श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४३

← अध्यायः ४२ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →


कुवलयापीडवधः; भगवतो मल्लशाखायां प्रवेशः; चाणूरेणसह संवादश्च -


श्रीशुक उवाच -
( अनुष्टुप् )
अथ कृष्णश्च रामश्च कृतशौचौ परन्तप ।
 मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १ ॥
 रङ्‌गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।
 अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥
 बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।
 उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥
 अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् ।
 नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४ ॥
 एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।
 चोदयामास कृष्णाय कालान्तक यमोपमम् ॥ ५ ॥
 करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् ।
 कराद् विगलितः सोऽमुं निहत्याङ्‌घ्रिष्वलीयत ॥ ६ ॥
 सङ्‌क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् ।
 परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥
 पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् ।
 विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥
 स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः ।
 बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९ ॥
 ततोऽभिमखमभ्येत्य पाणिनाऽऽहत्य वारणम् ।
 प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥
 स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।
 तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥ ११ ॥
 स्वविक्रमे प्रतिहते कुंजरेन्द्रोऽत्यमर्षितः ।
 चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ॥ १२ ॥
 तमापतन्तमासाद्य भगवान् मधुसूदनः ।
 निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥
 पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया ।
 दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४ ॥
 मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् ।
 अंसन्यस्तविषाणोऽसृङ्‌ मदबिन्दुभिरङ्‌कितः ।
 विरूढस्वेदकणिका वदनाम्बुरुहो बभौ ॥ १५ ॥
 वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ ।
 रङ्‌गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥
( शार्दूलविक्रीडित )
मल्लानामशनिर्नृणां नरवरः
     स्त्रीणां स्मरो मूर्तिमान् ।
 गोपानां स्वजनोऽसतां क्षितिभुजां
     शास्ता स्वपित्रोः शिशुः ।
 मृत्युर्भोजपतेर्विराडविदुषां
     तत्त्वं परं योगिनां ।
 वृष्णीनां परदेवतेति विदितो
     रङ्‌गं गतः साग्रजः ॥ १७ ॥
( अनुष्टुप् )
हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ ।
 कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥
( मिश्र )
तौ रेजतू रङ्‌गगतौ महाभुजौ
     विचित्रवेषाभरणस्रगम्बरौ ।
 यथा नटावुत्तमवेषधारिणौ
     मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९ ॥
 निरीक्ष्य तावुत्तमपूरुषौ जना
     मञ्चस्थिता नागरराष्ट्रका नृप ।
 प्रहर्षवेगोत्कलितेक्षणाननाः
     पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥
( अनुष्टुप् )
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।
 जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१ ॥
 ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् ।
 तद् रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव ॥ २२ ॥
 एतौ भगवतः साक्षात् हरेर्नारायणस्य हि ।
 अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
 एष वै किल देवक्यां जातो नीतश्च गोकुलम् ।
 कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥
 पूतनानेन नीतान्तं चक्रवातश्च दानवः ।
 अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५ ॥
 गावः सपाला एतेन दावाग्नेः परिमोचिताः ।
 कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६ ॥
 सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।
 वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७ ॥
 गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् ।
 पश्यन्त्यो विविधांस्तापान् तरन्ति स्माश्रमं मुदा ॥ २८ ॥
 वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः ।
 श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९ ॥
 अयं चास्याग्रजः श्रीमान् रामः कमललोचनः ।
 प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३० ॥
 जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।
 कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥
 हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ ।
 नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२ ॥
 प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः ।
 मनसा कर्मणा वाचा विपरीत मतोऽन्यथा ॥ ३३ ॥
 नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् ।
 वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४ ॥
 तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे ।
 भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५ ॥
 तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः ।
 नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६ ॥
 प्रजा भोजपतेरस्य वयं चापि वनेचराः ।
 करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७ ॥
 बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् ।
 भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः ॥ ३८ ॥
 चाणूर उवाच -
न बालो न किशोरस्त्वं बलश्च बलिनां वरः ।
 लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥
 तस्माद् भवद्‍भ्यां बलिभिः योद्धव्यं नानयोऽत्र वै ।
 मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥