे पीतानि । पिबतेः कर्मणिं लिट् । स हरिरेकतमया पुरस्त्रिया पुनः कयाचित्पौराङ्गनया मदविभ्रमेण मदविकारेणासकलया असमग्रया एकया दृशा पपे पीतः । सतृष्णं दृष्ट इत्यर्थः । कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेर्महत आधेयस्यात्यल्पतरैककान्ताक- टाक्षकोणाधारत्वोक्त्या चमत्कारोधिकालंकारः । 'आधाराधेययोरानुरूप्याभावोsधिको मतः' इति लक्षणात् । अयं च तात्कालिकविकारात्मा विलासाख्यो भावो यत्कटाक्षवीक्षणम् । 'तात्कालिको विशेषः स्याद्विलासोऽङ्गक्रियादिषु' (२।३०) इति दशरूपकात् ॥ ४० ॥

 अधिकोन्नमद्धनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
 अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥४१॥

 अधिकेति ॥ काचन काचित् कान्ता अभिकृष्णं कृष्णाभिमुखम् । आभिमुखेऽव्ययीभावः । अधिकं भुजोन्नमनाभृशमुन्नमन् घनः कठिणः पयोधरः स्तनो यस्याः सा मुहुः प्रचलतो नृत्यतः कलापिनो बर्हिण इव कलो मधुरः शङ्खकस्वनो वलयध्वनिर्यस्याः सा सती । 'शङ्खकं वलये कम्बौ' इति विश्वः । अङ्गुलिमुखेनानाङ्गुल्यग्रेणैकस्य कर्णस्य विवरं रन्धं द्रुतं शीघ्रं व्यघट्टयत् । कण्डूविनोदार्थमिवाताडयत् । वस्तुतस्तु भावाविष्करणार्थमेवेति भावः । अयं च पूर्ववद्विलास एव । कलापिकलेत्युपमा॥४१॥

 परिपाटलाजदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
 सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥४२॥

 परीति ॥ अपरा स्त्री परिपाटलाजदलचारुणा रक्ताब्जपत्ररुचिरेण असकृ- न्मुहुश्चलितान्यङ्गुल्यः किसलयानीवाङ्गुलीकिसलयानि यस्य तेन पाणिना सशिरः- प्रकम्पं शिरःकम्पयुक्तं यथा तथा मधो रिपुं हरिमनुदीर्णवर्णमनुच्चारिताक्षरम् अत एव निभृतार्थं परेषामप्रकाशितार्थं च यत्तदनुदीर्णवर्णनिभृतार्थं यथा तथा आह्वयत् । परप्रकाशनभयादव्याहरन्ती चेष्टयैवाह्वानं कृतवतीत्यर्थः । अत्रापि पूर्ववद्विलासोपमे भावालंकारौ ॥ ४२ ॥

 नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना।
 स्फुरदङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥ ४३ ॥

 नलिनेति ॥ अपरा स्त्री नलिनान्तिके उपहितस्य पल्लवस्य श्रीरिव श्रीर्यस्य तेन । मुखसंनिधानादिति भावः । एकपाणिना चारु निसर्गसुन्दरं मुखं व्यवधाय तिरोधाय स्फुरदङ्गुलीविवरनिःसृता उज्वलाङ्गुल्यन्तरालनिर्गता अत एवोल्लसन्त उत्सर्पन्तो दशनप्रभा एवाङ्कुरा यस्मिन्कर्मणि तद्यथा यथा अजृम्भत । जृम्भमाणस्य विवरणं तच्चेष्टवस्तुसाक्षात्कारकृतजाड्यानुभावः । अत्र नलिनपल्लवयोरसंबन्धयोः संभावनया संबन्धाभिधानादतिशयोक्तिः ॥ ४३ ॥

 वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना ।
 हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥४४॥

 वलयेति ॥ हरिवीक्षणेऽक्षणिकचक्षुषा स्थिरदृष्ट्या । विस्मयादराभ्यां स्तिमितनेत्रयेत्यर्थः । अन्यया स्त्रिया गलत्सुखपारवश्यात्स्रंसमानमम्बरं वलयेष्वर्पिताः खचिता ये असितमहोपला नीलमहामणयः । 'उपलौ मणिपाषाणौ' इति विश्वः । तेषां प्रभाभिर्बहुलीकृता सान्द्रीकृता प्रतनुः सूक्ष्मा रोमराज़िर्यस्य तेन करपल्लवेन दधे धृतम् । अयं च तात्कालिकविहारलक्षणविलासः । अत्रेन्द्रनीलप्रभाणां रोमावलीबहुलीकरणोक्त्या प्रभास्वपि रोमराजित्वप्रतीतेर्भ्रान्तिमदलंकारो व्यज्यते इति वस्तुनालंकारध्वनिः ॥ ४४ ॥

 निजसौरभश्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणा ।
 अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत॥४५॥

 निजेति ॥ काचित्स्त्री निजेनात्मीयेन सौरभेण सौगन्ध्येन भ्रमितानां भ्रमणं कारितानां भृङ्गाणां पक्षतयः पक्षमूलानि । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' (५।२।१५) इति तिप्रत्ययः । ता एव व्यजनानि इति रूपकं स्वेदहरण- लिङ्गात् । तासामनिलेन क्षयितं नाशितं घर्मवारि स्वेदोदकं यस्य तेन अभिशौरि शौरेरभिमुखम् । आभिमुखेऽव्ययीभावः । अनिमेषा दृष्टिर्यस्य तेन वपुषा निमित्तेन पुरदेवतेव इन्द्रप्रस्थाधिदेवतेव व्यभाव्यत विभाविता । तर्कितेति यावत् । अनिमेषत्वं चेष्टदर्शनजन्यजाड्यसंचार्यनुभावः । 'अप्रतिपत्तिर्जडता स्वादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादयस्तत्र ॥' इति लक्षणात् । इहाङ्गसौरभानिमेषत्वाभ्यां पुराधिवासाच्च पुराधिदेवतात्वमुत्प्रेक्ष्यते इत्युपात्तगुणनिमित्ता जातिस्वरूपोत्प्रेक्षा । तया चास्या जात्याः पद्मिनीत्वं व्यज्यते इत्यलंकारेण वस्तुध्वनिः । निजसौरभेत्यनेन 'कमलमुकुलमृद्वी फुल्लराजीवगन्धिः सुरतवयसि यस्याः सौरभं दिव्यमङ्गम्' इत्यादिपद्मिनीलक्षणोपलक्षणादिति । विपुलेनेत्यादिश्लोकोक्ताः षडपि नायिकाः प्रौढाः साधारणाश्च तत्र त्रासासंभवात् । अन्यथासां कृतचेष्टावर्णनानौचित्याच्चेत्यलमतिप्रपञ्चेन ॥ ४५ ॥

 अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
 न विवेद यः सततमेनमीक्षते न वितृष्णतां ब्रजति खल्वसावपि ४६

 अभियातीति ॥ असौ नितम्बिनीजन: स्त्रीजनो नोऽस्माकं चक्षुषः सतृष एव सतृष्णस्यैव सतश्चक्षुषि सतृष्णे सत्येव । अनादृत्येत्यर्थः । षष्ठी चानादरे (२।३। ३८) इति षष्ठी । एष हरिरभियात्यभिगच्छतीत्यखिद्यत खेदं गतः । खिदेर्दैवादिकात्कर्तरि लुङ् । अत्रोत्प्रेक्ष्यते-नेति । यो जन एनं हरिं सततमीक्षते असावपि खलु वितृष्णतां न व्रजति न समुपैतीति न विवेद । नित्यदर्शनेऽप्यपूर्ववदेव भवतीति नाबुध्यतेत्यर्थः । वेद चेन्नाखिद्येतेति भावः । अत्राखिद्यतेति स्त्रीणां प्रारब्धहरिवीक्षणसुखविच्छेदकृतविषादाख्यसंचारिभावनिबन्धनात्प्रेयोलंकारः तदुत्थापिता चेयमुक्तावेदनोत्प्रेक्षेति संकरः । 'प्रारब्धकार्यासिध्यादेर्विषादः सत्त्वसंक्षयः' इति दशरूपके (४३१) । सत्त्वसंक्षयश्चित्तभङ्गः ॥ ४६ ॥

 अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।
 गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ४७

 अकृतेति ॥ अङ्गनाजनः अच्युतेन सह गतं मनः प्रतिपालयन् प्रतीक्षमाण इवेत्युत्प्रेक्षा । शून्यतां निरोजस्कतां गतः । अकृतस्वसद्मगमनादरः निवृत्तनिज- गृहप्राप्त्यपेक्षश्च सन् लिपिकर्मनिर्मितः चित्रलिखित इवेत्युत्प्रेक्षा । क्षणं व्यतिष्ठत विस्पन्दमास्तेत्यर्थः। 'समवप्रविभ्यः स्थः' (१॥३॥२२) इत्यात्मनेपदम् । अतः शून्यतानुभावाञ्चिन्तावगम्यते । 'ध्यानचिन्ते हितानाप्तेः शून्यताश्वासतापकृत्' इति दशरूपके' (४।१६) । अत्रोत्प्रेक्षयोः सापेक्षत्वात्संकरः ॥ ४७ ॥

 अलसैर्मदेन सुदृशः शरीरकैः खगृहान्प्रति प्रतिययुः शनैःशनैः ।
 अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥४८॥

 अलसैरिति ॥ अलघु अधिकं प्रसारितैर्विलोचनैरेवाञ्जलिभिः द्रुतं सत्वरम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । पीतो यो माधवो हरिरेव रसोऽमृतम् । अन्यत्र 'मधु मद्यं तत्संबन्धि रसो माधुर्यं माधवरसः । 'रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥' इति वैजयन्ती । तस्यौधः समूहस्तेन निर्भरैर्दुभरैः । गुरुभिरिति यावत् । अत एव मदेनालसैर्मन्थरैः शरीरकाणि । अल्पशरीराणीत्यर्थः । 'अल्पे' (५।३।८५) इति परिमाणे कन्प्रत्ययः । तैरुपलक्षिताः सुदृशः शनैःशनैः स्वगृहान्प्रति प्रतिययुः प्रतिनिर्गताः। स्वयं लघून्यपि द्रव्याणि रसद्रवभरणाद्गुरु भवन्तीति भावः । अत्र माधवरसौघनिर्भरत्वविशेषणगत्या शनैःशनैः प्रतियानहेतुत्वात्कार्यहेतुकं काव्यलिङ्गं, तच्च माधवरसेनेति श्लेषमूलातिशयोक्त्युत्थापितमिति संकरः ॥ ४८ ॥

 नवगन्धवारिविरजीकृताः पुरो घनधूपधूमकृतरेणुविभ्रमाः ।
 प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ४९

 नवेति ॥ अथ पुरप्रवेशानन्तरं हरिणा पुरः पूर्वं नवगन्धवारिभिः नूतनगन्धवासितोदकैर्विरजीकृता अविरजसो विरजसः संपद्यमानाः कृताः । 'अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च' (५।४।५१) इत्यभूततद्भावे च्विप्रत्यये सकारलोपः । 'अस्य च्वौ' (७।४।३२) इतीकारः । घनैः सान्द्रैः धूपानामगुरुधूपानां धूमैः कृतो रेणुविभ्रमो रजोभ्रमो याभिस्ताः प्रचुरं बहुलमुद्धतेषूच्छूितेषु ध्वजेषु ध्वजस्तम्भेषु विलम्बीनि विलम्बमानानि वासांसि पताका यासु ताः पुरवीथयोऽतिपेतिरेऽतिपातिताः । अतिक्रान्ता इत्यर्थः । पतेः कर्मणि लिट् । एत्वाभ्यासलोपौ । अत्र सादृश्याद्भूरेणुभ्रान्त्या भ्रान्तिमदलंकारः । रेणुविभ्रमशब्देन रजोविलासस्यापि प्रतीतेस्तस्य विरजीकरणेन विरोधाद्विरोधाभासश्चेत्यनयोरेकवाचकानुप्रवेशलक्षणः संकरः॥४९॥

 उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।
 विदधेऽवधूतसुरसमसंपदं समुपासदत्सपदि संसदं स ताम् ॥५०॥

 उपनीयेति ॥ मयेनासुरशिल्पिना वृषपर्वा नाम कश्चिदसुरेश्वरः वृषपर्वण इदं वार्षपर्वणम् । 'तस्येदम्' (४।३।१२०) इत्यण् । चारु मनोहरं मणिरेव दारु काष्ठम् । मणिमयं स्तम्भादिकलापमित्यर्थः । तद्विन्दुसरसो हैमवतात्सरोविशेषादुपनीय समीपमानीय । किलेत्यैतिह्ये । या संसद्विदधे निर्मिता । अवधूताधरीकृता सुरसद्मसंपदिन्द्रभवनलक्ष्मीर्यया सा तां संसदं सभाम् 'सभासमि- तिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । स हरिः सपदि समुपासदत्प्रापत् । सदेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । पुरा किल खाण्डवदाहे पाण्डवेनाग्निदाहान्मोचितेन मयेन प्रत्युपकारार्थं पूर्वमात्मनैव बिन्दुसरसि गुप्तेन वृषपर्वगृहनिर्माणावशिष्टेन मणिशिलाकलापेन काञ्चनसभा धर्मराजाय निर्मितेति भारते । सभावर्णनाङ्गत्वेनार्जुनमयचरितवर्णनादुदात्तालंकारः । 'प्रभूतमहापुरुषचिन्तनं चेति सूत्रम् ॥ ५९॥ अथ दशभिः सभां वर्णयति-

 अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ ।
 पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः॥५१॥

 अधीत्यादि ॥ अधिरात्रि रात्रिषु । विभक्त्यर्थेऽव्ययीभावः । यत्र सभायां नभोलिहामभ्रंलिहाम् । क्विप् । कलधौतं रौप्यम् । 'कलधौतं रूप्यहेम्नोः' इत्यमरः । तद्वद्धौता धवलाः शिला येषां तानि वेश्मानि । स्फटिकभवनानीत्यर्थः । तेषां रुचौ प्रभायां निपतन् प्रविशन् । अनिदाघदीधितिरनुष्णरश्मिर्हिमांशुः । पुनरपि दुग्धवारिधौ क्षीराब्धौ क्षणं गर्भवासम् । न तु मथनात्प्रागिव चिरगर्भवासमिति भावः । अवापत्प्रापदिवेत्युत्प्रेक्षा । तया वेश्मनां चन्द्रमण्डलातिक्रमो व्यज्यते ॥ ५१ ॥

 लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
 जमदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ॥५२।।

 लयनेष्विति ॥ लीयते एष्विति लयनानि तेषु लयनेषु गृहेषु शितिरत्नानां नीलमणीनां रश्मिभिः हरितीकृतानि हरितवर्णीकृतान्यन्तराणि मध्यानि यासां ताः पाठा०-१ वारिधेः'. २ वारिधेः= क्षीराब्धेः'. 6 लोहितमणयो लोहितकाः पद्मरागाः । 'लोहितान्मणौ' (५।४।३०) इति कन्प्रत्ययः । तैर्निर्मिता या भुवो भूमीर्विरलाः शैवला यासु ताः जमदग्निसूनोः परशुरामस्य पितॄणां तर्पणीस्तृप्तिकरीरप इवेत्युपमा । या सभा वहति स्म । जामदग्न्यः क्षत्रियास्त्रैः पञ्चशो ह्रदानुत्पाद्य ताभिरद्भिः पितॄनतर्पयत्, ताश्च रुधिरप्रकृतिकत्वाद्रक्तवर्णा एवेति पुराणम् ॥ ५२ ॥

 विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचैकतां गताः।
 गृहपतयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥५३॥

 विशदेति ॥ किंचेति चार्थः । यत्र सभायां विशदाश्मकूटघटिताः स्फटिकशिलासंघातनिर्मिता अत एव क्षणदासु निशासु क्षपाकृतो निशाकरस्य रुचा चन्द्रिकयैकतां सावर्ण्यादभेदं गताः अत एव तमसीव हस्तपरिमर्शसूचिताः। पाणिस्पर्शैकगम्या इत्यर्थः । गृहपङ्क्तयो जनैश्चिरमतीयिरेऽतिक्रान्ताः। पुरोगतान्यपि स्फटिकभवनानि चन्द्रिकाभ्रमादतीत्य गत्वा पश्चात्करपरामर्शैः कथंचित्प्राप्यन्त इत्यर्थः । अत्र प्रकृतानां स्फटिकवेश्मनां गुणसाम्यादप्रस्तुतचन्द्रिकैक्योक्त्या सामान्यालंकारः। 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ ५३ ॥

 निलयेषु नक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्फुटागसः ।
 मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जघ्निरे ५४

 निलयेष्विति ॥ यत्र सभायां निलयेषु नक्तं रात्रौ बिसिन्यो दीर्घिकाः पद्मिन्यस्ता एव वध्वस्तासां परिभवेन निमीलनेन दूषणेन च स्फुटागसः स्पष्टापराधाः शशलाञ्छनांशवश्चन्द्रपादाः। अत्रसद्धिरत्रस्यद्भिरपि, निर्दोषैरपि इति चार्थः । 'त्रासो भीर्मणिदोषयोः' इति विश्वः । 'वा भ्राश-' (३।१|७०) इत्यादिना श्यनभावपक्षे शतृप्रत्ययः । असिताश्मनामिन्द्रनीलमणीनां चयैः समूहैः गौरवात्स्वयं प्रभूतत्वात्, संभावितत्वाच्च उपांशु अंशुसमीपे, रहश्च । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । मुहुर्जघ्निरे तिरोहिताः, मारिताश्च । हन्तेः कर्मणि लिट् । समीपगताश्चन्द्रांशवः प्रभूतैरिन्द्रनीलांशुभिस्तिरस्कृता इत्यर्थः । अन्यत्रान्तःपुरद्रोहिणो निर्भीकैरपि संभावितैर्दुष्कीर्तिभयाद्गूढं हन्यन्त इति भावः । अत्र बिसिनीनां वधूत्वरूपणात्तत्परिभाविनां चन्द्रांशूनां धूर्तकामुकत्वरूपणप्रतीतेरेकदेशविवर्तिरूपकं तच्च गौरवादुपांशु जघ्निरे इति च श्लेषणात्रसद्भिरपीति विरोधेन च संकीर्यते ॥ ५४॥

 सुखिनः पुरोऽभिमुखतामुपागतः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
 नवसंगमैरविभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥ ५५॥

 सुखिन इति ॥ यत्र सभायां नवः संगमो येषां तैर्नवसंगमैरत एव त्रपाभरेण पराङ्मुखैर्विमुखैरपि गृहाणां रत्नभित्तिषु प्रतिमासु तत्संक्रान्तप्रतिबिम्बेषु पुरोऽग्रेऽभिमुखतामुपागतैः प्रियाजनैः कान्ताजनैः सुखिनो भोगिनः प्रमदं हर्षमबिभरुः बिभ्रति स्म । 'भृञो लङि 'श्लौ' (६।१|१०) इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' (३।४।१०९) इति झेर्जुसादेशः । स्त्रीणां वैमुख्येऽपि तत्प्रतिबिम्बाभिमुख्यात्पुंसां सुखमेव, स्त्रीणां तु उभयत्रापि क्लिष्टमित्यर्थः । अत्र वैमुख्येऽप्याभिमुख्यमिति विरोधस्य प्रतिमास्विति निरासाद्विरोधाभासोऽलंकारः ॥ ५५ ॥

 तृणवाञ्छया मुहुरवाश्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
 रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥५६॥

 तृणेति ॥ यत्र सभायां हरिताश्मनां मरकतमणीनां गृहाणाम् । 'गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः' इत्यमरः । निचयेषु सङ्घेषु तृणवाञ्छया तृणाशया मुहुरवाञ्चिताननान्नमितमुखान् अत एव रसनाग्रेषु लग्नाः किरणा अङ्कुरा इव येषां ते तान् । अत एव गृहीतकवलानुपात्ततृणग्रासानिव स्थितान् हरिणान् जन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि 'आडजादीनाम्' (६|४|७२) इत्याट् 'आटश्च' (६।१|९०) इति वृद्धिः । अत्र तृणवाञ्छयेति हरिणानां मरकतेषु तृणभ्रान्तेर्भ्रान्तिमदलंकारः । तन्मूला चेयं गृहीतकवलत्वोत्प्रेक्षेति संकरः ॥ ५६ ॥

 विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।
 यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ५७

 विपुलेति ॥ यदुपान्तिकेषु यस्याः सभाया उपान्तिकेषु समीपेषु महीरुहो वृक्षाः । विपुलेष्वालवालेषु मूलजलाधारेषु । 'स्यादालवालमावालम्' इत्यमरः । भृतानि संभृतानि वारीण्येव दर्पणास्तेषु प्रतिमागतैः प्रतिबिम्बतां गतैः । प्रतिबिम्बितैरित्यर्थः। आत्मभिः । स्वस्वमूर्तिभिरित्यर्थः । सपलाशराशिं सपत्रसंततिं मूलसंहतिं दधत इव दधाना इवाभिविरेजुः । स्वालवालेषु स्वप्रतिबिम्बितैरधोमुखैः मूलेष्वपि सपत्रा इव रेजुरित्युत्प्रेक्षा ॥ ५७ ॥

 उरगेन्द्रमूर्धरुहरत्नसंनिधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।
 अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥५८॥

 उरगेन्द्रेति ॥ उरगेन्द्राणां मूर्धसु रुहाणि रूढानि । इगुपधलक्षणः कः । तेषां रत्नानां संनिधेः संनिधानान्मुहुरुन्नतस्य । यदा यदा तत्संनिधिस्तदा तदोदितस्येत्यर्थः । पयोमुचो मेघस्य रसितैः स्तनितैर्यदङ्गणभुवो यस्याः सभायाः प्राङ्गणप्रदेशाः समुच्छ्वसन्तः प्रादुर्भवन्तो नवाः प्रत्यग्रा वालवायजमणिस्थलाङ्कुरा वैदूर्यभूप्ररोहा यासु तास्तथोक्ता अभवन् । 'वैदूर्यं वालवायजम्' इत्यमरः । वालवायो नाम वैदूर्यप्रभवो देशविशेषः । उरगेन्द्रमूर्धन्यरत्नाङ्कुरैः सहोदितमेघध्वनेर्विदूरभूमिरुद्भिन्नाङ्कुरा भवतीति प्रसिद्धिः । तदुक्तम्-'उरगमूर्धन्यरत्नसन्निधानादकालेऽपि मेघा गर्जन्तीति वार्ता' । केचित्तु यत्रैवोरगरतं मेघरसितं च तत्रैव वैदूर्यभूमिः । अत्र समृद्धिमद्वस्तुवर्णनादुदात्तालंकारभेदः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् ॥ ५० ॥

 नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
 अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ५९

 नलिनीति ॥ यत्र सभायां निगूढसलिला दलच्छन्नत्वाददृश्यसलिला नलिनी ।

वर्तत इति शेषः । या नलिनी सुष्टु युध्यत इति सुयोधने दुर्योधने । 'भाषायां शासियुधिदृशिधृषिभ्यो युच् वक्तव्यः' (वा०)। स्थलमिति भ्रान्त्या अधः पतति सति अनिलात्मजस्य भीमसेनस्य प्रहसनेनाट्टहासेनाकुलानां क्षुभितानामखिलक्षितिपानां क्षयागमे नाशप्राप्तौ निमित्ततां ययौ । नलिनीदलच्छन्नत्वात्सुयोधनस्य जले स्थलभ्रान्तिः तया तस्य पातस्तेन भीमसेनप्रहासस्तेन राज्ञां क्षोभस्ततस्तेषां मारणो रणः प्रवृत्त इति परम्परया तत्क्षयकारणत्वं गतेत्यर्थः । अत्र सभावर्णनाङ्गतया भीमसेनादिचरितवर्णनादुदात्तालंकारभेदः । लक्षणं चोक्तम् ॥ ५९ ॥

 हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।
 उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥६०॥

 हसितुमिति ॥ यत्र सभायां परितः परिस्फुरन्ती करवालकोमला असिश्यामा रुचिर्यस्यास्तस्यामिन्द्रनीलभुवि हसितुं परेण जानतान्येन जनेनोपेक्षितैः स्थलमेतत्, न जलमित्युपदिष्टैर्जनैरज्ञैरागन्तुकजनैर्जलशङ्कया जलभ्रान्त्या मुहुरमम्बरं वस्त्रमुदकर्षि नितम्बादुद्धृतम् । अत्रेन्द्रनीलस्थलसादृश्यात्सलिलभ्रान्तेर्भ्रान्तिमदलंकारः॥ ६०॥

 अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
 अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥ ६१ ॥

 अभित इति ॥ अथामलांशुमण्डलेन तेजःपुञ्जेन समुल्लसन्त्यौ भासमाने तनू मूर्ती ययोस्तौ नयननन्दनौ नेत्रानन्दकरौ हरिपाण्डवौ सदोऽभितः सभाभिमुखम् । 'अभितःपरित:-' (वा.) इति द्वितीया । रथात् शशिभार्गवौ अमलेत्यादिविशेषणविशिष्टौ शशिभार्गवौ चन्द्रशुक्रो नभोऽभितो नभोऽभिमुखमुदयाख्यात्पर्वतादुदयाचलादिव अवतरतुरवतीर्णवन्तौ । तरतेर्लिट् 'तॄफलभजत्रपश्च' (६।४।१२२) इत्येत्वाभ्यासलोपौ । उपमालङ्कारः ॥ ६१ ॥

 तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
 धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ६२

 तदिति ॥ अथो रथावतरणानन्तरं असौ हरिः नृपे युधिष्ठिरे आदरादित इत इत्यभिधातरि सति । इत इत आगम्यतामित्यभिदधाने सतीत्यर्थः । तत्पूर्वोक्तमलक्ष्यरत्नमयकुड्यं प्रभापटलव्याप्त्या अदृश्यरत्नभित्तिकम् । धवलेन शुभ्रेण रश्मिपटलेन मणिप्रभापुञ्जेनाविभावितप्रतिहारमलक्ष्यद्वारम् । 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । सदः सभां शनैराविशत्प्रविष्टवान् । अत्र कुड्यप्रतिहारयोरलक्ष्यत्वासंबन्धेऽपि तत्संबधोक्तेरतिशयोक्तिः ॥ ६२ ॥

 नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।
 गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदस्मयत नाकिनामपि ६३

पाठा०-१ 'बहुलेन'. २ 'बहुलेन=सान्द्रेण'.  नवेति ॥ अथ प्रवेशानन्तरं स हरिस्तत्र संसदि सभायां नवभिर्हाटकेष्टकाभिः हिरण्येष्टकाभिश्चितम् । “हिरण्यं हेम हाटकम्' इत्यमरः । 'इष्टकेषीकामालानां चिततूलभारिषु' (६॥३॥६५) इति ह्रस्वः । पक्वमृत्तिकाविशेषवाचकस्येष्टकाशब्दस्य तादृशि सुवर्णविकारे सुवर्णघटवदुपचारात्प्रयोगः । क्षितिपस्य युधिष्ठिरस्य पस्त्यं सदनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः । ददर्श । यत्सदनं गगनस्पृशामुच्चैस्तराणां मणिरुचां रत्नप्रभाणां चयेन समूहेन नाकिनां देवानामपि सदनान्युदस्सयताहसत् । स्मयतेरुत्पूर्वात्कर्तरि लङ् । अत्रापि नृपसदनस्य सुरसदनादाधिक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ६३ ॥

 उदयाद्रिमूर्ध्नि युगपञ्चकासतोर्दिननाथपूर्णशशिनोरसंभवाम् ।
 रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ६४

 उदयाद्रीति ॥ अथ नृपसदनदर्शनानन्तरमुदयाद्रेर्मूर्ध्नि शिखरे युगपच्चकासतोः प्रकाशमानयोः । 'चकासृ दीप्तौ' इति धातोर्लटः शत्रादेशः । दिननाथपूर्णशशिनोः सूर्यपूर्णचन्द्रमसोरसंभवां संभवरहिताम् । तयोस्तथाभूतयोर्यौगपद्यायोगादभूतपूर्वामित्यर्थः । रुचिं शोभां बिभ्रतौ नृपाच्युतौ रुचिरधाम्न्युज्वलतेजसि । अलघुनि विपुले आसने सिंहासने न्यषदतामुपविष्टौ । सदेर्लुङि 'पुषादि-' (३॥१॥५५) इति च्लेरङादेशः 'सदिरप्रतेः' (८|३|६६) इति षत्वम् । अत्र संभावनया अर्कपूर्णेन्दुशोभासंबन्धोक्तेरसंबन्धरूपातिशयोक्तिः ॥ ६४ ॥

 सुतरां सुखेन सकलक्लमच्छिदा सनिदाघमङ्गमिव मातरिश्वना ।
 यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलमाप नन्दथुम् ॥६५॥

 सुतरामिति ॥ तद्राजकुलं कुरुकुलम् । सकलक्लमच्छिदा सकलदुःखहारिणा यदुनन्दनेन कृष्णेन सनिदाघं ससंतापमङ्गं मातरिश्वना वायुनेव उदकान्यस्य सन्तीत्युदन्वानुदधिः । 'उदन्वानुदधौ च' (८।२।१३) इति निपातः । तस्य पयो जलं शशिनेव सुतरामत्यन्तम् । 'किमेत्तिङव्यय-' (५।४।११) इत्यामुप्रत्ययः । सुखेनाक्लेशेन नन्दथुमानन्दमाप । 'स्यादानन्दथुरानन्दः' इत्यमरः । 'ट्वितोऽथुच्' (३।३।८९) इत्यथुच्प्रत्ययः । मालोपमा ॥६५॥

  अनवद्यवाद्यलयगामि कोमलं
   नवगीतमप्यनवगीततां दधत् ।
  स्फुटसात्त्विकाङ्गिकमनृत्यदुज्ज्वलं
   सविलासलासिकविलासिनीजनः ॥ ६६ ॥

 अनवद्येति ॥ सविलासो विलासयुक्तो लासिकविलासिनीजनो नर्तकस्त्रीजनः सविलासलासिकविलासिनीजनः । 'नर्तकीलासिके समे' इत्यमरः । अनवद्यमगर्ह्यं यत् वाद्यं वंशादि तस्य लयः साम्यं गीतस्य समकालत्वं तद्गामि । द्रुतविलम्बादिमानानुवर्तीत्यर्थः । 'तालः कालक्रियामानं लयः साम्यम्' इत्यमरः । नवं गीतं यस्य तन्नवगीतं तथाप्यनवगीततां दधदिति विरोधेऽपिशब्दः । अविगर्हितत्वं दधदित्यविरोधाद्विरोधाभासः । 'अवगीतं तु निर्वादे मुहुर्गीतेऽविगर्हिते' इति विश्वः । सत्त्वमन्तःकरणं तेन निवृत्तं नृत्यं सात्त्विकम् । अङ्गं हस्तादि तेन निवृत्तमाङ्गिकम् । 'निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके' इत्यमरः । ते स्फुटे यस्मिंस्तत्तथोक्तम् । वाचिकस्याप्युपलक्षणमेतत् । यथाह भगवान्भरतः-'पदार्थाभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः' इति । अत एव कालिदासोऽपि 'अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्तमुपधाय दर्शयन्' (रघुवंशे १९॥३६) इति । कोमलं मधुरनृत्यमुज्ज्वलमुद्धतं चानृत्यत् । तथोक्तं दशरूपके-भावाश्रयं तु नृत्यं स्यान्नृत्तं ताललयाश्रयम् । आद्य पदार्थाभिनयो मार्गादेशी तथापरः ॥ मधुरोद्धतभेदेन तद्वयं द्विविधं पुनः । लास्यदण्डकरूपेण नाटकाद्युपचारकम् । 11 (१-९, १०) इति ॥ ६६ ॥

 सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।
 सततोत्सवं तदिति नूनमुन्मुदो रभसेन विस्मृतमभून्महीभृतः ६७

 सकल इति ॥ किंचेति चार्थः । स राजा हरौ कृष्णे गृहमागते सकले तत्र नगरे इन्द्रप्रस्थे । अकाले प्रसिद्धवसन्ताद्यतिरिक्ते काले । महमुत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । आदिदेशाज्ञापयामास । नूनमत्रोत्प्रेक्ष्यते-उन्मुदः कृष्णागमनादुत्कटानन्दस्य महीभृतो धर्मनन्दनस्य तन्नगरं सततमुत्सवा यस्मिंस्तत्सततोत्सवमिति एतद्भसेन त्वरया विस्मृतमभूत् । अन्यथा कथं कृतकरणोपदेश इति भावः ॥ ६७ ॥

 हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
 महतीमपि श्रियमवाप्य विस्मयः सुजनो न विसरति जातु किंचन॥

 हरिरिति ॥ किंचेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः । 'नामरूपे व्याकरवाणि' इति श्रुतेरिति भावः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारम् । आकुमारेभ्य इत्यर्थः । 'आङ्मर्यादाभिविध्योः' (२।१।१३) इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । 'बन्धुस्वस्वजनाः समाः' इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । 'वार्तं फल्गुन्यरोगे च' इत्यमरः । 'ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्' इति मनुस्मरणात् (२।१२७)। अन्वयुतापृच्छत् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । युजेः कर्तरि लङ् । तथा हि-महतीं श्रियं संपदमवाप्यापि विस्मयो निरहंकारः सुजनः अत एव जातु कदाचिदपि किंचन किमपि न विस्मरति । सुजनः संपन्नोऽप्यहंकारं न करोतीति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६८ ॥

  मर्त्यलोकदुरखापमवाप्तरसोदयं
   नूतनत्वमतिरक्ततयानुपदं दधत् ।


पाठा०-१ 'तत्र नगरे हरौ गृहान्गतवत्यकाल∙'. २ 'गृहान् गतवति स्वगृहानागते सति'.

३ '∙मतिरिक्त•'

  श्रीपतिः पतिरसाववनेश्च परस्परं
   संकथामृतमनेकमसिस्वदतामुभौ ॥ ६९ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के श्रीकृष्ण-
समागमो नाम त्रयोदशः सर्गः ॥ १३ ॥

 मर्त्येति ॥ उभौ श्रीपतिः कृष्णः असाववनेः पतिर्धर्मसुतश्च परस्परं मर्त्यलोकैर्मनुष्यलोकैर्दुरवापं दुर्लभमवाप्तरसोदयं प्राप्तरसोत्कर्षम् । स्वादूभवदित्यर्थः । अतिरक्ततयाऽतिस्निग्धतया अनुपदमनुक्षणं प्रतिवाक्यं च नूतनत्वमपूर्वतां दधत् अनेकं बहुलं संकथां संभाषणं चेदिराजजरासन्धवधादिकार्यचिन्तारूपं तदेवामृतं तदसिस्वदतां स्वादितवन्तौ । 'आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः' (नैषधीयचरिते ५।१२) इति भावः । स्वदतेर्णौ चङयुपधाया ह्रस्वः । संकथामृतमिति रूपकालंकारः स्वादनलिङ्गात् । रमणीयकं वृत्तम् । 'रान्नभद्वितयरैरुदितं रमणीयकम्' इति लक्षणात् ॥ ६९ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्यायां सर्वंकषाख्यायां त्रयोदशः सर्गः ॥ १३॥