अथ दशमं प्रकरणम् ।

अथ संक्षेपेण स्नातकधर्माः ।

 तत्रेदं धर्मसूत्रम्-- "माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टिन्यपवेष्टिनी काञ्चुक्युपानही पादुकी" इति ।

 माली माल्यवान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् । 'मुखमग्रे ब्राह्मणोऽनुलिम्पेत्' इत्याश्वलायनोक्तेः । सुगन्धिभिश्चन्दनादिभिर्द्रव्यैरुपलिप्तानि संस्कृतानि केशश्मश्रूणि यस्य स उपलिप्तकेशश्मश्रुः । अक्तोऽञ्जनेनाक्ष्णोः । अभ्यक्तस्तैलेनाङ्गेषु । वेष्टिनी वेष्टितशिराः । कटिप्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सोऽपवेष्टिनी । कञ्चुकमेव काञ्चुकं तद्वान्काञ्चुकी । उपानद्वानुपानही । पादुके दारुमये पादरक्षणे तद्वान्पादुकी । एवंभूतो भवेदित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 अत्र यत्पादुकारोहणमुक्तं तज्जीवत्पितृकस्य ज्येष्ठभ्रातृमतश्च निषिद्धम् ।

"पादुके चोत्तरीयं च तर्जन्यां रौप्यधारणम् ।
न जीवत्पितृकः कुर्याज्ज्येष्ठे भ्रातरि जीवति"

 इति स्मृत्यन्तरवचनात् ।

अन्यच्च धर्मसूत्रे--"सर्वान्रागान्वाससि वर्जयेत्कृष्णं च स्वाभाविकमनूद्भासि वासो वसीताप्रकृष्टं च शक्तिविषये" इति ।

 सर्वान्कुसुम्भादीन्रागान्वाससि वर्जयेत् । न केनचिद्रक्तं वासो बिभृयात् । स्वाभाविकं स्वभावतः कृष्णं कम्बलादि तदपि न वसीत । उद्भासनशीलमुद्भासि तदन्यदनूद्भासि । छान्दसो दीर्घः । एवंभूतं वासो वसीतापकृष्टं निकृष्टं जीर्णं मलवत्स्थूलं च तद्विपरीतमप्रकृष्टं, तादृशं च वासो वसीत शक्तिविषये शक्तौ सत्यामिति व्याख्यातमुज्ज्वलाकृता ।

अन्यच्च तत्रैव-- "बाहुभ्यां च नदीतरम्" इति ।

 पूर्वसूत्राद्वर्जयेदित्यनुवर्तते । तरं तरणं बाहुभ्यां नदीतरणं वर्जयेदित्यर्थः । बाहुभ्यामितिवचनात्प्लवादिना तरणे न दोष इति व्याख्यातं तेनैव ।

 तथा--"न नक्तं स्नायान्न नग्नः स्नायात्" इति, तथा--"न नग्नां स्त्रियमीक्षेत" इति । एतच्च मैथुनादन्यत्र ज्ञेयम् ।

 "अन्यत्र मैथुनान्न नग्नां स्त्रियमीक्षेत्" इत्याश्वलायनोक्तेः ।

  तथा--"उपेतः स्त्रीणामुपेतस्य चोच्छिष्टं वर्जयेत्" इति ।

 उपेतः कृतोपनयनः समावृत्तः स्त्रीणामुपेतस्य चोच्छिष्टं न भुञ्जीतेति व्याख्यातं तेनैव । बाहुभ्यां च नदीतरमितिगौतमसूत्रे नदीग्रहणं तडागाद्युपलक्षणार्थम् । बाहुग्रहणं तु विवक्षितमिति हरदत्तः ।

आश्वलायनः--"वर्षति न धावेन्न वृक्षमारोहेन्न कूपमवरोहेत्" इति

 धर्मसूत्रे--"वत्सतन्तीं च नोपरि गच्छेत्" इति । वत्सतन्ती वत्सबन्धनरज्जुः । वत्सशब्दो गोजातेरुपलक्षणमिति व्याख्यातमुज्ज्वलाकृता । एवं गौतमोक्तिव्याख्यावसरे हरदत्तोऽपि ।

अन्यच्च--"अग्निं ब्राह्मणं चान्तरेण नातिक्रामेद्ब्राह्मणांश्च नाग्निमपश्च युगपद्धारयेदग्नीनां च संनिवापं वर्जयेदवचनात्प्रतिमुखमग्निमाह्रियमाणं नाप्रतिष्ठितं भूमौ प्रदक्षिणी कुर्वीत पृष्ठतश्चाऽऽत्मनः पाणी न संश्लेषयेत्" इति ।

 ब्राह्मणांश्चेत्यत्र चकारोऽन्तरेण नातिक्रामेदित्यनुकर्षणार्थः । वचनाभाव एकस्मिन्नग्नावग्न्यन्तरस्य संनिवापो निवपनं वर्जयेत् । प्रतिमुखमभिमुखमाहियमाणमग्निं भूमावप्रतिष्ठितमस्थापितं न प्रदक्षिणी कुर्वीत । आत्मनः स्वस्य पृष्ठतः पृष्ठे, चकाराच्छिरसि पाणी हस्तौ न संश्लेषयेत् । युगपन्न योजयेदित्यर्थः ।

देवलः--

"अग्नौ न प्रक्षिपेदग्निमद्भिर्न शमयेत्सदा" इति ।

 सदेतिवचनाद्गृहदाहादिके निमित्ते न दोष इति गम्यते ।

धर्मसूत्रे--

"पदा पादस्य प्रक्षालनं वर्जयेत्" इति ।

 तथा--

"नखैर्नखच्छेदनवादनस्फोटनानि ष्ठीवनानि चाकारणात्" इति ।

बृहन्नारदीये--

"न संहताभ्यां पाणिभ्यां कण्डूयेताऽऽत्मनः शिरः ।
भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वादयेत् ॥
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह" इति ।

 शुष्कं फलशून्यम् । एवं विवादोऽपि वर्जनीयः ।

 स्मृत्यन्तरे--

"ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥
जलं पिबेन्नाञ्जलिना शयानं न प्रबोधयेत् ।
नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत्" इति ॥

 एनमग्निम् । जलमिति पेयमात्रोपलक्षणम् । नाञ्जलिना पिबेदिति गौतमेन पेयविशेषानुपादानादिति कश्चित् । तन्न । सामान्यस्यापि गौतमीयस्य विशेषेण याज्ञवल्कीयेनोपसंहर्तुं शक्यत्वात् । अतो जलमेवाञ्जलिना न पेयं न तु पानमात्रमिति ।

 शयानं श्रेष्ठं न प्रबोधयेत् ।

"नैकः स्वप्याच्छूद्रगृहे श्रेयांसं न प्रबोधयेत्" इति मनूक्तेः ।

अन्यच्च--

"नेन्द्रधनुरिति परस्मै प्रब्रूयान्न पततः संचक्षीत प्लेङ्खावन्तरेण
नातिक्रामेदुद्यन्तमस्तं यन्तमादित्यं दर्शने वर्जयेत्" इति ।

 पततस्तारादीनि ज्योतींषि न संचक्षीत न कथयेत्परस्मै ।

 अन्यच्च--

"अस्तमिते स्नानं पालाशमासनं पादुके दन्तप्रक्षालनमिति
वर्जयेत्" इति ।

अन्यच्च--"विषमारोहणावरोहणानि वर्जयेत्" इति ।

 अन्यच्च--"नावं च सांशयिकीं तृणच्छेदनलोष्टविमर्दननिष्ठीवनानि चाकारणात्" इति । मज्जनमेतस्या भविष्यति किमित्येवं यद्विषय आपन्नः संशयः सा सांशयिकी । एतादृशीं नावमारोहणे वर्जयेत् ।

 अन्यच्च--"न चोदके निरीक्षेत" इति ।

 अङ्गिराः--

"भार्यया सह योऽश्नीयादुच्छिष्टं वा कदाचन ।
न तस्य दोषमिच्छन्ति नित्यमेव मनीषिणः" इति ।

 इदं च विवाहविषयं दोषाल्पत्वविषयं वा ।

"न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत्" इति ।

 अत्र मतिर्नीतिशास्त्रादिविषया । धर्माद्युपदेशनिषेधस्य पृथगाम्नानात् । अत्र हरदत्तः--न शूद्रायोच्छिष्टं दद्यादित्यत्र गृहस्थशूद्राय नोच्छिष्टं दद्यादिति विवक्षितम् ।

"उच्छिष्टमन्नं दातव्यं शूद्रायागृहमेधिने ।
गृहस्थाय तु दातव्यमनुच्छिष्टं दिने दिने" ॥

 इति व्याघ्रवचनादित्याह ।

 शूद्रायोपदेशनिषेधोऽपि साक्षादुपदेशविषयः ।

"श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः" ।

 इति ब्राह्मणद्वारकोपदेशस्य विहितत्वात् ।

 वसिष्ठः--

"स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम्" इति ।

 एतद्धारणं नित्यम् । 'बहूनि चाऽऽयुष्कामस्य' इति देवलवचनाद्बहून्यप्युपवीतानि धार्याणि ।

 बहुत्वावधिमाह कश्यपः--

"त्रीणि चत्वारि पञ्चाष्टौ गृहिणः स्युर्दशापि वा " इति ।

 अत्र त्रिप्रभृति दशपर्यन्तमधिकधारणे फलभूमा कल्प्यः ।

माधवीये कौर्मे--

"यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ।
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ॥
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ।
स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत् ॥
शुक्लाम्बरधरो नित्यं सुगन्धप्रियदर्शनः ।
न जीर्णमलवद्वासा भवेत्तु विभवे सति ॥
न रक्तमुल्बणं चान्यधृतं वासो न कन्थिकाम्" इति ॥

 पादुके दारुमये पादरक्षणे । रौक्मे परिमण्डलाकृती कुण्डले । वेदो दर्भमुष्टिः । वेदमित्यनन्तरं विभृयादिति शेषः । कृतं कर्तनेन हृस्वतां नीतं न तु वपनेन 'न समावृत्ता वपेरन्' इति निषेधात् । केशग्रहणं श्मश्रूपलक्षणम् । 'कृत्तकेशनखश्मश्रुः' इति मनूक्तेः । स्वाध्याये वेदाध्ययने नित्ययुक्तो भवेत् । बहिर्माल्यमित्यस्य माल्यं निर्माल्यं स्वशरीरादुद्धृतं चन्दनपुष्पादि पुनर्न धारयेत् । किंतु बहिस्त्यजेदित्यर्थः । उल्बणं शरीरपीडावहं बहुमूल्यं वा । अन्यधृतमन्येन परिहितम् । कन्थिका कन्था तां च न धारयेदित्यर्थः । असति बाधक एते धर्मा ब्रह्मचारिगृहस्थादिसाधारणा ज्ञेयाः ।  स्नातकेनापि वैश्वदेवः कार्यः ।

"वैश्वदेवं गृहस्थस्य प्रातरारम्भणं भवेत् ।
स्नातकेनापि तत्कार्यं पृथक्पाको गृहे यदि" ॥

 इति प्रयोगपारिजाते शौनकोक्तेः । एवमन्येऽपि धर्मा धर्मसूत्रे गौतमसूत्रे स्मृतिषु चोक्तास्ततोऽवगन्तव्याः ।

 पुराणे--

"येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गमेवं गच्छंस्तरिष्यति ॥
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती" इति ।

 एतेषामुल्लङ्घने ज्ञानतोऽज्ञानतो वा कृते गौतमाद्युक्तं त्र्यहमेकाहं वोपोषणं प्रायश्चित्तं ज्ञेयम् ।

 विवाहार्थं काम्यजप उक्त ऋग्विधाने--

"सुषुम प्रजपेत्सूक्तमथ सम्यक्शिवालये।
अयुतं प्रजपेद्भार्यां षड्भिर्मासैर्लभेन्नरः" इति ॥

 प्रजापतिः स्त्रियां यश इत्यादीन्यसौ मे कामः समृध्यतामित्यन्तानि त्रयोविंशतिवाक्यानि विवाहार्थं जपेत् । त्रयोविंशतिसहस्रं जपः षड्भिर्मासैर्विवाहो भवति ।

 अथवा विश्वावसुगन्धर्वराजमन्त्रं जपेत् । तस्य संक्षेपेण जपप्रकारः ।

 अस्य श्रीगन्धर्वराजविश्वावसुमन्त्रस्य संमोहन ऋषिः । गायत्री छन्दः । श्रीगन्धर्वराजो विश्वावसुर्देवता । भार्यालाभार्थे जपे विनियोगः । अस्य श्रीगन्धर्वराजविश्वावसुमन्त्रस्य संमोहनाय ऋषये नम इति शिरसि । गायत्र्यै छन्दसे नम इति मुखे । श्रीगन्धर्वराजाय विश्वावसवे देवतायै नम इति हृदि । भार्यालाभार्थे जपे विनियोगाय नम इति सर्वाङ्गे । सप्रणवेन षड्दीर्घभाजा कामेन करषडङ्गन्यासौ ।

 अथ ध्यानम्--

हेमाम्भोरुहभूषिते रथवरे पुण्ड्रेक्षुभिः कल्पिते
कह्रारस्रजि रक्तपाणिकमलैः कन्याजनैः सेवितम् ।
गन्धर्वाधिपतिं प्रसन्नहृदयं विश्वावसुं यः पुमा-
न्मन्त्रं तस्य जपेल्लभेत नियतं कन्यामसौ काङ्क्षिताम् ।

 विश्वावसुमित्येतदनन्तरं ध्यायेदिति शेषः । इति ध्यानम् ।

"तारं कामं गणेशं च धरण्याद्यं शिरोयुतम् ।
सवह्निकं जलपतेर्बीजं तु शिरसा युतम् ॥

आस्ययुग्वह्निबीजं च जविश्वेति वसो तथा ।
ममाभिधरणीबीजं शिरोयुक्तं षितां तथा ।
कन्यां भार्यां प्रयच्छेति द्विठस्त्वन्ते प्रकीर्तितः" ॥

 इतिवचनसिद्धं मन्त्रं ततो जपेत् । अन्तेऽपि कामबीजप्रणवपुटितश्चेच्छीघ्रफलप्रदः । जलाशयनिकटस्थवटच्छायायां प्रत्यङ्मुखश्चत्वारिंशत्सहस्रं जपेत् । तत्राऽऽदौ पुरश्चरणं पञ्चात्मकं त्र्यात्मकं वा कृत्वाऽनन्तरं तथैव प्रयोगं कुर्यात् । एतदर्थं विवाहगौर्यादिमन्त्रप्रयोगोऽपि द्रष्टव्यः ।

 आग्नेये यजुर्विधाने--

"विश्वकर्मन्हविषेति सूचीं लौहा दशाङ्गुलाम् ।
कन्याया निखनेद्द्वारि साऽन्यस्मै न प्रदीयते" इति ॥

 विश्वकर्मन्हविषा वावृधानः स्वयं यजस्वेत्येका, ऋक् । अस्या अग्निर्ऋषिः । त्रिष्टुप्छन्दः । विश्वकर्मा देवता । चतुश्चत्वारिंशत्सहस्रं जपः ।

इति संस्काररत्नमालायां संक्षेपेण स्नातकधर्माः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां दशमं प्रकरणम् ॥ १० ॥