अथ नवमं प्रकरणम् ।

अथ बौधायनसूत्रानुसारेण ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ।

 पूर्वेद्युस्तद्दिने वा ब्रह्मचारी देशकालौ संकीर्त्य मम भिक्षाग्निकार्यलोपजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं बौधायनो[१]क्तप्रायश्चित्ताज्यहोमपूर्वककृच्छ्रत्रयमितं प्रायश्चित्तमहमाचरिष्य इति संकल्पः ।

 कृच्छ्रत्रयाचरणाशक्तौ तु, अमुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्पवाक्य ऊहः । एवं शौचाचमनसंध्यावन्दनलोपशूद्रादिस्पर्शनकौपीनकटिसूत्रयज्ञोपवीतमेखलाजिनदण्डादित्यागदिवास्वापच्छत्रोष्णीषादिधारणपादुकाध्यारोहणोद्वर्तनानुलेपनाञ्जनाभ्यञ्जनजलक्रीडाद्यूतगीतनृत्यवाद्याद्यभिरतिपाखण्ड्यादिसंभाषणपर्युषितभोजनादिव्रतलोपे तत्तन्निमित्तानुसारेण संकल्प ऊहनीयः ।

 तत उल्लेखनादिना स्थण्डिलसंस्कारं विधाय तत्र विण्नामानं श्रोत्रियागा

रादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा ब्रह्मचारिव्रतलोपप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे--अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निमग्निं पृथिवीं महान्तं चैकैकयाऽऽज्या०, वायुं वायुमन्तरिक्षं महान्तं चैकैकयाऽऽज्याहुत्या० । सूर्यमादित्यं दिवं महान्तं चैकैकयाऽऽज्याहुत्या० । प्रजापतिं चन्द्रमसं नक्षत्राणि दिशो महान्तं चैकैकयाऽऽज्याहुत्या यक्ष्य इति सर्वत्र महान्तमित्यस्य स्थाने महदिति वा । अग्निं विश्ववेदसं विभावसुं शतक्रतुं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा स्विष्टकृद्धोमे--अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि अङ्गहोमे--वरुणं द्वाभ्यामित्यादि वोक्त्वाऽन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् ।

 व्य[२]स्तव्याहृतीनामग्निर्ऋषिः । समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहत्यः क्रमेण च्छन्दांसि । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ भूः स्वाहा । अग्नय इदं० । ॐ भुवः स्वाहा । वायव इदं० । ॐ सुवः स्वाहा । सूर्यायेदं० ॐ भूर्भुवः सुवः स्वाहा । प्रजापतय इदं० ।

 भूरग्नय इत्यादिमन्त्रचतुष्टयस्य याज्ञिक्यो देवता उपनिषदः । मन्त्रोक्ता देवता यजूंषि । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ भूरग्नये च० पृ० महते च स्वाहा । अग्नयेऽग्नये पृथिव्यै महते चेदं० । ॐ भुवो वायवे चा० ते च स्वाहा । वायवे वायवेऽन्तरिक्षाय महते चेदं० । ॐ सुवरादित्याय च दि० ते च स्वाहा । सूर्यायाऽऽदित्याय दिवे महते चेदं० । ॐ भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते चेदं०"

 पाहि नो अग्न इत्यादिमन्त्रचतुष्टयस्य याज्ञिक्यो देवता उपनिषद ऋ[३]षयः । प्रथमस्याग्निः । द्वितीयस्य विश्ववेदाः । तृतीयस्य विभावसुः । चतुर्थस्य शत क्रतुः । एकपदा गायत्री छन्दः । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ पाहि नो अग्न एनसे स्वाहा । अग्नय इदं० । ॐ पाहि नो विश्ववेदसे स्वाहा । ॐ विश्ववेदस इदं० । ॐ यज्ञं पाहि विभावसो स्वाहा । विभावसव इदं० । ॐ सर्वं पाहि शतक्रतो स्वाहा । शतक्रतव इदं०"

 पुनरूर्जेति द्वयोरग्निरग्निर्गायत्री । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ पुनरूजा निवर्तस्व० विश्वतः स्वाहा । अग्नय इदं । ॐ सह रय्या निव० स्परि स्वाहा । अग्नय इदं०" ।

 पुनर्व्यस्तसमस्तव्याहृतीनां पूर्ववदृष्यादिकं स्मृत्वा ताभिराहुतिचतुष्टयं हुत्वा कृच्छ्रत्र[४]यं प्रायश्चित्तमाचरेत् । अशक्तौ गोदानाद्यन्यतमप्रत्याम्नायेन ।

 ततोऽन्वाधानोत्कीर्तनानुसारेण स्विष्टकृदादि वारुणीहोमादि वा होमशेषं समापयेत् । होमशेषं समाप्य वा कृच्छ्रत्रयं कुर्यात् । न त्रिवृदन्नहोमः ।

अथाऽऽपूर्विकतन्त्रेण प्रयोगः ।

 पूर्ववत्संकल्पप्रभृति ताः सर्वाः परिग्रहीष्यामीत्येतदन्तं कृत्वा, प्रधानहोमे--अग्निं वायुं सूर्यमित्याद्येकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तं पूर्ववदुक्त्वा, अन्वाधानसमिधोऽभ्याधायाग्निं परिस्तीर्य यावदुपयुक्तानि पात्राण्यासाद्य पवित्रकरणादि प्रणीतावर्जं पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽदित इत्याद्यैः परिषिच्य तूष्णीमेकां समिधमभ्याधाय पूर्ववत्प्रधानाहुतीर्हुत्वा कृच्छ्रत्रयात्मकं प्रायश्चित्तं चरित्वा परिस्तरणानि विसृज्यादितेऽन्वम स्था इत्याद्यैः परिषिच्य ब्राह्मणान्संभोज्य विष्णुं संस्म[५]रेत् । होमशेषसमाप्त्यनन्तरं वा कृच्छ्रत्रयम् ।

 इति बौधायनसूत्रानुसारि ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ।

 देवलस्तु--

"कालातिक्रमणे कुर्यात्प्रायश्चित्तं विधानतः ।
कृच्छ्रं द्वादशरात्रं तु हुत्वा चाऽऽज्याहुतीः शतम् ॥
अष्टाविंशतिरष्टौ वा क्रमात्कुर्याद्व्रतानि हि ।
व्यत्यये यावदभ्यस्तं वेदं तावत्पुनः पठेत्" इत्याह ॥

 अयं च होमो गायत्र्या ।

"प्रत्येकं कृच्छ्रमेकैकं चरित्वाऽऽज्याहुतीः शतम् ।
हुत्वा चैव तु गायत्र्या स्नायादित्याह शौनकः" ॥

 इत्याश्वलायनोक्तेः ।

 अत्र प्रायश्चित्ते स्नानसमानकर्तृकत्वश्रवणाद्बटोरेव कर्तृत्वम् । प्रायश्चित्तोत्तरकालमेतानि समावर्तनेन सह कर्तव्यानीति प्रयोगपारिजाते । तत्र मूलं मृग्यम् । एतच्च प्रायश्चित्तं बुद्धिपूर्वविषयम् ।

यत्तु मनूक्तं--

"वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे तु प्रायश्चित्तमभोजनम्" ।

 इति तदबुद्धिपूर्वविषयम् ।

 अग्निकार्यभिक्षालोपविषये स्मृत्यर्थसारे--

"स्नात्वाऽष्टोत्तरसहस्त्रं गायत्रीजपः कार्यः ।

 भिक्षालोपेऽष्टोत्तरशतम्" इत्युक्तम् ।

 एतच्च सकृल्लोपविषयम् । बौधायनोक्तं तु द्व्यादिषष्ठान्तलोपे ।

अत ऊर्ध्वं तु--

"भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः ।
कामावकीर्ण इत्याभ्यां हुत्वा चाऽऽज्याहुतिद्वयम् ॥
उपस्थानं ततः कुर्यात्सं मा सिञ्चन्त्वनेन तु" ।

 इति याज्ञवल्क्योक्तं द्रष्टव्यम् । एतच्च कार्यव्यासङ्गादिनाऽग्न्यादित्यागे ।

 तदभावे तु--

"अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्" इति मनूक्तम् ।

 ब्रह्मचारिणो मधुमांसाशने प्रायश्चित्तमुक्तं शातातपेन--

"ब्रह्मचारी तु योऽश्नीयान्मधु मांसं तथैव च ।
प्राजापत्यं चरेत्कृच्छ्रं मौञ्जीहोमेन शुध्यति" इति ॥

 मौञ्जीहोमः पुनरुपनयनम् ।

 देवलः--

"ब्रह्मचारी यदाऽश्नीयान्मधु मांसमकामतः ।
त्रिरात्रोपोषितः सम्यग्रात्रिमेकां जले वसेत्" इति ॥

अन्यच्च--

"भिक्षाटनमकृत्वा यः सेवकान्नमुपाश्नुते ।
अस्नात्वा चैव यो भुङ्क्ते गाय[६]त्र्यष्टशतं जपेत् ॥

सूतकान्नं नवश्राद्धं मासिकान्नं तथैव च ।
ब्रह्मचारी तु योऽश्नीयात्त्रिरात्रेणैव शुध्यति" इति ॥

 बृहद्यमस्तु--

"मासिकादिषु योऽश्नीयादसमाप्तव्रतो द्विजः ।
त्रिरात्रमुपवासोऽत्र प्रायश्चित्तं विधीयते ॥
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति" इति ।

 एतदज्ञानविषयम् ।

 ज्ञानपू[७]र्वके तु स एवाऽऽह--

"व्रती कामाद्यदा भुङ्क्ते श्राद्धे सूतक एव वा ।
प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत्" इति ॥

 अनृतवदनप्रायश्चित्तमाह गर्गः--

"अनृतं यदि वै ब्रूयाद्द्विजो मोहादनापदि ।
त्रिरात्रमेकरात्रं वा ब्रह्मचर्यव्रतं चरेत्" इति ॥

 शौचाकरणप्रायश्चित्तमापस्तम्ब आह--

"मूत्रोच्चारं द्विजः कृत्वा ह्यकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वा त्रिरात्रं तु यवान्पीत्वा विशुध्यति ॥
मूत्रं कृत्वा द्विजो मार्गे स्मृतिभ्रंशाज्जलं पिबेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 मूत्रपदं पुरीषादेरुपलक्षणम् ।

 विण्मूत्रोत्सर्गकाले यदि कर्णे यज्ञोपवीतं प्रमादान्न धृतं तदा भरद्वाज आह--

"उपवीतमधृत्वा यो मलमूत्रे समुत्सृजेत् ।
उपवीतं तदुत्सृज्य पश्चादन्यन्नवं तदा" इति ॥

 अधृत्वेत्यत्र कर्ण इति शेषः ।

"पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमृत्सृजेत्"

 इति स्मृत्यन्तरोक्तेः । तदेत्यनन्तरं धारयेदिति शेषः ।

 स्मृतिसारे--

"कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्याद्यद्वा कर्णे समाहितः" इति ॥

 एतच्च कर्णे निधानमेकवस्त्रविषयम्, यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा मूत्रपुरीषोत्सर्गं कुर्यादितिशङ्खोक्तेरिति माधवः ।  अनुदकमूत्रपुरीषकरणे सुमन्तुः--

"अनुदकमूत्रपुरीषकरणे सद्यः स्नानं
घृतकुशहिरण्योदकपानं च" इति ।

 घृतयुक्तं कुशस्रावितोदकं घृतयुक्तं हिरण्यस्रावितोदकं च पिबेदित्यर्थः ।

 घृतकुशहिरण्योदकपानस्य प्रायश्चित्तार्थत्वाद्भोजननिवृत्तिः ।

"पुरीषमूत्रोत्सर्गं तु कुर्यादनुदकं यदि ।
एकाहं क्षपणं कृत्वा सचैलं स्नानमाचरेत्" ॥

 इति जातूकर्ण्यवचनसंवादादयमर्थो लभ्यते । सचैलं स्नानं कृत्वैकाहं क्षपणं चरेदित्यन्वयः । क्षपणमुपोषणम् । अथवा पानशब्दस्य घृत उदके चान्वयः । तेन घृतप्राशनं पृथक्कर्तव्यं भवति ।

 यत्त्वङ्गिरसोक्तम्--

"अनुदकमूत्रपुरीषकरणे सचैलं स्नानं व्याहृतिहोमश्च" इति ।

 तदकामतो द्रष्टव्यम् ।

मरीचिः--

"ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा ।
गाय[८]त्र्यष्टसहस्रेण प्राणायामेन शुध्यति" इति ॥

 सर्वथा जलाभावे वेगस्य च प्राप्तौ वेगधारणं निषेधति मनुः--

"देशं कालं समासाद्य अवस्थामात्मनस्तथा ।
धर्मशौचेऽनुतिष्ठेत न कुर्याद्वेगधारणम्" इति ॥

 धर्मशौचेऽनुतिष्ठेतेत्यत्र प्रकृतिभावाभाव आर्षः ।

अथावकीर्णिप्रायश्चित्तम् ।

 तत्रेदं धर्मसूत्रम्--

"गर्दभेनावकीर्णी निर्ऋतिं पाकयज्ञेन
यजेत तस्य शूद्रः प्राश्नीयात्" इति ।

 यो ब्रह्मचारी स्त्रियमुपेयात्सोऽवकीर्णी गर्दभेन निर्ऋतिं यजेत पाकयज्ञेन स्थालीपाकविधानेन । तस्य गर्दभस्य सर्पिष्मद्धविरुच्छिष्टं शूद्रः प्राश्नीयात् । तेन ब्राह्मणं विद्यावन्तं परिवेवेष्टीत्यस्यापवाद इति व्याख्यातमुज्ज्वलाकृता ।

 वाधूलवैखानसावपि--

"यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमाल-
भेत भूमौ पशुपुरोडाशश्रपणम्" इति ।

 मनुरपि--

"अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि" इति ॥

 प्रायश्चित्तसूत्रेऽपि--

"यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत भूमावेककपालं पशुपुरोडाशं श्रपयित्वाऽप्स्ववदानैश्चरन्ति नैर्ऋतः प्राजापत्यो वा रक्षोदेवत इत्येकेषां यमदेवत इत्येकेषाम्" इति ।

 आहिताग्निर्ब्रह्मचर्यकाले स्त्रियमुपेयात्तस्यायं विधिः । आहिताग्न्यधिकारात् । अथवा प्रसिद्धब्रह्मचारिण एव ग्रहणं रुढेर्बलीयस्त्वात् ।

 उक्तं च ब्रह्मचारिधर्मेषु--

"गर्दभेनावकीर्णी निर्ऋतिं पाकयज्ञेन यजेत" इति ।

 न चैवमस्याऽऽनर्थक्यं देवताविकल्पार्थत्वात् । न चाऽऽहिताग्न्यधिकारे वचनानुपपत्तिः । देवताभेदश्रौतप्रयोगविधानार्थत्वेनोपपत्तेः । तस्माद्ब्रह्मचर्यार्थत्वेऽपि न दोषः ।

 तदुक्तं भरद्वाजेन--

"यो ब्रह्मचारी स्त्रियमुपेयादिति कस्यायं वाद
आहिता[९]ग्नेरित्येकेऽनाहिताग्नेरित्यपरे" इति ।

 तत्र त्वाहिताग्नेर्व्रातपत्यादि प्रायश्चित्तं द्रष्टव्यम् ।

 यथोक्तम्-- "व्रत्येऽहनि मांसं नाश्नाति न स्त्रियमुपैति यदि दीक्षितोऽवकिरेत्" इत्यादि ।

 भूमावित्यनेनाग्न्यायतनमध्ये प्रकृतितो हविःश्रपणं प्राप्तं तद्बाधित्वाऽनेनाग्न्यायतनाद्बहिःश्रपणं विधीयते । तेनाग्न्यायतनाद्बहिरेवैकं कपालमङ्गारोपरि संस्थाप्य तदुपर्यङ्गारं निधाय वेदेनाङ्गारानध्यूहेत् । अथवाऽऽयतनमध्य एव भूमौ न भस्मनीत्येतदर्थम् । न च भूमाविति कपालबाधनार्थमिति वाच्यम् । एककपालपदवैयर्थ्यापत्तेः । एकस्मिन्कपाले संस्कृतः पुरोडाश एककपालस्तं तस्मिन्कपाले श्रपयेत् । श्रपयित्वाऽस्ववदानैर्वपापुरोडाशाङ्गावदानैश्चरेयुः । न चैकादशावदानान्यवद्यतीति श्रुत्याऽवदानशब्देनाङ्गानामेव बोधनेन कथमत्र तदितरपुरोडाशप्रचारेऽषामधिकरणत्वमिति वाच्यम् । श्रपणोत्तरभावित्वेन पुरोडाशप्रचारेऽप्यपामधिकरणत्वे बाधकाभावात् । न चैवं पुरोडाशप्रचार एवाप्स्वस्त्वङ्गप्रचारस्तु लौकिकाग्नाविति वाच्यम् । अवदानैरितिबहुवचनवैयर्थ्यापत्तेः । न चैवं पुरोडाशाङ्गप्रचारावेवाप्स्वास्ताम् । वपायास्तु श्रपणपूर्वभावित्वाल्लौकिकाग्नावेव प्रचार इति वाच्यम् । पशुमालभ्य पुरोडाशं निर्वपतीतिश्रुतिविहितपक्षे वपाप्रचारस्यापि पशुपुरोडाशश्रपणानन्तरभावित्वसंभवात् । वस्तुतस्तु वपाया अवदानशब्देनाग्रहणादग्नावेव होमः । अस्ति चात्र साधकम्, यदि वपा हविरवदानं वा स्कन्देदिति वपायाः पृथग्ग्रहणं क्त्वाप्रत्ययस्वरसश्च । अप्स्विति वचनं प्रकृतिं प्राप्तस्याग्नौ प्रचारस्य बाधनार्थम् । प्रयाजादीनामप्स्वेव प्रचारः प्रधानसदेशत्वादङ्गानाम् । न चावभृथवद्यत्राऽऽपस्तत्र गच्छन्तीतिवचनाभावान्न गमननियमः । तेनोत्तरवेदिस्थानेऽषः संस्थाप्यापि कर्म भवति । तत्रावभृथ इव वेदेध्मादीनामर्थलुप्तानां निवृत्तियथार्थं मन्त्राणामूहश्च द्रष्टव्यः । वपाया अग्नौ प्रचारपक्षेऽपि प्रयाजादीन्यप्स्वेव "विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम्" इति जैमिनीयसूत्रात् । "मुख्यत्वाद्भूयस्त्वम्" इत्याचार्योक्तेश्च[१०] । तथा च विरोधेऽनेकेषामनुग्रहो न्याय्य[११] इति सिध्यति । पञ्चदशरात्रेऽग्निष्टुत्प्रथममहस्तत्र नाम्नैकाहाग्निष्टुद्धर्मातिदेशादाग्नेयी सुब्रह्मण्या, ततो ज्योतिरादित्र्यह एकाहे ज्योतिरादिचोदकादैन्द्री । साऽवशिष्टैकाद[१२]शस्वहःसु द्वादशाहातिदेशादन्द्यैव । तत्रोपसत्कालीनसुब्रह्मण्यायां तन्त्रभूतायामनियमः । मुख्यत्वाद्वाऽग्निष्टुद्धर्मानुग्रह इति प्राप्ते भूयोऽनुग्रहायैन्द्रीति भाष्यकृत् । वार्तिक[१३]कारस्तु--"अन्यदेवत्ययाऽन्यदेवतायाः संस्कारासिद्धेर्भेदेनाऽऽह्वान[१४]स्यैव युक्तत्वादतो नैतदुदाहरणं किंत्वग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं दधि मधु घृतमापो धाना[१५]स्तत्संसृष्टं प्राजापत्यं पशुकाम इति । तत्राऽऽग्नेयस्य धानानां चाऽऽग्नेयविकारत्वादविरोधः । ऐन्द्रस्य दध्न ऐन्द्राग्नसांनाय्यविकारत्वाद्दर्शधर्मत्वम् । मधुघृतापां तूपांशुयाजविकारत्वात्पौर्णमासीधर्मकत्वम् । तत्र सहप्रयोगे वार्त्रघ्नवृधन्वन्मन्त्रयोराज्यभागयोरन्यतरानुष्ठानं मुख्यत्वादै[१६]न्द्रदध्नोस्तद्धर्मानुग्रह इति प्राप्ते भूयसां मध्वादीनां वार्त्रघ्नानुग्रहाय तावेव कार्यौ" इत्याह ।

 न च "अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि" इत्येतदधिकरणस्य प्रवृत्तिः, तथा चैक[१७]स्य द्यावापृथिवीयैककपालपुरोडाशीयपुष्पितबर्हिषः सर्वोद्देशेन ग्रहणमिवात्र वैपरीत्यमस्त्विति वाच्यम् । एतस्य न्यायस्य परस्पराविरोध एव प्रवृत्तेः, प्रकृते विरोधस्यैव सत्त्वेनैतस्य न्यायस्यासं[१८]  भवात् । स च न्याय इत्थम्--आग्रयण ऐन्द्राग्नवैश्वदेवद्यावापृथिव्यानि हवींषि । तत्र द्यावापृथिव्ये वैश्वदेविकपर्वगतद्यावापृथिव्यविकारत्वात्पुष्पितं बर्हिः प्राप्तम् । इतरेषां तु बर्हिर्मात्रम् । तत्र मुख्यत्वाद्भूयस्त्वाच्च पुष्पितमेव बर्हिर्ग्राह्यमिति प्राप्ते पुष्पितबर्हिर्ग्रहणेऽप्यन्येषामवैगुण्यादपुष्पितग्रहणे द्यावापृथिव्यस्य वैगुण्यात्पुष्पितस्यैव नियमः । यथा शिष्यस्य कांस्यगुरूच्छिष्टभोजननियमानुरोधेन गुरोः कांस्यभोजननियमे न कश्चिद्विरोध इति सिद्धान्तः । प्रकृते तथात्वाभावान्नात्र कांस्यभोजिन्यायः । अवधिकरणकौ प्रचारौ द्वावग्न्यधिकरणक एक इत्यस्त्यवधिकरणकप्रचारस्यानेकत्वमिति । अथवा वपाप्रचारो नास्त्येवात्र ।

तथा च भरद्वाजः--"यो ब्रह्मचारी स्त्रियमुपेयात्स रौद्रं गर्दभमालभेत तस्यावदानैरप्सु प्रचरन्ति नास्य वपया प्रचरन्ति न पशुपुरोडाशो भवतीडान्तो भवति शंयुवन्तो वा नैर्ऋतः प्राजापत्यो वा" इति ।

 सूत्रकृता निर्ऋतिप्रजापतिरक्षोयमान्यतमदेवताया एव विहितत्वाद्रुद्रदेवता नात्रेष्टा । एवं पशुपुरोडाशनिषेधोऽपि न, भूमावेककपालं पशुपुरोडाशं श्रपयित्वेति तस्य विहितत्वात् । अस्मिन्कर्मणि निर्ऋतिः प्रजापती रक्षांसि यम इत्येतासां देवतानां मध्येऽन्यतमा देवता । प्रायश्चित्तसूत्र आलभेतेतिप्रयोगाद्यागः प्राप्यते । निर्ऋतिदेवतत्वपक्षे धर्मसूत्रे पाकयज्ञस्य विधानात्पाकयज्ञविधिः । प्रायश्चित्तसूत्रविधानात्पशुपक्षोऽपि[१९] । प्रजापत्यादिदेवतात्वपक्षे पशुपक्ष एव । अयं च पाकयज्ञविधिर्लौकिकाग्नाववेव । "पाकयज्ञविधौ लौकिकाग्नाववकीर्णिप्रायश्चितम्" इति मानवात् । प्रायश्चित्तसूत्रोक्तरीत्या विध्यनुष्ठानेऽपि त्रील्लोँकिकाग्नीन्संस्थाप्य तेष्वेव यागो न त्वाधानम्, निषादरथकारवदाचार्येणाऽऽधानस्याविधानात् । "अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्त[काल]त्वात्" इति जैमिनिसूत्रात् । "वाऽवकीर्णिनो गर्दभेज्या लौकिके" इति कात्यायनसूत्राच्च यो ब्रह्मचार्यवकिरेत्स गर्दभं पशुमालभेतेति यागोऽपि लोकिक एवाग्नौ । लौकिक इत्येकवचनं जातौ । एकस्मिन्नेवाग्नौ सर्व[२०]कार्याणीति केचित् । एतद्यागेन ब्रह्मचर्यभ्रंशसमाधानं विना विवा[२१]हो न संभवति । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेदितिवचनात् । कात्यायनसूत्रे वाशब्दः पूर्वपक्षव्यावृत्त्यर्थः । अयं च निशि चतुष्पथे कर्तव्यः "अवकीर्णी तु काणेन" इत्युदाहृतमनुवचनात् । पाकयज्ञप[२२]क्षे निश्यनुष्ठानं न यागपक्षे, दिवाकी[२३]र्त्यो वषटकार इत्याश्व लायनसूत्रे रात्रौ यागनिषेधात् । न चैतदेव निशि कर्तव्यतायाः प्रापकमस्त्विति वाच्यम् । पाकयज्ञविधानेनेत्येतद्विरोधापत्तेः । निर्ऋते रक्षोधिपतित्वात् । निर्ऋतेर्देवतात्वपक्षे चाप्येवमेव । रक्षोदेवतात्वपक्षेऽपि तथा । रक्षसां रात्रिसंचारित्वात् । मनुवचने पाकयज्ञश[२४]ब्दे साहचर्याद्यजिधातोः प्रयोगो गौणः[२५] । तत्रेति विहाय[२६] तस्येतिवचनेन पशुधर्मपक्षेऽपि शूद्रकर्तृकमेव प्राशनमिति बोध्यते । यदि पाकयज्ञतन्त्र एव शूद्रकर्तृकप्राशनमिष्टं भवेत्तदा तत्रेति पाकयज्ञतन्त्रकमेव कर्म निर्दिश्येत । अतः पाशुकतन्त्रपक्षेऽपि शूद्रकर्तृकमेव प्राशनम् ।

 हा[२७]रीतेनात्र विशेष उक्तः--

"स्त्रीष्ववकीर्णी निर्ऋत्यै चतुष्पथे गर्दभेन पशुना यजेत पाकयज्ञधर्मेण भूमौ पशुपुरोडाशश्रपणमप्स्ववदानैः प्रचर्य जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिद्रुग्वोऽस्म्यभिद्रुग्धोऽस्मि काम कामाय स्वाहेति" [ इति । ]

 अवदानप्रचारोत्तरमेताभ्यां मन्त्राभ्यां होम उक्तः । कतिधाऽवकीर्णीत्यस्मिन्खण्डे तु, अमावास्यायां रात्रावग्निप्रणयनोपसमाधानपूर्वकं कामावकीर्णोऽस्मि कामाभिद्रुग्धोऽस्मीत्येताभ्यामाज्येनाऽऽहुतिद्वयं तदनन्तरं प्रयताञ्जलेरीषत्तिर्यग्भूतस्य सं मा सिञ्चन्त्वित्यनेन प्रणीताग्नेस्त्रिरभिमन्त्रणं वरदानं चोक्तम् ।

इत्यवकीर्णिप्रायश्चित्तम् ।


अथ श्वदष्टप्रायश्चित्तम् ।

 तत्र पराशरः--

"ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
गृहस्थस्तु द्विरात्रं वाऽप्येकाहं चाग्निहोत्रवान् ॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
स्यादेतत्त्रिगुणं वक्त्रे मस्तके[२८] तु चतुर्गुणम्" इति ॥

 एतत्प्रायश्चित्तं नैष्ठिकेन[२९] सर्वं द्विगुणं कार्यम् ।

 तथा च हारीतः--

"उपकुर्वंस्तु यः कुर्यात्कामतोऽकामतोऽपि वा ।
तदेव द्विगुणं कुर्याद्ब्रह्मचारी तु नैष्ठिकः" इति ॥

 शातातपः--

"आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न तस्यास्ति येन शुद्धो भवेत्तु सः" इति ॥

 अस्मिन्वाक्ये पुनरितिश्रवणादभ्यासे प्रायश्चित्तं नास्त्येव तस्य किंतु सर्वदा सोऽशुचिरेवेति ।

अथ काण्डव्रतलोपप्रायश्चित्तम् ।

 कृतनित्यक्रियो ब्रह्मचारी प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम काण्डव्रतलोपजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रतिकाण्डव्रतं होमपूर्वकमेकैककृच्छ्रात्मकं प्रायश्चित्तमहमाचरिष्ये । अशक्तौ त्वमुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र वि[३०]ण्नामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा काण्डव्रतलोपप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे प्रतिकाण्डव्रतं सवितारं गायत्र्याऽष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभिर्वाऽऽज्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणमित्यादि अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वोक्त्वाऽन्वाधानोत्कीर्तितपक्षानुसारेण व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । गायत्र्या विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । काण्डव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः । "ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्स्वाहा" इति प्रतिकाण्डव्रतं गायत्र्या यथोक्तसंख्ययाऽऽहुतीर्जुहुयात् । सवित्र इदमिति त्यागः ।

 ततः प्रत्येकं कृच्छ्रात्मकं प्रायश्चित्तं विदध्यात् । अशक्तौ गोदानाद्यन्यतमप्रत्याम्नायेन । तत इमं मे वरुणेत्यादि स्विष्टकृदादि वा होमशेषं समापयेत् । न त्रिवृदन्नहोमः । ततो ब्राह्मणभोजनं विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

आपूर्विकपक्षेण वा प्रयोगः ।

 पूर्ववत्संकल्पप्रभृति ताः सर्वाः परिग्रहीष्यामीत्येतदन्तं कृत्वा प्रधानहोमे प्रतिकाण्डव्रतं सवितारं गायत्र्याऽष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभि र्वाऽऽज्याहुतिभिर्यक्ष्य इत्युक्त्वाऽन्वाधानसमिधोऽभ्याधायाग्निं परिस्तीर्य यावदुपयुक्तानि पात्राण्यासाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽदितेऽनुमन्यस्वेत्यादिभिरग्निं परिषिच्य तूष्णीमेकां समिधमभ्याधायान्वाधानोत्कीर्तितसंख्यया गायत्र्याऽऽहुतीर्हुत्वा प्रतिकाण्डव्रतं कृच्छ्रात्मकं प्रायश्चित्तं कृत्वा परिस्तरणानि विसृज्यादितेऽन्वम स्था इत्यादिभिः परिषिच्य ब्राह्मणान्संभोज्य विष्णुं संस्मरेत् ।

 ततः शुभे दिने काण्डव्रतोपाकरणं कृत्वा काण्डाध्ययने जाते काण्डव्रतोत्सर्जनं कृत्वा समावर्तनं कुर्यात् ।

इति काण्डव्रतलोपप्रायश्चित्तम् ।

अथ यज्ञोपवीतनाशप्रायश्चित्तम् ।

 यज्ञोपवीते त्रुटिते कटेरधस्ताद्गतेऽभ्यङ्गोदधिस्नानपितृमातृक्षयाहान्विना क्षालनार्थमपि कण्ठादुत्तारिते मूत्रपुरीषोत्सर्गकाले कर्णे यज्ञोपवीताधारणे रक्तश्लेष्मसुरामांसविण्मूत्रादिभिरुपहते तस्य त्यागं कृत्वा प्रायश्चित्तहोमं कृत्वा नूतनं यज्ञोपवीतं धारयेत् । स च यथा--प्रायश्चित्तहोमकर्ता त्रिवृत्सूत्रं वासो वा यज्ञोपवीतार्थे धृत्वा स्नात्वाऽहतवस्त्रपरिधानादि कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य यज्ञोपवीतनाशजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रायश्चित्तहोमं करिष्य इति संकल्प्य स्थण्डिलं गोमयेनोपलिप्योल्लेखनादिविधिना संस्कारं विधाय लौकिकमग्निं विण्नामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा यज्ञोपवीतनाशप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे गायत्र्या सवितारमष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभिर्वा घृताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्याद्यग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि वोक्त्वाऽन्वाधानोत्कीर्तनानुसारेण व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वा कृत्वाऽऽज्यपर्यग्निकरणकाले तिलानामपि पर्यग्निकरणम् ।

 ततो गायत्र्याः पूर्ववदृष्यादि स्मृत्वा यज्ञोपवीतनाशप्रायश्चित्ततिलहोमे विनियोग इति विनियोगं च स्मृत्वा विकनिष्ठा तु हंसी स्यादित्येवंरूपया हंसीमुद्रया, ऋज्व्यौ कनिष्ठातर्जन्यावितरे साङ्गुष्ठे मीलिते मृगीतिमृगीमुद्रया वा घृताक्ततिलान्गायत्र्याऽष्टोत्तरसहस्रमष्टोत्तरशतं वा हुत्वाऽङ्गहोमादि स्विष्टकृदादि वा सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः । कर्मणः संपूर्णतासिद्धये गुरवे गां दत्त्वा ब्राह्मणभोजनं कृत्वा विष्णुं संस्मरेत् । अथवाऽऽपूर्विकतन्त्रेण होमः ।

 शाखाविशेषेणोपवीतस्य क्षालनार्थं कण्ठादुत्तारणनिषेधापवादमाह देवलः--

"मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् ।
नोद्धरेच्च ततः प्राज्ञो य इच्छेच्छ्रेय आत्मनः ॥
सकृच्चोत्तारणात्तस्य प्रायश्चित्ती भवेद्द्विजः ।
तैत्तिरीयाः कठाः काण्वाश्चरका वाजसेयिनः ॥
कण्ठादुत्तार्य सूत्रं तु कुर्युर्वै क्षालनं द्विजाः ।
बह्वृचा सामगाश्चैव ये चान्ये याजुषाः स्मृताः ॥
कण्ठादुत्तार्य सूत्रं तु पुनरर्हन्ति संस्क्रियाम् ।
अभ्यङ्गे चोदधिस्नाने मातापित्रोः क्षयेऽहनि ॥
कण्ठादुत्तार्य सूत्रं तु कुर्युर्वै क्षालनं द्विजाः" इति ॥

 आथर्वणानां तूत्तारणंं कृताकृतमर्थात् । संस्क्रियां मन्त्रेणोपवीतान्तरधारणम् ।
अभ्यङ्ग इत्येतद्वाक्यचोदितविषयेष्वेवैषा व्यवस्था ज्ञेया ।

  ततो नूतनयज्ञोपवीतधारणं कृत्वा द्विराचम्य संध्योपासनादि नित्यं कर्म कुर्यात् । गृहस्थाश्रमिभिर्वानप्रस्थैश्चेदमेव प्रायश्चित्तं कार्यम् ।

 अत्र मूलं स्मृतिरत्नावल्याम्--

"उपवीतविनाशे तु गायत्र्या जुहुयात्तिलान् ।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा" इति ॥

 हारीतस्तु मनोव्रातपतीभिश्चतस्र आज्याहुतीर्हुत्वा पुनः प्रतीयादित्याह । 'ॐ मनोज्योति० या इष्टा उप० घृतेन स्वाहा' इत्यनयैकाऽऽहुतिः । ॐ त्वमग्ने व्रत० यद्वो वयं प्र० व्रतानुबिभ्रद्व्रतपा अदाभ्यः०'इत्येताभिस्तिसृभिर्व्रातपतीभिस्तिस्र आहुतयः । इत्येता आहुतीर्हुत्वा पुनर्नूतनं यज्ञोपवीतं समन्त्रं धारयेदित्यर्थः । एतच्चाशक्तस्य ज्ञेयम् । यज्ञोपवीते वामस्कन्धावरोहिते कूर्परस्थानं गते मणिबन्धस्थानं गते वा तद्यज्ञोपवीतं पूर्वस्थाने निवेश्य यथाक्रमं त्रिवारं षड्वारं द्वादशवारं वा प्राणायामं कुर्यात् । वामहस्तव्यतीते तु तद्यज्ञोपवीतं पूर्ववद्विसृज्यान्यानि पूर्ववद्धारयेत् । ([३१]कण्ठे यज्ञोपवीतान्तरसत्त्व एतत्प्रायश्चित्तं नेति केचित् । विनाशस्य निमित्तत्वात्प्रायश्चित्तं भवत्येवेत्यन्ये । ) यः कोपेन बलात्कारेण वा स्वधृतं यज्ञोपवीतं छिनत्ति चेत्पूर्ववन्नवतन्तुमात्रं धृत्वा नद्यादौ स्नात्वाऽन्यानि यज्ञोपवीतानि पूर्ववद्धृत्वा छिन्नं पूर्ववद्विसृजेत् । छेदनपापविशुद्ध्यर्थमष्टोत्तरसहस्रं गायत्रीं जपेत् । अत्र महापातकयुक्तस्तु तत्पातकप्रायश्चित्तकरणपर्यन्तं संस्कृतं यज्ञोपवीतं विहाय लौकिकं सूत्रं धारयेत् । ब्राह्मणब्रुवकानीनकुण्डगोलकव्रात्यकुष्ठ्यवकीर्णिनस्त्वसंस्कृतं यज्ञोपवीतं धारयेयुरित्याह्निकपारिजाते ।

 जीर्णस्य परित्यागे विशेषस्तत्रैव--

"जीर्णं सरिदब्धितटाकाद्यन्यतमोदके समुद्रं गच्छ स्वाहेतिमन्त्रेण प्रणवेन व्याहृतित्रयेण वा विसृजेत्" इति ।

अथ कमण्डलुभङ्गप्रायश्चित्तम् ।

 तत्रेदं बौधायनधर्मसूत्रम्--

 "भग्ने कमण्डलौ व्यात्दृतिभिः शतं जुहुयाज्जपेद्वा भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति भिन्नमभिमन्त्र्य कपालानि संगृह्याप्सु निक्षिप्य सावित्रीं दशावरां जपित्वा पुनरेवान्यं गृह्णीयादेतत्ते वरुण पुनरेतु मामोम्" इति ।

अथ समावर्तनम् ।

 तत्रेदं गृह्यम्--"अधीत्य वेद स्नानम्" इति । वेदो मन्त्रब्राह्मणात्मकः । "मन्त्रब्राह्मणयोर्वेदनामधेयम्" इति सूत्रात् । कर्मविधानं ब्राह्मणम् । अर्थवादादीनां तु ब्राह्मणशेषत्वम् । "कर्मविधानं ब्राह्मणं तच्छेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च" इति सूत्रात् ।

 भद्रादिदशप्रश्नानामरण्येऽध्येतव्यत्वादारण्यक इति संज्ञा न तु पृथक्कश्चन वेदभागोऽयम् । स्नानशब्देन समावर्तनम् । धर्मसूत्रे विशेषः-- "विद्यया स्नातीत्येके तथा व्रतेनाष्टाचत्वारिंशत्परिमाणेन विद्या व्रतेन च" इति वेदविद्या विद्या तया संपन्नः स्नानं कुर्यादित्येके मन्यन्ते । अष्टाचत्वारिंशद्ग्रहणं गृह्योक्तस्य चतुर्विंशतिरित्यादेरुपलक्षणम् । अष्टाचत्वारिंशदादिपरिमाणेन [व्र]तेन वा संपन्नः स्नायादसंपन्नोऽपि विद्यया । विद्या व्रतेन च, विद्येति 'सुपां सुलुक्' इत्यादिना तृतीयान्तम् । विद्यया व्रतेन चोभाभ्यां संपन्नः स्नायादिति चैके मन्यन्ते । एवमधीत्य वेद स्नानं तद्व्याख्यास्याम इत्यत्र वेदमित्युपलक्षणं व्रतस्य

 अत्र याज्ञवल्क्यः--

"वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्" इति ॥

 अत्र व्रतशब्देनाऽऽचार्यकुलवास्यश्नाति क्षारं लवणमित्यादयो ब्रह्मचारिधर्मा उच्यन्ते । तेषु हि कालपरिमाणस्य श्रुतत्वात् । दृश्यते च तेषु व्रतशब्दः । यथा व्रतेषु समर्थः स्याद्यानि वक्ष्याम इति । न तु वेदव्रतानि । तेषां तत्तत्प्रदेशाध्ययनशेषतया तदभावेऽभावाद्वेदं व्रतानि वेतिविकल्पानुपपत्तेः । अतः कालविशेषावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थ इति व्याख्यातमुज्ज्वलाकृता । "जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इतिश्रुतिविरोधपरिहारायाष्टाचत्वारिंशतमिति पक्ष आधानानधिकारिणि पक्षान्तराणि त्वधिकारिणीति व्यवस्थां केचिद्वदन्तीत्यपि तेन मातृदत्तेन चोक्तम् ।

 मनुः--

"वेदानधीत्य वेदौ वा वेदं वाऽपि समाहितः ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्" इति ॥

 एवं चाधीत्य वेद स्नानमित्यत्र वेदमित्येकवचनमविवक्षितम् । एतच्च स्नानं गुरवे वरं दत्त्वा कार्यम् ।

 तथा च याज्ञवल्क्यः--

"गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्" इति ॥

 अत्रापि वेदमित्येकवचनमविवक्षितम् ।

 वरस्वरूपे विशेषोऽत्र मनुनोक्तः--

"स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ।
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमन्ततः ॥
धान्यं वासांसि शाकं वा गुरवे प्रीतिमावहन्" इति ।

 आज्ञप्तः समावर्तनायानुज्ञातः । क्षेत्रं सस्यवत् । छत्रोपानद्द्रव्ययोः सहितयोरेवोपादानं द्वंद्वोपादानात् । वासांसि त्रीणि । एतेषां मध्ये यदेव गुरोः प्रियं तदेव दद्यादित्याशयः । गुरवे प्रीतिमावहन्नित्यनेन दानमन्तरेणैव गुरोः प्रीतौ केवलं तदनुज्ञयैव समावर्तनं कुर्यादित्यपि सूच्यते ।  अत एवोक्तं संग्रहे--

"तेनोक्तं च तथा कृत्वा स्नानं शिष्यः समाचरेत् ।
अलमर्थेन मे वत्स त्वद्गुणैरस्मि तोषितः ।
गृहान्गच्छानुजानामीत्यनुज्ञातोऽथवाऽऽचरेत्" इति ॥

 तेनोक्तं गुरुणोक्तम् । एतद्दानं गुरुप्रीत्यर्थं न विद्यानिष्क्रयः । वेदविद्यार्हस्य मूल्यस्यासंभवात् । तथा च च्छन्दोगश्रुतिः--" यद्यप्यस्मादि[३२]ळामद्भिः परिगृहीतामन्नेन पूर्णां दद्यादेतदेव ततो भूयः" इति । इळा[३३] पृथिवी । एतद्विद्याग्रहणम् ।

 तापनीयश्रुतिरपि--

"सप्तद्वीपवती भूमिर्दक्षिणार्थं न कल्पते" इति ।

 माधवीये हारीतोऽपि--

"एकमप्यक्षरं यस्तु गुरुः शिष्ये नियोजयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वाऽप्यनृणी भवेत्" इति ॥

आहिताग्निश्चेद्गुरुः "यद्यश्वं प्रतिगृह्णीयात्तदा निष्क्रयस्य षष्ठांशं द्वादशांशं वा ब्राह्मणाय दत्त्वा यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेत्" इतिश्रुतिविहितामश्वप्रतिग्रहेष्टिं कुर्यात् ।

 गृह्याग्निमांस्तु तत्स्थाने स्थालीपाकान्कुर्यात्--

"अश्वप्रतिग्रहं कृत्वा चरेच्चान्द्रायणत्रयम् ।
लक्षत्रयं वा गायत्र्या जपेद्विद्वान्समाहितः ॥
त्रिगुणं वाचयेद्वेदं शतं विप्रांश्च भोजयेत्"

 इत्यरुणस्मृत्युक्तस्य शक्तौ सत्यां समुच्चयः । दातुरियमिष्टिरिति मीमांसकमतं तु न सत्याषाढसूत्रानुसारिणामिष्टम् । "ऋत्विजोऽश्वप्रतिग्रहे वारुणी" इति काम्येष्टिप्रकरण ऋत्विज एव तस्या विधानात् । ऋत्विज इति षष्ठ्येकवचनम् । एकत्वमन्त्राविवक्षितमुद्देश्यगतत्वात् । ग्रहं संमार्ष्टीतिवत् ।

 वेदाध्ययनोत्तरं तदर्थमधिगम्यैव समावर्तनं कर्तव्यम् ।

"वेदान्वेदांस्तथा वेदौ वेदं वाऽपि समाहितः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः" इति कौर्मोक्तेः ।

 प्रथमं वेदानितिवचनं चतुष्ट्वाभिप्रायं, द्वितीयं त्रित्वाभिप्रायम् । अर्थमधिगम्यार्थं ज्ञात्वेत्यर्थः ।  उक्तश्च जैमिन्यादिभिः प्रथमसूत्र एवार्थज्ञानं विनाऽध्ययनमात्रेण समावर्तनाधिकाराभावः ।

 एवं च विद्यास्नातकव्रतस्नातकयोरुभयोरपि स्नानात्पूर्वं वेदार्थज्ञानमावश्यकमिति सिद्धम् ।

 तत्र स्नातकस्त्रिविधः । विद्यास्नातको व्रतस्नातको विद्यावतस्नातकश्च । अत्र व्रतशब्देनाक्षारलवणाशित्वादिरूपा ब्रह्मचारिधर्मा उच्यन्ते । एतत्कालस्तु "अष्टाचत्वारिंशद्वर्षाणि चतुर्विं शतिं द्वादश यावद्ग्रहणं वा" इति गृह्य उक्तः । "अधीत्य वेद स्नानम्" इत्यस्मिन्सूत्रे स्नानं व्याख्यास्याम इत्येतावता सिद्धेऽधीत्य वेदमितिवचनमध्ययनप्रधानं स्नानं न कालप्रधानमितिख्यापनार्थम् । तेनातिक्रान्तेऽपि व्रतकाले सति संभवेऽधीत्यैव स्नातव्यमिति । अत्यन्ताशक्तावेव व्रतमात्रेण स्नातव्यमिति । विद्यास्नानं विद्याव्रतस्नानं च प्रशस्तं व्रतमात्रस्नानं गर्हितमिति । ब्रह्मचर्यस्य विद्यार्थत्वाच्छ्रुतिविशेषाच्च पूजायां फलविशेष इति मातृदत्तः ।

 गोभिलगृह्ये--

"त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको
विद्याव्रतस्नातक इति तेषामुत्तमः श्रेष्ठः" इति ।

 कामं तु याज्ञिकस्येतिसूत्रव्याख्यावसरे कर्कः--यज्ञं वेदेति याज्ञिकस्तस्य कामं स्नानं भवति षडङ्गमर्थतोऽनधिगम्यापीति । हरिहरोऽपि--साङ्गं वेदमधीत्यावबुध्य स्नायादित्येकः पक्षः । मन्त्रब्राह्मणात्मकं वेदमधीत्यावबुध्य स्नायादिति द्वितीयः । ग्रन्थमधीत्य यज्ञविद्यां चाभ्यस्य स्नायादिति तृतीयः । यज्ञविद्याविरहेण ग्रन्थमात्रेऽधीते न स्नायादिति निषेध इति चेति ।

अथैतत्कालः ।

 तत्रेदं गृह्यम्--"उदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोर्वैतेषु स्नायात्" इति ।

 उदगयने मकरादिषु षट्सु राशिषु श्रविष्ठार्धमारभ्य सार्धचतुर्दशसु नक्षत्रेषु स्थित आदित्य आपूर्यमाणपक्षे यानि रोहिण्यादीनि विशाखान्तान्यनुक्रान्तानि नेतराणि तेषु स्नायात् । वाशब्दः स्नानस्य विकल्पार्थः स्नायान्न वा स्नायादिति । तेन यस्य कर्मस्वधिकारो नास्ति तस्य नैष्ठिकब्रह्मचर्यमेव वा स्यात् । अनुक्रमणादेव सिद्ध एतेष्वितिवचनं रोहिण्यादिष्वसंभवे तादृशेष्वन्येष्वपि पुण्येषु स्नायादिति व्याख्यातमेतन्मातृदत्तेन ।

बौधायनसूत्रे--"रोहिण्यां तिष्य उत्तरयोः फल्गुन्योर्हस्ते
चित्रायामैन्द्रे विशाखयोर्वा स्नायात्" इति ।

 ऐन्द्रं ज्येष्ठा । दक्षिणायने विवाहेऽपि समावर्तनमुदगयन एव । मध्ये मातापित्रनुज्ञाव्यवधानस्य सूत्रकृतैवोक्तत्वात्तेनैवोदगयनस्य[३४] तस्य विहितत्वात् ।

"वैश्वदेवं गृहस्थस्य प्रातरारम्भणं भवेत् ।
स्नातकेनापि तत्कार्यं पृथक्पाको भवेद्यदि" इति ।

 वैश्वदेवप्रकर[३५]णे वक्ष्यमाणप्रयोगपारिजातधृतशौनकवचने गृहस्थस्नातकत्वरू[३६]पावस्थाद्वयप्रदर्शनस्य निरर्थकत्वापत्तेः । बहूनां स्नातकधर्माणां स्मृतिषु प्रदर्शनस्य स्वतन्त्रनक्षत्रादिकालविधानस्य च वैयर्थ्यापत्तेश्च ।

"अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः" ।

 इति निषेधस्त्वविरागिणो विवाहनिवृत्तिनिषेधपरः । मातापित्रनुज्ञायां सत्यामसति विरागे विवाहः कर्तव्य एव न तु विवाहान्निवर्तेतेति । उक्तं चैतच्छ्रुत्या "आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः" इत्यनया । आचार्यायाऽऽचार्यार्थं प्रियमिष्टं धनमाहृत्याऽऽनीय दत्त्वाऽऽचार्येण चानुज्ञातोऽनुरूपान्दारानाहृत्य प्रजासंतानं मा व्यवच्छेत्सीः प्रजासंततेर्विच्छित्तिर्न कर्तव्या । अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्राय इति विद्यारण्यश्रीपादैर्व्याख्याता । मातापित्रनुज्ञा तु "समावृत्त आचार्यकुलान्मातापितरौ बिभृयात्ताभ्यामनुज्ञातो भार्यामुपयच्छेत्" इत्यनेन सूत्रेणोक्ता । अत ए[३७]तस्मात्सूत्राद्व्यवधानसिद्धेः समावर्तनविवाहयोरव्यवधानं दूरापास्तमेव ।

 पारिजाते श्रीधरः--

"वागीशादितिपौष्णसौम्यदिनकृन्मैत्रोत्तरारोहिणी-
गोविन्देषु शशाङ्कभानुगुरुविच्छुक्रांशहोरादिषु ।
रिक्तां पर्व तथाऽष्टमीं प्रतिपदं मेषं च कीटं हरिं
हित्वा शुद्धियुतेऽष्टमेऽह्नि विमले कुर्यात्समावर्तनम्" इति ।

 वागीशः पुष्यनक्षत्रम् । अदितिः पुनर्वसू । पौष्णं रेवती । सौम्यं मृगशिरः । दिनकृद्धस्तः । मैत्रमनूराधाः । उत्तरा उत्तरात्रयम् । गोविन्दः श्रवणः । शशाङ्कश्चन्द्रः । विद्बुधः । अंशहोरा उक्तानामेव । रिक्ताश्चतुर्थीनवमीचतुर्दश्यः । पर्व पर्वद्वयम् । कीटो वृश्चिकः । हरिः सिंहः । शुद्धियुते ग्रहविशेषाक्रमणदोषशून्ये । अह्नि विमले गुरुशुक्रास्तादिदोषशून्ये ।  मदनरत्ने नारदः--

"अथोत्तरायणे जीवशुक्रयोर्दृश्यमानयोः ।
द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥
मित्रोत्तरादितीज्यान्त्यहरीन्दुरविधातृषु ।
भेष्वर्केन्दुज्ञार्यशुक्रवारलग्नांशकेषु च ॥
अथवा बीजनक्षत्रवारलग्नांशकेष्वपि ।
प्रतिपत्पर्वरिक्ताख्या अष्टमी च दिनक्षयम् ॥
हित्वाऽन्यदिवसे कार्यं समावर्तनमण्डनम्" इति ॥

 बीजनक्षत्राणि बीजावापनक्षत्राणि ।

 वसिष्ठः--

"स्नानं मध्याह्नकाले तु रोहिण्यां कारयेच्छुभम् ।
पूर्वाह्णे तदभावे च कुर्यात्स्नानं यथाविधि" इति ॥

 इदं तु ब्रह्मचारिकर्तृकमेव । समावर्तनात्प्राक्कर्माण्याचार्यकर्तृकाणि यावदुक्तं ब्रह्मचारी करोति । समावर्तनं तु ब्रह्मचारिकर्तृकमेव । अधीत्य वेद स्नानमितिसूत्रेऽधीत्येतिक्त्वाप्रत्ययेनाध्ययनस्नानयोः समानकर्तृकत्वस्योक्तत्वात् ।

अथ प्रयोगः ।

 ब्रह्मचारी साङ्गसार्थवेदाध्ययनव्रताभ्यां संपन्नः साङ्गसार्थवेदाध्ययनमात्रसंपन्नो वा वेदाध्ययनमात्रसंपन्नो वा व्रतमात्रसंपन्नो वा परिपालितब्रह्मचारिनियमः कृतकाण्डव्रतोपाकरणोत्सर्जनगोदानः कृताध्यायोपाकरणो गुरुं दक्षिणान्नादिना संतोष्य तेनानुज्ञात उदगयन आपूर्यमाणपक्षे रिक्तापर्वाष्टमीप्रतिपद्व्यतिरिक्तद्वितीयाद्यन्यतमतिथौ भानुसोमबुधगुरुशुक्रान्यतमे वारे तदंशहोरायां रोहिणीमृगतिष्योत्तराफल्गुनीहस्तचित्राविशाखान्यतमे सूत्रविहिते नक्षत्रे तदसंभवे पुनर्वस्वनूराधाज्येष्ठाश्रवणोत्तराभाद्रपदारेवत्यन्यतमे शास्त्रान्तरोक्ते नक्षत्रे मेषवृश्चिकसिंहभिन्नलग्ने गुरुशुक्रास्तबाल्यवार्धक्यमलमासवक्रातिचारदिनक्षयादिदोषशून्ये दिवसे ज्योतिर्वित्प्रोक्ते सुमुहूर्त आचार्यगृह उदकसमीपे वा गोष्ठे वा स्नानापरपर्यायं समावर्तनाख्यं कर्म कुर्यात् । यदा गोष्ठे तदा तृणवस्त्रादिभिर्गोष्ठं प्रच्छाद्य यथा सूर्यकिरणानामपि दर्शनं न भवति तथा सम्यक्कटादिना परिश्रित्य सूर्योदयात्प्रागेव तत्र प्रविश्य तत्रैव सर्वं कर्म कृत्वा रात्रौ बहिर्गन्तव्यम् । कृतनित्यक्रिय उभयकालेऽग्निकार्यक्रियांपक्षे प्रातरग्निकार्यं कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम गृह स्थाश्रमाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् ।

 ततः पिता पुत्रसमावर्तनाङ्गभूतं गणपतिपूजनमित्यादिनान्दीश्राद्धान्तं कर्मोक्तरीत्या कुर्यात् । अत्र श्रीः प्रीयतामिति विशेषः । इन्द्रः प्रीयतामिति वा ।

 अथवा नान्दीश्राद्धमात्रं पितृकर्तृकं गणपतिपूजनपुण्याहवाचनमातृकापूजनानि तु स्वयमेव कार्याणि । मातृकापूजनस्य नान्दीश्राद्धाङ्गत्वपक्षे तदपि पितृकर्तृकमेव । पितृसत्त्वेऽपि स्वयमेव[३८] वा गणपतिपूजनादि नान्दीश्राद्धान्तं कुर्यादिति केचित् ।

 ततो ब्रह्मचार्येवोल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा समावर्तनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-- जातवेदसमग्निं पलाशसमिधा यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणमित्यादि । पात्रप्रयोगकाले लौकिकाग्नावुष्णीकृता अपः शीता अपः क्षुरमानडुहं शकृद्वपनार्थं कुशमौदुम्बरं प्रादेशमात्रं दन्तधावनार्थमार्द्रं काष्ठं येनकेनचिद्बन्धुजनेनाऽऽनीतं सुरभिद्रव्ययुतं केवलं वा चन्दनं येनकेनचिद्बन्धुजनेनाऽऽनीते अहते[३९] वाससी चिह्नकरणेन लक्षितदक्षिणोत्तरभावे येनकेनचिद्बन्धुजनेनाऽऽनीते सूत्रप्रोते कुण्डले सूत्रप्रोतं सुवर्णाभिच्छादितं चान्दनं बादरं वा मणिमादर्शं छत्रं वैणवं दण्डमुपानहौ स्रजं त्रिककुत्संज्ञकपर्वतजातमञ्जनमभावे कज्जलं वेत्येतान्यासाद्य ग्रामप्रवेशार्थं रथाद्यन्यतमं वाहनमपि पात्रसमीपे यथावकाशं वा संस्थाप्य दर्व्यादीनि होमोपयुक्तानि पात्राणि पालाशीं समिधं चाऽऽसादयेत् । पलाशसमिदासादनात्पूर्वं वा ग्रामप्रवेशार्थरथाद्यन्यतमवाहनस्य पात्रसमीपे यथावकाशं वा संस्थापनम् ।

 ततो ब्रह्मवरणादि । पात्रप्रोक्षणकाल उपक्लृप्तस्य रथाद्यन्यतमवाहनस्यापि प्रोक्षणं कार्यम् । ततो दर्वीनिष्टपनादिव्याहृतिहोमान्तं समानम् ।

 ततो वैशेषिकप्रधानहोमः--ॐ इम स्तोममर्हते जातवेदसे रथमिव संमहे मा मनीषया । भद्रा हि नः प्रमतिरस्य स सद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा' इत्यासादितां पालाशीं समिधमादधाति । जातवेदसेऽग्नय इदं० । सूत्रकारपठितत्वादत्र स्वाहाकारः । व्यस्तव्याहृतीनामग्निर्ऋषिः । समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृ हत्यः क्रमेण च्छन्दांसि । समावर्तनवैशेषिकप्रधानाज्यहोमे विनियोगः । इति स्मृत्वा ताभिश्चतस्र आज्याहुतीर्जुहुयात् ।

 ततः ॐ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुष स्वाहा । अग्नय इदं० । इति प्रधानाहुतीर्हुत्वा, इमं मे वरुणेत्यादित्रिवृदन्नहोमं पुण्याहवाचनान्तं कृत्वा प्रजापतिः प्रीयतामिति वदेत् । अत्रात्रेतिवचनं विद्याव्रतस्नानविद्यास्त्रानयोर्जयादयो वैकल्पिका एव स्युः । व्रतमात्रस्नाने तु नित्या एवेत्येतदर्थम् ।

 ततोऽग्ने व्रतपते व्रतमचारिषमित्यादीनां चतुर्णां मन्त्राणां विश्वे देवा ऋषयः । अग्निवायुसूर्यव्रतपतयः क्रमेण देवताः । यजूंषि । उपस्थाने विनियोगः । ॐ अग्ने व्रतपते व्रतमचारिषं० राधि' इत्यग्निमुपतिष्ठते । 'ॐ वायो व्रतप०' इति वायुम् । 'ॐ आदित्य व्रत०' इत्यादित्यम् । 'ॐ व्रतानां व्रत०' इति व्रतपतिम् । इति चतुर्भिर्मन्त्रैर्मन्त्रोक्ता देवता उपस्थायोपनयने स्वीकृतानां ब्रह्मचर्याश्रमविहितव्रतानामुत्सर्गं कुर्यात् ।

 उदु त्यं चित्रमिति द्वयोः सोम ऋषिः । आदित्यो देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । आदित्योपस्थाने विनियोगः । ॐ उदु त्यं जातवेदसं० सूर्यम्' 'ॐ चित्रं देवानामुदगादनीकं० स्तस्थुषश्च' इति द्वाभ्यामादित्यमुपतिष्ठते । उदुत्तमं वरुण पाशमस्म० च्छ्रथायेतिमन्त्रस्य वामदेवो विश्वे देवा वा वरुण एकपदा स्वराड्जगती । उत्तरीयवासोनिधाने विनियोगः । ॐ उद्त्तमं वरुण पाशमस्म० च्छ्रथाय' [ इति ] उत्तरीयं वासो निदधाति ।

 ततोऽन्येनाहतेन महता वाससा शरीरं प्रावृत्य द्विराचम्यावाधममित्यस्य वामदेवो विश्वे देवा वा वरुण एकपदा स्वराड्जगती । अन्तरीयवासोनिधाने विनियोगः । ॐ अवाधमं वरुण पाशमस्म० च्छ्रथाय' [ इति ] अन्तरीयं वासो निदधाति । अन्तरीयं वासो नामाधरीयं कौपीनाच्छादनं वासः । विमध्यममित्यस्य वामदेवो विश्वे देवा वा वरुण एकपदा स्वराड्जगती । मेखलानिधाने विनियोगः । ॐ विमध्यमं वरुणपाशमस्म० च्छ्रथाय' [ इति ] मेखलां विस्रस्य निदधाति । अथा वयमादित्येत्यस्य वामदेवो विश्वे देवा वा वरुणो द्विपदा त्रिष्टुप् । दण्डनिधाने विनियोगः । 'ॐ अथा वयमा० स्याम' [ इति ] दण्डं निदधाति ।

 ततोऽजिनवासोमेखलादण्डानप्सु तूष्णीं प्रास्यान्तरीयंवासोर्थिने ब्रह्मचारिणे दद्यात् ।  ततोऽपरेणाग्निं प्राङ्मुख उपविश्य 'ॐ क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हि सीः' [इति ] क्षुरं संमृशति । तं तूष्णीं वप्त्रे प्रदायाऽऽसादितासु शीतास्वप्स्वासादिता उष्णा अप आनीय 'ॐ शिवा नो भवथ स स्पृशे' इति ता अपोऽभिमृशति । अभिमर्शन एवायं मन्त्रः । न तु मिश्रणे । स स्पृश इति मन्त्रलिङ्गात् । आप उन्दन्त्वित्यस्य सोम आपो द्विपदा गायत्री । दक्षिणगोदानोन्दने विनियोगः । 'ॐ आप उन्दन्तु० वर्चसे' इति दक्षिणं गोदानमुनत्ति । ओषध इत्यस्य सोम ओषधीरेकपदा गायत्री । दक्षिणगोदान ऊर्ध्वाग्रकुशनिधाने विनियोगः । ॐ ओषधे त्रायस्वैनम्' [ इति ] दक्षिणगोदानप्रदेश आसादितं कुशमूर्ध्वाग्रं निदधाति । स्वधित इत्यस्य सोमः स्वधितिरेकपदा गायत्री । क्षुरनिधाने विनियोगः । ॐ स्वधिते मैन हि सीः' [ इति] तदुपर्यासादितं क्षुरं निदधाति । देवश्रूरित्यस्य सोमो देवश्रूरेकपदा गायत्री । सकुशकेशवपने विनियोगः । 'ॐ देवश्रूरेतानि प्रवपे' [ इति ] सकुशान्केशान्वपति । उन्दनादिवपनान्तं कर्म नापितस्य सामर्थ्यात् । यस्य कस्यचिन्मन्त्रविदो ब्राह्मणस्याऽऽचार्यस्य वा तथात्वे । नापितस्य मन्त्रपठनाधिकारस्तु दोग्धुः सांनाय्यदोहनादिष्विव वचनसामर्थ्यात् ।

 ततो 'ॐ यत्क्षुरेण मर्चयता सुपेशसा वप्तर्वपसि केशश्मश्रुवर्चया मुखं मा न आयुः प्रमोषीः' इति वप्तारं समीक्षते । ततो वप्ता श्मश्रूपपक्षकेशलोमनखानि क्रमेण शिखां विहाय वपति । वपनकर्ताऽत्र स्नानं कुर्यात् ।

 ततः स्नातकस्य मित्रजनः कश्चिदासादितमानडुहं शकृदादाय तत्रोप्तानि श्मश्र्वादीनि निधाय, 'ॐ इदमहममुष्यामुष्यायणस्य पाप्मानमवगूहामि' [ इति ] गोष्ठ उदुम्बरे दर्भस्तम्बे वा गर्तं कृत्वा तत्राऽऽनडुहेन शकृत्पिंडेन सह तानि प्रक्षिप्य मृदा गर्तं प्रपूरयति । अमुष्येत्यस्य स्थाने षष्ठीविभक्त्येकवचनोत्तरशर्मशब्दान्तं व्यावहारिकं नाम ग्राह्यम् । आमुष्यायणस्येत्यस्य स्थाने तु षष्ठ्येकवचनान्तं गोत्रनाम । यथा-- इदमहं देवदत्तशर्मणो वासिष्ठस्य पाप्मानमवगूहामीति ।

 अथ स्नातकः करञ्जकल्काद्युद्वर्तनेन शरीरमलं दूरीकृत्य 'ॐ अन्नाद्याय व्यूहध्वं दीर्घायुत्वाय व्यूहध्वं ब्रह्मवर्चसाय व्यूहध्वं दीर्घायुरहमन्नादो ब्रह्मवर्चसी भूयासम्' [ इति ] आसादितेनौदुम्बरेण काष्ठेन दन्ताञ्शोधयेत् । ततो द्वादश गण्डूषांस्तूष्णीं कुर्यात् । तत आचार्योऽन्यो वा, आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमा नानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानसुवर्जनादयो लिङ्गोक्तास्तत्तन्मन्त्रदेवताः । गायत्र्यादीनि च्छन्दांसि । स्नापने विनियोगः । आपो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन चोष्णशीताभिरद्भिः स्नापयति । प्रेरणमात्रमाचार्यकर्तृकं मन्त्रोच्चारणपूर्वकं स्नानं तु स्नातककर्तृकमेव वा । तत्तन्मन्त्रसमुदायान्ते पवमानानुवाकान्ते वा स्नानम् । केचित्तु प्रतिमन्त्रं स्नानमिच्छन्ति । तन्न । होमव्यतिरिक्तसंख्यायुक्तकर्मविधौ 'एकमन्त्राणि कर्माणि' इति परिभाषाया अप्रवृत्तेः । पवमानानुवाके संख्यायुक्तत्वाभावेऽपि पवमानः सुवर्जन इति चैतेनानुवाकेनेत्यनेन कृत्स्नस्यानुवाकस्यैव करणत्वस्योक्तेर्न प्रत्येकं मन्त्राणां करणतेति द्रष्टव्यम्।

 ततो द्विराचम्य तूष्णीं लौकिकं वासः परिधाय द्विराचम्य कटिसूत्रं कौपीनं च विस्रस्य प्रज्ञातं निधायाऽऽसादितं चन्दनपिष्टं जलेनाभ्युक्ष्य तेन पाणी प्रलिप्य 'ॐ नमो ग्रहाय चाभिग्रहाय च नमः शाकजंजभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः' [ इति ] देवेभ्यः प्राचीनं नमस्काराञ्जलिं करोति ।

"अप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः ।
दैव्यो यो मानुषो गन्धः स मामाविशतादिह" ॥

 [ इति ] तेनाञ्जलिना मुखमारभ्यानुलोममात्मानं लिम्पति ।

 तत आसादिते अहते वाससी जलेनाभ्युक्ष्य परिहितं पूर्वं वासः परित्यज्याऽऽसादितयोर्वाससोर्मध्य एकं वास आदाय प्रदक्षिणं संवेष्ट्य 'ॐ सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूराविश शिवा मा तनूराविश' इति प्रदक्षिणं वेष्टितं वासो नीविकल्पनादिप्रकारेण परिदधाति । ततो द्विराचम्य तेनैव मन्त्रेणोत्तरीयसंज्ञकं वासः परिदधाति ।

 ततो द्विराचम्य प्रज्ञातं निहितं कटिसूत्रं कौपीनं चाप्सु प्रक्षिपेत् । अत ऊर्ध्वं कटिसूत्रकौपीनधारणं न कार्यम् ।

 अथापरेणाग्निं प्राङ्मुख उपविश्याऽऽसादितं चान्दनं बादरं वा सुवर्णाभिच्छादितं मणिमासादिते कुण्डले चाऽऽदाय दर्भेण प्रबध्याग्नौ धारयन्--

"ॐ आयुष्यं वर्चस्य रायस्पोषमौद्भिदम् । इद हिरण्यमायुषे वर्चसे जैत्रायाऽऽविशतां मा स्वाहा । ॐ उच्चैर्वाज्ञि पृतनासाह सभासाहं धनंजयम् । सर्वाः समग्रा ऋद्धयो हिरण्येऽस्मिन्समाभृताः स्वाहा । ॐ शुनमह हिरण्यस्य पितुरिव नामाग्रभिषम् । तं मा हिर ण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा । ॐ प्रियं मा कुरु देवेषु प्रियं मा ब्रह्मणि कुरु । प्रियं विश्येषु शूद्रेषु प्रियं मा कुरु राजसु स्वाहा । ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा'

 इति पूर्वावशेषितेनाऽऽज्येन दर्व्या पञ्चभिर्मन्त्रैस्तदुपर्यभिजुहोति । हिरण्यायेदमिति त्यागः । अन्त्यस्यौषध्या इदमिति वा त्यागः । नात्राग्नेः परिषेको मणिकुण्डलसंस्कारत्वात् ।

 तत एतैरेव पञ्चभिर्मन्त्रैः स्वाहाकाररहितैः सर्वान्ते मणिकुण्डले च सहैव त्रिः प्रदक्षिणमुदपात्रे सम्यक्प्रक्षालयति सकृन्मन्त्रैर्द्विस्तूष्णीम् । ॐ विराजं च स्वराजं चाभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा स सृजामसि [ इति ] दक्षिणे कर्णे दक्षिणं कुण्डलं प्रतिमुञ्चति । 'ॐ ऋतुभिष्ट्वाऽऽर्तवैरायुषे वर्चसे संवत्सरस्य धायसा तेन सन्ननुगृह्णासि' [ इति ] दक्षिणकर्णस्थं कुण्डलं यथा न पतति तथाऽपिदधाति । 'ॐ विराजं च स्वराजं चाभिष्टोर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा स सृजामसि' [ इति ] वामे कर्ण उत्तरं कुण्डलं प्रतिमुञ्चति । 'ॐ ऋतुभिष्ट्वाऽऽर्तवैरायुषे वर्चसे संवत्सरस्य धायसा तेन सन्ननुगृह्णासि' [ इति ] सव्यकर्णस्थं कुण्डलं पूर्ववदपिदधाति । अत्र काण्डानुसमय एव 'संयुक्तानि त्वेकापवर्गाणि' इति सूत्रात् । 'ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोत्वपाशोऽसि' इति ग्रीवायामभिहोमसंस्कृतं मणिं बध्नाति । 'ॐ शुभि[४०]के शुभमारोह शोभयन्ती मुखं मम । मुखं च मम शोभय भूया सं च भगं कुरु । यामाहरज्जमदग्निः श्रद्धायै कामायास्यै इमां तां प्रतिमुञ्चेऽहं भगेन सह वर्चसा' [ इति ] द्वाभ्यामासादितां स्रजं धारयति । 'ॐ यदाञ्जनं त्रैककुदं जात हिमवत उपरि । तेन वामाञ्जेऽहं भगेन सह वर्चसा मयि पर्वतपूरुषम् । इत्यासादितेनाञ्जनेन द्वाभ्यां हस्ताभ्यां युगपदक्षिणी अनक्ति । तेन वामिति द्विवचनलिङ्गात् । केचित्तु यदाञ्जनमितिमन्त्रेण दक्षिणेन हस्तेन सव्यमनक्ति । एतेनैव मन्त्रेण दक्षिणम् । सव्यस्याक्षणः पूर्वमञ्जनं 'सव्य हि पूर्वं मनुष्या आञ्जते' इतिश्रुतिसिद्धमिति वदन्ति । तेषां द्विवचनलिङ्गविरोधः स्फुट एव । यन्मे मन इत्यस्य सोम आदर्शोऽनुष्टुप् । आदर्श आत्मावेक्षणे विनियोगः । 'ॐ यन्मे मनः परागतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि' इत्यात्मानमादर्शेऽवेक्षते । भानुवार आदर्शावेक्षणनिषेध एतस्य वैधत्वान्न प्रवर्तते प्रयाणकालिकादर्शावेक्षणवत् । देवस्य त्वेत्यस्य मन्त्रस्य वामदेवः प्रजापतिर्वा सविता यजुः । वैणवदण्डप्रतिग्रहणे विनियोगः । 'ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि' इत्यासादितं वैणवं दण्डं प्रतिगृह्णाति । अर्थादन्यो यः कश्चन दण्डप्रदाता । 'ॐ इन्द्रस्य वज्रोऽस्यश्विनौ मा पातम्' [ इति ] सकृन्मन्त्रमुक्त्वा तमूर्ध्वं दण्डं सोदकेन हस्तेन त्रिरुन्मार्ष्टि । उच्छब्देनैवोर्ध्वमार्जनसिद्धौ पुनरूर्ध्वग्रहणं दण्डविशेषणार्थम् । एवं चोर्ध्वं दण्डं धृत्वोर्ध्वं मार्ष्टीत्यर्थः सिद्धो भवति । सोदकेन हस्तेनोन्मार्जनं तु 'ॐ विष्णोर्मनसा पूते स्थ इत्यद्भिरुन्मार्ष्टि' इत्येतत्सूत्रेऽद्भिरिति विधानं सर्वत्रोन्मार्जनमेवोदकैरनुमार्जनादिकं तु केवलेन हस्तेनेति वैजयन्तीकृतव्याख्यानात् । पवित्रयोरनुमार्जनं तु वचनादद्भिः ।

 ततः 'ॐ वेगवेजयास्मद्द्विषतस्तस्करान्सरीसृपान्श्वापदान्रक्षा सि पिशाचापौरुषेयाद्भयान्नो दण्ड रक्ष विश्वस्माद्भयाद्रक्ष सर्वतो जहि तस्कराननग्नः सर्ववृक्षेषु जायसे त्व सपत्नहा जहि शत्रुगणान्सर्वान्समन्तं मघवानिव' [ इति ] सकृन्मन्त्रमुक्त्वा शिरस उपरि प्रदक्षिणं दण्डं त्रिर्भ्रामयति । 'ॐ प्रतिष्ठे स्थो देवते मा मा संताप्तम् [ इति ] उपविष्ट एवोपानहौ युगपदध्यवरोहति । सकृदेव मन्त्रो द्विवचनलिङ्गात् । युगपदध्यवरोहणासंभवे मन्त्रावृत्तिरनायत्या । द्विवचनं तूपरवबहुत्ववद्यथाकथंचिन्नेयम् । अत्रापि सकृदेव वा मन्त्रः । 'ॐ प्रजापतेः शरणमसि ब्रह्मणश्छदिः' इति च्छत्रं प्रतिगृह्णाति । अत्राप्यर्थादन्यो यः कश्चन प्रदाता । 'ॐ यो मे दण्डः परापतद्विहायसोऽधि भूम्याम् । इमं तं पुनराददेऽयमायुषे च बलाय च' इति दण्डं पुनरादत्ते यदि गृहीतो हस्तात्पतेत् । इदं च दण्डधारणं यावज्जीवं मधुपर्कसमाप्त्यन्तं वाऽऽवश्यकम् ।

 अथोपक्लृप्तमन्येनाऽऽनीतं रथमश्वं हस्तिनं वाऽऽरुह्य ग्रामं प्रविशति ।

तत्र--'ॐ रथंतरमसि वामदेव्यममि बृहदम्यङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तौ दूरेहेतिरिन्द्रियान्पतत्री ते नोऽग्नयः पप्रयः पारयन्तु । अयं वामश्विना रथो मा दुःखे मा सुखे रिषत् । अरिष्टः स्वस्ति गच्छतु विविघ्नन्नभिदासतः । इह धृतिरिह विधृतिरिह रमताम्" इति रथारोहणमन्त्रः ।
"ॐ अश्वोऽसि हयोऽसि मयोऽस्यत्योऽसि नरोऽस्यर्वाऽसि सप्तिरसि वाज्यसि वृषाऽसि नृमणा असि ययुर्नामासि" ।

इत्येकादशभिरश्वनामात्मकैर्मन्त्रैरश्वारोहणम् ।

"ॐ इन्द्रस्य त्वा वज्रेणाभ्युपविशामि वह कालं वह श्रियं माऽभिवह हस्त्यसि हस्तियशसमसि हस्तिवर्चसमसि हस्तियशसि(सी) हस्तिवर्चसी भूयासम्" । इतिमन्त्रेण हस्त्यारोहणम् ।

 यदा गोष्ठे कर्म तदा रात्रिपर्यन्तं तत्रैव स्थित्वा रथाद्यन्यतमं वाहनमारुह्य ग्रामं प्रविशेत् । यदा तु गृहे कर्म तदा रथाद्यन्यतमं यानमारुह्य तदानीमेव यत्र पूजां करिष्यन्तो भवन्ति तत्र गच्छेत् । यदि तु गृह एव पूजाकर्ता तदा वाहनारोहणाभावः । सूर्यदर्शनप्रतिषेधो गोष्ठकरणपक्ष एव ।

 ततः--

'ॐ स स्रवन्तु दिशो मयि समागच्छन्तु सूनृताः सर्वे कामा
अभियन्तु नः प्रिया अभिस्रवन्तु नः प्रियाः'

 इति सकृन्मन्त्रमुक्त्वा दिश उपतिष्ठते ।

 ततो यत्र पूजां करिष्यन्तो भवन्ति तत्र गच्छति । गच्छन्नेत्र वा 'ॐ यशोऽसि यशोऽहं त्वयि भूयासममुकशर्मन्' [ इति ] यः पूजां करिष्यन्भवति तमाभिमुख्येन समीपं गच्छन्यानादवरुह्यानवरुह्य वा सम्यगीक्षते ।

अथ मधुपर्कः ।

 पूजकः समावर्तनदिने स्वगृहं प्रत्यागताय स्नातकाय शयनासनादिमदावासस्थानं कल्पयित्वा कृतयानावरोहणं पूज्यं प्राङ्मुखमुपवेश्य नियतसंख्यदर्भमयं कूर्चं प्रकल्प्य पाद्यार्था अपो ह्वसीयसि पात्रे संभृत्य महत्तरेण पात्रेणापिदध्यात् । एवमर्घ्यार्थानामाचम[४१]नार्थानां च पृथक्पात्रयोः संभरणमपिधानं च । नात्र कांस्यपात्रनियमः ।

 ततो ह्रसीयसि कांस्यपात्रे दध्यानीय मध्वानयति । ततो घृतमिति त्रिवृतं मधुपर्कं कृत्वा म[४२]हत्तरेण पिधाय सूत्रेणाऽऽवेष्टयेत् । दधि मधु घृतमापः सक्तव इति पाङ्क्तो वा । अस्मिन्पक्षे दध्यादीनां मिश्रणे नास्ति क्रमः । घृतं त्वन्तत एवाभिघारणरूपत्वात् । पाङ्क्तपक्षेऽपि ह्रसीयस्यानयनं वर्षीयसाऽपिधानं च कृत्वा सूत्रवेष्टनं कार्यम् । त्रिवृत्पाङ्क्तयोरसंभवे मधुसं[४३]भवे मधुसंसृष्टो मधुपर्कः । पयो वा मधुसंसृष्टमभाव उदकमितिधर्मसूत्रोक्तप्रकारेण वा प्रकल्पयेत् ।

 ततो गां वस्त्रं यज्ञोपवीतद्वयं यथाविभवमाभरणानि माल्यादीनि चोपक ल्पयेत् । सति संभव उदीचीनप्रतिषीवणमेरकासनं बहुगुणमुत्तरदशवाससाऽऽच्छादितं पूज्यस्योपवेशनार्थं कल्पयति । एतदासनकल्पनं गृहस्य मध्ये गृहस्यैशानभागे प्रागग्रान्दर्भानास्तीर्य तेषु द्रव्याणामासादनम् । यावन्तः पूज्यास्तावन्त्यासनादीनि । प्रतिपात्रमेकैकः कूर्च आसादनार्थम् । पात्रप्रदानकाले पात्रस्याधस्तादुपरिष्टाच्च परिग्रहणार्थं द्वौ कूर्चौ । एतौ च सर्वपात्रार्थौ । अयं च बौधायनोक्तो विशेषः । वस्त्रकुण्डलस्रगादिदानमपि बौधायनीयमेव ।

 पूजकः पूज्यस्य दक्षिण उदङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य, इमं स्नातकं मधुपर्केण पूजयिष्य इति संकल्पं कुर्यात् । उक्तकूर्चादिद्रव्यजातेन सहाऽऽदातुरभिप्रायानुकूलो भूत्वोच्चैर्भूतया वाचैकैकं प्राहेति प्रदाने विधिः । पूजकः--ॐ अर्घ इति त्रिः सकृद्वा पूज्यं प्राह । कुरुतेति पूज्यः । पूजकः ॐ कूर्च इति त्रिः सकृद्वा प्राह । पूज्यः--सुकूर्च इत्युक्त्वा हस्ताभ्यां प्रतिगृह्य "ॐ राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योपम्" इत्युदगग्रे कूर्चे प्राङ्मुख उपविशेत् । ततः पूजकः--ॐ पाद्यमिति त्रिः सकृद्वा प्राह । सुपाद्यमिति पूज्यः । ततः पूजक[४४]स्य दासो वा दासी वा[४५] तदीयब्राह्मणो वा पूज्यस्य पादौ प्रक्षालयति । तत्र ब्राह्मणो दक्षिणं पादमग्रे प्रक्षाल्य सव्यं प्रक्षालयति । क्षत्रियवैश्ययोस्त्वनियमः । दासो दासी वा चेत्सव्यमेवाग्रे ततो दक्षिणम् । अत्र स्मार्तं द्विराचमनम् । योऽस्य पादौ प्रक्षालयतीत्यनेन प्रक्षालने कर्त्रनियमः प्रदर्श्यते । तेन ब्राह्मणकर्तृकमपि प्रक्षालनं भवति न तु शूद्रः शूद्रा वेति द्वयोरेव कर्तृत्वं नियतमिति सिद्धं भवति । प्रक्षालयितृहस्ताभिमर्शनविधानेनेदमप्यवगम्यते प्रक्षालनमन्यकर्तृकमेवेति । ततः पूजकः-- 'ॐ विराजो दोहोऽसि मयि दोहः पद्यायै विराजः' [ इति ] प्रक्षालयितुर्हस्तावभिमृशति । 'ॐ मयि तेज इन्द्रियं वीर्यमायुः कीर्तिर्वर्चो यशो बलम्' [ इति ]आत्मानं प्रत्यभिमृश्याप उपस्पृशेत् ।

 ततः पूजकोऽर्घ्या अपो गन्धमाल्यवस्त्रयज्ञोपवीतद्वयालंकरणसहिता गृहीत्वा, ओमर्घ्यमिति त्रिः सकृद्वा प्राह । पूज्यः--स्वर्घ्यमित्युक्त्वा 'ॐ आ मा गन्यशसा स सृज तेजसा वर्चसा पयसा च तं मा कुरु प्रियं प्रजानामधिपतिं पशूनाम्' [ इति ] गन्धमाल्यवस्त्रयज्ञोपवीतद्वयालंकरणसहितमञ्जलौ पूजकेन किंचिन्निनीयमानमर्घ्योदकं प्रतिगृह्णाति ।

 तत आत्मानं गन्धमाल्यवस्त्रकुण्डलस्रगादिभिरलंकृत्यावशिष्टमर्घ्यजलं पूजकाय प्रदाय 'ॐ समुद्रं वः प्रहिणोमि० मत्पयः' [इति] तज्जलं पूजकेन निनीयमानमनुमन्त्रयते । गन्धादीनामर्घ्यजलेन सह दाने बौधायनसूत्रमूलिका मातृदत्तोक्तिः, रुद्रस्कन्धभाष्यकारोक्तिश्च मू[४६]लम् । ततः पूजकः--'ओमाचमनीयमिति त्रिः सकृद्वा प्राह । पूज्यः स्वाचमनीयमित्युक्त्वा, अमृतोपस्तरणमसीत्यस्य याज्ञिक्यो देवता उपनिषदो जलं यजुः । आचमने विनियोगः । 'ॐ अमृतोपस्तरणमसि' [ इति ] पूजकदत्तजलार्धेनाऽऽचामति । नात्र शुद्धाचमनम् । पूजकः--ॐ मधुपर्क इति त्रिः सकृद्वा प्राह । पूज्यः--सुमधुपर्क इत्युक्त्वा देवस्य त्वेत्यस्य प्रजापतिः सविता यजुः । मधुपर्कप्रतिग्रहणे विनियोगः । 'ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि' [ इति ] आकाशवताऽञ्जलिना प्रतिगृह्य 'ॐ पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे' [ इति ] तं भूमौ प्रतिष्ठाप्य 'ॐ यन्मधुनो मधव्यं परममन्नाद्य रूपं तेनाहं मधुनो मधव्येन परमेण रूपेण परमो मधव्योऽन्नादो भूयासम्' [ इति ] अङ्गुष्ठेनोप[४७]मध्यमयोपकनिष्ठिकया चाङ्गुल्या मधुपर्कमालोडयति सकृन्मन्त्रेण द्विस्तृूष्णीम् । 'ॐ तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामि' [ इति ] मन्त्रावृत्त्याऽङ्गुष्ठेनोप[४८]मध्यमयोपकनिष्ठिकया चाङ्गुल्या त्रिर्मधुपर्कं प्राश्नाति । हस्तं प्रक्षाल्य रातय उच्छिष्टं प्रयच्छति । तदभावे सर्वं प्राश्नीयात् । लोकविद्विष्टत्वादिदानीं सर्वस्यैव प्राशनम् ।

 ततोऽमृतापिधानमसीत्यस्य याज्ञिक्यो देवता उपनिषदो जलं यजुः । आचमने विनियोगः । 'ॐ अमृतापिधानमासि' [ इति ] सर्वेण पूर्वाचमनशिष्टजलेनाऽऽचामति । ततो मुखं हस्तं च प्रक्षाल्य स्मार्तमाचमनं लौकिकजलेन । ततः पूजकः--ॐ गौरिति त्रिः सकृद्वा प्राह । पूज्यः--सुगौरित्युक्त्वा 'ॐ गौर्धेनुर्भव्या माता रुद्राणां दुहिता वसूना स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत' इति पठित्वा तामुत्सृजेत् । मन्त्रलिङ्गाद्गौरत्र स्त्र्येव । तस्या हननपक्षे 'ॐ गौरस्यपहतपाप्माऽप पाप्मानं जहि मम चामुष्य च हतं मे द्विषन्तर हतो मे द्विषन्कुरुत' इति पठित्वा परिचारकैः संस्कृतं तन्मांसं भुञ्जीयात् । उत्सर्गपक्षेऽन्येनानिषिद्धेन मांसेन । कलौ गोवधस्य निषिद्धत्वादुत्सर्ग एव कर्तव्यः । अन्यमांसाशनमपि न भवति । तस्यापि कलौ निषिद्धत्वात् । मांसस्थाने माषसहितमन्नं देयम् । पूजको माषसहितमन्नं संस्कृत्य सिद्धेऽन्न ॐ भूतमिति त्रिः सकृद्वा प्राह । पूज्यः-- 'ॐ तत्सुभूतं विराडन्नं तन्मा क्षयि तन्मेऽशीय तन्म ऊर्जं धास्तत्सुभूतम्' इति पठित्वा ब्राह्मणान्भोजयतेति प्रत्याह । तत्र ब्राह्मणाश्चत्वारो नानागोत्राः । 'चतुरो नानागोत्रान्ब्राह्मणान्भोजयतेत्येव ब्रूयात्' इति बौधायनोक्तेः । ततः पूजको ब्राह्मणभुक्तशिष्टमन्नं स्नातकाय ददाति । पूज्यः--'ॐ द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी ते ददातु प्राणः प्रतिगृह्णातु प्राणस्त्वाऽश्नातु प्राणः पिबतु' इति पूजकेन दत्तमन्नं प्रतिगृह्णाति ।

 इन्द्राग्नी म इत्यस्य सोम इन्द्राग्न्यादयोऽनुष्टुप् । अन्नाशने विनियोगः । 'ॐ इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना' [ इति ] यावत्कामं प्राश्नाति । यदि पात्रे शेषो भवेत्तदा तं रातये प्रयच्छेन्निखनेद्वा । कलौ रातय उच्छिष्टदानस्य लोकगर्हितत्वान्निखननमेव ।

 ततो मुखादिकं प्रक्षाल्य द्विवारमाचामेत् । अत्र वा गन्धादीनां दानम् । भुक्तवद्भ्यो वस्त्रयुगानि(णि) कुण्डलयुगानि स्रगलंकरणमिति च दद्यादेकधनं पष्ठौहीं च दद्यादित्येके । प्राङ्मधुपर्कादलंकरणमेके समामनन्तीति बौधायनोक्तम् । इदमुपलक्षणं गन्धादीनाम् । एकधनं मुख्यं धनम् । पष्ठौही चतुर्वर्षा प्रथमप्रसूता गौः । पूर्वत्र गन्धमाल्यादिदानप्रतिषेधमुक्त्वोक्तं देवत्रातेनापि, तान्युपरते कर्मणि दातव्यानीति । उपरते समाप्ते मधुपर्काख्ये कर्मणि सतीत्यर्थः । भोजनान्तो हि मधुपर्कः । अनेनैव प्रकारेणर्त्विगाचार्यश्वशुरवैवाह्यादिभ्यो मधुपर्कदानम् । यं रातिं मदधीनः स्यादिति यः कामयेत स स्वयं भुक्त्वाऽऽचम्य तस्य व्रतोच्छिष्टस्य(ष्टं) भुक्तवत आचान्तस्य रातेर्दक्षिणं हस्तं गृह्णाति 'ॐ यस्मिन्भूतं च भव्यं च सर्वे लोका इह श्रिताः । तेन त्वाऽहं प्रतिगृह्णामि त्वामहं ब्रह्मणा त्वामहं गृह्णाम्यसौ' इति मन्त्रेण । अत्रासावित्यत्र रातेर्नाम्नो ग्रहणम् । इदं च हस्तग्रहणं काम्यं कामयेनेति वचनात् ।

 ततः स्नातकः कल्पिते तस्मिन्नावसथे रात्रिश्चेस्थित्वा स्वगृहं गच्छेत् । यदा तु पिताऽध्यापयिता ग्रामाद्बहिर्नद्यादौ गृहाद्दूरस्थे गोष्ठे वा चेत्स्नानं तदा छत्रधारणान्तकर्मानन्तरं रथाद्यन्यतमं यानमारुह्य पितृगृहमागच्छेत् । पित्रतिरिक्तेऽध्यापयितरि तु तद्गृहे स्नानं कृत्वा रथाद्यन्यतमं यानमारुह्य पितृगृहं गन्तव्यम् । पित्राऽपि स्नातकस्य पुत्रस्य स्वगृहागमने मधुपर्कपूजा कार्या । पिता मधुपर्केणार्हयेदिति मनुवचनात् । एवमन्यैरपि स्नातकस्य मधुपर्कपूजा कार्या । यदिदं यानारोहणं दिशामुपस्थानं पूजकनिरीक्षणं च समन्त्रमुक्तं तत्समावर्तनाङ्गत्वात्स्नातकस्यैव भवति नर्त्विगादीनाम् । अत एवाऽऽचार्येण पूजकनिरीक्षणोत्तरं कर्मान्तराधिकारार्थोऽथशब्दः प्रयुक्तः ।

 ततः स्नातको ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

अथ मधुपर्कविषये किंचिदुच्यते ।

 मधुपर्को द्विविधः । गोसहितस्तद्रहितश्च । तत्र गोसहितो वेदाध्याय्याचार्यादीनाम् । तत्रेदं धर्मसूत्रम् 'गोमधुपर्कार्हो वेदाध्याय्याचार्य ऋत्विक्स्नातकः श्वशुरो राजा वा धर्मयुक्तः' इति । गौश्च मधुपर्कश्च गोमधुपर्कौ ताभ्यामर्हो योग्य इत्यर्थः । एतादृशे समासे मधुपर्कान्तर्गतगोरपेक्षयाऽधिका गौर्देया भवति । वेदाध्यायीत्याचार्यादिविशेषणम् । यद्याचार्यादयः कृत्स्नवेदाध्यायिनस्तदैव मधुपर्कादधिका गौर्देया नान्यदेति । एतेन ज्ञायते वेदैकदेशाध्यायिनोऽप्याचार्यादयः स्युस्तेऽपि केवलेन मधुपर्केण पूज्या एवेति ।

 अथवा गवा युक्तो मधुपर्को गोमधुपर्क इत्येवं समासः । मधुपर्कश्चात्र मुख्यवृत्त्या मधुपर्कप्रदानान्तः । अस्मिन्पक्षे मधुपर्कान्तर्गतगोरप्यभावः । अधिकगोदानाभावस्तु सुतराम् । अन्यश्च धर्मसूत्रे विशेषः--'आचार्यायर्त्विजे स्नातकाय श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च' इति । पूर्वोक्तविशेषणविशिष्टानामाचार्यादीनां संवत्सरोत्तरं प्राप्तानामेतेषां गोयुक्तमधुपर्केण पूजा कार्येत्यर्थः । अनेन सूत्रेणावधिप्रदर्शनं क्रियते । विद्यास्नातकविद्याव्रतस्नातकाभ्यामेव गौर्देया न केवलव्रतस्नातकाय । उत्तरसूत्रादिदं ज्ञायते--पूर्वसूत्रे धर्मोपदेष्टृत्वादिधर्मसंपत्तिप्रयुक्तो मधुपर्क इति । तत्र धर्मोपदेष्टुर्मधुपर्क उपनयनोत्तरमृत्विजो वरणोत्तरं स्नातकस्य समावर्तनान्ते श्वशुरस्य देवकोत्थापनान्ते राज्ञोऽभिषेकान्त इति द्रष्टव्यम् । प्रतिनिमित्तं नैमित्तिकमितिन्यायात्, ऋत्विजो वृत्वा मधुपर्कमाहरेदित्याश्वलायनसूत्रात्पुनः पुनर्यज्ञ इति च्छन्दोगसूत्राच्च प्रतियज्ञं संवत्सरोत्तरं देवभूतपितृभूतानामृत्विजां कर्मव्यतिरिक्तकाल उपस्थितिः संभवति न मनुष्यभूतानां कर्मव्यतिरिक्तकाल एतेषामृत्विक्त्वासंभवात् ।

 अन्यानपि मधुपर्कार्हानाह जाबालिः--

"विवाह्यमृत्विजं चैव श्रोत्रियं गृहमागतम् ।
अर्हयेन्मधुपर्केण स्नातकं प्रियमेव च" इति ॥

बौधायनोऽपि--"अथैतेऽर्घ्या ऋत्विक्श्वशुरपितृव्यमातुलाचार्या राजा स्नातकः प्रि[४९]यागतोऽतिथिरिति संवत्सरं पर्यागतेभ्य एतेभ्य एव कुर्याद्विवाहे वरायाथर्त्विग्भ्यः कर्मणि कर्मणि ददाति" इति ।

 अर्घ्या अर्घ्यार्हा मधुपर्कपूजार्हा इति यावत् । पितृव्यमातुलविवाह्यप्रिया तिथीनां सूत्र इतिशब्देन संग्रहो द्रष्टव्यः । विवाह्यस्य तु केवलं मधुपर्क एव न तु गौरधिका ।

 ऋत्विग्भ्यो देयानां गवां संख्याविशेष उक्तो बौधायनगृह्ये-- 'नानामहर्त्विग्भ्यो गाः प्राहैकां होत्रकेभ्यः सर्वेभ्यो वैकां विभवात्' इति ।

 उत्सर्गपक्षे विशेष उक्तस्तेनैव--"तस्यामुत्सृष्टायां मेषमजं वाऽऽलभत आरण्येन वा मांसेन न त्वेवामांसोऽर्घः स्यादशक्तौ माषान्नम्' इति ।

 अन्यच्च तेनैवोक्तं-- 'महयेदृत्विजमाचार्यं चाऽऽत्मानं वा एष महयति यः स्वमृत्विजमाचार्यं च महयति' इति ।

 महयति पूजयतीत्यर्थः ।

अथात्यातुरस्य समावर्तनानुकल्पः ।

 तत्राऽऽपस्तम्बः--'अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति' इति ।

 व्याख्यातमेतत्सुदर्शनेन--"अथापरमेतद्विधानमुच्यत इति शेषः । तीर्थे पुण्यनद्यादौ । समिधं पालाशीम् । एवकाराच्चास्मिन्विधौ नान्यत्किंचिदनुष्ठेयम्" इति ।

 प्रयोगस्तु--ब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा वासोन्तरपरिधानादि कृत्वा श्रोत्रियागारादग्निमाहृत्य यत्र क्व चाग्निं विधिनोपसमाधाय तत्र प्रजापतिं मनसा ध्यायंस्तूष्णीमेव समिधमादधाति । केशश्मश्रुवपनादिकमन्यदप्यविरोधि तूष्णीमेव कर्तव्यमिति । अत्र क्रमः-- संकल्प्य मेखलादीनि त्यक्त्वा वपनं ततस्तीर्थे स्नानमिति । परिधानादीत्यादिपदेन द्विराचमनं तिलकधारणं च । वपनादिकमित्यादिपदेन नखनिकृन्तनमिति ।

 समावर्तनस्य फलमाहाऽऽश्वलायनः--'महाभूतं स्नातको भवतीति विज्ञायते' इति । स्नातको हि महद्भूतं श्रूयते । कथं पुनः स्नातकस्य महत्त्वम् ।

उच्यते--

"देवैश्चापि मनुष्यैश्च तिर्यग्योनिभिरेव च ।
गृहस्थः सेव्यते यस्मात्तस्माज्ज्येष्ठो गृहाश्रमी' इति स्मृतेः ॥
" यः स्नातकः स भवति महाभूतम्" इति श्रुतिरपि ।

स्मृत्यन्तरं च--

"पृथिव्यादिपञ्चकवदुपकारान्करोति यत् ।
देवा मनुष्याः पितरः सर्वे चैनं समाश्रिताः ॥
विद्या विद्यार्थिनश्चापि शिष्याः शुश्रूषवस्तथा ।
आहुर्हि वेदविज्ञानं पूर्वमन्वादयोऽपि च ॥

स्नातकस्यैव माहात्म्यं महाभूतमयं यतः ।
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः" इति ॥

इति संस्काररत्नमालायां समावर्तनसंस्कारप्रयोगः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां नवमं प्रकरणम् ॥ ९ ॥

  1. घ. नोक्तं प्रा ।
  2. घ. ङ. व्यस्ताना ।
  3. ख. ऋषिः ।
  4. क. ख. ग. त्रयप्रा ।
  5. क. स्मरेत् ।
  6. ङ. यत्र्याऽष्ट ।
  7. घ. पूर्वे तु ।
  8. ङ. यत्र्याऽष्ट ।
  9. घ. ङ. ताग्निरि ।
  10. ग घ. ङ. श्च । वि ।
  11. घ. ङ. न्याय्यः । प ।
  12. ग घ. ङ. दशाहः ।
  13. क. ककृत्तु । अ ।
  14. ग. घ. ङ. नास्येव ।
  15. क. नात्तत्सं ।
  16. क दैन्द्रं द ।
  17. क. कद्या ।
  18. क. स्यानवतारात् । इत्थमयं न्यायः--आ ।
  19. ग. घ. ङ. पि । प्राजा ।
  20. क. वाग्निका ।
  21. ग. घ. ङ. वाहासभवात् । अ ।
  22. क. पक्षाने ।
  23. घ. ङ. कीर्त्यौ व ।
  24. ख. शब्दसा ।
  25. घ. ङ. णः । तिविहायस्ये ।
  26. ग. यस्ये ।
  27. ङ. हारिते ।
  28. क. के च च ।
  29. क. न द्वि ।
  30. ग. विटनामा।
  31. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।
  32. ख. घ. ङ. दिलाम ।
  33. ख. ङ. इला ।
  34. क स्य वि ।
  35. क. रणस्थव ।
  36. घ. ङ. रूपव्यव ।
  37. ग. घ. ङ. एव त ।
  38. ग. व ग ।
  39. ग. घ. ङ. ते सू ।
  40. घ. ड. के शोभ ।
  41. क. मनीयार्था । ख. मनीयानां ।
  42. ग. घ. ङ. वर्षीयसा ।
  43. क. ख. संसृ ।
  44. क. ख. कस्तद्दासो ।
  45. क. ख. वा पू ।
  46. ग. घ. ङ. मानम् ।
  47. घ. ङ. पक ।
  48. ग घ. ङ. पक
  49. घ. ङ. प्रियो वरोऽति ।