अथाष्टमं प्रकरणम् ।

अथ दर्शश्राद्धापरपर्यायमासिश्राद्धप्रयोगः[१]

 [२]र्ता तद्दिवसप्रक्षालितश्वेतवस्त्रधृक्प्र(त्प्र)क्षालितपाणिपादः कृतनित्यक्रियो दर्भपाणिः पूर्वाह्ण एव सपत्नीकपितृवर्गस्य सपत्नीकमातामहवर्गस्य च तिलतर्पणं[३] नद्यादौ विधायासंभवे गृह एव तिलरहितं विधायाऽऽचम्य श्राद्धप्रदेशसमीपे हयश्चेत्तं दूरीकृत्य रजस्वलापतितकुक्कुटश्वमार्जारादीनां मध्यतो गमनं दृष्टिपातश्च यथा न भवति तथा परिवृते गोमयोपलिप्ते देश आसन उपविश्य स[४]र्वदृग्दोषनिवर्हणार्थं समीपे छागं तदभावे कृष्णाजिनं बद्ध्वा तस्याप्यभावे तूष्णीं तिलान्प्रागादिषु[५] चतसृषु दिक्षु[६] प्रदक्षिणं विकीर्याऽऽचम्य[७],

"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः" इति त्रिः पठित्वा,

"निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया ।
रक्षांसि यक्षाश्च पिशाचगुह्यका हता मया यातुधानाश्च सर्वे" ॥

 इति स[८]र्वदोषनिवर्हणार्थं सकुशान्यवान्प्रदक्षिणं श्राद्धस्थले विकीर्य,

"तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् ।
पङ्क्तिं वै श्रोत्रियो रक्षत्वतिथिः सर्वरक्षकः" ॥

 इति तिलानप्रदक्षिणं प्राचीनावीती प्रदक्षिणं यज्ञोपवीती वा वि[९]कीर्य,

"ये राक्षसाः श्रिता दिक्षु श्राद्धकर्मविघातकाः ।
तिलप्रकिरणात्सर्वे तेऽपगच्छन्तु दूरतः" ॥

 इति दिग्बन्धार्थं तथैव तिलान्विकिरेत् । ततः प्रमादकृताविज्ञाताशुचित्वनिवृत्त्यर्थं शुचित्वातिशयार्थं वा पुण्डरीकाक्षं स्मरेत् । ततः कुरुक्षेत्राय नमः । गयायै नमः । गङ्गायै नमः । प्रभासाय नमः । पुष्करेभ्यो नमः । गदाधराय नमः । वस्वादिभ्यः पितृभ्यो नमः । इति ध्यानपूर्वकमेतान्नमस्कृत्योदङ्मुखो द्विराचम्य,

([१०] "पवित्रं ते वितनं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत" ॥

 इति दर्भचतुष्टयात्मके दर्भत्रयात्मके दर्भद्वयात्मके वा ब्रह्मग्रन्थिमती हस्तयोः पवित्रे बिभृयात् । द्विगुणीकृतानां दर्भशिखानां पाशः प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेन(ण) प्रवेश्यते स ब्रह्मग्रन्थिः । अनन्तर्गर्भितसाग्रद्व्याद्यन्यतमसंख्यदर्भनिर्मितं प्रादेशमात्रं पवित्रं[११] कुर्यात् । तन्मूलं द्व्यङ्गुलम् । एकाङ्गुलो ग्रन्थिः । चतुरङ्गुलमग्रम् । तस्य ग्रन्थिः प्रणवेन कार्या । आचमनसमये ग्रन्थिमत्पवित्रे पात्रे निधायाऽऽचमनार्थं ग्रन्थिरहिते अन्ये पवित्रे धृत्वाऽऽचमने कृते ग्रन्धिरहिते पवित्रे त्यक्त्वा पूर्वधृते ग्रन्थिमती पवित्रे बिभृयात् । पवित्रस्य भूमौ पाते स्नात्वाऽऽघमर्षणं सकृज्जपित्वा प्राणायामत्रयं कुर्यात् । श्राद्धमध्ये स्नाननिषेधान्मार्जनमेव । ततः ) प्राणानायम्य देशकालौ संकीर्त्य पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानां तृप्त्यर्थमित्युक्या प्राचीनावीती भूत्वा दक्षिणामुखः, अस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थे ([१२]मासिश्राद्धमन्नेन हविषा सद्यः करिष्य इति संकल्पं कुर्यात् । सपत्नीकानामित्येतदमुकगोत्राणामित्येतत्पूर्वं वा वदेत् । अमुकदामुकदापत्नीसहितानामित्येवं वा सपत्नीकशब्दस्थाने वदेत् । एवं तत्तद्विभक्त्यूहेन सर्वत्र गोत्रोच्चारणं सर्वत्र सकारसहितं वा । यथाऽमुकसगोत्राणामिति ।) पूर्वं गोत्रोच्चारणं पश्चान्नामोच्चारणमित्येवं वा । एवं सर्वत्र । नामाज्ञाने पिण्डदानव्यतिरिक्तकर्मसु ब्रह्मविष्णुशिवशब्दैर्व्यवहारः । गोत्राज्ञाने काश्यपगोत्रम् । ([१३]सर्वदा रुद्राक्षतुलस्यादिधारणनियमरहितस्य न श्राद्धे रुद्राक्षतुलस्यादिधारणम् । नात्र शङ्खशुक्तिघण्टानादाः । सर्वत्र देवकार्येषु दक्षिणजानुनिपातः । पित्र्यकार्येषु सव्यजानुनिपातः । देवकार्य ऋजवश्चत्वारश्चत्वारो दर्भाः । पितृकार्ये पञ्च पञ्च भुग्नाः पिण्डास्तरणवर्जम् । श्राद्धारम्भप्रभृति समाप्तिपर्यन्तं कलहं भार्यादिताडनं शूद्रादिसंभाषणं च न कुर्यात् । एवं विप्रा अपि न कुर्युः । मालाधारणमपि विप्रा न कुर्युः कर्ता च । एतस्मिन्दिने स्वशरीरं कर्ता नालंकुर्यात् । पिण्डदानात्प्रागेतस्मिन्दिने बालादीनपि न भोजयेत् । पक्वमपक्वं वाऽन्यस्मा अन्नं न दद्यात् । यद्येतस्मिन्दिने श्राद्धभोजनार्होऽतिथिरागच्छेच्चेत्तमपि श्राद्धे भोक्तुं नियोजयेत् । यदि प्रमादादामन्त्रितं विप्रं विस्मरेत्तदा तं प्रयत्नेन प्रसाद्य विशेषेण तोषयेत् । ) ततो यज्ञोपवीती स्वयमेव ब्राह्मणगृहं गत्वा दक्षिणहस्तेन ब्राह्मणस्य[१४] दक्षिणजानुन आलम्भनं कृत्वाऽद्य[१५] श्वो वा करिष्यमाणेऽस्मिन्मासिश्राद्धे पुरूर[१६][१७]संज्ञकविश्वदेवार्थं त्वामहं निमन्त्रये, इति निमन्त्रयेत् । दैवे क्षणः क्रियतामिति ब्रूयात् । ओं तथेति स विप्रः प्रतिजानीयात्[१८] । प्राप्नोतु भवानिति कर्ता विप्रं वदेत् । प्राप्तवानीति विप्रः कर्तारं प्रति वदेत् । ([१९]आर्द्रव[२०]संज्ञकविश्वदेवार्थं त्वामहं निमन्त्रय इति द्वितीयविप्रनिमन्त्रणम् । उभयत्रापि पुरूरवार्द्रव[२१]संज्ञकविश्वदेवार्थं त्वामहं निमन्त्रय इत्येवं वा । इदं च पक्षद्वयं सर्वत्र[२२] वैकल्पिकं ज्ञेयम्[२३] । ) दैवे क्षणः क्रियतामित्यादि समानं सर्वत्र । मातामहार्थं पृथग्वैश्वदेवपक्षे तदर्थमपि द्वौ विप्रौ पूर्ववन्निमन्त्रयेत् । अत्र देवविप्रावा ब्रह्मन्नित्यनुवा[२४]कम् , उपह्वये सुदुघां धेनुमेतां सुहस्तो० स्तदु षु प्रवोचमित्यृचं वा यथाशाखं पठेताम् । उपह्वये हिंकृण्वतीत्यृग्द्वयं पठेदिति केचित् । ततः प्राचीनावीती पित्रर्थब्राह्मणगृहं गत्वा तस्य सव्यजानुन आलम्भनं कृत्वा, अद्य करिष्यमाणेऽस्मिन्मासिश्राद्धे सपत्नीकपित्रर्थं[२५] त्वामहं निमन्त्रय इति विप्रं निमन्त्रयेत् । पित्र्ये क्षणः क्रियतामिति ब्रूयात् । ओं तथेति स विप्रः प्रति जानीयात् । अस्मिन्मासिश्राद्धे सपत्नीकपितामहार्थं[२६] त्वामहं निमन्त्रये । अस्मि० सपत्नीकप्रपितामहार्थं[२७] त्वामहं निमन्त्रये । अस्मिन्मासिश्राद्धे सपत्नीकमातामहार्थं[२८] त्वामहं निमन्त्रये । अस्मिन्मासिश्राद्धे सपत्नीकमातुःपितामहार्थं[२९] त्वामहं निमन्त्रये । अस्मिन्मासिश्राद्धे सपत्नीकमातुःप्रपितामहार्थं[३०] त्वामहं निमन्त्रये । इति यथायथं विप्रान्निमन्त्रयेत्[३१] । पित्र्ये क्षणः क्रियतामित्यादि समानं सर्वत्र । ॐ तथेति स विप्रः प्रतिजानीयात् । अत्र पितृविप्रा आ ब्रह्मन्नित्यनुवा[३२]कम्, "उपह्वये सुदुघां स्तदु षु प्रवोचम्" इत्यृचं वा यथाशाखं पठेयुः । उपह्वये हिंकृण्वतीत्यृग्द्वयं पठेत्, इति केचित् । तपोविद्याबाहुल्याद्यनुसारेण निमन्त्रणे क्रमो ज्ञेयः । सर्वेषां तुल्यत्वे त्वैच्छिकः । मातामहानां पृथग्वैश्वदेवपक्षे दश ब्राह्मणाः । तन्त्रपक्षेऽष्टौ । अत्यशक्तौ देवार्थ एकः । पितृपार्वणार्थ एकः । मातामहपार्वणार्थ एकः । पृथग्वैश्वदेवपक्षे चत्वारः । यदा त्वेक एव विप्रस्तदा तत्रैव पार्वणद्वयम् । देवस्थाने शालग्रामशिलादि संस्थाप्य देवकार्यं संपादनीयम् । तदीयप्रतिवचनानि तु स्वयमेव वदेत् । लोप एवं वा । श्राद्धसमाप्तौ तदीयमन्नमग्नौ प्रक्षिपेत् । ब्रह्मचारिणे वा दद्यात् । सर्वथा ब्राह्मणालाभेऽनियतदर्भात्मकान्दर्भवटूंस्तत्तत्स्थाने निधाय प्रतिवचनयुक्तं सर्वं श्राद्धं कर्तव्यम् । तदीयं दक्षिणादिकमन्येभ्यो ब्राह्मणेभ्यो देयम् । ब्राह्मणाभावेऽप्सु क्षेपणीयम् । स्वस्य निमन्त्रणासामर्थ्ये तु सुतेन शिष्येण सजातीयेन येन केनचित्साधुनाऽऽप्तेन वा कारयेत् । द्व्यहकालतापक्षे[३३] यज्ञोपवीती स्वयमेव ब्राह्मणगृहं गत्वेत्यादि एतदन्तं पूर्वस्मिन्दिने सायंहोमानन्तरं कर्तव्यम्[३४] । अस्यां रात्रौ न भोजनम् । तर्पणं परेद्युः श्राद्धीयप्रयोगारम्भात्प्राक् । ततो यज्ञोपवीत्येव लौकिकाग्नौ स्वयमेव पाकं कुर्यात् । ([३५]स्वस्याशक्तावन्यः कर्ता । अन्यकर्तृकत्वे पुरुषेषु समानप्रवरसपिण्डमित्रगुणवत्कृतोपकाराः प्रशस्ताः । स्त्रीषु तु पत्न्येव मुख्या पाककर्त्री । तस्या अभावे मात्राद्यन्यतमा तदभावे मातृपितृवंशजा । तत्र विधवाऽन्यगोत्रजा पाखण्डा पुंश्चली पतिता कुत्सिता व्यङ्गा चतुर्थाहःस्नाता गर्भिणी मृतवन्ध्या गर्भघ्नी दुर्मुखीत्याद्याः स्त्रियो वर्ज्याः । पाखण्ड्यादिदोषवत्त्वे पत्न्यादयोऽपि वर्ज्याः । अयं च पाको घटिकाचतुष्टयोत्तरं संगवपूर्वार्धे वाऽऽरम्भणीयः । पुरुषस्य पाककर्तृत्वे महानसे रेखाकरणादि । न स्त्रियाः पाककर्तृत्वे । पाकसिद्ध्युत्तरं कर्ता) पाकः सिद्ध आगम्यतां[३६] पुरूरवसंज्ञकविश्वदेवार्थं त्वामहं निमन्त्रये । दैवे क्षणः क्रिय[३७]ताम् । आर्द्रवसंज्ञकविश्वदेवार्थं त्वामहं निमन्त्रये । दैवे क्षणः क्रियताम् । सपत्नीकपित्रर्थं त्वामहं निमन्त्रये । पित्र्ये क्षणः क्रियतामित्यादि यथायथं दैवपित्र्यधर्मेण पूर्ववन्निमन्त्रणं कुर्यात्[३८] । पूर्ववज्जपः सर्वेषाम् । ततो द्वादशघटिकाभ्य ऊर्ध्वं कर्ता ([३९]तीर्थं गत्वा मध्याह्नस्नानं श्राद्धार्थं स्नानं च तन्त्रेण करिष्य इति संकल्प्य तन्त्रेण स्नानद्वयं विदध्यात् । प्रसङ्गसिद्धिर्वा श्राद्धार्थस्नानस्य । अस्मिन्कल्पे मध्याह्नस्नानं करिष्य इत्येतावानेव संकल्पः । ततो मध्याह्नसंध्यां कृत्वा ब्रह्मयज्ञोऽकृतश्चेत्तमपि कृत्वा तर्पणं विधाय, इमं मे वरुणेत्याद्यैर्मन्त्रैर्वरुणं संप्रार्थ्य दक्षिणप्रवाहं शुद्धं जलं श्राद्धार्थमाहरेत् । आहारयेद्वा । तदभावे शुद्धं जलमितरदिक्प्रवाहम् । तीर्थे स्नानाशक्तौ गृह एवोष्णोदकेन स्नानम् । ततो मौनी गृहमागत्य हस्तपादान्प्रक्षाल्याऽऽचम्याग्निसमीपमागत्योपविश्य सर्वां सामग्रीं स्वसमीपे निधाय शुद्ध्यर्थं पवमानानुवा[४०]कं कूश्माण्डानुवाकान्वा पठित्वा पुण्डरीकाक्षं स्मृत्वा, ॐ वैष्णव्यै नमः । ॐ काश्यप्यै नमः । ॐ क्षमायै नमः । इति पृथ्वीं नमस्कुर्यात् । तत आगतैर्ब्राह्मणैः सति संभवे श्मश्रुकर्माभ्यञ्जनादि कारयेत् । न वा । ततो द्विराचम्य सौवर्णं ताम्रमयं वाऽव्रर्णं पात्रं देवकार्यार्थं यवसंयुक्तोदकेन पूरयित्वा तस्मिन्नवसप्तपञ्चान्यतमसंख्यदर्भात्मकं ग्रन्थियुतं समन्ताद्दर्भवेष्टितं कूर्चं चन्दनं पुष्पाणि फलं हिरण्यं च प्रक्षिपेत् । ततः प्राचीनावीती राजतं ताम्रमयं वाऽव्रणं पात्रं पित्र्यकार्यार्थं तिलसंयुक्तोदकेन पूरयित्वा तस्मिन्पूर्ववत्कूर्चं चन्दनादीनि च प्रक्षिपेत् )। ततो यज्ञोपवीती 'शुची वो हव्या मरुतः शुचीनां शुचिः हि० पावकाः । अग्निः शुचिव्रततमः० प्यर्चयः" इति शुद्धोदकेनाऽत्मानं मार्जयेत् ।

ततः--

"समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

आपद्धनध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः ॥

विप्रौघदर्शनात्क्षिप्रं क्षीयन्ते पापराशयः ।
चन्दनान्मङ्गलावाप्तिरर्चनादच्युतं पदम् ॥
आधिव्याधिहरं नॄणां मृत्युदारिद्र्यनाशनम् ।
श्रीपुष्टिकीर्तिदं वन्दे विप्रश्रीपादपङ्कजम्" ॥

 इति यवतिलदर्भादिपूजोपचारहस्तो वि[४१]प्रांस्त्रिः सकृद्वा प्रदक्षिणी कुर्यात् । ततो "यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति" इतिश्रुतिसिद्धब्राह्मणमहिमानं विभावयन्विप्रा[४२]न्सकृदेव नमस्कुर्यात् ।

 ततः--

"अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा" ॥

 इति विप्रान्प्रार्थयत्[४३] । ओं तथेति विप्राः प्रतिजानीयुः । ततः पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानामित्युक्त्वा प्राचीनावीती--अस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्माता० सपत्नीकानां मासिश्राद्धं कर्तुं ममाधिकारसंपदस्त्विति भवन्तो ब्रुवन्तु, इति विप्रान्वदेत् । अस्तु तव श्राद्धाधिकारसंपदिति विप्राः प्रतिब्रूयुः । कालोऽयं मुख्यकालोऽस्त्विति भवन्तो ब्रुवन्तु, इति विप्रान्वदेत् । अस्त्वयं कालो मुख्यकाल इति विप्राः । ([४४]अत्र नीविकल्पनम् । सा च [स]कुशतिलानां परिहितवस्त्रोत्तराञ्चलदशानां वामक[४५]टिसंलग्नवस्त्रबहिर्भागेन(ण) संवेष्ट्यान्तः प्रवेश्योत्तरीयवस्त्रेणोपरिष्टाद्वेष्टनेन गोपनमिति हेमाद्र्यादयः । इयं च नीविः श्राद्धसमाप्त्यन्तम् । अत्र पूर्ववत्संकल्पः । कुरुष्वेति विप्रानुज्ञाऽधिकाऽत्र ) ततः प्राचीनावीती--

"अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्रतेषां गतं मनः"

 इति सर्वतः सदर्भांस्ति[४६]लांस्त्रिरप्रदक्षिणं विकीर्य, 'उदीरतामवर उत्प० हवेषु' इति तथैव केवलं तिलान्विकीर्य,

"श्राद्धभू[४७]मिं गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तये"

 इति वदेत् । प्रवर्तयेति विप्राः । ततस्तिलोदकमादाय दर्भैर्गायत्र्या[४८] कूश्माण्डीभिश्च गायत्र्यैव वा पाकस्य पूजोपचारादीनां च प्रोक्षणं कुर्यात्[४९] । गायत्र्यन्ते कूश्माण्डीनां सर्वासामन्ते चेति द्विवारं प्रोक्षणम् । ततः पाकादीनां पवित्रताऽस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्वदेत् । अस्तु पाकादीनां पवित्रता, इति विप्राः प्रतिब्रूयुः । तत उपवीती--([५०] अमेध्याशनरहिताया अनङ्गहीनाया अनतिजीर्णदेहाया अनवप्रसूताया अवन्ध्याया गोर्गोमयमानीय तेन गोमूत्रयुतेन तदयुतेन वा गोमयेनाभावे गारमृत्तिकया भस्मना वा श्राद्धगृहद्वाराभिमुखस्थितेऽङ्गणप्रदेश उत्तरभागे 'ॐ वैश्वदेविकं मण्डलं करोमि' इतीशानीमारभ्य प्रदक्षिणं प्रादेशमात्रं चतुरश्रं मण्डलं कृत्वा यवांश्चन्दनं पुष्पाणि प्रागग्रान्दर्भांश्च तत्र निक्षिपेत् । ततः प्राचीनावीती--प्राङ्मुख एव वैश्वदेविकमण्डलाद्दक्षिणतः प्रादेशमात्रं षडङ्गुलं वा स्थलं त्यक्त्वाऽऽग्नेयीमारभ्याप्रदक्षिणं प्रादेशमा[५१]त्रविष्कम्भं वर्तुलं मण्डलम् 'ॐ पित्र्यं मण्डलं करोमि' इति पूर्वोक्तान्यतमद्रव्येण कृत्वा तिलांश्चन्दनं पुष्पाणि दक्षिणाग्रान्दर्भांश्च निक्षिपेत् । एतयोर्मण्डलयोर्मध्ये देवपितृविप्रपाद्याद्युदकासंसर्गाय मृदादिभिरन्तरं कुर्यात् ।) अस्मिन्मासिश्राद्ध इत्यादिविधिना पूर्ववन्नि[५२]मन्त्र्य दैवे क्षणः क्रियतामित्यादि प्राप्नवानीतिविप्रप्रतिवचनान्तं पूर्ववत्कुर्यात् । पूर्ववज्जपः । ततः पूर्वे पवित्रे यस्मिन्कस्मिंश्चित्पात्रे प्रज्ञाते निधायान्ये ग्रन्थिरहिते पवित्रे धृत्वा पुरूरवसंज्ञका विश्वे देवाः स्वागतमिति चतुरश्रमण्ड[५३]लतः पश्चिमदेशे[५४] प्राङ्मुखं विप्रमुपवेश्य[५५] तत्पादौ मण्डले तेन निधाप्य सुस्वागतमिति विप्रेणोक्ते स्वयं तत्पुरतः प्रत्यङ्मुख उपविश्य[५६] धृते ग्रन्थिरहिते पवित्रे यस्मिन्कस्मिंश्चित्पात्रे निधाय गव्येन माहिषेण वा सर्पिषा सुगन्धतैलेन वा विप्रपा[५७]दावभ्यज्य ग्रन्थिरहिते पूर्वधृते पवित्रे एव धृत्वा सकुशयवगन्धषुष्पं जलं पात्रे गृहीत्वा पुरूरवसंज्ञका विश्वे देवा इदं वः पाद्यं स्वाहा न ममेति द्विवारं तज्जलं देवतीर्थेन पादयो र्निक्षिप्य सुपाद्यमिति विप्रेणोक्ते[५८] धृते पवित्रे निष्काश्य 'शं नो देवीरभिष्टये, आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः' इति[५९] पादौ मण्डलोपरि क्षालयेत्[६०] । नात्र विप्रपादाधःक्षालनम् । पादक्षालने यदि पत्नी वारि स्रावयेत्तदा पत्युर्दक्षिणतः स्थितैव स्रावयेत् । न वामे स्थिता । एवमितरविप्रेष्वपि द्रष्टव्यम् । आर्द्रवसंज्ञका विश्वे दे[६१]वा इदं वः पाद्यं स्वाहा न ममेति द्वितीयदेवविप्रे विशेषः । अन्यत्समानम् । त[६२]तः सग्रन्थिके पूर्वे पवित्रे धृत्वा प्राचीनावीती--अस्मिन्मासिश्राद्ध इत्यादिविधिना पूर्ववन्निमन्त्र्य पित्र्ये क्षणः क्रियतामिति प्रतिब्रूयात् । एवं पितामहादीनाम् । ॐ तथेति स स विप्रः । प्राप्नोतु भवानिति कर्ता । प्राप्नवानीति स स विप्रः । पूर्ववज्जपः । ततः पूर्वे पवित्रे यस्मिन्कस्मिंश्चित्पात्रे प्रज्ञाते निधायान्ये ग्रन्थिरहिते पवित्रे धृत्वोपवीती-- अस्मत्पितः सपत्नीक स्वागतम्, इति वर्तुल[६३]मण्डलतो दक्षिणे देशे पित्रर्थं ब्राह्मणं सव्येनैवोदङ्मुखमुपवेश्य[६४] तत्पादौ मण्डले तेन निधाप्य सुस्वागतमिति विप्रेणोक्ते[६५] प्राचीनावीती स्वयं प्रत्यङ्मुखः सन्नेव[६६] धृते ग्रथिरहिते पवित्रे यस्मिन्कस्मिंश्चित्पात्रे निधाय गव्येन माहिषेण वा सर्पिषा सुगन्धतैलेन वा विप्रपादावभ्यज्य ग्रन्थिरहिते पूर्वधृते एव पवित्रे धृत्वा सकुशतिलगन्धपुष्प[६७]जलं पात्रे गृहीत्वाऽस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीकेदं ते पाद्यं स्वधा न मम, इति त्रिः सकृद्वा तज्जलं पितृतीर्थेन[६८] पादयोर्निक्षिप्य सुपाद्यमिति विप्रेणोक्ते 'शं नो देवी० स्रवन्तु नः' इति मन्त्रेण[६९] निष्काशितपवित्र एव पादौ मण्डलोपरि क्षालयेत् । ( [७०] क्षालनं यज्ञोपवीतिनैव कार्यमिति संप्रदायः ।) एवं पितामहादिविप्रेषूहेन । [७१] पित्र्य एकब्राह्मणपक्षे[७२] --अस्मत्पितृपितामहप्रपितामहाः, शर्माणः, गोत्राः, वसुरुद्रादित्यस्वरूपाः सपत्नीकाः स्वागतं, पाद्यम् । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहाः, शर्माणः, गोत्राः, वसुरुद्रादित्यस्वरूपाः सपत्नीकाः स्वागतं, पाद्यमित्येवं सहैवोत्कीर्तनम् । एवमन्यत्रापि ज्ञेयम्[७३] । आचमनपादप्रक्षालनोदकानि न मेलनीयानि । ततो[७४] देवविप्रौ स्वमण्डलोत्तरत उपविश्य द्विराचमनं कुर्याताम् । पित्र्यविप्राः स्वमण्डलोत्तरतः । तेष्वा चान्तेषु कर्ता[७५], एते पवित्रे त्यक्त्वा सग्रन्थिके पवित्रे विसृष्टग्रन्थिके कृत्वा[७६] विसृज्य हस्तौ पादौ च प्रक्षाल्य द्विराचामेत् । सर्वाण्याचमनानि सव्येनैव भ[७७]वन्ति । ततो[७८]ऽन्ये सग्रन्थिके पवित्रे धृत्वोपक्लृप्ते श्राद्धप्रदेशे प्रागग्रेषु दर्भेषु पुरूरवसंज्ञका विश्वे देवाः समाध्वम् । आर्द्रवसंज्ञका विश्वे देवाः समाध्वम्, इति देवविप्रौ प्राङ्मुखावुदक्संस्थमुपवेशयेत् । सुसमास्मह इति विप्रौ[७९] । ततः प्राचीनावीती--अस्मत्पितरमुकशर्मन्गोत्र वसुरूप सपत्नीक समास्स्व । अस्मपितामह शर्मन्गोत्र रुद्ररूप सपत्नीक समास्स्व । अस्मत्प्रपितामह शर्मन्गोत्राऽऽदित्यरूप सपत्नीक समास्स्व । अस्मन्मातामह शर्मन्गोत्र वसुरूप सपत्नीक समास्स्व । अस्मन्मातुःपितामह शर्मन्गोत्र रुद्ररूप सपत्नीक समास्स्व । अस्मन्मातुःप्रपितामह शर्मन्गोत्राऽऽदित्यरूप सपत्नीक समास्स्व, इ[८०]ति यथायथं दक्षिणाग्रेषु दर्भेषु[८१] भुग्नेषु पित्र्यविप्रानुदङ्मुखान्प्राक्संस्थमुपवेशयेत् । सुसमा[८२]से, इति विप्राः । ततः[८३] प्राचीनावीत्येव--

"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः"

 इति[८४] पापहरं सप्तार्चिःसंज्ञकं मन्त्रं त्रिः पठेत् । अत्र वा सदर्भतिलविकिरणं[८५] केवलतिलविकिरणं वा पाकाद्युपचारप्रोक्षणं च । ([८६]तत उदङ्मुखो देवद्विज दक्षिणकरयोर्यवोदकं कूर्चेन दत्त्वा देवविप्रावुत्थाप्य तेष्वेव दर्भेषु वक्ष्यमाणासनेषु अन्यतमजातीये प्राङ्मुखे देवविप्रार्थे आसने विविक्ते संस्थाप्य प्राचीनावीती पित्र्यविप्रानुत्थाप्य तज्जातीयान्येवाऽऽसनानि तेष्वेव दर्भेषु दक्षिणामुखानि संस्थाप्योभयेष्वासनेषु तत्तदासनाभिमुखाग्रान्बहुलान्दर्भानास्तृणी


विप्रमामन्त्र्याऽऽवाहयेति तेनानुज्ञातः । 'विश्वे देवाः शृणु० ध्वम्' आर्द्रवविश्वान्देवानावाहयामीति पूर्ववदावाहयेत् । 'विश्वायां दक्षकन्यायां जाता धर्मान्महात्मनः । विश्वे देवा इति ख्याता देववर्या महाबलाः । शक्रेण सह योद्धॄणां विजेतारस्तु रक्षसाम् । यन्नामस्मरणादेव प्रद्रवन्त्यसुराः क्षणात् । बाणबाणासनधरा द्विभुजाः श्वेतवाससः । केयूरिणः कुण्डलिनः किरीटकटकान्विताः । धैर्यसौन्दर्यसंयुक्ता दिव्यस्रगनुलेपनाः । इन्द्रस्यानुचराः सर्वे गोप्तारस्त्रिदिवस्पतेः' इति विश्वदेवमूर्ति ध्यात्वा 'विश्वे देवाः शृ० मादयध्वम्' 'आगच्छन्तु महा० भवन्तु ते' इति द्वाभ्यां देवानुपतिष्ठते । भवाम इति विप्रौ । ततोऽपो दत्त्वा पुरूरवविश्वे देवाः संपादिता वः स्वाहाऽर्घ्या इति प्रथममर्घ्यपात्रं प्रथमविप्रस्य निकटे निदध्यात् । सन्त्वर्घ्या इति विप्रः । आर्द्रवविश्वे देवाः संपादिता वः स्वाहाऽर्घ्या इति द्वितीयमर्घ्यपात्रं द्वितीयविप्राग्रे निदध्यात् । सन्त्वर्घ्या इति विप्रः । ततोऽपो दत्त्वा प्रथमपात्रस्थं कुशद्वयं प्रागग्र प्रथमविप्रदक्षिणकरे निधाय 'या दिव्या आपः प० वर्चसा' इति मन्त्रान्ते पुरूरवविश्वेदेवा इदं वोऽर्घ्यं स्वाहा न मम इति द्विवारमर्घ्यं देवतीर्थेन दत्त्वा पुनरपो दद्यात् । अस्त्वर्घ्यमिति विप्रः । आर्द्रवविश्वे देवा इत्यूहेन द्वितीयपात्रस्थमुदकं द्वितीयविप्रकरे पूर्ववद्दद्यात् । पुरू० आर्द्र० देवा अमी वो गन्धाः स्वाहा न मम इति गन्धः । स्वाहा न ममेति सर्वत्रानुषङ्गः । प्रत्युपचारं जलदानम् । सुगन्धाः सन्त्विति प्रतिवचनम् । पुरू० आ० इमानि वः पुष्पाणि । सुपुष्पाणीति प्रतिवचनम् । पुरू० आर्द्र० एष वो धूप इति धूपं दद्यात् । सुधूपोऽस्त्विति प्रतिवचनम् । पुरूरव० आर्द्र० एष वो दीप इति दीपं दद्यात् । सुदीपोऽस्त्विति प्रतिवचनम् । पुरू० आर्द्र० इदं व आच्छादनम्, इति वस्त्रं दद्यात् । स्वाच्छादनमस्तु, इति प्रतिवचनम् । वस्त्राभावे यज्ञोपवीतं दद्यात्तच्छब्देनैव । गन्धाद्याच्छादनान्ता उपचाराः परिपूर्णा भवन्त्विति विप्रौ वदेत् । तौ च भवन्तु परिपूर्णा इति प्रतिब्रूयाताम् ।

इति देवार्चनम् ।

 ततः प्राचीनावीती दक्षिणामुखः सव्यं जान्वाच्य पित्र्यविप्रदक्षिणकरेषु तिलोदकं दर्भवटुना दत्त्वा, अस्मत्पितुः शर्मणो गोत्रस्य वसुरूपस्य सपत्नीकस्येदमासनमत्राऽऽस्यतामिति तिलसहितान्द्विगुणभुग्नान्दक्षिणाग्रान्दर्भान्वामभागे दद्यात् । धर्मोऽसीति विप्रः । अस्मत्पितामहस्य श० गो० रुद्ररूपस्य सष० दमा० । अस्मत्प्रपितामहस्य श० गो० आदित्य० सप० इदमा० । अस्मत्मातामहस्य श० गो० वसु० सष० इदमा० । अस्मत्मातुःपिता० श० गो० रू० सप० । अस्मत्मातुःप्रपिता० श० गो० आदि० पि० इदमासनमित्यूहेन क्रमेणाऽऽसनानि पूर्ववद्दद्यात् । धर्मोऽसीति विप्राः । अत्र पूर्वोक्तान्निषङ्गपदन्मन्त्राञ्जपेयुः । एकविप्रपक्षे--अस्मत्पितृपितामहप्रपितामहानां श० गो० वसुरू० सप० । अस्मत्माताहमातुःपितामहमातुःप्रपितामहानां श० गो० वसुरू० सप० इदमासनम् । सहैवोत्कीर्तनम् । एवमत्रापि । ततोऽस्मत्सपत्नीकपित्रर्थे) त्वया क्षणः करणीय इत्याद्यूहेन क्रमेण क्षणं दद्यात् । ॐ तथेति प्रतिवचनम् । अत्र पितृ(त्र्य)विप्रा आ ब्रह्मन्नित्यनुवाकं जपेयुः । ततस्तिलोदकेन भुवं प्रोक्ष्य तत्र दक्षिणाग्रान्दर्भान्संस्तीर्य तत्र दक्षिणापवर्गाणि प्रतिवर्गं त्रीणि पात्राणि निधाय तदुपरि प्रादेशमितांस्त्रींस्त्रीन्शाशान्दक्षिणाग्रान्दाक्षिणापवर्गान्निधाय तिलोदकेन क्रमेणाऽऽपूर्य शं नो देवीरिति सकृदेव मन्त्रमुक्त्वा जलमनुमन्त्र्य 'तिलोऽसि सोमदेवत्यो० नः स्वधा नमः' इति प्रतिपात्रं क्रमेण तिलानोप्य यात् । कम्बलाद्यासनेषु दशा एव मुखानि । काष्ठमयाद्यासनेषु तु मुखस्थानीयत्वेनावयवः संकेतेन परिकल्पनीयः । तत्र देवार्थासनयोर्विप्रदक्षिणदेशमनुलक्ष्य तत्रर्जून्सयवान्प्रागग्रान्दर्भान्निधाय भूर्भुवः सुवः पुरूरवसंज्ञकानां विश्वेषां देवानामिदमासनमिति प्रथमदेवविप्राय सव्यहस्तेनाऽऽसनं स्पृशन्निवेद्य, भूर्भुवः सुवः, अत्राऽऽस्यतामित्यासनं स्पृशन्नेव दक्षिणहस्तेन तं विप्रमासनस्योपरि प्राङ्मुखमुपवेशयेत् । विप्र ओमित्यङ्गीकृत्य 'जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठितः' इति मन्त्रेण तस्मिन्नासन उपविशेत् । आर्द्रवसंज्ञकानां विश्वेषां देवानामित्यूहेन द्वितीयदेवविप्र एवमेव । उपवेशनमपि प्रथमविप्रवद्द्वितीयवि


गन्धद्वारामिति गन्धमोषधयः प्रतिमोदध्वमिति पुष्पाणि च निक्षिपेत् । सर्वत्र मन्त्रावृत्तिः । ततः पित्र्यपात्राणि संपन्नानीति विप्रान्वदेत् । सुसंपन्नानीति विप्राः । ततः पित्र्यविप्रदक्षिणकरेषु तिलोदकं दत्त्वा कुशतिलहस्तः 'अस्मत्पितरं शर्माणं गोत्रं वसुरूपं सपत्नीकं त्वय्यावाहयिष्ये' इति पित्रर्थविप्रमामन्त्र्याऽऽवाहयेति तेनानुज्ञातः 'उशन्तस्त्वा ह० अत्तवे' अस्मत्पितरं सपत्नीकमावाहयामि, इति विप्रमूर्धादिदक्षिणपादान्तं तिलैरप्रदक्षिणमावाहयेत । अस्मत्पितामहं शर्माणं गोत्रं रुद्ररूपं सपत्नीकं त्वय्यावाहयिष्य इत्याद्यूहेन तत्तद्विप्रेषु पितामहादीन्पूर्ववदावाहयेत् । 'उपहूताः पितरः० त्वस्मान्' इति पितॄनुपस्थायापो दत्त्वा प्राचीनावीत्येवास्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीक संपादितास्ते स्वधाऽर्घ्या इत्याद्यूहेन तत्तदर्घ्यपात्रं तत्तद्विप्रसमीपे निदध्यात् । सन्त्वर्घ्या इति प्रतिवचनम् । ततोऽपो दत्त्वा पित्रर्थपात्रस्थान्दर्भान्द्विजदक्षिणहस्ते दक्षिणाग्रान्निधायार्घ्यपात्रोदकं किंचिदवशेषयन्खड्गपात्रे गृहीत्वा वामकरान्वारब्धेन गृहीतखड्गपात्रेण दक्षिणेन हस्तेन 'अस्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीकेदं तेऽर्घ्यं स्वधा नमः, इति पितृतीर्थेन दद्यात् । अस्त्वर्घ्यमिति विप्रः । 'या दिव्या आ० वर्चसा' इति द्विजहस्तात्स्रवन्तीरपोऽनुमन्त्रयेत् । एवं पितामहादिषूहेन तत्तत्पात्रस्थजलं पूर्ववत्खड्गपात्रेण किंचिदवशेषयन्दद्यात् । ततोऽपो दत्त्वा प्रपितामहपात्रशेषं पितामहपात्रे निक्षिप्य तज्जलं पितृपात्रे निक्षिप्य मातुःप्रपितामहपात्रशेषं मातुःपितामहपात्रे निक्षिप्य तज्जलं मातामहपात्रे निक्षिप्य पितृपितामहप्रपितामहद्विजकरस्थितकुशान्पितृपात्रे मातामहमातुःपितामहमातुःप्रपितामहद्विजकरस्थितकुशान्मातामहपात्रे च निधाय द्विजवामतः पितृपितामहप्रपितामहानां स्थानमसि मातामहमातुःपितामहमातुः प्रपितामहानां स्थानमसीति तत्पात्रद्वयं दक्षिणसंस्थं न्युब्ज निदध्यात् । अथवा मातामहादिपात्रस्थं शेषं सर्वं पितृपात्र एव निक्षिप्य तत्पात्रमेकमेव स्थापयेत् । आ समाप्तेः पात्रचालनं न कुर्यात् । ततोऽपो दत्त्वाऽस्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीकेत्याद्यूहेनामी ते गन्धाः । इमानि पुष्पाणि । धूपः, दीपः, आच्छादनम्, इति तत्तच्छब्दैर्गन्धादि दद्यात् । सर्वत्र स्वधा न ममेत्यनुषङ्गः । प्रत्युपचारं तिलोदकदानम् । वस्त्राभावे यज्ञोपवीतं तच्छब्देनैव देयम् । पूर्ववत्प्रतिवचनानि । एकब्राह्मणपक्षे व इत्यूहः ।

इति पित्रर्चनम् ।

 तत उपवीती देवद्विजभोजनस्थाने गोमयेन चतुरस्रे मण्डले कृत्वा तदुपरि सयवान्दर्भान्प्रागग्रान्निक्षिप्य सौवर्णान्यभावे कांस्यानि तदभावे मध्यमपर्णव्यतिरिक्तपलाशपत्रमधूकाम्रप्लक्षग्राम्यकदल्याद्यन्यतमपात्राणि संस्थाप्य तत्समीपं लघुपात्राणि च संस्थापयेत् । ततः प्राचीनावीती पितृपात्रप्रभोजनस्थाने गोमयेन वर्तुलानि मण्डलानि कृत्वा तदुपरि सतिलकुशान्दक्षिणाग्रान्निक्षिप्य रौप्यपात्राण्यभावे कांस्यानि तदभावे पूर्वोक्तानि पात्राणि संस्थाप्य तत्समीपे लघुपात्राणि संस्थापयेत्" इति । प्रस्य । चतुर्थ्या विभक्त्या वाऽऽसनदानम् । देवविप्राभ्यामासनदानमुदङ्मुखेनैव कार्यम् । अन्यत्र तदभिमुखेनोदङ्मुखेन वा । सति संभव आसनदानोत्तरं तत्तदासनसमीपे तिलतैलघृताद्यन्यतमप्रशस्तस्नेहपूरितसूज्ज्वलदीपवत्येकैका दीपिका देया । एवं पित्र्यविप्रार्थासनसमीपेष्वपि । ततः 'स इषुहस्तैः स निषङ्गिभिर्वशी स स्रष्टा सयुध इन्द्रो गणेन । स मृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता । नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमः । नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः । ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः । तेषा सहस्रयोजनेऽव धन्वानि तन्मसि' इति यजुर्वेदिनौ देवविप्रौ पठेताम् । 'इन्द्र दृह्ययाम कोशा अभूवन्० वाशीमन्त ऋष्टिमन्तो मनीषिणः० । स इषुहस्तैः स निषङ्गिभिर्वशी०' इति ऋग्वेदिनौ चेद्देवविप्रौ तदा तावेतान्मन्त्रान्पठेताम् । ततः पुरूरवसंज्ञकविश्वदेवार्थं त्वया क्षणः करणीयः । इति प्रथमदेवविप्रं वदेत् । ॐ तथेति प्रतिवचनम् । आर्द्रवसंज्ञकविश्वदेवार्थं त्वया क्षणः करणीय इति द्वितीयदेवविप्रं वदेत् । ॐ तथेति प्रतिवचनम् । ततः प्रथमदेवविप्रस्य पुरत आसनाद्द्वादशाङ्गुलपरिमितं स्थलं त्यक्त्वा तत्र कूर्चेन यवोदकेन भुवं प्रोक्ष्य तत्र प्रागग्रं प्राक्संस्थं दर्भद्वयं निधायोभयत्र प्राक्संस्थं दशाङ्गुलविस्तृतमेकैकं पात्रं न्युब्जं निधाय कूर्चेन यवोदकेन प्रोक्ष्योत्ताने कृत्वा सममन्तर्गर्भरहितं साग्रं दर्भद्वयं गृहीत्वाऽग्रभागे प्रादेशमात्रमवशेष्य तृणं काष्ठं वाऽन्तर्धाय 'पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु' इति तत्रासिदेनान्येन वा दात्रेण च्छिनत्ति न नखेन । शुद्धोदकं स्पृष्ट्वा तूष्णीमेव यवोदकेनोन्मृज्यैवमेवान्यत्पवित्रं कृत्वोन्मृज्य तूष्णीं यवोदकेन पवित्रे पात्रे च प्रोक्ष्य तयोः पात्रयोरुपरि कृतं पवित्रद्वयं क्रमेण प्रागग्रं निधाय 'समन्यायन्त्युपयन्त्यन्याः समानपूर्वं नद्यः पृणन्ति । तमू शुचि शुचयो दीदिवा समपांनपातं परितस्थुरापः' इति मन्त्रेण 'शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभि स्त्रवन्तु नः' इति मन्त्रेण वा प्राङ्मुख एव दैवतीर्थेन यवोदकेन पात्रद्वयमुपबिलं पूरयेत् । मन्त्रावृत्तिः सर्वत्र । ततस्तत्सवितुरिति गायत्र्या पात्रद्वयस्था अपोऽनुमन्त्रयते । संभवात्सकृदेव मन्त्रः । तत उदङ्मुखः 'यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम्' इति मन्त्रेण 'यवोऽसि यवयास्मद्वेषो यवयारातीः' इति मन्त्रेण वा मन्त्रावृत्त्या देवतीर्थेन यवान्निक्षिपेत् । केचित्तूभयोः समुच्चयमाहुस्तत्तुच्छम् । एकमन्त्राणि कर्माणीतिपरिभाषाविरोधात् । समुच्चायकवचनाभावाच्च । तत उदङ्मुखो विप्राभिमुखो वा 'गन्धद्वारां दुराधर्षां० ह्वये श्रियम्' इति चन्दनं तयोः प्रक्षिपेत् । 'ओषधयः प्रतिमोदध्व० मासदत्' इति सतुलसीपत्राणि पुष्पाणि प्रक्षिपेत् । उभयत्र मन्त्रावृत्तिः । तूष्णीं वा क्षेपणम् । 'देवो वः सवि तोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः' इति प्रथमार्घ्यपात्रस्था अपस्तत्पवित्रेण त्रिरुत्पूय तथैव द्वितीयपात्रस्था अपस्तत्पवित्रेण त्रिरुत्पुनाति । अयं मन्त्रो गायत्रीछन्दस्कस्तस्य पादत्रयं तत्र पादान्ते पादान्त एकैकमुत्पवनम् । एवं त्रिरुत्पवनमिति मातृदत्तमते । पादशो मन्त्रं पठित्वा गायत्रीछन्दस्कैतन्मन्त्रान्त एकमुत्पवनं तूष्णीं द्विरिति वैजयन्तीकृन्मते । एतयोरन्यतरप्रकारेणोत्पवनं करोति । तूष्णीमेव वोत्पवनम् । ततो देवपात्रे संपन्ने इति देवविप्रौ वदेत् । सुसंपन्ने इति विप्रौ । ततो देवविप्रदक्षिणकरयोर्यवोदकं कूर्चेन दत्त्वा कुशयवान्दक्षिणहस्ते[८७] गृहीत्वा वामहस्तेन निरङ्गुष्ठेन निरङ्गुष्ठं विप्रस्य दक्षिणं हस्तं धृत्वा पुरूरवसंज्ञकान्विश्वान्देवांस्त्वय्यावाहयिष्य इति प्रथमदेवविप्रमामन्त्र्याऽऽवाहयेति तेनानुज्ञातः 'विश्वे देवाः शृणुतेम हवं० मादयध्वम्' पुरूरवसंज्ञकान्विश्वान्देवानावाहयामि, इति दक्षिणपादे वामपादे दक्षिणजानुनि सव्यजानुनि दक्षिणकरे वामकरे दक्षिणस्कन्धे वामस्कन्धे शिरसि, इति क्रमेण सकुशयवान्निक्षिपेत् । दक्षिणपादे दक्षिणजानुनि दक्षिणकरे दक्षिणस्कन्धे शिरसीत्येतेष्वेव वा । सकृन्मन्त्रः । इदमावाहनम् । निक्षेपणकाले किंचिदवशेषयन्निक्षिप्यावशेषितान्प्रथमार्घ्यपात्रे निक्षिपेत् । पुनरन्यान्कुशसहितान्यवान्गृहीत्वा पूर्ववद्दक्षिणहस्तं धृत्वा[८८], आर्द्रवसंज्ञकान्विश्वान्देवांस्त्वय्यावाहयिष्य इति द्वितीयदेवविप्रामन्त्रणं पूर्ववत्कृत्वाऽऽवाहयेति तेनानुज्ञातः 'विश्वे देवाः शृणु० मादयध्वम्' आर्द्रवसंज्ञकान्विश्वान्देवानावाहयामि, इति पूर्ववदावाह्य पूर्ववत्तदावाहनशिष्टाक्षतानां द्वितीयार्घ्यपात्रे क्षेपणम् ।

"विश्वायां दक्षकन्यायां जाता धर्मान्महात्मनः ।
विश्वे देवा इति ख्याता देववर्या महाबलाः ॥
शक्रेण सह योद्धॄणां विजेतारस्तु रक्षसाम् ।
यन्नामस्मरणादेव प्रद्रवन्त्यसुराः क्षणात् ॥
बाणबाणासनधरा द्विभुजाः श्वेतवाससः ।
केयूरिणः कुण्डलिनः किरीटकटकान्विताः ॥
धैर्यसौन्दर्यसंयुक्ता दिव्यस्रगनुलेपनाः ।
इन्द्रस्यानुचराः सर्वे गोप्तारस्त्रिदिवस्पतेः" ॥

 इति ध्यात्वा, 'विश्वे देवाः शृणुतेम हवं मे० मादयध्वम्' इति देवासुपतिष्ठते ।

"आगच्छन्तु महाभागा विश्वे देवा महाबलाः ।
ये ह्यत्र विहिताः श्राद्धे सावधाना भवन्तु ते" ॥

 इति देवविप्रौ वदेत् । भवन्त्विति विप्रौ । विश्वेषां देवानां विशेषतः स्वरूपाज्ञानेऽयं श्लोकः पठनीय इति हेमाद्रिः । ततो यवोदकं कूर्चेन दत्त्वा 'पुरूरवसंज्ञका विश्वे देवाः संपादिता वः स्वाहाऽर्घ्याः' इति प्रथममर्घ्यपात्रं प्रथमविप्रस्य निकटे निदध्यात् । सन्त्वर्घ्या इति विप्रः । 'आर्द्रवसंज्ञका विश्वे देवाः संपादिता वः स्वाहाऽर्घ्याः' इति द्वितीयमर्घ्यपात्रं द्वितीयविप्रस्य निकटे निदध्यात् । सन्त्वर्घ्या इति विप्रः । ततो यवोदकं कूर्चेन दत्त्वा प्रथमपात्रस्थं पवित्रद्वयं प्रागग्रं प्रथमदेवविप्रदक्षिणहस्तेऽञ्जलौ वा निधाय गन्धपुष्पाभ्यां तद्धस्तमञ्जलिं वाऽभ्यर्च्य 'या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । तासां त्वा सर्वासा रुचा अभिषिञ्चामि वर्चसा' इति मन्त्रेण 'हिरण्यवर्णाः शुच० भवन्तु' इति मन्त्रेण वा । पुरूरवसंज्ञका विश्वे देवा इदं वो अर्घ्यं स्वाहा नम इति सौवर्णेन ताम्रमयेण पर्णपुटेन वा प्रथमदेवविप्रदक्षिणकरेऽञ्जलौ वा देवतीर्थेन द्विवारमर्घ्यं दद्यात् । स्वर्घ्यमिति तेनोक्ते कूर्चेन यवोदकं दद्यात् । कूर्चेन यवोदकदानादिहस्ताभ्यर्चनान्तं कृत्वाऽऽर्द्रवसंज्ञका विश्वे देवा इत्यूहेन द्वितीयपात्रस्थमुदकं द्वितीयविप्रकरे पूर्ववद्दद्यात् । स्वर्घ्यमिति तेनोक्ते कूर्चेन यवोदकं दद्यात् । ततो देवार्घ्यपात्रद्वयमेकं वा देवविप्रयोर्दक्षिणतः 'देवेभ्यः स्थानमसि' इति दर्भेषु न्युब्जमुत्तानं वा संस्थापयेत् । अर्घ्यपात्रयोर्जलावशेषणपक्ष उत्तानमन्यथा न्युब्जम् । उत्तानपक्षे दर्भैस्तदाच्छादनं कार्यं गन्धपुष्पप्रक्षेपणं च । पात्रचालनमासमाप्ति न कुर्यात् । यदि बहवो ब्राह्मणास्तदाऽपि पात्रद्वयमेव विभज्य दानम् । एकब्राह्मणपक्षेऽप्येवम् । ततो हस्तस्थे पवित्रे निष्काश्य पात्रे निधाय 'गन्धद्वारां दुराधर्षां० श्रियम् । पुरूरवसंज्ञका विश्वे देवा अमी वो गन्धाः स्वाहा नमः। 'गन्धद्वारां० श्रियम्' आर्द्रवसंज्ञकविश्वे देवा अमी वो गन्धाः स्वाहा नम इति हस्तेनैव गन्धान्दद्यात् । स्वाहा नम इति सर्वेषूपचारेष्वनुषज्यते । प्रत्युपचारं तूष्णीं जलदानम् । सुगन्धाः सन्त्विति प्रतिवचनम् । एकवचनान्तो वाऽयं गन्ध इति गन्धशब्दः प्रयोक्तव्यः । अस्मिन्पक्षे सुगन्धोऽस्त्विति प्रतिवचनम् । मस्तके लापनकाल एव पवित्रनिषेध इति मते दाने पवित्रधारणनिषेधो न । दानलापनयोरुभयोरपि ग्रन्थिमत्पवित्रधारणं निषिद्धमिति मते तु ते पवित्रे यस्मिन्कस्मिंश्चित्पात्रे निधाय ग्रन्थिरहिते अन्ये पवित्रे धृत्वा गन्धदानं विप्रभालादौ लापनं च कृत्वा ते पवित्रे त्यक्त्वा पूर्वधृते ग्रन्थिमती पवित्रे धृत्वा पुष्पदानादि कर्तव्यमिति क्रमः । गन्धलापनं तु यथाकथंचित्तिर्यग्लेपनमात्रं गन्धदानोत्तरं पूजोत्तरं वा कार्यं न तूर्ध्वपुण्ड्रत्रिपुण्ड्रवर्तुलार्धचन्द्राकारं लेपनम् । कस्तूरीदाने विकल्पः । 'ओषधयः प्रतिमोदध्वमेनं० मासदत्' पुरूरवसं० । आर्द्रवसं० । इदं वः पुष्पमिति प्रतिविप्रमेकैकं पुष्पं दद्यात् । सुपुष्पमस्त्विति प्रतिवचनम् । बहूनि वा पुष्पाणि देयानि । अस्मिन्कल्प इमानि पुष्पाणीति प्रयोगः । सुपुष्पाणि सन्त्विति प्रतिवचनम् । 'धूरसि धूर्व धूर्वन्तं धूर्वतं योऽस्मा० धूर्वामः' पुरूरवसं० । आर्द्रवसं० । अयं वो धूप इति धूपं दद्यात् । सुधूपोऽस्त्विति प्रतिवचनम् । धूपो व्यजनवातेन देयः । न हस्तवस्त्रपर्णादिवातेन । 'उद्दीप्यस्व जातवेदो० दिशो दिशः' पुरूरवसं० । आर्द्रवसं० । अयं वो दीप इति दीपं दद्यात् । सुदीपोऽस्त्विति प्रतिवचनम् । घृतदीपो देयः । 'युवं वस्त्राणि पीवसा वसाथे युवो० सचेथे' युवा सुवासा इति वा, पुरूरवसं० । आर्द्रवसं० । इदं वो वस्त्रमिति प्रतिविप्रमेकैकं वस्त्रं दद्यात् । सुवस्त्रमस्त्विति प्रतिवचनम् । इदं व आच्छादनमित्येवं वा प्रयोगः । अस्मिन्कल्पे स्वाच्छादनमस्त्विति प्रतिवचनम् । मन्त्रस्तु स एव । शक्तौ सत्यां वस्त्रद्वयं देयम् । अस्मिन्पक्षे--इमे वो वस्त्रे इमे व आच्छादने इति वा, सकृन्मन्त्रमुक्त्वा सहैव दद्यात् । सुवस्त्रे स्तः स्वाच्छादने स्त इति वा प्रश्नानुसारेण प्रतिवचने । वस्त्राभाव एकं यज्ञोपवीतं दद्यात्तच्छब्देनैव । वस्त्रद्वित्वपक्षे द्वयम् । वस्त्राभावे समर्थेन निष्क्रयो देयः । असमर्थेनोपवीतम् । स्वतन्त्रतया यज्ञोपवीतदाने यज्ञोपवीतं परममिति दद्यात् । सति संभवेऽलंकारादर्शादिदानमप्यत्र कर्तव्यम् । दक्षिणाकाल एव वाऽऽदर्शालंकारादिदानम् । दाने--इमेऽलंकाराः । अयमादर्श इति वाक्यानि । स्वलंकाराः स्वादर्श इत्यादीनि प्रतिवचनानि ज्ञेयानि । दक्षिणाकाले दानेऽलंकारादर्शादिसहिता दक्षिणाः पान्त्वित्येवं वाक्यप्रयोगो ज्ञेयः । प्रतिवचनमप्येतदनुसारेणैव । भो देवा गन्धाद्याच्छादनान्ता उपचाराः परिपूर्णा भवन्त्विति विप्रौ वदेत् । तौ च भवन्तु परिपूर्णा इति प्रतिवदेताम् ।

"आदित्या रुद्रा वसवः सुनीथा द्यावा क्षामा पृथिवी अन्तरिक्षम् ।
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्यध्वरस्य केतुम्" ॥

 इति देवविप्राववलोकयन्पठेत् । इति देवार्चनम् ।

 ततः प्राचीनावीती दक्षिणामुखः पित्र्यविप्रदक्षिणकरेषु कूर्चेन तिलोदकं दत्त्वा पि[८९]त्र्यब्राह्मणानुत्थाप्य पित्राद्यर्थेषु पूर्वमेव संस्थापितेष्वासनेषु पित्रर्थविप्रवामदेशमनुलक्ष्य तत्र सतिलान्भुग्नान्दर्भान्दक्षिणाग्रान्निधाय भूर्भुवः सुवः, अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्येदमासनमिति प्रथ मपित्र्यविप्राय निवेद्य स्वासनमिति तेनोक्ते सव्यहस्तेनाऽऽसनं स्पृशन्भूर्भुवः सुवः, अत्राऽऽस्यतामिति दक्षिणहस्तेनाऽऽसनस्योपरि दक्षिणामुख उदमुङ्मुखमुपवेशयेत् । ओमिति विप्र उक्त्वा 'जङ्घाभ्यां पद्भ्यां० प्रतिष्ठितः' इति मन्त्रेण तत्रोपविशेत् । अस्मत्पितामहस्येत्याद्यूहेन प्रथमपित्र्यविप्रवदासनदानाद्युपवेशनान्तम् । चतुर्थ्या विभक्त्या वाऽत्राप्यासनदानम् । 'स इषुहस्तैः स० नमः ककुभाय नमो निषङ्गिण ये तीर्थानि० इन्द्र दृह्यया० वाशीमन्त ऋष्टिमन्तो स इषुहस्तैः० ' इति पूर्ववद्यथाशाखं निषङ्गपदवन्मन्त्रजपः । एकविप्रपक्षे-- अस्मत्पितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम् । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानामिदमासनमिति सहैवोत्कीर्तनम् । एवमन्यत्रापि । अस्मत्सपत्नीकपित्रर्थं त्वया क्षणः करणीय इत्यादितत्तच्छब्दोहेन क्रमेण तत्तद्विप्रं प्रति वदेत् । ओं तथेति प्रतिवचनम् । ततः प्रथमपित्र्यविप्रस्य पुरत आसनाद्द्वादशाङ्गुलपरिमितं स्थलं त्यक्त्वा तत्र कूर्चेन तिलोदकेन भुवं प्रोक्ष्य तत्र दक्षिणाग्रं दक्षिणसंस्थमाग्नेय्यग्रमाग्नेयीसंस्थं वा स्थलत्रये दर्भपञ्चकं दर्भपञ्चकं दर्भत्रयं दर्भत्रयं वा निधाय स्थानत्रयस्थितेषु दर्भेषु अष्टाङ्गुलविस्तृतमेकैकं पात्रं न्युब्जं निधाय तेभ्यः प्रसिद्धपश्चिमदिशि तथैव दर्भेषु मातामहाद्यर्थमेकैकं पात्रं निधाय कूर्चेन तिलोदकेन पात्रपट्कं प्रोक्ष्योत्तानानि क्रमेण कृत्वा सममन्तर्गर्भरहितं साग्रदर्भत्रयं गृहीत्वाऽग्रभागे प्रादेशमात्रमवशेष्य तृणं काष्ठं वाऽन्तर्धायासिदेनान्येन या दात्रेण तूष्णीमेव च्छिनत्ति न नखेन । ततः शुद्धोदकं स्पृष्ट्वा तृष्णीमेव तिलोदकेनोन्मृज्यैवमेवान्यत्पवित्रपञ्चकं कृत्वोन्मृजेत् । एकैकदर्भमयानि(णि) वा षट्पवित्राणि । ततस्तूष्णीमेव तिलोदकेन पवित्राणि पात्राणि च प्रोक्ष्य पात्राणामुपरि तानि पवित्राणि च्छेदनक्रमेण दक्षिणाग्राण्याग्नेय्यग्राणि वा निधाय समन्यायन्तीति शं नो देवीरिति वा दक्षिणामुख एव पात्रषट्कं क्रमेणोपबिलं पूरयेत् । मन्त्रावृत्तिः सर्वत्र । ततस्तत्सवितुरिति गायत्र्या सर्वपात्रस्था अपोऽनुमन्त्रयते । अत्र संभवात्सकृदेव मन्त्रः ।

 ततः--

"तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः ।
प्रत्नवद्भिः प्रत्तः स्वधया पितॄनिमाँल्लोकान्प्रीणयाहि नः स्वधा नमः"

 इति मन्त्रावृत्त्या पितृतीर्थेन क्रमेण तिलान्निक्षिपेत् । तिलोऽसि पितृदेवत्य इति वा पाठः । प्रीणयाहि न इत्यत्र प्रीणाहीत्यपि पाठः । एवमग्रेऽपि सर्वत्र मन्त्रावृत्तिः । ततो मधु वाता इति त्रिभिर्मन्त्रैस्तेषु मधु निक्षिप्य 'सोमस्य त्विषि रसि तवेव मे त्विषिर्भूयात्' इति घृतम् । 'शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः' इति पुनः किंचिदुदकं प्रक्षिपेत् । मधुघृतोदकक्षेपणं कृताकृतम् । ततः 'गन्धद्वारां दुराधर्षां० श्रियम्' इति चन्दनम् । 'ओषधयः प्रति० मासदत्' इति पुष्पाणि तुलसीपत्राणि च । भृङ्गराजपत्रलाभे तान्यपि सहैव प्रक्षिपेत् । तूष्णीं वैतेषां प्रक्षेपः । ततः सर्वपित्र्यपात्रस्था अपस्तेन तेन पवित्रेण देवो वः सवितोत्पुनात्विति त्रिस्त्रिरुत्पुनाति । सकृत्सकृद्वा । देवो वः सवितोत्पुनात्विति गायत्रीछन्दस्को मन्त्रस्तस्य पादे पाद एकैकमुत्पवनमेवं त्रिरिति मातृदत्तः । पादशः पठितेन गायत्रीछन्दस्केन मन्त्रेणान्ते सकृदुत्पूय तूष्णीं द्विरुत्पुनातीति वैजयन्तीकृत् । सकृत्पक्षे त्वन्त एवोभयमतेऽपि तूष्णीमेव वोत्पवनम् । ततो निरस्तं नमुचेः शिर इतिमन्त्रावृत्त्या तत्तत्पात्रतः किंचिद्बहिर्दक्षिणत उदकमुत्क्षिप्य 'पितृभ्यो नमः, पितामहेभ्यो नमः, प्रपितामहेभ्यो नमः, मातामहेभ्यो नमः, मातुःपितामहेभ्यो नमः, मातुःप्रपितामहेभ्यो नमः' इति षड्भिर्नाममन्त्रैः क्रमेण पात्रषट्के गन्धपुष्पतिलान्प्रक्षिपेत् । ततः पित्र्यपात्राणि संपन्नानीति पित्र्यविप्रान्वदेत् । सुसंपन्नानीति विप्राः । ततः पित्र्यविप्रदक्षिणकरेषु तिलोदकं कूर्चेन दत्त्वा सकुशांस्तिलान्दक्षिणहस्ते गृहीत्वा वामहस्तेन निरङ्गुष्ठेन प्रथमस्य विप्रस्य निरङ्गुष्ठं वामहस्तं धृत्वा[९०], अस्मत्पितरममुकशर्माणममुकगोत्रं वसुरूपं सपत्नीकं त्वय्यावाहयिष्य इति प्रथमपित्र्यविप्रमामन्त्र्य, आवाहयेति तेनानुज्ञातः 'उशन्तस्त्वा हवामह० अत्तवे' अस्मत्पितरममुकशर्माणममुकगोत्रं वसुरूपं सपत्नीकमावाहयामि, इति शिरसि वामस्कन्धे दक्षिणस्कन्धे वामकरे दक्षिणकरे वामजानुनि दक्षिणजानुनि वामपादे दक्षिणपाद इति क्रमेण तांस्तिलान्निक्षिपेत् । शिरसि वामस्कन्धे वामकरे वामजानुनि वामपाद इत्येतेष्वेव वा । इदमावाहनम् । निक्षेपणकाले किंचिदवशेषयन्निक्षिप्यावशेषितांस्तिलान्प्रथमार्घ्यपात्रे निक्षिपेत् । पुनरन्यान्सकुशांस्तिलान्गृहीत्वा पूर्ववद्वामहस्तं धृत्वा[९१], अस्मत्पितामहममुकशर्माणममुकगोत्रं रुद्ररूपं सपत्नीकं त्वय्यावाहयिष्य इत्यूहेनाऽऽवाहनाद्यवशेषिततिलानां तदीयार्घ्यपात्रे निक्षेपणान्तं कृत्वा कुशतिलग्रहणादि निक्षेपणान्तं प्रपितामहादिपात्रेषूहेन कुर्यात् । 'उपहूताः पितरः सोम्यासो० त्वस्मान्' इति पितॄनुपतिष्ठते । ततस्तिलोदकं कूर्चेन दत्त्वा, अस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक संपादितास्ते स्वधाऽर्घ्या इत्याद्यूहेन तत्तदर्घ्यपात्रं तत्तद्विप्रनिकटे निदध्यात् । सन्त्वर्घ्या इति प्रतिवचनम् । ततस्तिलोदकं कूर्चेन दत्त्वा प्रथमपात्रस्थं पवित्रं दक्षिणाग्रं प्रथमविप्रदक्षिणहस्तेऽञ्जलौ वा निधाय गन्धपुष्पाभ्यां तद्धस्तमञ्जलिं वाऽभ्यर्च्य दक्षिणामुख एव 'या दिव्या आपः पयसा० वर्चसा' इति मन्त्रेण 'हिर ण्यवर्णाः शुचयः० भवन्तु' इति मन्त्रेण वा, अस्मत्पित्रेऽमुकशर्मणे सपत्नीकाय स्वधा नम इति राजतेन ताम्रमयेण पर्णपुटेन वाऽऽसादितेनार्घ्यपात्रेण पितृविप्रदक्षिणकरेऽञ्जलौ वा वामकरान्वारब्धदक्षिणहस्तेन पितृतीर्थेन किंचिदवशेषयंस्त्रिः सकृद्वाऽर्घ्यं दद्यात् । प्रत्यर्घ्यं मन्त्रावृत्तिरिति केचित् । अथवा या दिव्या इति हिरण्यवर्णा इत्यन्यतमो(रो) मन्त्रो विप्रहस्तात्स्रवन्तीनामपामनुमन्त्रणम्(णे) । दानं तु अस्मत्पितरित्यादिनैव । अस्मिन्पक्षे गोत्ररूपस्वधानमः--शब्दोच्चारणे विकल्पः । अर्घ्यपात्रग्रहणे या दिव्या इति मन्त्र इति वा । त्रिवारमर्घ्यदानमिति पक्षे पक्षद्वयम् । अत्रैव त्रिवारं बहुस्मृतितः । पुरोऽन्नं द्विर्भुक्तवत्सु च तृतीयमिति बौधायनवचनात् । अन्नत्यागात्पूर्वं द्विवारं भुक्तवत्सु तृतीयमित्येवं त्रिवारम् । तत्र गोमयमण्डले चरणक्षालनानन्तरमेकमग्नौकरणात्पूर्वं द्वितीयं भुक्त्वाऽऽचान्तेषु द्विजेष्वक्ष[९२]योदकाख्यं तृतीयमिति हेमाद्रिः । अमुष्मै स्वधाऽमुष्मै स्वधेति पित्रर्थेष्वपि पितुर्नाम गृह्णाति पितामहार्थेषु पितामहस्य प्रपितामहार्थेषु प्रपितामहस्य । एकत्वे तस्यैव हस्ते त्रीण्युदपात्राणि निनयति । त्रयाणां नामानि गृहीत्वेत्यनेनैकमर्चनकालेऽर्घ्यदानमुक्तम् । अङ्गुष्ठोपस्पर्शनात्पूर्वं द्वितीयम् । भुक्तवत्स्वाचान्तेष्वन्नप्रकिरणानन्तरं तथैव तृतीयमित्येवमुक्तं मातृदत्तेन । अर्घ्यपात्रात्पात्रान्तरेणाऽऽदायाऽऽदायार्घ्यदानमित्यप्युक्तम् । संस्थात्मके मासिश्राद्ध एतदेव शिष्टा आचरन्ति । ततः स्वर्घ्यमिति तेनोक्ते कूर्चेन तिलोदकं दद्यात् । अर्घ्यपात्रादुद्धृत्य पात्रान्तरेणार्घ्यदानमिति पक्षे खड्गपात्रेणासंभवेऽन्येन वाऽर्घ्यदानम् । एवं पितामहादिषूहेन तत्तदर्घ्योदकं देयम् । ब्राह्मणबहुत्वेऽपि पात्रषट्कमेव । तत्तत्स्थानीयविप्रहस्तेषु तत्तत्पात्रस्थोदकस्य विभज्य दानम् । एकब्राह्मणपक्षे तत्रैव सर्वपात्रस्थोदकदानम् । ततः पुत्रकामो यज्ञोपवीती प्राङ्मुखस्तत्तत्पात्रस्थास्ववशिष्टास्वप्सु स्वमुखमवलोक्याऽऽयुष्कामः किंचित्किंचित्तत्तत्पात्रस्था अपो लोचनयोर्निक्षिप्य दक्षिणामुखः प्राचीनावीतीं शुन्धन्तां लोकः पितृषदन इतिमन्त्रं सकृज्जपेत् । कामनाभावे न मुखावलोकनादि । ततः प्रपितामहपात्रस्थमपां शेषं पितामहपात्रे निक्षिप्य तज्जलं पितृपात्रे निक्षिप्य मातुःप्रपितामहपात्रशेषं मातुःपितामहपात्रे निक्षिप्य तज्जलं मातामहपात्रे निक्षिप्य पुत्रकामनायां यज्ञोपवीती ताभिर्दक्षिणहस्तेन प्राङ्मुखो मुखमङ्क्त्वा प्राचीनावीती दक्षिणामुखः पितृपितामहप्रपितामहद्विजकरस्थितकुशान्पितृपात्रे मातामहमातुःपितामहमातुःप्रपितामहद्विजकरस्थितकुशान्मातामहपात्रे निधाय शुन्धन्तां लोकः पितृषदन इति पित्र्यविप्रवामभागे तिलोदकेन भूमिं प्रोक्ष्य दक्षिणाग्रान्कुशानास्तीर्य 'पितृभ्यः स्थान मसि' इतिमन्त्रावृत्त्या पात्रद्वयं दर्भेषु दक्षिणसंस्थं न्युब्जमुत्तानं वा देवपात्रस्थापनानुसारेण स्थापयेत् । उत्तानपक्षे तदुपरि विप्रहस्तस्थान्दर्भान्निक्षिप्यान्यैर्दर्भैर्दक्षिणाग्रैराच्छादनं कार्यं गन्धपुष्पप्रक्षेपणं च । मातामहपात्रस्था अप्यपः पितृपात्र एव निक्षिप्यैकमेव वा पात्रं स्थापयेत् । आश्राद्धसमाप्ति चालनं न कुर्यात् । यष्ट्यादिनाऽपि न स्पृशेत् । ततस्तिलोदकं दत्त्वाऽस्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीकेत्याद्यूहेन 'अमी ते गन्धाः' इत्याद्यैस्तत्तच्छब्दैर्गन्धादीन्प्राचीनावीती पूर्ववद्दद्यात् । सर्वत्र स्वधा न ममेत्यनुषङ्गः । प्रत्युपचारं तिलोदकदानम् । एकब्राह्मणपक्षे त इत्यत्र व इत्यूहः । प्रतिवचनादिकं सर्वमन्यद्देवपूजनवत् । इति पित्रर्चनम् ।

 ततः--

"यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्" इति पठित्वा,
"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः" इति त्रिवारं पठेत् ।

 ततो यज्ञोपवीत्याचम्य श्राद्धप्रदेशपतितयवतिलादिकमपसार्य हस्तेन देशं संमार्ज्य पूर्वोक्तलक्षणलक्षितगोर्गोमयेन भस्मना गौरमृत्तिकया नीवारचूर्णेन वा प्रादेशमात्रे षडङ्गुले वा मण्डले विधाय तयोरुपरि प्रागग्रान्सयवान्दर्भान्निक्षिप्य प्राचीनावीती पित्र्यविप्रभोजनपात्रस्थानेषु गोमयाद्यन्यतमेन पूर्वोक्तद्रव्येण वर्तुलानि मण्डलानि प्रादेशमात्रविष्कम्भानि(णि) षडङ्गुलविष्कम्भानि(णि) वा विधाय तदुपरि दक्षिणाग्रान्सतिलान्कुशान्निक्षिपेत् । ततो देवनैवेद्यपात्रस्थाने यज्ञोपवीती पूर्वोक्तगोमयाद्यन्यतमद्रव्येण देवमण्डलवन्मण्डलं विधाय तदुपरि प्रागग्रान्सयवान्दर्भान्निक्षिप्य देवविप्रमण्डलयोरुपरि सौवर्णानि तदभावे कांस्यमयानि तदभावे मध्यमपर्णवल्लीपलाशव्यतिरिक्तपलाशपर्णमधूकाम्रप्लक्षग्राम्यकदल्याद्यन्यतमपात्राणि संस्थाप्य तत्समीपे लघुपात्राणि च संस्थापयेत् । ततः प्राचीनावीती पित्र्यविप्रभोजनपात्राणि लघुपात्राणि च तथैव संस्थापयेत् । पूर्वं पित्र्यविप्रभोजनपात्राणां संस्थापनं पश्चाद्दैवविप्रभोजनपात्रयोः।) ततः पितृपात्राणां परितोऽप्रदक्षिणं भस्ममर्यादां कृत्वा यज्ञोपवीती देवपात्र[९३]योः परितः प्रदक्षिणं भस्ममर्यादां कुर्यात्[९४] । अत्र पित्र्ये बृहत्सामेति दैवे रक्षोहणो वलगहन इति(त्यादि) नाष्ट्राणा हन्तेति(त्यन्तं) पठन्ति शिष्टाः । ततः प्राचीनावीती पित्र्यविप्रदक्षिणह[९५]स्तप्रक्षालनं कृत्वा यज्ञोपवीती देवविप्रदक्षिणह[९६]स्तप्रक्षालनं कुर्यात् । ततो यज्ञोपवीत्याचम्योपस्तीर्णं पात्रं गृहीत्वा 'उद्धरिष्याम्यग्नौ च करिष्यामि' इति पित्र्यविप्रानामन्त्रयते । 'काममुद्ध्रियतां काममग्नौ च क्रियताम्' इति ते विप्राः प्रतिब्रूयुः[९७] । आहिताग्निः सर्वाधानी चेद्दक्षिणाग्नौ होमं कुर्यात् । अर्धाधानी केवलस्मार्ताग्निमांश्च गृह्याग्नौ । ब्रह्मचारी स्नातको विधुरो दूरभार्यश्च लौकिकाग्नौ[९८] । दर्शश्राद्धसांवत्सरिकादावग्निविच्छेदे सत्येव यदि पत्नी रजस्वला श्राद्धस्य च प्राप्तिस्तत्रापि लौकिकाग्नावेव । तत्रेत्थमुत्पत्तिप्रकारः--देशकालौ संकीर्त्याऽग्नौकरणहोमार्थमग्निमुत्पादयिष्य इति संक[९९]ल्प्याऽऽयतनं प्रकल्प्य तत्संस्कारं विधायाग्निं तत्र प्रतिष्ठाप्य परिस्तीर्य होमोपयुक्तानि पात्राण्यासाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वाऽदित इति परिषिच्यैकां समिधं तूष्णीमभ्याधाय, अयाश्चेत्यनेनैकामाज्याहुतिं हुत्वा[१००]ऽऽचारात्प्रायश्चित्तार्थं समस्तव्याहृतिभिर्द्वितीयामाज्याहुतिं हुत्वा परिस्तरणानि विसृज्योत्तरपरिषेकं कुर्यात् । एवं प्रकारेण यज्ञोपवीतिनाऽग्निमुत्पाद्य तस्मिन्नग्नौ होमं[१०१] कुर्यात् । एवं मासिकश्राद्धादिहो[१०२]ममपि ।

अथ[१०३] होमप्रकारः ।

 ततः प्राचीनावीती पिण्डदानार्थम् 'अपां मेध्यं यज्ञिय सदेव शिवमस्तु मे । आच्छेत्ता वो मा रिषम् । जीवानि शरदः शतम्' इति सकृदाच्छिन्नं बर्हिराच्छिद्याप उपस्पृश्य तूष्णीं परिस्तरणाद्यर्थान्समूलानेव दर्भानाच्छिद्याप उपस्पृश्योभयं बद्ध्वाऽनधो निदधाति । सकृदाच्छिन्नद्वयमिति केचित् । ततो होमार्थमग्निं दाक्षिणाग्रैर्दर्भैः प्रदक्षिणमेव ([१०४] परिस्तृणाति । नात्राधरोत्तरभावनियमः । ततोऽग्नेरुत्तरत एवोत्तराग्रान्दर्भान्संस्तीर्य तेष्वेकैकशः पात्राण्युत्तानान्येव प्रयुनक्ति । स्फ्यमुपस्तीर्णे पात्रं मेक्षणं स्रुवं च प्रयुज्य स्रुवं संमृज्य पचनाग्निस्थमोदनमुपस्तीर्णे पात्रे होमार्थमुद्धृत्य देवपवित्रसंस्कारार्थं पुनरस्मिन्नग्नावधिश्रित्याभिघार्योद्वास्याग्नेः पश्चान्निदधाति[१०५] । तूष्णीमेव समन्तमप्रदक्षिणं परिषिच्य यस्मिन्पात्र आज्यं तेनैव पात्रेणाभिघारणमिति पक्षे न स्रुवः । उत्पूतेन नवनीतेनाभिघारणमिति पक्ष उत्पवनोत्तरं प्रहरणम् । अनुत्पूतेनाऽऽज्येनेत्येतस्मिन्पक्षे निर्वापोत्तरमेवाग्नौ प्रहरणम् । अग्न्यायतनस्योत्तरतस्त्यागो वा । तत एक स्फ्यया वेदेर्दक्षिणतः संस्कृते स्थण्डिले 'ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परा पुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोक्तु लोकात्' इत्यग्नेरेकोल्मुकं धूपायत्पराचीनं हृत्वा निदधाति । यस्मिन्कस्मिंश्चित्पात्रे निधानमिति पक्षे न स्थण्डिलकरणादि । ततस्तं प्रज्वाल्य पूर्ववत्परिस्तृणाति । एतदतिप्रणयनं पिण्डदानाङ्गं तदभावे नेति वैजयन्तीकारः । ततो ) यज्ञोपवीती दक्षिणं जान्वाच्य मेक्षणेनोद्धृतान्नैकदेशमुपहत्य 'सोमाय पितृपीताय स्वधा नमः' इति प्रथमामाहुतिं जुहोति । सोमाय पितृपीतायेदं० । पुनरुपहत्य 'यमायाङ्गिरस्वते पितृमते स्वधा नमः' इति तृतीयाहुत्यर्थं कानिचित्सिक्थान्यवशेष्य द्वितीयामाहुतिं जुहोति । यमायाङ्गिरस्वते पितृमत इदं० । 'अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः' इति मेक्षणे यान्यवशेषितानि सिक्थानि तेस्तृतीयामाहुतिं जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं[१०६]० । होमे पितृतीर्थनियमो न । प्रथमाहुतिसंबधिसिक्थानामपि होम इति केचित् । अस्मिन्पक्षे प्रथमाहुतिसंबन्धिमेक्षणसंलग्नानि सिक्थानि पात्रान्तरे निहितानि द्वितीयाहुत्यवशेषितमेक्षणस्थसिक्थेषु प्रक्षिप्य तेन तृतीयाहुतिर्होतव्या । अवशेषणमर्धभागस्येति केचित् । अवशेषितसिक्थाभावे लोप इति केचित् । स्थानात्कानिचित्सिक्थान्यादाय तेन जुहोतीत्यन्ये । उभयपक्षेऽपि प्रायश्चित्तार्थमनाज्ञातत्रयजपविष्णुस्मरणे कर्तव्ये[१०७] । प्रतिपार्वणं होमावृत्तिः । सकृदेव वा । ततस्तूष्णीं मेक्षणमनुप्रहरति । इति होमः[१०८]

 दक्षिणाग्नौ होमक्रियायां होमोत्तरमतिप्रणयनम् । ततो हस्तौ प्रक्षाल्य यज्ञोपवीत्येव देवविप्रभोजनपा[१०९]त्रयोरुपस्तीर्य प्राचीनावीती पित्र्यविप्रभोजनपा[११०]त्रेषूपस्तृणाति शब्दमकुर्वन् । ततो देवपूर्वकं स्वयमन्नपरिवेषणं यज्ञोपवीत्येव कुर्यात् । अशक्तौ पत्न्यादिभिर्वा कारयेत् । तत्राऽऽदावोदनं ततः पायसं भक्ष्यं[१११] व्यञ्जनादि घृतं च सूपमन्ते । ([११२]लवणं साक्षाद्धस्तेन न परिवेषणीयम् । घृतपात्रं भोजनपात्राद्बहिर्निधाय घृतं परिवेषणीयम् । आमासु पक्वमैरय इत्योदनपरिवेषणमन्त्रः । पयः पृथिव्यामिति पायसपरिवेषणमन्त्रः । आयुर्दा अग्न इति घृतपरिवेषणमन्त्रः ।) परिवेषणे देवपूर्वकत्वनियमः प्रथमे परिवेषण एव न द्वितीयादिषु[११३] । मन्त्रेण प्रथममेव परिवेषणम् । घृतं पितृपूर्वकमेव परि वेषणीयमिति केचित् । अत्रैव कस्मिंश्चित्पात्रे पिण्डार्थमपि सव्यञ्जनमन्नं परिवेषणीयम् । हुतशेषं किंचित्पिण्डार्थं परिशेष्यावशि[११४]ष्टं सर्वं पित्र्यपात्रेषु परिवेषयेत् । ततो यज्ञोपवी[११५]त्येव देवपात्रयोः समन्ताद्भस्ममर्यादां कृत्वा प्राचीनावीती पित्र्यविप्राणां समन्तादप्रदक्षिणं भस्ममर्यादां कृत्वा तत्तद्धर्मेणोपस्तीर्योपचीती, ओदनपायसादि सर्वं परिविष्य नैवेद्यं प्रदर्शयेत् । ततो देवपात्रस्थमन्नं गायत्र्या[११६] शुद्धोदकेन प्रोक्ष्य घृतपात्रं भोजनपात्रे निधाय दक्षिणहस्ततर्जनीमध्यमाङ्गुष्ठैर्देवपात्रमालभ्य सत्यं त्वर्तेन परिषिञ्चामीति परिषिच्य 'पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि स्वाहा ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितिरसि मा मे क्षेष्ठा अ[११७]त्रामुप्मिल्लोँके' इति देवपात्रस्थमन्नमभिमृशेत् । मा देवानां क्षेष्ठा इत्यूहमिच्छन्ति केचित् । 'इदं विष्णु० सुरे' विष्णो हव्य रक्षस्व, इति द्वि[११८]जहस्तमपरिवर्तयन्स्वीयेन दक्षिणेन हस्तेनापरिवर्तितेनैवाङ्गुष्ठमनखमन्ने निवेश्य यवोदकमादाय पुरूरवसंज्ञकविश्वे देवा देवता, इदमन्नं ह[११९]व्यमयं ब्राह्मण आहवनीयार्थ इदं भूर्गयाऽयं भोक्ता गदाधर इदमन्नं ब्रह्मेदं सौवर्णपात्रमक्षय्यवटच्छाये[१२०]यमिति, अन्नादीन्पदार्थान्हविरादिभावनया भावयन्पुरूरवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्तेः स्वाहा हव्यं न मम, इति विप्रदक्षिणभागे यवोदकं विसृजेत् । एवं द्वितीयदेवविप्रे । तत्र पुरूरवशब्दस्थान आर्द्रवशब्दप्रयोगः । ततः 'ये देवा दिव्येकादश स्थ० जुषध्वम्' इति देवानुपतिष्ठते । ततः प्राचीनावीती पितृपात्रस्थमन्नं गायत्र्या प्रोक्ष्य[१२१] घृतपात्रं भोजनपात्रे निधाय पूर्ववत्पात्रमालभ्य 'सत्यं त्वर्तेन परिषिञ्चामि' इति प्रदक्षिणमेव परिषिच्य 'पृथिवी ते पात्रं० जुहोमि स्वधा ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितिरसि मा मे क्षेष्ठा अ[१२२]त्रामुष्मिल्लोँके' '[१२३]ति पितृपात्रस्थमन्नमभिमृशेत् । मा पितॄणां मा पितामहानां मा प्रपितामहानां क्षेष्ठा इत्यूहमिच्छन्ति केचित् । 'इदं विष्णुर्वि० पा सुरे' विष्णो कव्य रक्षस्व,' इति पूर्ववद्द्विजाङ्गुष्ठमनखमन्ने निवेश्य तिलोदकमादाय, अस्मत्पिताऽमुकशर्माऽमुकगोत्रो वसुरूपः सपत्नीको देवता, इदमन्नं कव्यमयं ब्राह्मण आहवनीयार्थ इयं भूर्गयाऽयं भोक्ता गदाधर इदमन्नं ब्रह्मेदं राजतपात्रमक्षय्यवटच्छाये[१२४]यमिति अन्नादीन्पदार्थान्हविरादिभावनया भावयन्, अस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपाय सपत्नीकायेद मन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्तेः स्वधा कव्यं न ममेति विप्रवामभागे तिलोदकं विसृजेत् । एवं पितामहाय प्रपितामहाय मातामहादिभ्यश्चोहेन । एकश्चेद्विप्रस्तदा पितृपितामहप्रपितामहा अमुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकाः, मातामहमातुःपितामहमातुःप्रपितामहा अमुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीका देवता इदमिदमन्नं कव्यमयं० वटच्छायेयम् । अस्मत्पितृपितामहप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्यः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्य इदमन्नममृतरूपं० स्वधा कव्यं न ममेत्येवं प्रयोगः । ततः 'ये चेह पितरो ये० स्वधा नमः' इति पितॄनुपतिष्ठते ।

 ततः--

"देवताभ्यः पितृभ्यश्च० नमो नमः ।
सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु[१२५]
ईशानः पितृरूपेण महादेवो महेश्वरः ।
प्रीयतां भगवानीशः परमात्मा सदाशिवः" ॥

 इति पठित्वा तिलोदकं यवोदकं चाऽऽदाय 'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ० समाधिना । हरिर्दाता हरिर्भोक्ता० भोजयते हरिः । चतुर्भिश्च चतुर्भिश्च० प्रसीदतु[१२६] । एको विष्णुर्महद्भूतं० विश्वभुगव्ययः' इति पठित्वा येषामुद्दिष्टं तेषामक्षय्या तृप्तिरस्तु । पितृस्वरूपी परमेश्वरः प्रीयतां न ममेति भूमौ जलं प्राचीनावीत्येव विसृज्य[१२७] पितृभ्यो नम इति पितॄन्नमस्कुर्यात् ।

ततः--

"ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्करजनीशगणेश्वराणाम् ।
क्रौच्चामरेन्द्रकलशोद्भवकश्यपानां पादान्नमामि सततं पितृमुक्तिहेतून्" ॥

 इत्युक्त्वा यज्ञोपवीती परिविष्टान्नेषु सर्पिरासिच्य प्रणवं समस्तव्याहृतीर्मधु वाता इति तिस्र ऋचश्चोक्त्वा[१२८], एतच्छ्राद्धमच्छिद्रं जायतामिति विप्रान्पृष्ट्वा तैर्जायतामित्युक्ते देवान्पितॄंश्चाभिध्यायंस्तत्तद्धर्मेण पितृपूर्वकं पात्रेणोद[१२९]कं सकृत्सकृदेवाऽऽपोशनार्थं विप्रहस्तेषु दद्यात् । त[१३०]तो यज्ञोपवीत्येव श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमीत्याद्यमृतत्वायेत्यन्तं प्रथममनुवाकं वदेत् । ततस्ते विप्रा अन्नपत इत्यभिमन्त्र्य, अमृतोपस्तरणमसीति यजमानदत्तमुदकं पीत्वा वामहस्तेन पात्रान्वारम्भं कुर्युः । नात्र बलिदानम् । ततः कर्ता(र्त्रा) श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा' इत्यादिषु पञ्चसु मन्त्रेषूच्यमानेषु स्वयमप्येतान्मन्त्रान्पठन्तस्तत्तत्स्वाहाकारान्ते प्राणाहुतीर्हुत्वा तूष्णीं प्रजापतिं मनसा ध्यायन्तो भूयो हुत्वा मौनिनो हस्तादिचापलं हुंतुंकाराद्यकुर्वन्तः स्वस्थचित्ता अशब्दं सशेषं भुञ्जीयुः[१३१] । अत्र भोजने मौनं नियतम् । घृतं पायसं च निःशेषमेव भुञ्जीयुः । यजमानप्रश्नं विना याचनं न कुर्युः । कर्ता तेषां याचनापेक्षामकुर्वन्नेव सर्वान्पदार्थान्संपृच्छ्य संपृच्छ्य प्रदद्यात् । तत्र भक्ष्यपरमान्ने तु प्रश्नपूर्वकमेव परिवेषणीये । लवणस्य शाकादेश्च प्रश्नं विनैव परिवेषणम् । ततः कर्ता यथासुखं जुषध्वमित्युक्त्वा--

"अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम् ।
उपविश्य सुखेनैव भोक्तव्यं स्वस्थमानसैः" ॥

 इति विप्रान्संप्रार्थ्य यज्ञोपवीत्येवाभिश्रावणं कुर्यात् । 'कृणुष्व प्राजः प्रसितिं० रक्षोहणो० सोमाय पितृमते० उशन्तस्त्वा० भक्षे हि मा विश० प्रजापतिर्मनसाऽन्धो० अग्न उदधे० वन्यः पञ्चमः शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा० असावादित्योऽस्मिल्लोँक आसीत्० संततिर्वा एते ग्रहाः० एकवि श एष भवति० इन्द्रो वृत्र हत्वा० वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ता वरुणप्रघासैर्वरुणपाशादमुञ्चत्० अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्याह । सुरावन्तं बर्हिषद सुवीरं० उशन्तस्त्वा हवामह आ नो अग्ने सुकेतुना० अयं वाव यः पवते उशन्ह वै० त हैतमेके० यां प्रथमा० ऋचां प्राची० ब्रह्ममेतु मां० ब्रह्म मेधया० ब्रह्म मेधवा०' इत्यवकाशानुरोधेन श्रावयेत् । अन्यानपि पवित्रमन्त्रान्सत्यवकाशे श्रावयेत् । अध्ययनाभावे 'देवता[१३२]भ्यः पितृभ्यश्च० नित्यमेव नमो नमः' इति मन्त्रं वा पठेत् । गायत्रीं वा । देवतानामानि वा श्रावणीयानि । विप्रभोजने जाते पुरूरवसंज्ञका विश्वे देवास्तृप्ताः स्थ । आर्द्रवसंज्ञका विश्वे देवास्तृप्ताः स्थेत्युक्त्वा तृप्ताः स्मे(प्ताः स्म इ)ति प्रतिवचने दत्ते प्राचीनावीती, अस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक तृप्तोऽसि । अस्मत्पितामहामुकशर्मन्नमुकगोत्र रुद्ररूप सपत्नीक० । अस्मत्प्रपितामहामुकशर्मन्नमुकगोत्राऽऽदित्यरूप सपत्नीक तृप्तोऽसीत्याद्यूहेन तत्तद्विप्रं प्रति वदेत् । तृप्तोऽस्मीति स स प्रतिब्रूयात् । एकब्राह्मणपक्षे--अस्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माणः, अमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकाः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहा अमुकामुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकास्तृप्ताः स्थेति प्रश्नः । तृप्ताः स्मे(प्ताः स्म इ)ति प्रतिवचनम् । तत उपवीती--'मधु वाता ऋ० भवन्तु नः । अक्षन्नमीमदन्त ह्य० न्विन्द्र ते हरी' इति श्रावयित्वा[१३३], अस्मत्पितुर्मासिश्राद्धं संपन्नमिति पृष्ट्वा सुसंपन्नमिति सर्वैः प्रत्यु[१३४]क्त उच्छिष्टपिण्डार्थं पायसं विकिरार्थमोदनं च पृथक्पृथ[१३५]क्पात्र उद्धृत्य शेषमन्नं किं क्रियतामिति विप्रानुक्त्वा, इष्टैः सह भुज्यतामिति तैः प्रत्युक्ते 'असोमपाश्च ये देवा० वैश्वदेविकम्' इति प्रथमदेवविप्रपात्रसमीपे विकिरं दत्त्वा यवोदकं तदुपरि दद्यात् । एवं द्वितीयदेवविप्रपात्रसमीपे । ततः प्राचीनावीती 'असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः । दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम्' इति मन्त्रावृत्या तत्तत्पित्र्यविप्रपात्रसमीपे विकिरं दत्त्वा तत्तदुपरि तिलोदकं दद्यात् । ततः पित्रुच्छिष्टपात्रसमीपे दर्भत्रयं दक्षिणाग्रं निधाय तत्र तिलोदकं दत्त्वा[१३६]ऽन्यत्तिलोदकं किंचिदुद्धृत्य स्वसमीपे निधाय[१३७] विकिरशिष्टौदनमिश्रितं पायसं केवलं पायसमेव वाऽऽदाय 'ये अग्निदग्धा येऽनग्निदग्धा जीवा जाताः कुले मम । भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम्' इति तदन्नं दर्भोपरि दत्त्वोद्धृतं तिलोदकं तदुपरि दत्त्वा कमपि पदार्थमस्पृशन्बहिर्गत्वा पवित्रे ग्रन्थिं मुक्त्वा त्यक्त्वा हस्तौ पादौ च प्रक्षाल्याऽऽच[१३८]म्यान्ये पवित्रे धृत्वोच्छिष्टभाग्भ्योऽन्नं दीयतामिति वदेत् । ते च-- 'यजमानकुले जाता० भूतले' इत्युच्छिष्टमन्नं वामभागे भूमौ निक्षिपेयुः[१३९] । देवविप्रौ दक्षिणभागे । ततः पूर्ववत्पितृपूर्वकमापोशनार्थं जलं दद्यात् । ततो द्विजा अमृतापिधानमसीति तदुदकं पीत्वा[१४०] कर्त्राऽऽचाराच्छ्रद्धायां प्राणे निविश्येत्यनुवाक उक्ते मुखहस्तपादक्षालनाद्याचमनान्तं कर्म कुर्युः[१४१] । अत्र वामदेव्यं साम जपेयुः । सामाध्ययनाभावे तदीया ऋचस्तदीयाध्ययनधर्मेण पठेयुः । विसर्जनोत्तरं चाऽयं पाठः । ततः कर्तोच्छिष्टसंनिधौ प्राचीनावीती दक्षिणामुखो दक्षिणदिक्संस्थं रेखाकरणादि कर्म कुर्यात् । आग्नेयीसंस्थत्वपक्ष आग्ने[१४२]यीमुखता । 'अपहता असुरा रक्षा सि वेदिपदः' इत्युच्छिष्टसंनिधौ वेद्यां दक्षिणापर्वगामाग्नेय्यपवर्गां वैकां रेखां पितृवर्गार्थमुल्लिख्य पुनस्तेनैव मन्त्रेण तथैव मातामहवर्गार्थमेकां रेखां त[१४३]द्दक्षिणतस्तत्प्रत्यग्वोल्लिखेत् । स्फ्याभावे दर्भमूलेनोल्लिख्य तं दर्भं प्रज्ञातं निदध्यात् । ततः 'उदीरतामवर० हवेषु' इत्यद्भी रेखाद्वयं प्रोक्षेत् । प्रतिरेखं मन्त्रावृत्तिः । 'सकृदाच्छिन्नं बर्हिरू० नुगैः सह' इति सकृदाच्छिन्नेन पूर्वाहृतेन[१४४] बर्हिषा वेदिं स्तृणाति । यथा द्वयो रेखयोरास्तरणं भवे[१४५]त्तथा । दर्भाभावे सकृदाच्छिन्नैः काशैस्तथाभूताभी राजदूर्वाभि[१४६]रन्यैर्वा तृणैः स्तरणम् । आञ्जनं कज्जलम् । अभ्यञ्जनं तैलम् । दध्न उपरितनः स्नेहो वा । कशिपु मञ्चः सतूलिकः । उपबर्हणं शिरउपधानम् । उदकेन पूर्णः कुम्भ उदकुम्भः । ([१४७] आस्तृते सकृदाच्छिन्ने दक्षिणत आञ्जनमभ्यञ्जनं कशिपूपबर्हणमुदकुम्भं च प्रतिष्ठापयति । कशिपु, उपबर्हणमित्येकवचनादेकमेव । तूलिकोपधाने सबीजकार्पासगर्भिते । तच्च बीजमेकमेव परिशेषणीयं न तु बहूनि परिशेषणीयानि । अन्यथा मृदुत्वहान्यापत्तेः । बीजपरिशेषणं स्पर्शयोग्यतार्थमिति शिष्टाः ।) 'मार्जयन्तां पितरः सपत्नीकाः सोम्यासः । मार्जयन्तां पितामहाः सपत्नीकाः सोभ्यासः । मार्जयन्तां प्रपितामहाः सपत्नीकाः सोम्यासः' [१४८]त्यास्तृते सकृदाच्छिन्ने पितृवर्गार्थरेखामनुलक्षीकृत्य न्यञ्चितसव्यजानुरवाचीनपाणिर्दक्षिणापवर्गानाग्नेय्यपवर्गान्वा[१४९] रेखालेखनानुसारेण त्रीनुदकाञ्जलींस्त्रिभिर्मन्त्रैर्निनयति । चतुर्थपिण्डदानपक्षे तदर्थमपि तत्स्थाने तूष्णीं निनयनम् । एवं मातामहवर्गार्थां रेखामनुलक्षीकृत्य[१५०] पूर्ववन्मातामहाद्यर्थांस्त्रीनुदकाञ्जलीनूहेन तथैव निनयति । ततः पिण्डार्थं पूर्वोद्धृतमन्नं व्यञ्जनैर्मिश्रितं कृत्वाऽग्नौकरणशेषं तिलांश्च तस्मिन्नन्ने प्रक्षिप्य तेन षट्पिण्डान्कुक्कुटाण्डप्रमाणाञ्शक्तौ सत्यां नारिकेलप्रमाणान्कुर्यात् । चतुर्थपिण्डदानपक्षे चतुरश्चतुरः पिण्डान्कुर्यात् । अत्र मापान्केचिद्वर्जयन्ति ।

 ततः--

"शुक्लाम्बराः शुक्लगन्धाः शुक्लयज्ञोपवीतिनः ।
आत्माभिमुखमासीना ज्ञानमुद्रा निरायुधाः ॥
वसवः पितरो ज्ञेया रुद्रास्तत्र पितामहाः ।
पितुः पितामहाः प्रोक्ता आदित्या बर्हिषि स्थिताः" ॥

इति पितॄन्ध्यात्वा निनयनक्रमे[१५१]णाऽऽस्तृते सकृदाच्छिन्ने पत्न्या कृतांस्तदभावे स्वयमेव कृतान्रेखामनुलक्षीकृत्यावाचीनपाणिस्त्रीन्पिण्डान्ददाति[१५२] । पत्नी यदा पिण्डान्करोति तदा तद्धस्तात्कृतं कृतमादायाऽऽदायैव देयाः । 'एतत्ते ततामुकशर्म[१५३]न्ये च त्वामनु' इति पित्रे पिण्डं ददाति । 'एतत्ते पितामहामुकशर्मन्ये च त्वामनु' इति पितामहाय । 'एतत्ते प्रपितामहामुकशर्मन्ये च त्वामनु ' इति प्रपितामहाय[१५४] । सपत्नीकत्वाभिध्यानमात्रमत्र न तु तच्छब्दोच्चारणमपि । चतुर्थपिण्डदानपक्षे ततस्तमपि प्रपितामहपिण्डपुरोभागे प्रपितामहात्परांस्त्री[१५५]न्पितॄनभिध्यायंस्तूष्णीमेव दद्यात् । चतुर्थपिण्डदानाभावपक्षे प्रपितामहपिण्डपुरोभागे प्रपितामहात्परांस्त्रीनुद्दि[१५६]श्याऽऽस्तृते सकृदाच्छिन्ने हस्तगतं लेपं तूष्णीमेव निमृजेत् । हस्तलेपाभावेऽपि हस्तनिमार्जनमात्रं कार्यमेव । एवं मातामहाद्यर्थांस्त्रीन्पिण्डांस्तदीयरेखामनुलक्षीकृत्य तथैव दद्यात्तत्तच्छब्दोहेन । चतुर्थपिण्डदानविकल्पः पूर्ववत् । पिण्डदाने गोत्ररूपोच्चारणमपि केचित्कुर्वन्ति । ([१५७] अत्र नामाज्ञाने 'स्वधा पितृभ्यः पृथिविपद्भ्यः' इति पित्रे पिण्डं ददाति । 'स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः' इति पितामहाय । 'स्वधा पितृभ्यो दिविषद्भ्यः' इति प्रपितामहाय । एवं मातामहादिष्वपि पितृशब्दनैव तं तं संबन्धमभिध्यायन्दद्यात् । एतस्य पितृशब्दस्य सपिण्डीकरणश्राद्धजन्यपितृभावापन्नपरत्वात् । पितृवर्गे मातामहवर्गे च यद्येकस्य द्वयोर्वा नामाज्ञातं तदा मन्त्रस्तदीयस्तदीयः स्वधा पितृभ्य इत्येव । यस्य नाम ज्ञातं तावन्मात्रस्य त्वेतत्त इति द्रष्टव्यम् । यदि दत्तक्रीतादिर्द्विषिता तत्रापि पूर्वस्य पितुरपुत्रत्व एकस्मिन्पिण्डे द्वौ द्वौ पितरावुपलक्षयेत् । तत्प्रयोगस्तु पिण्डपितृयज्ञप्रयोगे द्रष्टव्यः ।) एवं पिण्डदानं कृत्वा[१५८] स्थापितकुम्भोदकचतुर्थभागं पात्रान्तरे गृहीत्वा तेनैव वा 'आपो देवीः स्वधया वन्दमानास्ता० मे पितॄन्' इति त्रीनुदपातान्निनयति । प्रत्येकं त्रिरिति केचित् । प्रत्येकं सकृदित्यन्ये । चतुर्थे[१५९] पिण्डे तूष्णीमिति केचित् । ततः स्थापितकुम्भोदकतृतीयभागं[१६०] तथैव गृहीत्वा तेन यथावस्थितेनैव मन्त्रेण मातामहादिषु 'अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वम्' इत्युक्त्वाऽप्रदक्षिणं पराङा वर्तते । 'स्वाहोष्मणोऽव्यथिष्यै' इति विभवात्सकृदेवोष्माणमुद्यन्तमनुमन्त्रय[१६१]ते । ऊष्माभावे मन्त्रलोपः । व्यावृत्त ऊष्मण्यव्यावृत्ते वा 'अमीमदन्त पितरोऽनुस्वधमावृषायषित' इत्युक्त्वा यथेतं पिण्डसंमुखो भवेत् । ततो यः स्थाल्यां शेषस्तमवघ्रायाप उपस्पृशेत्[१६२] । तस्योपस्पर्शनपक्षे नोदकस्पर्शः । ततः पवित्रे ग्रन्थिंमुक्त्वा विसृज्य हस्तौ पादौ च प्रक्षाल्याऽऽचम्यान्ये पवित्रे धृत्वाऽत्राऽऽञ्ज नाभ्यञ्जने वासश्चानुपिण्डं ददाति । आङ्क्ष्व पितरमुकशर्म[१६३]न्निति पितृपिण्डे तदाञ्जनं दर्भशलाकया योजयति । आङ्क्ष्व पितामहामुकशर्म[१६४]न्निति पितामहपिण्डे । आङ्क्ष्व प्रपितामहामुकशर्म[१६५]न्निति प्रपितामहपिण्डे । प्रत्येकं त्रिः । सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्येकमिति भाष्यकृत् । अस्मिन्मते चतुर्थपिण्डे[१६६]ऽपि तूष्णीम् । त्रिग्रहणं चतुर्थपिण्डनिवृत्त्यर्थमित्यन्ये । तदा सकृत्सकृदेव । एवं मातामहादिपिण्डेष्वप्याञ्जनमूहेन दद्यात् । अभ्यङ्क्ष्व पितरित्याद्यूहेन वर्गद्वयपिण्डेषु तदभ्यञ्जनमाञ्जनवद्दद्यात्[१६७] । उभयत्रापि सपत्नीकत्वस्याभिध्यानमात्रम् । अत्रापि गोत्ररूपोच्चारणं केचित्कुर्वन्ति । 'एतानि वः पितरो० यूढ्वम्' [ इति ] दशामूर्णास्तुकां वा छित्त्वा छित्त्वा पिण्डेषु क्षिपति पूर्वे वयसि । प्रतिवर्गं मन्त्रावृत्तिः । सकृदेव वा मन्त्रः । छित्त्वेतिवचनाद्गलितयोर्न ग्रहणम् । पञ्चाशद्वर्षात्पूर्वं पूर्वं वयः । तत ऊर्ध्वमुत्तरम् । उत्तरे वयसि स्वदक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्त्वा छित्त्वा तेनैव मन्त्रेण न्यस्यति । न दशा नोर्णास्तुका । सर्वथा लोमाभावे दशैव वोर्णास्तुकैव वा । ततः पितृभ्यो नम इति गन्धपुष्पधूपदीपनैवेद्यफलताम्बूलदक्षिणाभिः पिण्डपूजनं कुर्यात् । इदं च शिष्टाः सव्येन कुर्वन्ति[१६८] । सव्येन पूजनक्रियापक्षे प्राचीनावीती 'नमो वः पितरो रसाय पितरो नमो० नमो वः पितरः शुष्माय पितरो० नमो वः पितरो जीवाय पितरो० नमो वः पितरः स्वधायै पितरो० नमो वः पितरो मन्यवे पितरो० नमो वः पितरो घोराय पितरो० नमो वो य एतस्मिल्लोँके स्थ युष्मा स्तेऽनु येऽस्मिँल्लोके मां तेऽनु य एतस्मिँल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिँल्लोकेऽहं तेषां वसिष्ठो भूयासम्' इति सानुषङ्गैः षड्भिर्मन्त्रैः सर्वान्पितॄनभिध्यायन्नुपतिष्ठते । सप्तभिरिति पिण्डपितृयज्ञे वैजयन्तीकारः । अस्मिन्पक्षे सानुषङ्गाः षण्मन्त्राः । यथा--पाठपठितः सप्तम इति द्रष्टव्यम्[१६९] । वस्तुतोऽत्र मूलं चिन्त्यम् । यथापाठपठित एक एव मन्त्र इति केचित् । ततः पूर्वव[१७०]दवशिष्टकुम्भोदकेन त्रीनुदपातान्निनयति 'ऊर्जस्वतीः स्वधया वन्दमाना पितॄन्' इति मन्त्रेण । 'उत्तिष्ठत पितरः प्रेतपूर्वे० देवतासु' इति सर्वेषां पितॄणामुत्थानं भावयञ्जपति[१७१] । अत्र पवित्रत्यागः कृताकृतः । 'परेत पितरः सोम्या मदन्ति' [ इति ] सर्वेषां प्रवाहणं भावयञ्जपति । प्रवाहणं समीचीनैर्यानैः पितॄणां पितृलोकं प्रति नयनम् । 'यन्तु पितरो मनसा जवेन[१७२]' इति सर्वेषां पितृलोकप्रापणं भावयञ्जपति । 'मनो न्वा हुवामहे नाराश सेन स्तोमेन० आ न एतु मनः पुनः क्रत्वे० पुनर्नः पितरो० सचेमहि' इति तिसृभिर्मनस्वतीभिः स्वलोकस्थाः पितर इति भावयन्नुपतिष्ठते[१७३] । ततो यज्ञोपवीती भूत्वा 'अक्षन्नमीमदन्त० हरी । प्रजापते न त्वदे० रयीणाम्' इति पङ्क्तिप्राजापत्याभ्यां गार्हपत्यस्य पश्चाद्गच्छति । 'यदन्तरिक्षं पृथिवीमुत द्यां० करोतु मामनेनसम्' इति गार्हपत्यमुपतिष्ठते । औपासने लौकिकाग्नौ वा होमक्रियायां यस्मिन्नग्नौ होमस्तस्योपस्थानम् । तत्र गार्हपत्यपदस्य लोपः । ततः 'अभून्नो दूतो० देवान्' इत्यतिप्रणीतमग्निं यस्मादतिप्रणीतस्तस्मिन्नग्नौ मेलयति । ततः पात्राण्यद्भिरभ्युक्ष्य द्वे द्वे आसादनस्थानाच्चालयति । स्फ्यपिण्डार्थोद्धृतान्नपात्रे मेक्षणस्रुवाविति[१७४] । स्रुवासादनाभावे येन पात्रेणाभिघारणं कृतं तत्पात्रं वा तृणं वा । यदि दर्भेणोल्लेखनं कृतं तदा प्रज्ञातस्थापितोल्लेखनदर्भपिण्डार्थोद्धृतान्नपात्रे इति द्वन्द्वं द्रष्टव्यम् । अत्र वा विकिरान्नदानम् । ततो यज्ञोपवीती देवविप्रहस्तयोः शिवा आपः सन्त्विति यवोदकं दद्यात् । सौमनस्यमस्त्विति पुष्पम् । अक्षतं चारिष्टं चास्त्विति यवान् । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति पुनर्जलं दद्यात् । विप्रो- सन्तु शिवा आपः । अस्तु सौमनस्यम् । अस्त्वक्षतमरिष्टं च । अस्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चेति यथायथं प्रतिवदेताम् । ततः प्राचीनावीती शिवा आपः सन्त्विति जलं दद्यात् । सौमनस्यमस्त्विति पुष्पम् । अक्षतं चारिष्टमिति तिलान् । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति पुनर्जलं दद्यात् । पूर्ववद्विप्राणां प्रतिवचनानि । सर्वैर्विप्रैः स्वहस्तस्थपुष्पाक्षतानां भूमौ त्यागे कृत उपवीत्येवान्यान्यवान्देवविप्रहस्तयोर्दत्त्वाऽन्यांस्तिलान्पित्र्यविप्रहस्तेषु दद्यात् । ततोऽमुकगोत्रोऽमुकशर्माऽहं भो युष्मानभिवादय इति सर्वान्विप्रानभिवाद्याऽऽयुष्मान्भवेति तैरुक्तेऽमुकगोत्रं वर्धतामिति विप्रान्संप्रार्थयेत् । ते च वर्धतामित्युक्त्वा हस्ताक्षतान्कर्तुरञ्जलौ निक्षिपेयुः । ततः कर्ता तानक्षतान्स्वमस्तके निक्षिप्य भोजनपात्राणि सुतेन शिष्येण येन केनचित्सजातीयेन वा निष्काशयेत्[१७५] । न बालैः स्त्रीभिः पात्राणि निष्काशनीयानि । भुक्तोच्छिष्टं तत्पात्राणि च भूमौ निखनेत् । ततः प्राचीनावीती पूर्वस्थापितं पितृवर्गार्घ्यपात्रमादाय तत्र तिलोदकमानीयास्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्य यदत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्तु इति पितृविप्रदक्षिणहस्ते जलं दद्यात् । अस्त्वक्षय्यमिति विप्रः । एवं पितामहप्रपितामहयोस्तत्तन्नाम्ना अस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां यद्दत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्ययमस्त्विति भवन्तो ब्रुवन्तु इति पात्रद्वयस्थमुदकं[१७६] सहैव दद्यात्पृथक्पृथग्वा । तत उपवीती पुरूरवसंज्ञकानां विश्वेषां देवानां यद्दत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति प्रथमदेवविप्रहस्ते यवोदकं दद्यात् । आर्द्रवसंज्ञकानां विश्वेषां देवानां यद्दत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति द्वितीयदेवविप्रहस्ते । एकविप्रपक्षे--पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानामिति सहैवोत्कीर्तनम् । तत उपवीत्येव ताम्बूलपूर्वकं दक्षिणाः पान्तु इति[१७७] देवविप्राभ्यां दक्षिणां द[१७८]त्त्वा प्राचीनाचीती तथैव पित्र्यविप्रेभ्यो दक्षिणां दद्यात् । त[१७९]त्र देवानां सुवर्णं[१८०] वस्त्रधान्यादि च संभवे । पितॄणां रज[१८१]तं वस्त्रधान्यादि च संभवे । एकमेव यदि द्रव्यं दीयते तदा दक्षिणा पातु इत्येकवचनप्रयोगः । द्रव्यद्वित्वे दक्षिणे पातामिति । सर्वत्र बहुवचनान्तमेव वा । इति सर्वेभ्यो दक्षिणां दत्त्वा पान्तु दक्षिणा इ[१८२]त्यादि प्रश्नोहानुसारेण प्रत्युक्ते[१८३] पवित्रे अत्यक्त्वा त्यक्त्वा वा स्वधा संपद्यतामिति भवन्तो ब्रुवन्तु इति प्राचीनावीत्युक्त्वा संपद्यतां स्वधेति तैरुक्ते पि[१८४]ण्डसमीपे किंचिज्जलं निनीय पितृपितामहप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यः, वसुरुद्रादित्यस्वरूपेभ्यः, सपत्नीकेभ्यः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्यः स्वधोच्यतामित्युक्त्वा, अस्तु स्वधेति तैरुक्ते--अघोराः पितरः सन्त्विति वदेत् । सन्त्वघोराः पितर इति[१८५] पित्र्यविप्राः प्रतिब्रूयुः । त[१८६]तो विप्रैः शोभनं हविरिति हविर्गुणेषूक्तेषूपवीती-- 'दातारो नोऽभिवर्धन्ताम् । वेदाः संततिरेव नः । श्रद्धा च नो मा व्यगमत् । बहु देयं[१८७] च नोऽस्तु । अन्नं च नो बहु भवेत् । अतिथींश्च लभेमहि । याचितारश्च नः सन्तु । मा च याचिष्म कंचन' इति विप्रेभ्य आशिषः प्रार्थयेत् । ततो विप्राः 'दातारो वोऽभिवर्धन्ताम् । वेदाः संततिरेव वः । श्रद्धा च वो मा व्यगमत् । बहु देयं च वोऽस्तु । अन्नं च वो बहु भवेत् । अतिथींश्च लभध्वम् । याचितारश्च वः सन्तु । मा च याचिढ्वं कंचन' इति आशिषो दद्युः[१८८] । अत्र वा भोजनपात्रनिष्काशनम् । ततो देवाः स्वस्तीति ब्रूत, इत्युपवीती देवविप्रौ वदेत् । तौ स्वस्तीति प्रतिवदेताम् । तत उपवीत्येव पितरः स्वस्तीति ब्रूत, इति पित्र्यविप्रान्वदेत् । ते च स्वस्तीति प्रतिवदेयुः । ततः पिण्डानुद्धृत्य स्थाल्यां निक्षिपति । पार्वणद्वयद्वितीयपिण्डौ प्रज्ञातो निक्षिपति । चतुर्थपिण्डपक्षे[१८९] तयोरपि क्षेपणम् । ततः स्थालीतो मध्यमं पिण्डद्वयमादाय 'अपां त्वौषधीना र्भ धत्स्व' इति पत्न्यै प्रयच्छति । पत्न्यनेकत्वे पिण्डद्वयं विभज्य प्रतिपत्नि देय[१९०]मिति याज्ञिकाः । 'आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत्' इति सा प्राश्नाति । सर्वा अपि पत्न्योऽनेनैव मन्त्रेण प्राश्नीयुः । पत्न्या रजस्वलायाः प्रसूताया आशौचवत्या वा न भक्षणम् । भक्षणाभावाद्दानमपि न । अजातरजस्कायै च पत्न्यै न दद्यादिति रुद्रदत्तः[१९१] 'ये समानाः समनसः० कल्पताम् । ये सजाताः समनसो० शत समाः' इति द्वाभ्यां सकृदाच्छिन्नमभ्युक्ष्याग्नौ प्रहरति । सकृदाच्छिन्नद्वित्वे द्वयोः प्रहरणम् । संभवात्सकृदेव मन्त्रः । तत इतरपिण्डानप्सु क्षिपति ब्राह्मणं वा भोजयत्यजाय गवे वा दद्यादग्नौ वा क्षिपेत् । पत्न्यां रजस्वलायां[१९२] रोगिण्यां च[१९३] प्राशनार्थौ मध्यमौ पिण्डौ जीर्णवृषभाय च्छागाय वा दे[१९४]यौ । अत्र[१९५] पिण्डप्राशनं कृताकृतम्[१९६]। ततः पिण्डस्थाने जलमासिच्य 'वाजे वाजे० यानैः'। उत्तिष्ठत पितरो विश्वैर्देवैः सहेति सव्येनैव पितृपूर्वकं विसर्जनं कुर्यात् । ततः कूर्चद्वयं विस्रस्य 'आ मा वाजस्य प्रसवो जगम्यादा द्यावापृथिवी विश्वशंभू । आ मा गन्तां पितरा मातरा चाऽऽ मा सोमो अमृतत्वाय गम्यात् । स्वादुष ० ब्राह्मणासः पितरः०' इति वदेत् । ततो विप्राः 'इहैव स्तं० स्वे गृहे । आयुः प्रजां धनं० । प्रयच्छन्तु तथा राज्यं प्रीतास्तुभ्यं पितामहाः' इत्याशिषो दद्युः । कर्ता--

"अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।
अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम् ॥
पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः ।
तत्क्लेशजातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ[१९७]" इति ॥

 क्षन्तुमर्हाः स्म इति विप्राः । ततः कर्ता--

"मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः ।
श्राद्धं संपूर्णतां यातु प्रसादाद्भवतां मम" इति विप्रान्प्रार्थयेत् ॥

 विप्राः श्राद्धं संपूर्णतां यात्विति वदेयुः ।  ([१९८] ततः कर्ता--

"जपच्छिद्रं तपश्छिद्रं यच्छिद्रं श्राद्धकर्मणि ।
सर्वं भवतु मेऽच्छिद्रं ब्राह्मणानां प्रसादतः" ॥

 इति पुनः प्रार्थयेत् । विप्राः सर्वमच्छिद्रं भवत्विति वदेयुः । ततो विप्रान्प्रदक्षिणीकृत्य तदाशिषो गृह्णीयात् । ततः कर्मपूर्णतासिद्ध्यर्थमनाज्ञातमितिमन्त्रत्रयमिदं विष्णुरिति व्याहृतीश्च जपेत् । आभिर्गीभिरिति ततः पठित्वा ।) यस्य स्मृ[१९९]त्येत्यादि [पठेत् ] । अनेन[२००] मासिश्राद्धाख्येन कर्मणा श्रीपरमेश्वरः प्रीयतां न ममेति[२०१] कर्मेश्वरायार्पयित्वा विष्णुं संस्मृत्य पवित्रे ग्रन्थिं विसृज्य त्यक्त्वा[२०२] द्विवारमाचमनं कुर्यात् । ततो बन्धुभिः सह श्राद्धशेषं भुञ्जीतेति । सर्वत्र[२०३] श्राद्धाङ्गेषु यत्किंचिद्वैगुण्ये[२०४]ऽनाज्ञातमन्त्रत्रयवैष्णव्यृक्स(वर्क्स)मस्तव्याहृतिजपः प्रायश्चित्तं द्रष्टव्यम् । आहिताग्निश्चेच्छ्रौतपितृयज्ञविधिवत्कुर्यात् । अनाहिताग्निश्चेत्सोऽयमेवं विहितोऽनाहिताग्नेरित्यादिविधिना कुर्यात् । ब्रह्मचारिस्नातकयोरपि सोऽयमेवं विहित इत्यादिविधिरेव । विवाहे कृते तस्यैव प्रायः प्रथमोपस्थितत्वात् । दूरभार्यस्याऽऽहिताग्नित्वानाहिताग्नित्वानुसारेण । विधुरस्याप्येवम् । न च प्रकृतिभूतस्य पिण्डपितृयज्ञस्यैवानारम्भात्कथं तद्विकृतिभूतानुष्ठानमिति वाच्यम् । एतस्य नियमस्य प्रकृत्युत्तरोत्पन्नविकृतिविषय एवान्यथाऽनुपपत्त्याऽङ्गीकारात् । यथाऽऽग्रयणेष्ट्यादौ । पावमानेष्ट्यादौ तु प्रकृत्युत्तरोत्पन्नत्वाभावेन न प्रकृत्यनुष्ठानोत्तरमेव विकृत्यनुष्ठानमिति नियमः । एवं सांवत्सरिकादिश्राद्धानां प्रकृतिभूतपिण्डपितृयज्ञात्पूर्वं प्रकृ[२०५]त उत्पन्नत्वेन नायं नियम इति सिद्धं प्रकृत्यनुष्ठानाभावे विकृत्यनुष्ठानम्[२०६] । अत्र भोक्तुः प्रायश्चित्तं षट्प्राणायामाः । बुद्ध्या श्राद्धलोपे प्राजापत्यं प्रायश्चित्तं प्रमादाल्लोपे तूपवास इति द्रष्टव्यम् ।

इति संस्काररत्नमालायां दर्शश्राद्धापरपर्यायमासिकश्राद्धप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धेऽष्टमं प्रकरणम् ॥ ८ ॥

  1. ङ. गः । यथाधिकारं कृतनित्यक्रियः कर्तापराह्णे दर्भपाणिः सप ।
  2. क. कर्तैत ।
  3. ङ. णं विधायाऽऽच ।
  4. ङ. र्वदोष ।
  5. च.पु दि ।
  6. ङ. क्षु वि ।
  7. ङ. म्य, निह ।
  8. ङ. सकु ।
  9. ङ. विकिरेत् । जीवत्पितृकस्य प्रकोष्ठपर्यन्तं प्राचीनावीतम् । ततः प्रमा ।
  10. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  11. क. त्रं त ।
  12. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'दर्शश्राद्धाख्यं मासिश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽन्नेन हविषा सद्यः करिष्य इति संकल्पं कुर्यात्' इति ग्रन्थो वर्तते ।
  13. धनुश्चिह्नान्तर्गत नास्ति ङ. पुस्तके ।
  14. ङ. स्य जानुद्वयमालभ्याद्य ।
  15. ङ. च. द्य क ।
  16. च. रवार्द्रव ।
  17. ङ. वदेवार्थे । क्षणः क्रियतामिति निमन्त्रयेत् । ओं ।
  18. ङ. त् । आ ।
  19. धनुश्चिह्नान्तर्गतं नास्ति च पुस्तके ।
  20. ङ. वदेवार्थे क्षणः क्रियतामिति द्वि ।
  21. ङ. वदेवार्थे क्षणः कियतामित्येव वा । इदं ।
  22. ङ. त्र ज्ञे ।
  23. ङ. म् । मा ।
  24. ङ. वाकं जपेताम् । ततः ।
  25. ङ. र्थे क्षणः क्रियतामिति विप्रं निमन्त्रयेत् । ओं ।
  26. ङ. र्थे क्षणः क्रियताम् अ ।
  27. ङ. क्षणः क्रियताम् । अ ।
  28. ङ. र्थे क्षणः क्रियताम् । अ ।
  29. ड. र्थ क्षणः क्रियताम् । अ ।
  30. ङ. र्थे क्षण इ ।
  31. ङ. त् । ॐ ।
  32. ङ. वाकं जपेयुः । एतच्च पृ ।
  33. ङ. क्षे तर्पणव्यतिरिक्तमेत । च. क्षे, ए ।
  34. ङ. म् । ततो ।
  35. धनुश्चिह्नान्तर्गतग्रन्थस्थाने 'स्वस्याशक्तौ पत्न्यादिभिः । अत्र' इति वर्तते ङ. पुस्तके ।
  36. ङ. तां दै ।
  37. ङ. यतां पित्रर्थे क्षण: क्रियतामि ।
  38. ङ. त् । त ।
  39. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'तीर्थे स्नात्वा मौनी कृतमाध्याह्निकक्रियो गृहमागत्य हस्तपादान्प्रक्षाल्याग्निसमीपमागत्याऽऽचम्य, एकस्मिन्पात्रे देवकार्यार्थं यवमिश्रितमुदकं कृत्वा तस्मिन्दर्भमयं कूर्चं गन्धादींश्च निक्षिप्य प्राचीनावीती--अन्यस्मिन्पात्रे पितृकार्यार्थं तिलमिश्रितमुदकं कृत्वा दर्भमयकूर्चं गन्धादींश्च निक्षिपेत्' इति वर्तते ।
  40. च. कं प ।
  41. ङ. विप्रान्प्रद ।
  42. ङ. प्राप्रम ।
  43. ङ. त् । भवाम इति विप्राः । ततः ।
  44. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  45. च. कटिं सं ।
  46. ङ. स्तिलान्विकी ।
  47. ङ. भूमौ ग ।
  48. ङ. त्र्या पाकप्रो ।
  49. ङ. त् । पा ।
  50. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'नवप्रसूतार्तातिरिक्तगोर्गोमयेनाभावे गौरमृत्तिकया भस्मना वा गृहाङ्गण उत्तरे प्रादेशमात्रं चतुरस्रं मण्डलं कृत्वा यवदर्भांश्च तत्र प्रक्षिप्य प्राचीनावीती दक्षिणे प्रादेशमात्रं वर्तुलं मण्डलं कृत्वा तिलान्दर्भांश्च प्रक्षिपेत्' इति ग्रन्थो वर्तते ।
  51. ङ. मात्रं व । च. मात्रं वि ।
  52. ङ. वत्क्षणं दद्यात् । ततः पुरूरवविश्वे ।
  53. ङ. ण्डले प ।
  54. ङ. शे वि ।
  55. ङ. श्य सु ।
  56. ङ. श्य वि ।
  57. ङ. पादयोः सयवकुशग ।
  58. ङ. क्ते शं ।
  59. ङ. तिमन्त्रेणासंस्पृशन्पादौ ।
  60. ङ. त् । आ ।
  61. ङ. देवाः स्वागतम् । आर्द्रवविश्वे देवा इ ।
  62. ङ. ततोऽस्म ।
  63. ङ. लसमीपे पि ।
  64. ङ. श्व सु ।
  65. ङ. क्ते स्व ।
  66. ङ. व तस्य पादयोः सकु ।
  67. ङ. जलमस्म ।
  68. ङ. न निक्षि ।
  69. ङ. ण संस्पृशन्पादौ ।
  70. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  71. पित्र्य इति नास्ति ङ. पुस्तके
  72. ङ. क्षे--पुरूरवार्द्रवविश्वे देवाः स्वागतं, पाद्यम् । अ ।
  73. ङ. म् । त ।
  74. ङ. तो विप्राः स्वस्वमण्डलोत्तरतो द्विवारमाचमनं कुर्युः । ते ।
  75. ङ. र्ता पवित्रे ग्रन्थिं मुक्त्वा विसृज्य पादौ प्र ।
  76. च. त्वा शुद्धदेशे त्यक्त्वा ह ।
  77. ङ. कार्याणि ।
  78. ङ. तो दक्षिणाप्रवणे गृहमध्ये प्रा ।
  79. ङ. विप्राः ।
  80. ङ. इत्यूहेन द ।
  81. ङ. षु पि ।
  82. ङ. मास्स्वेति ।
  83. ङ. तः दे ।
  84. ङ. ति पठे ।
  85. ङ. णं पाकप्रो ।
  86. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ पुस्तके संक्षिप्तो ग्रन्थो विद्यते । स यथा-- "तत उदङ्मुखो दक्षिणं जान्वाच्य देवद्विजदक्षिणकरयोर्थबोदक दर्भवटुना दत्त्वा 'पुरूरवविश्वेषां देवानामिदमासनम् । अत्राऽऽस्यताम्' इति यवसहितान्प्रागग्रान्दर्भानृजून्दक्षिणतो दद्यात् । धर्मोऽसीति विप्राः प्रतिब्रूयुः । एवं द्वितीये विप्र आर्द्रवविश्वेषां देवानामित्यूहेन । 'स इषुहस्तैः० ऋक् । नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमः । नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः' इति मन्त्राञ्जपेताम् । ततः पुरूरवविश्वे(श्व)देवार्थे त्वया क्षणः करणीयः, इति क्षणं दद्यात् । ॐ तथेति प्रतिवचनम् । आर्द्रवविश्वे(श्व)देवार्थे त्वया क्षण: करणीय इत्यूहेन द्वितीयदेवविप्रे । देवविप्रावा ब्रह्मन्नित्यनुवाकं जपेताम् । ततो भुवं यवोदकेन प्रोक्ष्य तत्र प्रागग्रं दर्भद्वयं निधाय तत्र प्राक्संस्थं पात्रद्वयं निधाय तदुपरि प्रादेशमितौ द्वौ द्वौ कुशौ साग्रौ प्रागग्रौ निधाय तस्मिन्यवमिश्रिता अप आसिच्य 'शं नो देवी० स्रवन्तु नः' [ इति ] सकृदेव मन्त्रमुक्त्वा पात्रद्वयमनुमन्त्र्य 'यवोऽसि धान्यराज्ञो० मृषिभिः स्मृतम्' इति मन्त्रेण 'यवोऽसि यवया० रातीः०' इत्यनेन मन्त्रेण वा तयोः क्रमेण यवानोप्य गन्धद्वारामिति गन्धमोषधयः प्रतिमोदध्वमिति पुष्पाणि च प्रक्षिपेत् । सर्वत्र मन्त्रावृत्तिः । ततो देवपात्रे संपन्ने इति देवविप्रो वदेत् । सुसंपन्ने इति विप्रौ प्रतिवदेताम् । ततो देवविप्रकरयोर्यवोदकं दत्त्वा कुशयवकरः पुरूरवविश्वान्देवांस्त्वयि आवाहयिष्य इति प्रथमदेवविप्रस्य दक्षिणपादादिमूर्धान्तं प्रदक्षिणमावाह्य, आर्द्रवविश्वान्देवांस्त्वय्यावाहयिष्य इति द्वितीयदेव
  87. च. स्तेन पृ ।
  88. क त्वा, ॐ आ ।
  89. च. पित्रा ।
  90. क. च. त्वा, ॐ अं ।
  91. क. च. त्वा, ॐ अ ।
  92. च. क्षप्योद ।
  93. ङ. पात्राणां प ।
  94. ङ. त् । त ।
  95. हरताजलेन प्रक्षाल्य य ।
  96. हस्तौ जलेन प्रक्षालयेत् ।
  97. ङ. युः । ततो होमपर्याप्तमन्नमुद्धृत्याग्निसमीपे निदधाति । आ ।
  98. ङ. ग्नौ । त ।
  99. ङ. कल्प्य स्थण्डिलं प्र ।
  100. ङ. त्वा स ।
  101. ङ. होमः कार्य: । ए ।
  102. ङ. होमोऽपि ।
  103. ङ. थ. श्राद्धहोमः । प्रा ।
  104. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके "परिस्तीर्य तूष्णीमेव समन्तमप्रदक्षिणं परिषिच्य स्रुवं संमृज्योत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वा स्रुवेणाभिघार्योद्वास्याग्नेः पश्चान्निधाय" इति वर्तते ।
  105. च. ति । अस्मि ।
  106. ङ. दं । द्वितीयाहुतिसंलग्नसिक्थाभावे लो ।
  107. ङ. व्ये । त ।
  108. ङ. मः । ततो य ।
  109. ङ. पात्रे उप ।
  110. ङ. पात्राण्युपस्तृणाति । त ।
  111. ङ. क्ष्यं घृतं व्यञ्जनादि सूपं त्वन्ते ।
  112. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  113. ङ. षु । घृ ।
  114. ङ. शिष्टमन्नमपि पित्र्ये परिवेषणीयम् । विधुरेण तु देवविप्रपात्रयोरेव । त ।
  115. ङ. वीती देवेभ्यो न ।
  116. ङ. त्र्या प्रोक्ष्य दक्षिणेन हस्तेन देव ।
  117. ङ. च. अमुत्रा ।
  118. ङ. द्विजाङ्गुष्ठ ।
  119. ङ. हविरयं ।
  120. ङ. येयं पुरू ।
  121. ङ. क्ष्य पृ ।
  122. ङ. च. अमुत्रा ।
  123. ङ. इत्यभ ।
  124. ङ. येयम् । अस्म ।
  125. ङ. तु । इ ।
  126. ङ. तु । इत्युक्त्वा ये ।
  127. ङ. ज्य नमस्कृत्य, ई ।
  128. ङ. क्त्वा दे ।
  129. ङ. दकमाषी ।
  130. ङ. तत ।
  131. ङ. युः ।
  132. ङ. ताना ।
  133. ङ. त्वा श्रा ।
  134. ङ. त्युक्ते सर्वस्मादन्नादुच्छि ।
  135. ङ. थगुद्धृ ।
  136. ङ. त्त्वा तिलो ।
  137. ङ. य पायसान्नमादाय ।
  138. ङ. चम्योच्छि ।
  139. ङ. युः । त ।
  140. ङ. त्वा मु ।
  141. ङ. र्युः । ततो यजमान उच्छि ।
  142. ङ. ग्नेय्यभिमुखः अ ।
  143. ङ. तद्वामतः प्रत्य ।
  144. ङ. न । वे ।
  145. ङ. वेत् । द ।
  146. ङ. भिर्वा स्त ।
  147. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  148. ङ. इति तस्मिन्नास्तृते बर्हिषि न्य ।
  149. ङ. न्त्रा त्री ।
  150. ङ. त्य बर्हिषि मातामहाद्यर्थमूहेन । ततः ।
  151. ङ मेण बर्हिषि प ।
  152. ङ. ति । ए ।
  153. ङ. र्मन्सपत्नीक ये च ।
  154. ङ. य । च ।
  155. ङ. स्त्रीनु ।
  156. ङ. द्दिश्य बर्हिषि ह ।
  157. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  158. ङ. त्वा श्रा ।
  159. ङ. च. र्थेऽपि पि ।
  160. ङ. णं गृ ।
  161. ङ. ते व्या ।
  162. ङ. तृ । उपस्पृशति वा । अस्मिन्पक्षे नो ।
  163. ङ. र्मन्सपत्नीकेति ।
  164. ङ. र्मन्सपत्नीकेति ।
  165. ङ.र्मन्सपत्नीकेति ।
  166. च. ण्डे तू ।
  167. ङ. त् । अ ।
  168. ङ. न्ति । ततः नमो ।
  169. ङ. म् । य ।
  170. ङ. विदुदकु ।
  171. ङ. ति । प ।
  172. क. न पितॄन्स साधयति । इ ।
  173. ङ. ते । औ ।
  174. ङ. ति । य ।
  175. ङ. त् । प्रा ।
  176. ङ. कं दद्यात् । त ।
  177. ङ. ति द ।
  178. ङ. दद्या ।
  179. ङ. तत्राऽऽदौ दे ।
  180. ङ. र्णे ततः पि ।
  181. ङ. जतम् । इति सर्वे ।
  182. ङ. इति प्र ।
  183. ङ. क्ते स्व ।
  184. ङ. पिण्डान्ते ।
  185. ङ. ति प्र ।
  186. ङ. तत उप ।
  187. क. धेयं ।
  188. ङ. द्युः । ततः पिण्डा ।
  189. क.च. क्षेऽपि तयोः क्षे ।
  190. ङ. यम् । आ ।
  191. ङ. त्तः । इतरपि ।
  192. ङ. यां दूरदेशगतायां रो ।
  193. ङ. च. च मध्यमं पिण्डद्वयं जी ।
  194. ङ. देयम् ।
  195. ङ. त्र प्रा ।
  196. ङ. तम् । ये समानाः० । ये सजाताः० इति द्वाभ्यां सकृदाच्छिन्नद्वयं सहैवाभ्युक्ष्याग्नौ प्रहरति । त ।
  197. ङ. थ । मन्त्र ।
  198. धनुश्चिह्नान्तर्गतं ङ पुस्तके नास्ति ।
  199. ङ. स्मृ । अ ।
  200. ङ. न दर्शश्रा ।
  201. ङ. ति जलं विसृज्य वि ।
  202. ङ. वस्त्राऽऽच ।
  203. ङ. र्वश्राद्धे य ।
  204. ङ. ण्ये वैशेषिकप्रायश्चित्तानुक्तावनाज्ञातादिम ।
  205. क. च. कृतरुत्प ।
  206. ङ. म् । इत्यो ।