अथ सप्तमं प्रकरणम् ।

 अथामावास्यायां कर्तव्यं मासिश्राद्धमासिकश्राद्धात्मकं श्राद्धद्वयमुच्यते । तत्र[१] धर्मसूत्रोक्तं मासिश्राद्धं गृह्योक्तं मासि[२]कम् । अनयोर्भेदस्तु धर्मसूत्रे संज्ञान्तरकरणात्पुनःकालोपादानात्पृथग्धर्मापादानाच्च । न च पितरो देवतेत्यादीनां धर्माणामाकाङ्क्षितत्वान्मासिकार्थत्वमेवास्त्विति वाच्यम् । गृह्योक्तैरेव धर्मैराकाङ्क्षायाः शान्तत्वेन पितरो देवतेत्यादीनां तदर्थत्वाभावात् । न च 'तत्र द्रव्याणि--तिलमाषा व्रीहियवा आपो मूलं फलानि च' इत्येतस्य द्रव्यविशेषविधेः 'प्रयतः प्रसन्नमनाः सृष्टो भोजयेत्' इति कर्तृधर्मविधेर्ब्राह्म[३]णलक्षणविधेः पूर्वेद्युर्निवेदनादिधर्माणां च गृह्योक्ते मासिकश्राद्धे[४]ऽप्यवश्यापेक्षितत्वेन तदर्थत्वसंभवात्पितरो देवता ब्राह्मणस्त्वाहवनीयार्थ इत्यनयोर्मृतपित्रुद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धमितिश्राद्धलक्षणप्रतिपादनार्थत्वेनोपयोगात्कथं कर्मभेद इति वाच्यम् । तथा सत्युपस्थितिलाघवात्तत्रैव वक्तव्ये दू[५] विधानस्य निर्हेतुकत्वापत्तेः । न चैतेषां पाक्षिकत्वेन प्राप्तये दूरविधानमिति वाच्यम् । तत्र द्रव्याणीत्यादिविधेरावश्यकत्वेन पाक्षिकत्वासंभवात् । ([६] न चैवं तत्र द्रव्याणीत्यादिविधेरावश्यकत्वेन पाक्षिकत्वासंभवेऽपि उद्धरिष्यामीत्यादिविधेराकाङ्क्षाभावेनानावश्यकत्वात्पाक्षिकत्वसंभवः । तथा च दूरविधानस्य सार्थक्ये सिद्धे किमर्थं भेदकल्पनमिति वाच्यम् । तथा सत्यपि )([७]योनिगोत्रमन्त्रासंबन्धान्नार्थापेक्षो भोजयेदित्यस्योभयत्रोपादानवैयर्थ्याप[८]त्तेस्तदवस्थत्वेन सार्थक्यासंभवेन,) एतेन माध्यावर्षं व्याख्यातम्, यथा मासिक इति वचनाभ्यां माध्यावर्षपूर्वेद्युःश्राद्धाष्टकान्वष्टकाव्यतिरिक्तश्राद्धेषु सांवत्सरिकादिषु मासिकश्राद्धातिदेशस्य निरासेनेतरस्य प्रकृतिभूतस्य श्राद्धान्तरस्य चाभावेन सांवत्सरिकादीनामङ्गहीनत्वपरिहारार्थं[९] च मासिकश्राद्धे भिन्नत्वकल्पनाया आवश्यकत्वा[१०]त् । न चाऽऽस्तामङ्गहीनता । तादृशस्य कर्मण एवाभावात् । ([११]न च सांवत्सरिकश्राद्धादीनामङ्गहीनत्वपरिहारस्य दर्शश्राद्धेनैव संभवे किमर्थं मासिश्राद्धस्याङ्गहीनत्वपरिहारार्थं भेदकल्पनमिति वाच्यम् ।स्मृत्युक्तत्वाविशेषाद्विरोधाभावात्, असति बाधके धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वाच्च मासिश्राद्धदर्शश्राद्धयोरभेदस्यैव कल्पनीयतया तेनैवाङ्गहीनत्वपरिहारसंभवात् । असति बाधक इति विशेषणान्न मासिश्राद्धमासिकयोरभेदापत्तिः । नात्र ब्राह्मणलक्षणस्योभयत्रोपादानवैयर्थ्यापत्तेरेव बाधकत्वात् )। अतोऽवश्यं भेदोऽङ्गीकर्तव्य एवेति सिद्धम् । एवं च गृह्योक्तं मासिकं गृह्योक्तश्राद्धानां प्रकृतिः । धर्मसूत्रोक्तं मासिश्राद्धं धर्मशास्त्रोक्तानां महालयादीनां शास्त्रान्तरोक्तानां सांवत्सरिकादीनामिति व्यवस्थाया वक्तुं शक्यत्वेन न सांवत्सरिकादिष्वङ्गहीनत्वापत्तिः । नन्वस्तु गृह्योक्तमासिकश्राद्धात्मासिश्राद्धं भिन्नं, परं तु तद्विकृतिर्वा प्रकृतिर्वा । न तावदाद्यः । गृह्यानुक्तानां श्राद्धानां परिसंख्यातत्वेन मासिकविकृतित्वाभावात् । नापि दर्शश्राद्धविकृतित्वं तस्यैवानुक्तेः । न द्वितीयः । कृत्स्नाङ्गोपदेशाभावात् । न च यावन्त्यङ्गान्युपदिष्टानि तावद्भिरेवाङ्गैः कृत्स्नाङ्गोपदेशोऽस्त्विति वाच्यम् । होमे देवतामन्त्रेतिकर्तव्यतानामनुक्तत्वेन कृत्स्नाङ्गोपदेशा[१२]संभवात् । न चात्र होमाभावः । अतिसृष्ट उद्धरेज्जुहुयाच्चेति होमार्थानुज्ञाविशेषविधानेन तत्सत्त्वप्रदर्शनात् । न चैवमस्तु होमः । तत्र देवतामन्त्रेतिकर्तव्यतास्तु पितरो देवता, अमन्त्रास्वमु[१३]ष्मै स्वाहेति सर्वद र्विहोमाणामेष कल्प इति सूत्रैः क्रमेण सिध्यन्तीति[१४] नातः कृत्स्नाङ्गोपदेशासंभव इति वाच्यम् । एतस्य होमविधेर्विलम्बोपस्थितत्वेन दुर्बलत्वात् । न च पिण्डपितृयज्ञस्थहोमविधिरेवात्र, केवलपितृसंबधित्वेन शीघ्रोपस्थितत्वात् । तथा च न कृत्स्नाङ्गोपदेशाभाव इति वाच्यम् । मुख्यपिण्डदानस्यैवानुक्तत्वेन कृत्स्नोपदेशस्य सर्वथाऽभावेन प्रकृतित्वासंभवस्य दुरुद्धरत्वात् । न च पिण्डदानाभाव एवास्त्विति वाच्यम् । आपरपक्षिकसांवत्सरिकादिषु तदभावापत्तेः । न चैतेष्वपि पिण्डदानाभावोऽस्त्विति वाच्यम् । तथा सति युगादिश्राद्धेषु पिण्डदाननिषेधानुपपत्तेः सकलस्मृतिसूत्रनिबन्धशिष्टाचारविरोधापत्तेश्चेति चेन्न । मासिश्राद्धे जुहुयाच्चेत्यत्रत्येन चकारेण पिण्डदानस्यापि सूत्रकृता संगृहीतत्वात् । न चैतस्मिन्पिण्डदाने मासिकश्राद्धीयपिण्डदानविध्यसंभवेन कथमेतदिति वाच्यम् । पिण्डपितृयज्ञतो होमविधिप्राप्तिवत्तत्रत्यपिण्डदान[१५]स्यापि प्राप्तौ बाधकाभावात् । आतिदेशिकवचनाभावात्कथमेतयोः प्राप्तिरिति चेत् । हुत्वाऽग्नौ पितृयज्ञवत् । 'दद्याद्भुक्तेषु विप्रेषु त्रीन्पिण्डान्पितृयज्ञवत्' इति स्मृतित इति गृहाण । वस्तुतस्तु सूत्रकृता मासिश्राद्धस्य धर्मसूत्रे प्रणयनात्स्मृत्युक्तस्यैव सकलविधेर्ग्राह्यत्वं प्रदर्शितम् । प्रतिज्ञातं चास्ति पूर्वं सामयाचारिकान्धर्मान्व्याख्यास्याम इति । नातो होमपिण्डदानहीनता । एवं च स्मृतिसिद्धधर्मातिदेशस्य स्मृतित एव सिद्धत्वान्न सांवत्सरिकादिष्वपिण्डकत्वाद्यापत्तिः । सूत्रे पितरो देवता ब्राह्मणस्त्वाहवनीयार्थं इत्येतदुपादानं तु मृतपित्रुद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धमितिश्राद्धस्वरूपप्रदर्शनार्थम् । स्मृतित एव तिलादिद्रव्याणामपि प्राप्तावत्र वचनं तिलमाषव्रीहियवानामावश्यकत्वार्थम् । आपो मूलं फलानि चेति तु अतिसंकटे तिलादिश्राद्धद्रव्यालाभे फलमूलान्यपि तावत्पितृभ्यो देयानि, एतेषामप्यलाभे श्राद्धदिन उदकमपि तावद्देयं, तेनैव श्राद्धसिद्धिरितिप्रदर्शनार्थम् । उद्धरिष्याम्यग्नौ च करिष्यामीत्यादिधर्माणामत्र वचनमशक्तौ पिण्डदानरहित एतावाननुकल्पस्तत्रैत एक धर्मा आवश्यका इति बोधयितुम् । ननु--अतिसृष्ट उद्धरेज्जुहुयाच्चेत्यादिकमेवास्तु किमर्थं मन्त्रोपादानमिति चेन्न । स्मृतिष्वामन्त्रणानुज्ञामन्त्रयोरनेकविधत्वदर्शनेन सर्वेषामपि प्राप्तौ तत्रैतावेव विवक्षितावितिप्रदर्शनार्थं तस्यात्रोपादानात् । एवमर्घ्यादीनामपि विवक्षितार्थप्रदर्शनार्थमेवोपादानं द्रष्टव्यम् । ( [१६] पितरो देवतेत्यादीनामुपादानं तु अशक्तौ पिण्डदानरहित एतावाननुकल्प इति बोधयितुम् । ) होमस्याप्यशक्तौ ब्राह्मणभोजनमात्रं कर्तव्यम् । एतज्ज्ञापयितुमेव होमविशेषविधेः पूर्वं सृष्टो भोजयेदितिभोजनविध्युपादानमिति द्रष्टव्यम् । तत्र दर्शश्राद्धमेव मासिश्राद्धं स्मृत्युक्तत्वाविशेषाद्विरोधाभावाच्च । संस्थात्वं तु गृह्योक्तस्य मासिकस्यैव । अष्टकादिसंस्थासांनिध्यात्प्रथमोपस्थितत्वादितरसंस्थावद्गृह्यान्तर्गतत्वलाभाच्च । न च बौधायनेनामाश्राद्धस्याङ्गिरसा पार्वणश्राद्धस्य तथात्वोक्तेः कथमेतदिति वाच्यम् । मासिकश्राद्धस्याप्यमायां पर्वणि चानुष्ठेयत्वेनामाश्राद्धत्वपार्वणश्राद्धत्वधर्मद्वयाक्रान्तत्वेनात्र ग्रहणे बाधकाभावात् । स च दर्शश्राद्धापरपर्यायं धर्मसूत्रोक्तं मासिश्राद्धमेव संस्थात्वेन ग्राह्यं दर्शश्राद्धस्यैव सर्वस्मृतिषु तथान्योक्तेरिति वाच्यम् । तस्य गृह्यान्तर्गतत्वाभावेन संस्थात्वाभावस्यैव कल्पनात् । न चैवं वैश्वदेवस्य संस्थात्वं न स्यात्, गृह्यान्तर्गतत्वाभावादिति वाच्यम् । इष्टापत्तेः । न चैवं संस्थासु षट्त्वापत्तिः, इष्टापत्तौ गौतमाद्युक्तसप्तसंख्याव्याघात इति वाच्यम् । शूलगवस्य गृह्यान्तर्गतत्त्वेन तेनैव सप्तसंख्यापूरणसंभवेन सप्तसंख्याव्याघातस्य सुदूरपराहतत्वात् । न च शूलगवस्य संस्थात्वे किं प्रमाणमिति वाच्यम् । गीतमादिस्मृतीनामेव तत्र प्रमाणत्वात् । न च सूत्रकृता शिवो हैव भवतीति काम्यत्वप्रतिपादनात्कथं काम्यस्य शूलगवस्य संस्थात्वमिति वाच्यम् । बौधायनगौतमाद्युक्तसंस्थात्वबलेन नित्यत्वस्यापि कल्पनात्कामप्रदाभावात् । अकर्मणि दोषो येषां लोके कर्मण्युपालम्भस्तानि नियतानीति सूत्रेणापि नित्यत्वसिद्धेर्वक्तुं शक्यत्वाच्च । येषामकरणे दोषः । लोकशब्देन स्मृति[१७]मूलसूत्रान्तरादिरूपं शास्त्रं गृह्यते । तादृशे शास्त्रे येषां कर्मणामकरण उपालम्भो निन्दा तानि नियतानीति ह्येतस्य सूत्रस्यार्थः । अस्ति च संस्थानामकरणे शास्त्रान्तरे दोषश्रवणं 'यो ह्येकविंशतिसंस्था न करोति स पापीयान्भवति' इति । पापीयस्त्वादेव तस्य लोके निन्दाऽपि । तस्य निन्दितस्य त्वधः पतनम् । आह च याज्ञवल्क्यः--

"विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति" इति ॥

 ननु कैश्चिदाचार्यैर्वैश्वदेवस्यापि संस्थात्वेन परिगणनात्कैश्चित्तु शूलगवस्यैव । तथा च संस्थात्वस्य शूलगववैश्वदेवयोरुभयोरपि दृष्टत्वादुभयोरपि संस्थात्वमस्तु इति चेन्न । तथा सति संस्थासु अष्टत्वापत्तेः । 'वैश्वदेवमेके चैत्रीस्थाने समामनन्ति' इति सूत्रस्वरसतोऽन्यतरस्यैव संस्थात्वप्रतीतेश्च । नन्वस्तु वैश्वदेवस्य शूलगवस्य वा संस्थात्वं गौतमीयबौधायनीयवचनानुरोधेन मासिकश्राद्धमासिश्राद्धयो[१८]स्तूभयोरप्यमावास्यानुष्ठेयत्वरूपमनुगतं धर्ममादाय संस्थात्वमस्तु पर्वानुष्ठेयत्वरूपमनुगतं धर्ममादाय दर्शपूर्णमासयोरिवेति चेन्न । दर्शपूर्णमासयोः पर्वानुष्ठेयत्वरूपानुगतधर्मस्यातिप्रसक्तत्वेन तमादाय द्वयोरेकसंस्थात्वनिर्वाहासंभवेनैकापूर्वजनकत्वरूपमनुगतं धर्ममादायैव द्वयोरेकसंस्थात्वस्य निर्वाह्यत्वेन प्रकृते तादृशानुगतधर्मासंभवेन मासिकश्राद्धमासिश्राद्धयोरुभयोरेकसंस्थात्वस्य वक्तुमशक्यत्वात् । न हि द्वयोः श्राद्धयोरेकापूर्वजनकत्वे प्रमाणमस्ति । येन द्वयोरपि संस्थात्वं वक्तव्यम् । एवं च मासिकश्राद्धस्यैव पूर्वोक्तहेतुभिः संस्थात्वं न दर्शापरपर्यायमासिश्राद्धस्येति सिद्धम् । ननु नित्यानां संध्यावन्दनादिकर्मणां संस्थानां च को वि[१९]शेषः प्रत्यवायनिवर्तकत्वस्योभयत्रापि तुल्यत्वादिति चेत्सत्यम् । संस्थाजन्यफलेषु वैजात्यस्वीकारेण विजातीयफलजनकत्वरूपविशेषस्य संस्थास्वेव सत्त्वेन तमादाय संध्यावन्दनादिनित्यकर्मतो[२०] विशेषसिद्धेः । अथवा संस्थाशब्दो[२१] रूढो योगरूढो वा पङ्कजादिपदवत् । सम्यक्स्था स्थितिः स्वर्गे लोके येन कर्मणा सा संस्थेति योगार्थः । संध्यावन्दनादिष्वतिप्रसङ्गपरिहाराय रूढिरपीति द्रष्टव्यम् । दर्शश्राद्धापरपर्यायमासिश्राद्धस्य नित्यत्वं तु स्मृतिष्वकरणे प्रत्यवायश्रवणात् 'मासि मासि कार्यम्' इत्यापस्तम्बसूत्रे वीप्साश्रवणाच्च । अत एक प्रतिदर्शमनुष्ठानम् । मासिकश्राद्धस्य नित्यत्वं तु 'अकर्मणि दोषो येषां लोके कर्मण्युपालम्भस्तानि नियतानि' इति सूत्रात् । मातृदत्तोऽप्येतस्मादेव सूत्रान्मासिकश्राद्धस्य नित्यत्वं साधितवान् । तत्र मासिकश्राद्धस्य 'सकृत्करणमिच्छन्ति पाकयज्ञेषु केचन' इति वचनात्प्रतिदर्शं यस्मिन्कस्मिंश्चिद्दर्शे वा क्रिया । पाकयज्ञेषु पाकयज्ञसंस्थासु ।

 उभयत्र पार्वणत्वं तु पर्वणि भवमिति योगात् 'अमायां क्रियते यद्धै तत्पार्वणमुदाहृतम्' इति वचनाच्च । 'त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः' इतिवचनसिद्धपार्वणत्वं तु माध्यावर्षादिश्राद्धसाधारणम् । तत्राऽऽदौ पितृयज्ञोत्तरं दर्शश्राद्धं कृत्वा मासिकं कार्यम् ।

"पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्"

 इति[२२]मनुवचनात्पिण्डपितृयज्ञमासिश्राद्धापरपर्यायदर्शश्राद्धयोरव्यवधाने सिद्धेऽर्थान्मासिकश्राद्धस्य दर्शानन्तर्यम् । पिण्डानां पिण्डपितृयज्ञार्थानामनुपश्चादाह्रियते क्रियत इति पिण्डान्वाहार्यकं दर्शश्राद्धम् । ([२३]द्वयोस्तन्त्रं वा । अत्राप राह्णो द्वेधाविभक्तस्याह्नो द्वितीयभाग एव ।) मासिश्राद्धसूत्रं त्वित्थम् । 'मासिश्राद्धमपरपक्षस्योत्तमेऽहनि' इति । कर्तव्यमिति शेषः । उत्तमेऽहन्यमावास्यायाम् । अपराह्णोऽत्र प्रशस्तः कालः । तदुक्तं धर्मसत्रे-- 'अपराह्णः श्रेयान्' इति । मासिश्राद्धेऽपराह्णः श्रेयान्प्रशस्त इत्यर्थः । मासिकश्राद्धसूत्रं गृह्ये-- 'अमावास्यायामपराह्णे मासिकम्' इति । मासि भवं श्राद्धं मासिकं तदमावास्यायां तिथावपराह्णे कर्तव्यमित्यर्थः । सर्वेषु कृष्णपक्षस्यामावास्याव्यतिरिक्तेष्वयुग्मदिवसेषु यस्मिन्कस्मिंश्चि[२४]द्दिवसेऽपि वा पाक्षिकी श्राद्धकर्तव्यतोक्ता गृह्ये-- 'अपरपक्षस्य वाऽयृक्ष्वहःसु' इति । अपरपक्षस्यायुक्ष्वहःसु वेत्यन्वयः । अत्रा[२५]प्यपराह्ण इत्यनुवर्तते । वाशब्दात्पाक्षिकत्वम् । एतदेव कृष्णपक्षश्राद्धमित्युच्यते । धर्मसूत्रे पुनः कृष्णपक्षश्राद्ध[२६]प्रदर्शनं फलं प्रदर्शयितुमनुवादः । प्रथमेऽहनि स्त्रीप्राय[२७]श्चित्तमित्यादिकं तु तिथिविशेषेण फलविशेष[२८]प्रदर्शनार्थम् । मासिकश्राद्धविधिस्तु--पितृभ्योऽन्न संस्कृत्येत्यारभ्य सुवीरा इ[२९]त्यन्तेन सूत्रेणोक्तः । उत्तर[३०]त्र विनियोगादेव पित्रर्थतासिद्धौ पितृभ्योऽन्न संस्कृतयेत्यत्र पितृग्रहणं पित्रादित्रय एव संप्रदानपदार्था अत्रेति न, किं तु अन्येऽपि स्मृत्युक्ता अङ्गभूताः प्रधानीभूताश्च संप्रदानपदार्था अत्र सन्तीतिज्ञापनार्थम् । तेन शास्त्रान्तरप्रोक्तानामङ्गभूतानां दे[३१]वानां प्रधानीभूतानां मातामहादीनां चात्र प्राप्तिः सिद्धा भवति[३२] । एवमष्टकादिषु । अथवा पितृग्रहणस्य प्रयोजनं मातामहादीनां प्रापणमात्रम् । देवानां प्राप्तिस्तु यथोपदेशं कुरुत इति वचनेन वैश्वदेवव्यतिरिक्तस्थले शास्त्रान्तरोक्तोपसंहार[३३]स्य ज्ञापितत्वाद्भवति[३४] । अत्र करणेऽष्टकादिष्वपि करणं नान्यथेति द्रष्टव्यम् । दक्षिणाग्रानितिवचनं प्रागग्रत्वोदगग्रत्वयोर्बाधनार्थम् । ब्राह्मणानामन्त्रयते शुचीनागन्तुकसहजदोषरहितान्नियमवतश्च मन्त्रवतो विद्यावतो नियमवत इत्येके । समाङ्गान्संपूर्णाङ्गान् । अयुजस्त्रिप्रभृत्ययुग्मसंख्याकान् । इदं च पितृविषयम् । देवविषये तु समसंख्यैव ब्राह्मणानां स्मृतितो द्रष्टव्या । योनिगोत्रम[३५]न्त्रासंबन्धान्, योनिगोत्रमन्त्रैरात्मनोऽसंबन्धान् । ( [३६] योनिसंबन्धा मातुलमातामहादयः । गोत्रसंबन्धाः सगोत्राः । मन्त्रसंबन्धा ऋत्विक्शिष्याचार्यादयः । एतद्व्यतिरिक्तान् ।) यदि योन्यादिसंबन्धरहिता वृत्तादिगुणहीना एवं लभ्यन्ते तदा वृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्य इत्यादि धर्मसूत्रतो ज्ञेयम् । अत्र सोदर्यापिशब्दाभ्यां गुणवन्तो योन्यादिसंबन्धिनोऽपि भोजयितव्या इति सूचितम् ।

तथा च मनुः--

"एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यांश्च भोजयेत्" इति ॥

 नार्थापेक्षो भोजयेत् । अर्थापेक्षः प्रयोजनापेक्षः प्रयोजनमपेक्षमाणः । अस्मिन्भोजित इदं मम कार्यं भविष्यतीति बुद्ध्या न भोजयेदित्यर्थः । अग्निमुपसमाधायेति । अग्निरौपासनाग्निः । सर्वाधानिनो[३७] विधुरादेर्लौकिकाग्निरेव । लौकिकाग्नौ होमेऽयाश्चेत्यादिविधिनोत्पाद्य तमग्निं होमार्थमुपसमादधाति । श्राद्धपाकस्तु लौकिकाग्नावेव न तु गृह्याग्नौ । नचाग्नौकरणस्यौपासनाग्निसाध्यत्वात्तदर्थस्य पाकस्यापि यः प्रधानस्य कालः सोऽङ्गानां स देशः स कर्ता सोऽग्निरिति परिभाषया तत्रैव क्रियाऽऽस्तामिति वाच्यम् । सूत्रकृताऽन्नसंस्कारब्राह्मणनिमन्त्रणोत्तरमग्न्युपसमाधानस्योक्त्या परिभाषाबाधस्य ज्ञापनात्[३८] । औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तनैता आहुतीर्जुहोतीति वैश्वदेवप्रकरणस्थसूत्रात् औपासनेन साकं पचनस्य विकल्पकरणेनौपासने पचनत्वमेव नास्तीति ज्ञापितत्वेन परिभाषायाः प्रवृत्तेरेवाभावाच्च । अतो लौकिकाग्नावेव पाको न गृह्याग्नाविति । एवं मासिश्राद्धादिष्वपि ज्ञेयम् । दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्येति । ततस्तमग्निं परिस्तृणाति पुरस्ताद्दक्षिणाग्रैर्दक्षिणतः प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैरित्यर्थः । दक्षिणाप्रागाग्नेयी तदभिमुखाग्रैरित्येवं वा । एकपवित्रेणाऽऽज्यं संस्कृत्येति वाच्य एकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्य स स्कृत्येतिगुरुनिर्देशः प्रदर्शनार्थः । तेन प्रणीतादिपवित्रकार्यमपि तेनैव स्यादिति । प्रसव्यं परिषिच्येति । देव सवितरित्यनेन यः परिषेकस्तं प्रसव्यं परिषिच्येत्यर्थः । एतामेव दिशमभ्यपः प्रसिञ्चति । एतामेव दक्षिणामेव दिशं प्रत्यपः प्रसिञ्चति, यथा दूरं गच्छन्ति तथाऽञ्जलिनाऽपः सिञ्चति आपो देवीरित्यनेन । एतच्छब्दस्य सर्वनामत्वेन प्रसिद्भिवाचित्वात्पितृकर्मणि दक्षिणावृद्धि पितृणाम्, एषा वै पितृणां दिगित्यादिषु श्रुतिषु तस्या एव प्रसिद्धत्वादेतच्छ ब्देन ग्रहणम् । एवकारकरणमावाहनमपि तामेव दिशमभिमुखीकृत्य कर्तव्यमितिज्ञापनार्थम् । अथ नामधेयैर्जुहोतीत्यत्राथशब्दः पूर्वेण संबन्धार्थः । तेन पितृपितामहप्रपितामहनामधेयैर्होमः सिध्यति । जुहोतिवचनं द्विपित्तृकस्यापि होमाभ्यावृत्तिनिवृत्त्यर्थम् । यन्मे पितामही यन्मे प्रपितामहीत्यस्योहप्रदर्शनार्थत्वात्पितृशब्देऽपि पितामहप्रपितामहशब्दाभ्यामूहः कार्यो यथायथम्, पितामहो वृङ्क्तां प्रपितामहो वृङ्क्तामिति । वहान्नमिति मन्त्र संनमतीत्येतस्य प्रदर्शनार्थत्वादन्नस्य कू[३९]ल्या इत्यत्राप्यूहः । अत्रैके वर्णयन्ति--पूर्वानुक्रान्ताः षोडशाऽऽज्याहुतीरन्नस्य जुहोतीति । अपरे तु--आनन्तर्याद्वहाऽऽज्यमित्येतासामेव तिसृणामिति । उदीच्यानामपि पाठः । एवं ते पठन्ति--अथाऽऽज्यस्य जुहोति वहाऽऽज्यं जातवेद इति । तत्राथशब्द आज्यस्य ग्रहणं च, एवमन्नस्य जुहोतीत्यत्र तासामेव संप्रत्ययार्थम् । अथ सौविष्टकृतीं जुहोतीत्यत्राथशब्दः पूर्वेण संनिहितेनान्नहोमेन संबन्धार्थः । तेनान्नेनैव स्विष्टकृद्धोमः । एवमन्नस्येत्यनुवर्तनादन्नेन स्विष्टकृतमिति व्याख्यानम् । अथशब्दो यत्र यत्राथशब्दस्तत्र प्रधानार्थद्रव्येणैव स्विष्टकृद्धोम इतिज्ञापनार्थः । सर्वदर्विहोमाणामेष कल्प इतिसूत्रव्याख्याद्वयमध्ये पूर्वव्याख्यापक्षे वारुणीहोमादिप्राप्तिः साधिताऽस्ति तन्निवृत्त्यर्थोऽप्यथशब्दो द्रष्टव्यः । द्वितीयव्याख्याने त्वप्राप्तिरेव

 ततो यज्ञोपवीती परिषेकादिकर्मशेषं समापयेत् । स्विष्टकृद्धोमस्य प्रदर्शनार्थत्वात् ।

 अथान्नमभिमृशति--पृथिवी ते पा० त्वायेति । अथ प्राचीनावीती ब्राह्मणभोजनार्थमन्नमभिमृशति पृथिवी व इत्येतैः । अथशब्दो होमार्थादन्नादस्यान्नस्यान्यत्वख्यापनार्थः । प्राणे निविश्येत्यनेनानखेनाङ्गुष्ठेनान्नमुपस्पर्शयति प्रतिपुरुषमावर्त्य मन्त्रम् । भुञ्जानान्ब्राह्मणान्ब्रह्मणि म इत्यनेन समीक्षते । सकृदेव मन्त्रः । विभवादत्रान्नं धनं वा दक्षिणा । यथाश्रद्धमन्नं धनं च ददातीति पूर्वेद्युःश्राद्धेऽन्नधनदानयोरुभयोर्दक्षिणान्वोक्त्या प्रकृतावन्यतरस्यैतदतिरिक्तस्य वासआदेर्वा दक्षिणात्वस्यार्थादवगमात् । तेन दक्षिणादानमपि सूत्रविहितमेवात्र । ततो गच्छतोऽनुप्रव्रज्य शेषमनुज्ञाप्यानुगतस्तान्विप्रान्प्रदक्षिणीकृत्य प्रत्येत्योदकुम्भं समूलदर्भमुष्टिं चकारादाञ्जनादिसामग्रीं गृहीत्वाऽग्नेर्दक्षिणपूर्वभवान्तरदेशं गत्वा तत्रोपविश्य प्राचीनावीती दक्षिणाग्रान्दर्भान्स स्तीर्य तेषु दर्भेष्ववाचीनपाणिरवाचीनस्तिर्यगावर्तितः पाणिर्येन निनयनवेलायां सोऽवाचीनपाणिः । निनयनं दक्षिणहस्तेन पित्र्येण तीर्थेन कार्यमित्यर्थः । अवा चीनौ तिर्यगावर्तितौ पाणी कृताञ्जली येनेत्येतादृशे विग्रहेऽञ्जलिना निनयनं पूर्ववदेव । अवाचीनो दक्षिणः पाणिर्यस्याञ्जलेरित्येवं विग्रहेऽञ्जलिभूतस्य दक्षिणस्य पाणेरवाचीनताऽधरता कार्येति स एवार्थः । एवंभूतेन दक्षिणेन पाणिनाऽञ्जलिना वा दक्षिणापवर्गांस्त्रीनुदकपूर्णानञ्जलीन्मार्जयन्तामित्येतैस्त्रिभिर्मन्त्रैस्त्रिषु देशेषु निनयति रेचयति प्रतिमन्त्रमसाववनेनिङ्क्ष्वेत्येतैस्त्रिभिर्वा । असावित्यत्र तत्तन्नामग्रहणं संबुद्ध्यन्तम् । एवं मातामहपार्वणे तेष्ववा० ददाति । तेषु निनयनस्थानेष्ववाचीनपाणिरध आवृ[४०]त्तो दक्षिणपाणिर्यस्याङ्गुष्ठभागस्य दक्षिणं पार्श्वमधो यस्य पाणेः सोऽवाचीनपाणिः । एवंभूतो दक्षिणापवर्गान्पिण्डा[४१]न्कृतान्ददाति । कथम् । एतत्ते ततासाविति पित्रे पिण्डं ददाति । एतत्ते पितामहासाविति पितामहाय । एतत्ते प्रपितामहासाविति प्रपितामहाय । असावित्यत्र संवृद्ध्यन्तानि पित्रादिनामानि ग्राह्याणि, नात्र गोत्रवसुरूपादिशब्दोच्चारणम् । सूत्रकारेणाविधानात् । केचिदत्रापि कुर्वन्ति । सर्वेषु ये च त्वामित्यनुषङ्गः । तत्र तेषववाचीनपाणिर्दक्षिणापवर्गमेतत्ते ततासाविति पित्रे पिण्डं ददातीत्येवं लघुना सिद्धे पिण्डान्ददातीति पृथग्वचनं चतुर्थस्यापि निनयनस्थान एव दानार्थम् । इतरथा त्रीनितिवचनात्तत्र निनयनं न स्यात् । प्रपितामहात्परांस्त्रीनुद्दिश्य तूष्णीं चतुर्थं पिण्डं दद्यात् । स कृताकृतो वैकल्पिक इत्यर्थः । अप्रदानपक्षे बर्हिषि लेपनिमार्जनं कार्यम् । तूष्णींग्रहणं मन्त्रनिवृत्त्यर्थम् । अवचनादेव तत्सिद्धिरिति चेन्न । निनयनादीनामविशेषोपदेशान्मन्त्रप्रसङ्गात् । प्रधानस्य तूष्णींवचनात्तद्वशवर्तित्वात्तेषामपि तूष्णीकत्वम् ।

 अथ यदि नामधेयानि न० सुवीरा इति । अथ यदि पितॄणां नामधेयानि न विद्यान्न जानीयात्तदा स्वधा पितृभ्यः पृथि[४२]वीपद्भ्य इत्येतैः पित्रादिभ्यः पिण्डान्दद्यात् । नामधेयानीत्येकशेषनिर्देशः । तेनैकस्य द्वयोस्त्रयाणां वा नाम्नो विस्मरण एतैरेव दानम् । अथशब्दः पृथगधिकारार्थः पूर्वेषां मन्त्राणां व्यतिषज्य क्रिया मा भूदित्येतदर्थम् । कुतः । अस्मिन्पक्षे मार्जयन्तामित्येव निनयनमन्त्रा भवेयुरर्थात् । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । अत्रेतिवचनं कालनियमार्थम् । कालान्तरे पिण्डपितृयज्ञे दर्शनात् । तेन ज्ञायते तत्रोक्तः पिण्डदानकालोपायो द्विपितृकादीनामिहापि भवतीति । अञ्जनाभ्यञ्जनयोरेव समासवचनं क्रमनियमार्थम् । तयोरनुपिण्डमितिवचनाच्चतुर्थेऽस्याप्राप्तिराशङ्क्येत तन्निवृत्त्यर्थं ददातीत्युच्यते । आङ्क्ष्वामावाङ्क्ष्वासाविति त्रिराञ्जनमनुपिण्डं ददाति । तूष्णीं च[४३]तुर्थे । त्रिर्ग्रहणं प्रति पिण्डं त्रित्वार्थम् । अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाविति त्रिस्त्रिरभ्यञ्जनमनुपिण्डं दद्यात् । तूष्णीं चतु[४४]र्थे । तैलमभ्यञ्जनं मस्तु वा । दध्न उपरितनः स्नेहो मस्तु । अविदिते नामधेयानि लुप्यन्ते, ततादिभिः शब्दैर्वा ब्रह्मविष्णुरुद्रशब्दैर्वोपलक्षयेत् । एतानीत्यात्मनो वाससो दशामूर्णास्तुकां वा कम्बलस्य च्छित्त्वा छित्त्वाऽनुपिण्डं क्षिपति । तूष्णीं चतुर्थे । पञ्चाशद्वर्षपर्यन्तं पूर्वं वयः । अत ऊर्ध्वमुत्तरं वयस्तत्र स्वं लोमोरस्थं प्रकोष्ठस्थं वा छित्त्वा छित्त्वाऽनुपिण्डं तेनैव मन्त्रेण क्षिपति । न दशा नोर्णास्तुका । तूष्णीं चतुर्थे । छित्त्वेतिवचनं पतितस्य ग्रहणं मा भूदित्येतदर्थम् । अन्यतरवचनादेव सिद्धे पूर्वोत्तरग्रहणं वयस्त्रित्वं केषांचिदिहोक्तं तन्मा भूदित्येतदर्थम् । एतदन्तं मातामहपिण्डेष्वपि ।

 अथ पात्र संक्षाल्य० तिष्ठते । अथ यत्र पिण्डार्थमोदन उद्धृतस्तत्पात्रं संक्षाल्योदकेन सम्यक्प्रक्षाल्य पुत्रान्पौत्रानित्यनेन तेनोदकेन[४५] वर्गद्वय[४६]स्य पिण्डांश्चतुर्थपिण्डदानपक्षे तावप्युपगम्य प्रसव्यं परिषिच्य तत्पात्रं न्युब्जं कृत्वा पाणी व्यत्यस्य पाण्योरग्ङ्गुलीनां व्यतिषङ्गं कृत्वा दक्षिणमुत्तरमुत्तरं च दक्षिणं बहिर्भूतपृष्ठौ पाणी कृत्वेत्येके । एवंभूतेन नमस्काराञ्जलिना नमो वः पितर इत्येतैर्नमस्कारैः सर्वान्पितॄनुपतिष्ठते । षडेते नमस्काराश्चतुर्थ्यन्तास्तेषु सर्वेषु पितरो नमो व इत्यादेरनुषङ्गः प्राक्प्राजापत्यायाः । यथापाठमेवेति केचित् । तत उदकान्तं० सुवीरा इति । तत उदकसमीपं गत्वा, एष ते तात, एष ते पितामह, एष ते प्रपितामहेत्येतैः प्रतिमन्त्रं त्रीनुदकाञ्जलीन्दक्षिणापवर्गान्निनयति पित्रादिभ्यः । एवं मातामहादिभ्य ऊहेन । तत इति वचनं तूष्णीं चतुर्थमित्याशङ्कानिवृत्त्यर्थम् । प्रत्येत्योदकान्तात्कस्मिंश्चित्पात्र उदकमासिच्य प्रति[४७]ष्ठितं स्थालीनिष्कासं तस्मिन्निक्षिप्य परायात, इत्यनेनोपप्रवर्तयति । पिण्डानां समीपं[४८] सर्वान्पितृनुद्दिश्य पिण्डानां समीपे दक्षिणापवर्गं निनयतीत्यर्थः । प्रत्येत्येतिवचनमुदकाञ्जलिदेश एवोपप्रवर्तनं मा भूदित्येतदर्थम् । एतदन्तं कृत्वा सर्वतः शेषं समवदायाश्नीयादित्येतत्कर्तव्यम् । अत्र पुनः कृत्स्नपिण्डदानविधिप्रदर्शनं पितृयज्ञोक्तानामुदपातनिनयनपराङावर्तनोष्मानुमन्त्रणोपपर्यावर्तनशेषावघ्रभक्षणकाम्यशेषाशनपुनरुदपातनिनयनोत्थापनप्रवाहणसंसाधनमनस्वत्युपस्थानप्रत्यागमनगार्हपत्योपस्थानोल्मुकप्रत्यसनपात्रप्रत्याहरणपिण्डप्रत्यवधानप्राशनार्थपत्नीसंप्रदानकपिण्डप्रदानपत्नीकर्तृकप्राशन सकृदाच्छिन्नाभ्युक्षणाभ्याधानानां परिसंख्यार्थम् । अत्र पितॄणां स्वलोकगमनं तु परायातेत्यनेन भवति । अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयतीति । पिण्डप्रतिपत्तिस्तु अत्रापि भवत्याकाङ्क्षितत्वात् ।

अथ भाष्यकृदुक्तः संग्रहः प्रदर्श्यते ।

 अत्र कालनियमनिमित्ता द्रव्यनिमित्ताश्च फलविशेषास्तिथयो विधयश्च धर्मेषूक्ताः । यथा प्रथमेऽहनि स्त्रीप्राय(?) मित्यादि तिलमाषव्रीहियवा उदीच्यवृत्तिस्त्वासनगतानामित्यादीनि तानि प्रेक्ष्याणि । तृतीयमामन्त्रणं, त्रयाणामेकैकस्यैकैकस्त्रयस्त्रयो वा पुरुषा उक्ताः । ते च त्रिप्रभृतयः षड्भ्योऽयुजो ग्राह्याः । वृद्धौ फलभूयस्त्वम् । सर्वषामेकः प्रतिषिद्धः । दुर्भिक्षेऽशक्तस्य वा सर्वेषामेकोऽपि । वैश्वदेवपूर्वकं च पितॄणां भोजनं, द्वौ दैवे त्रीन्पित्र्यं, एकैकमुभयत्र वेति विरोधाभावादिच्छातस्तस्यापि संग्रहः । तथा सति पूर्वं वैश्वदेवानामन्त्रय पश्चात्पित्र्यानामन्त्रयते । ब्राह्मणानां गुणदोषबलाबलं च धर्मेषूक्तं तदप्युत्प्रेक्ष्यम् । पूर्वेद्युर्ब्राह्मणेभ्यो निवेद्योत्तरेद्युः प्रातः पुनर्निवेद्यम् । एवं तृतीयमामन्त्रणं कृत्वा श्मश्रूणि वापयित्वाऽभ्यञ्जनं स्नापनीयं च दत्त्वा स्नापयति । आज्यसंस्कारान्ते प्राचीनावीतिना ब्राह्मणान्कृतपादशौचानाचान्तान्तान्दत्तेष्वासनेषूदङ्मुखान्प्रागपवर्गात्, पित्रे पितामहाय प्रपितामहायेति संकल्प्यैकैकस्य त्रींस्त्रीन्वा प्रागपवर्गमुपवेशयेत् । प्राप्नोतु भवानिति कर्ता ब्रूयात् । प्राप्नवानीतीतरे प्रत्याहुः । यदि सन्ति वैश्वदेवास्तानपि प्राङ्मुखान्पूर्वं पितृभ्य उदगपवर्गं वृद्धक्रमेणोपवेशयति । पित्र्ये यत्क्रियते तत्सर्वं वैश्वदेवेऽपि प्रथमं कर्तव्यमिति तिलोदकवर्जं यज्ञोपवीतिनैव । प्राचीनावीत्येकपवित्रान्तर्हिते तैजसे मृन्मये वा पात्रेऽप आनीय तिलानो[४९]प्य च्छादयति । नास्य प्रचालनम् ।

 ततस्तिलोदकं पात्रान्तरेणोपादायाऽऽसनगतानां हस्तेष्वानयति--अमुष्मै स्वधाऽमुष्मै स्वधेति । पित्रर्थेषु पितुर्नाम गृह्णाति । पितामहार्थेषु पितामहस्य । प्रपितामहार्थेषु प्रपितामहस्य । एकत्वे तस्यैव हस्ते त्रीण्युदपात्राणि त्रयाणां नामानि गृहीत्वा निनयति ।

 ततः शुद्धोदकं प्रयच्छति । एतस्मिन्काले गन्धपुष्पधूपदीपाच्छादनादीनां [दानं] तेभ्यः कर्तव्यम् । ततोऽनुप्रकीर्य तिलान् 'उद्धरिष्याम्यग्नौ च करिष्यामि' इति ब्राह्मणानामन्त्रयते । काममुद्ध्रियतां काममग्नौ च क्रियतामिति तैः प्रत्युक्तो होमार्थमन्नमुद्धृत्य निधाय यज्ञोपवीती परिधानादि प्रतिपद्यते । एवमपि शास्त्रान्तरे दृष्टं प्रागुपसमाधानादुपवेशनाद्युद्धरणान्तं कार्यम् । पूर्ववद्ब्राह्मणेभ्यस्तिलोदकं प्रदाय शुद्धोदकं चान्नं प्रदायाङ्गुष्ठेनोपस्पर्शयति--प्राणे निविश्येत्यनेन । तृप्तान्ब्राह्मणान्मधु वाता इत्येतत्तृचं यज्ञोपवीती श्रावयेत् । अक्षन्नमीमदन्तेत्येतां च स्वधामुक्त्वाऽन्यान्यपि शाखान्तरदर्शितानि कार्याणि । भुक्तवत्सु शेषादनान्नात्किंचिदुपादाय निहितशेषेण सह पिण्डान्निधायावशिष्टमाचान्तेष्वाशयेष्वन्नं प्रकीर्य तेभ्यस्तिलोदकं पूर्ववत्प्रदाय शुद्धोदकं च । ततोऽक्षतान्प्रदाय यथाशक्ति दक्षिणां दत्त्वाऽक्षय्यमस्त्विति वाचयित्वा तिलोदकशेषं निनीय स्वधाऽस्त्विति ब्रूयात् । अस्तु स्वधेतीतरे । तत उत्थाप्य प्रसाद्योपसंगृह्य तान्भुक्तवतो गच्छतोऽनुप्रव्रज्येत्येतदन्तो भाष्यकृदुक्तः संग्रहः । तत्र देवा अस्माभिः सूत्रादेव साधिताः । एवं दक्षिणादानमपि । अत एतयोर्नित्यमेवानुष्ठानम् । इतरेषां भाषयकृदुक्तानां शक्तौ सत्यामनुष्ठानम् । भाष्यकृता त्रिप्रायमेके श्राद्धमुपदिशन्तीतिसूत्रसिद्धं त्रिवारमर्घ्यदानं स्थलत्रय उक्तं तद्बौधायनसूत्रानुसारेण । एवमन्येऽपि स्मृत्युक्ता धर्माः शक्तौ सत्यामुपसंहार्याः ।

([५०] अथ विश्वे देवाः ।

 हेमाद्रावादित्यपुराणे[५१]--

"विश्वे(श्व)देवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ ।
नित्यं नान्दीमुखे श्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नलम्भने देवौ कामकालौ सदैव हि ।
अपि कन्यागते सूर्ये काम्ये च धुरिलोचनौ ।
पुरूरवार्द्रवौ चैव विश्वे देवास्तु पार्वणे" इति ॥

 एतदपवादो हेमाद्रौ शातातपः(पेनोक्तः)--

"नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च ।
मातृश्राद्धं तु युग्मं स्याददैवं प्राङ्मुखैः पृथक् ।
योजयेद्देवपूर्वाणि श्राद्धान्यन्यानि यत्नतः" इति ॥

 अत्रैकोदिष्टं नवश्राद्धद्वादशाहिकमासिकव्यतिरिक्तं ज्ञेयम् । नैमित्तिके कामकालावितिवचनेनैतेषु देवविधानात् । नैमित्तिकमेकोद्दिष्टं नवश्रा[५२]द्ध[५३]द्वादशाहमासिकादीति हेमाद्रिणा व्याख्यानाच्च । अन्ये तु नैमित्तिकं सपिण्डीकरण माहुः । इष्टिषु, इष्टिश्राद्धेषु । इष्टिश्राद्धमाधानसोमयागादौ क्रियमाणमिति केचित् । कर्माङ्गश्राद्धमिष्टिश्राद्धम् । कर्माङ्गश्राद्धं तु--

"निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम्"

 इतिवचनोपात्तं ग्राह्यमिति हेमाद्रिः । पुरूरवआर्द्रवमु[५४](सौ)सत्यौ च(विश्वे देवास्तु) पार्वण इति सान्तोऽपि क्वचित्पाठः । पुरूरवोमार्द्रवसौ विश्वे देवा इति व्युत्पत्तिवादे द्वितीयदेवनाम मादि[५५] ( [५६]फरहितभिकारवच्च ) पठितं तत्र मूलं चिन्त्यम्)

अथ मासिश्राद्धाग्नौकरणाग्निनिर्णयः ।

 तच्चाग्नौकर[५७]णं सर्वाधानिना दक्षिणाग्नौ कार्यम् । अर्धाधानिना स्मार्ताग्निमता च गृह्याग्नौ । प्रोषितकर्तृकामश्राद्धे कदाचिल्लौकिकाग्न्यभावे द्विजपाणावुदके वेति । तदुक्तं विष्णुधर्मोत्तरे--

"आहिताग्निस्तु जुहुयाद्दक्षिणेऽग्नौ समाहितः ।
अनाहिताग्निश्चौपसदेऽग्न्यभावे द्विजेऽप्सु वा" इति ।

 अत्राऽऽहिताग्निः सर्वाधानीनि केचित् । अस्मिन्मतेऽर्धाधानिनो गृह्याग्निसद्भावात्तत्रैवाग्नौकरणं न दक्षिणाग्नाविति । आहिताग्निः सर्वाधान्यर्धाधानी चेत्यस्मिन्मते तु गृह्याग्निसद्भावेऽपि दक्षिणाग्नावेव न तु गृह्याग्नौ । पिण्डपितृयज्ञप्रकरणे दक्षिणाग्नौ जुहोतीतिवचनादग्नौकरणप्रकरणे च याज्ञवल्क्येन जुहुयात्पितृयज्ञवदितिस्मरणादिति । अतिदेशेनोपदेशबाधो न्याय्य इति शंभुशङ्खधरप्रभृतयो दक्षिणाग्न्यधिकरणत्ववादिनः । हेमाद्रिरप्येवम् । तेनैतन्मते सर्वाधान्यर्धाधान्याहिताग्न्योरमावास्याश्राद्धे विहृतदक्षिणाग्निसद्भावाद्दक्षिणाग्नावेवाग्नौकरणहोमः । तिथ्यन्तरश्राद्धे तु विहृतदक्षिणाग्नेरसंभवे सर्वाधानिनो लौकिकाग्नावर्धाधानिनश्चौपासनाग्नावग्नोकरणहोम इति । उपदेशेनातिदेशबाधं मन्यमानोऽपरार्कस्तु पितृयज्ञवादित्यतिदेशसामान्यवचनं कर्म स्मार्तमित्युपदेशसामान्यवचनानुरोधेन दक्षिणाग्निव्यतिरिक्तप्राकृतपदार्थविषयम् । अतोऽर्धाधानिनो गृह्याग्नावेव होमः, [इत्याह] । स्मृत्यर्थसारचन्द्रिका [कार]विज्ञानेश्वरादयोऽप्येवम् । एतन्मतमयुक्तम् । फलचमसेनेव सोमस्य शरैरिव च कुशानां गृह्याग्निसत्त्वेऽपि दक्षिणाग्निना तद्बाधस्यैवोचितत्वात् । आहिताग्नेरमावास्याश्राद्धे विहृतदक्षि णाग्निसद्भावाद्दक्षिणाग्नावेव होमः । तिथ्यन्तरश्राद्धे तु विहृतदक्षिणाग्नेरभावादौपासन इति यदुक्तं तद्येषां सूत्रे दक्षिणाग्नेरुद्धरणपक्षस्तत्परम् । स्वसूत्रे तु नित्यं गार्हपत्यदक्षिणाग्नी धार्येते इति वचनेन दक्षिणाग्नेर्धारणस्यैव सर्वदा विहितत्वेन तिथ्यन्तरश्राद्धेऽपि तत्रैवाग्नौकरणहोम इति ज्ञेयम् । यद्यपि स्मार्तमग्नौकरणं श्रौते दक्षिणाग्नौ न युक्तं तथाऽप्याहिताग्निस्तु जुहुयादितिवचनाद्भवतीति हेमाद्रिमाधवचन्द्रिका[कारा]दयः । मासिकश्राद्धस्य गृह्योक्तत्वाद्गृह्याग्नावेव होमः । न दक्षिणाग्नौ । गृह्याग्नेरभावे तु लौकिकाग्नाविति द्रष्टव्यम् ।

"अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न विन्दति" ।

 इतिवचनात् ।

"अ[५८]ग्न्यर्थो लौकिके वाऽपि जुहुयात्कर्मसिद्धये" ।

 इति वायुपुराणवाक्यात्,

"साग्निरौपासनेऽनग्निरग्नौ कुर्वीत लौकिके ।
पाणौ होमं प्रशंसन्ति न त्वापस्तम्बशाखिनाम् ॥
स्नातका विधुरा वा स्युर्यदि वा ब्रह्मचारिणः ।
अग्नौकरणहोमं तु कुर्युस्ते लौकिकेऽनले" ॥

 इतिवचनाच्च तैत्तिरीयैर्ब्रह्मचारिस्नातकविधुरैर्लौकिकाग्नावेव होमः कार्यः । आपस्तम्बपदं सत्याषाढाद्युपलक्षणं, समानन्यायत्वात् । सर्वाधानिनो गृह्योक्तमासिकश्राद्धेऽपि विश्वप्रकाशवचनाल्लौकिकाग्नौ होमो भवत्येव, न तु लोप इति ज्ञेयम् । अयं होमो लौकिकाग्नावयाश्चेत्याहुतिं हुत्वा कार्यः ।

 तदुक्तं बृहन्नारदीये-

"नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते ।
संधायाग्निं ततो होमं कृत्वा तं विसृजेत्पुनः" इति ॥

 अयाश्चेति तत्कालेऽग्निं संधाय हुत्वा तं त्यजेदित्यर्थः ।

"नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते ।
अयाश्चेत्यग्निं संधाय कृत्वा होमं विसर्जयेत्" ॥

 इतिस्मृत्यन्तरसंवादात् । नष्टाग्निर्विधुरो दूरभार्यः प्रवासी । नष्टाग्निरिति स्नातकब्रह्मचारिणोरुपलक्षणमिति केचित् ।

 विश्वप्रकाशेऽन्या अप्याहुतय उक्ताः--

"अयाश्चाग्ने मनोज्योतिरुद्बुध्यव्याहृतीस्तथा ।
हुत्वाऽग्नौकरणं तत्र कृत्वा तं विसृजेत्पुनः" इति ॥

 मनोज्योतिरित्ययं मन्त्रो घृतेनेतिपदान्तः । तस्यैव सर्वत्र प्रायश्चित्तार्थत्वदर्शनात् । उद्बुध्य, उद्बुध्यस्वाग्न इति मन्त्रः । व्याहृतयो व्यस्ताः समस्ता वा । लौकिकाग्नेरप्यलाभे द्विजपाण्यादिषु ।

 तदुक्तं मत्स्यपुराणे--

"अग्न्यभावे तु विप्रस्य पाणौ वाऽथ जलेऽपि वा ।
अजकर्णेऽश्वकर्णे वा गोष्ठे वाऽथ शिवान्तिके" इति ॥

 अत्र यद्यपि 'अग्न्यभावे तु विप्रस्य' इति सामान्यत उक्तं तथाऽपि प्रकृतत्वात्संनिहितपरित्यागे कारणाभावात्,

"पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्"

 इति कात्यायनोक्तेश्च पित्रर्थविप्रस्येति गम्यते । प्रधानस्य प्रत्यङ्गमावृत्तेर्निषेधात्प्रतिमूर्धन्य इतिवचनाच्चैकस्य प्रथमोपविष्टस्यैव । यद्यप्यत्र हस्तशब्दः साधारणस्तथाऽपि 'ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् ।' इतिश्रुतेः, 'दक्षिणाचारेण कर्तव्यम्' इतिसूत्रान्तरात्, 'पाणौ दद्यात्तु दक्षिणे' इतिगार्ग्यस्मृतेश्च दक्षिणहस्त एव होमः । अनग्निकः श्राद्धकर्ता मासिकश्राद्धं चेद्दक्षिणहस्ते सोमाय पितृमत इत्यादिभिः षोडशमन्त्रैः षोडशाऽऽज्याहुतीस्तैरेव मन्त्रैः षोडशाऽऽन्नाहुतीः, अन्त्यैस्त्रिभिरन्नाहुतित्रयमेव वा, मासिश्राद्धं चेत्पिण्डपितृयज्ञाहुतित्रयमेवान्नेन हुत्वाऽवशिष्टमन्नं पङ्क्तिमूर्धन्यादन्येषां पित्र्यविप्राणामेव पात्रेषु विभज्य निदध्यात् । शेषप्रतिपत्ताविदम[५९]पिधास्यते । अजकर्णाश्वकर्णयोर्दक्षिणयोरेव ग्रहणम् । 'एकाङ्गवचने दक्षिणं प्रतीयादनादेशे' इत्याश्वलायनोक्तेः ।

 शङ्खः--

"अप्सु चैव कुशस्तम्बे अग्निं कात्यायनोऽब्रवीत् ।
रजते च सुवर्णे च नित्यं वमति पावकः" इति ॥

 ब्राह्मणपाणिरेव प्रथमोऽनुकल्पः । न च जलाजकर्णादीनां निरवकाशतया समविकल्प इति वाच्यम् । ब्राह्मणाभावे विधीयमाने दर्भवटुश्राद्धे तेषां सावकाशत्वात् । पाणावग्नौकरणहोमेऽपि प्राकृता धर्माः सर्वेऽपि कार्याः पाण्यधिकरणकाग्निहोत्रवत् ।समिन्धनरूपकार्यस्याभावादिध्माभावः । इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति । पित्र्यविप्रपाणिं परिसमुह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय पुनर्वामेनाभिघार्य जुहुयादिति स्मृत्यर्थसारे । स्मृतिचन्द्रिकाकारस्तु विप्राभ्यनुज्ञा नास्तीत्यशुद्धम् । अनग्निश्चेदाज्यं गृहीत्वा भवत्स्वेवाग्नौकरण मिति पूर्ववत्तथाऽस्त्वितिशौनकगृह्यविरोधात् । मेक्षणाभावोक्तिरपि मेक्षणकार्येऽन्यस्य विध्यभावादयुक्ता । परिसमूहनपर्युक्षणसद्भावोक्तिश्चायुक्ता । पांसुनिरसनलक्षणस्य दृष्टकार्यस्य लोपात् । नियमादृष्टमात्रस्य चाप्रयोजकत्वादित्याह । यदा तु प्रश्नाभ्यनुज्ञासद्भावस्तदा स्वसूत्रानुसारेणैव प्रश्नाभ्यनुज्ञावचने उद्धरिष्याम्यग्नौ च करिष्यामि काममुद्ध्रियतां काममग्नौ च क्रियतामिति । जलपाण्यादिषु होमेऽपि प्रश्नप्रतिवचने यथावस्थिते एव । एतेषां प्रतिनिधित्वेन प्रतिनिधिषु तच्छन्दनिगम इतिन्यायेन मुख्यशब्दप्रवृत्तेरनपायात् ।

विशेषमाह कश्यपः--

"अनग्निको यदा विप्रः श्राद्धं कुर्यात्तु पार्वणम् ।
अग्नौकरणवत्तत्र होमो दैवकरे भवेत्" इति ॥

यमोऽपि--

"अपत्नीको यदा विप्रः श्राद्धं कुर्वीत पार्वणम् ।
पित्र्यविप्रैरनुज्ञातो(ते) वैश्वदेवे तु हूयते" इति ॥

 भोः पित्र्यविप्रा भवदनुज्ञयोद्धरिष्यामि देवविप्रपाणावग्नौ च करिष्यामीत्यामन्त्र्य काममुद्ध्रियतां कामं देवविप्रकरेऽग्नौ च क्रियतामिति तैरनुज्ञातो देवविप्रकरेऽग्नौकरणहोमं कुर्यादित्यर्थः ।

अथ हुतावशिष्टप्रतिपत्तिः ।

 तत्राग्नौ होममुक्त्वाऽऽह याज्ञवल्क्यः--

"हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु न विशेषतः" इति ॥

 अत्र रौप्येष्वितिवचनात्पैतृकविप्रभाजनेष्विति गम्यते ।

तथा च यमः--

"अग्नौकरणशेषं तु पित्र्येषु प्रतिपादयेत् ।
प्रतिपाद्य पितॄणां तु न दद्याद्वैश्वदेविके" इति ॥

अत्राग्निशब्दः पाण्याद्यधिकरणोपलक्षकः । अग्नौकरणशब्दस्य नामधेयत्वात् ।

तथा च पङ्क्तिमूर्धन्यपित्र्यपाणौ होममुक्त्वाऽऽह कात्यायनः--

"हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्" इति ।

 अन्यशब्दस्य प्रकृतसजातीयवचनात्पित्र्यपङ्क्त्युपविष्टविप्रपात्रेष्विविति लभ्यते ।

 अत एवाऽऽह यमः--

"पित्र्यपाणिहुतोच्छेषं पित्र्यपात्रेषु निक्षिपेत् ।
अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके" इति ॥

 अत्र पित्र्यपाणिग्रहणमुपलक्षणम् । अतो वैश्वदेविकद्विजपाणौ होमेऽपि शेषस्य पितृपात्रेष्वेव प्रक्षेपो न देवपात्रेष्विति । परस्परस्पर्शे शङ्खः--

"श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत्" इति ॥

 तदन्नं पात्रगतमन्नं भुञ्जीयादेव न तु त्यजेत् । ततः प्रायश्चित्तार्थं गायत्रीमष्टोत्तरशतवारं जपेदित्यर्थः । अत्र श्राद्धपङ्क्तावितिश्रवणाच्छ्राद्धव्यतिरिक्तभोजने स्पर्शे परित्याग एवेति बोध्यते । तदन्नमत्यजन्नित्यनेन स्पर्शोत्तरमन्यदन्नं न गृह्णीयादिति बोध्यते ।

 यदि पात्र उच्छिष्टं पतेत्तदा तु परित्याग एव--

"उच्छिष्टमिश्रमन्नं चेद्भवेत्पात्रगतं तदा ।
नैवान्नं तच्च भोक्तव्यमुपवासं दिवाऽऽचरेत् ।
रात्रौ चेत्तत्र कर्तव्य उपवासो मनीषिभिः ॥
यदि स्वस्यापि संस्पर्शस्तस्योच्छिष्टस्य वै तदा ।
न भुञ्जीत दिवा रात्राविति केचित्समूचिरे" ॥

 इतिस्मृतिसंग्रहोक्तेः ।

 उच्छिष्टं परस्य । तत्र रात्रौ ।

 विप्रस्य भोजनकाले गुदस्रवणं चेत्तदा किं कार्यमित्यपेक्षायां पृथ्वीचन्द्रोदये भरद्वाजः--

"भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवते गुदम् ।
पादकृच्छ्रं ततः कृत्वा अन्नं विप्रे निवेदयेत्" इति ॥

 क्षणपाद्यादिविधिना पुनः श्राद्धं कुर्यादित्यर्थः ।

 विप्रस्य त्वापस्तम्ब आह--

"भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् ।
उच्छिष्टमशुचित्वं च प्रायश्चित्तं कथं भवेत् ॥
आदौ कृत्वा तु वै शौचं ततः पश्चादुपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 भूप्रकरणेऽप्येतदेव ज्ञेयम् ।

 श्राद्धविप्रवमने दक्षः--

"केतितस्तु यदि श्राद्धे भोजनं मुखनिःसृतम् ।
तदैव होमं कुर्वीत स्वाग्नौ विप्रः समाहितः ॥
प्राणादिपञ्चभिर्मन्त्रैर्होमं द्वात्रिंशत्संख्यया ।
ब्राह्मणस्तु ततः कृत्वा वृतप्राशनमाचरेत्" इति ॥

 केतितो निमन्त्रितो विप्रः श्राद्धे भोजनं मुखनिःसृतं यदि कुर्याद्वमेदिति यावत् । तदैव स्नात्वा स्वोपासनाग्नौ लौकिकाग्नौ वा विप्रः श्राद्धकर्ता प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा, उदानाय स्वाहा, समानाय स्वाहा, इत्येतैः पञ्चभिर्मन्त्रैर्द्वात्रिंशत्संख्यया होमः कार्यः । अनादेश आज्यं प्रतीयादितिपरिभाषयाऽऽज्येन । अयं पञ्चभिर्मन्त्रैः प्रतिमन्त्रं द्वात्रिंशत्संख्ययेति केचित् । एतन्मते षष्ट्यधिकशतमाहुतयो भवन्ति । अन्ये तु--पञ्चभिर्मन्त्रैर्द्वात्रिंशत्संख्ययाऽऽहुतीर्जुहुयादिति यथाश्रुतमेवार्थं वर्णयन्ति । एतन्मते द्वात्रिंशदेव । आहुतिमन्त्रयोर्वैषम्यं तु--अन्ताल्लोपो विवृद्धिर्वेतिन्यायेन परिहरणीयम् । परे तु यावच्च त्रिंशत्संख्ययेति पाठमाहुः । एतत्पाठे वैषम्यं न । ततः श्राद्धकर्तृकर्तृकहोमानन्तरम्, ब्राह्मणः श्राद्धभोजी, कृत्वा, एतैर्मन्त्रैरुक्तसंख्यं होमं कृत्वेत्यर्थः । तुशब्दः पूर्वापेक्षया वैलक्षण्यार्थः । तच्च वैलक्षण्यं विशेषविधिकृतमिति तदर्थं तं विधिमाह--घृतप्राशनमाचरेदिति । यदि श्राद्धकर्तुः श्राद्धभोक्तुरेव वाऽयं घृतप्राशनान्तो विधिर्भवेत्तदा विप्रब्राह्मणपदयोरन्यतरस्य वैयर्थ्यापत्तिः स्यात् । अत उभयोरप्ययं विधिर्भवति । न च विनिगमनाविरहाद्धोमघृतप्राशने श्राद्धकर्तुः, होममात्रं तु श्राद्धभोक्तुरिति वैपरीत्यमेवास्त्विति वाच्यम् । घृतप्राशनस्यादृष्टार्थत्ववट्वमनजातदौर्गन्ध्यपरिहारस्य दृष्टार्थस्याप्यत्र संभवेन

तस्याप्यत्र कल्पनात् । अतः श्राद्धभोक्तृविषयकत्वमेव । पिण्डदानोत्तरं वमने श्राद्धस्य नाऽऽवृत्तिः । पिण्डादानात्प्राग्वमने तु पुनः श्राद्धम् । तदुक्तं पृथ्वीचन्द्रोदये स्मृतिसंग्रहे--

"अकृते पिण्डदाने तु भुञ्जानो ब्राह्मणो वमेत् ।
पुनः पाकात्प्रकर्तव्यं पिण्डदानं यथाविधि" इति ॥

 पिण्डदानं श्राद्धम् ।

"अकृते पिण्डदाने तु पिता यदि वमेत्तदा ।
पुनः पाकं प्रकुर्वीत श्राद्धं कुर्याद्यथाविधि"

 इति तत्रैवोक्तेः । तच्च पुनः श्राद्धं श्राद्धदिन उपवासं कृत्वा परेऽहनि कार्यम् । तदुक्तं स्मृतिसंग्रहे--

"पित्रर्थानां त्रयाणां हि पिता चेद्वमते यदि ।
तद्दिने चोपवासः स्यात्पुनः श्राद्धं परेऽहनि" इति ॥

तथा--"वमने वा विरेके वा तद्दिनं परिवर्जयेत्" इति ।

 विरेको गुदस्रावः । एतद्वचनद्वयं निर्मूलम् । समूलत्वेऽपि न मासिकाब्दिकविषयम् । मासिश्राद्धसांवत्सरिकयोर्वान्तावामेन तस्मिन्नेव दिने कार्यम् ।

"श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादिनियतं माससंवत्सरादृते" इति मरीच्यो(च्यु?)क्तेः ।

 आरब्धं श्राद्धं समापनीयमेव ।

"आरब्धं च समापयेत्" इतिवचनात् ।

 केचित्तु ब्राह्मणान्तरलाभे पक्वान्नेनैतस्मिन्दिन एव कुर्यात् । अकृते पिण्डदाने त्वितिपूर्वोक्तवाक्यात् । श्राद्धविघ्ने द्विजातीनामित्यत्र श्राद्धविघ्नपदं भार्यारजोदर्शनरूपविघ्नपरमित्याहुः । ब्राह्मणास्तु त एवं संप्रदानत्वेन स्वीकार्या इति केचित् । अनेकप्राधानिके यागे यस्य कस्यचित्प्रधानस्य वैकल्ये पुनः साङ्गक्रियार्थाहवनीयान्तरप्रणयनवद्विप्रान्तरमेवेत्यन्ये । श्राद्धे पिण्डदानमेव प्रधानमिति कर्कः । विप्रभोजनमपीति मेधातिथिः । भोजनपिण्डदानाग्नौकरणानीत्युज्ज्वलाकारकपर्दिधूर्तरामाण्डारहरदत्तहेमाद्र्यादयः । तत्र येषां मते भोजनस्याङ्गत्वं तैर्नाऽऽवृत्तिः कर्मणः कार्या । होमवैकल्य उज्ज्वलाकारादिमते पुनरावृत्तिः श्राद्धस्य । तस्यापि तन्मते प्रधानत्वादिति । वस्तुतस्तु भोजनपिण्डदाने एव प्रधाने नाग्नौकरणमिति । भोजनपिण्डदानवैकल्ये पुनःश्राद्धविधानवदग्नौकरणवैकल्ये तददर्शनात् । केवलभोजनेन केवलपिण्डदानेन वा श्राद्धसिद्धिवत्केवलहोमेन श्राद्धसिद्ध्यदर्शनाच्च । तथा च होमवैकल्ये प्रायश्चित्तमात्रं कर्तव्यं न तु पुनः श्राद्धमिति द्रष्टव्यम् । वैश्वदेविकविप्रवमने होम एव नाऽऽवृत्तिरङ्गत्वात् । पितामहादिविप्रवमनेऽपि नाऽऽवृत्तिः । अकृते पिण्डदाने त्वितिवचने पितेत्युक्तेरिति केचित् । तस्यापि प्रधानत्वात्पितृवदिति तु युक्तम् ।

 पिण्डोपघाते हेमाद्रौ प्रायश्चित्तकाण्डे जातूकर्ण्यः--

"श्वशृगालखरैः पिण्डः स्पृष्टो भिन्नः प्रमादतः ।
कर्तुरायुष्यनाशः स्यात्प्रेतस्तं नोपसर्पति ॥
तद्दोषपरिहारार्थं प्राजापत्यं प्रकल्पयेत् ।
पुनः स्नात्वा तदा कर्ता पिण्डं दद्याद्यथाविधि" इति ॥

 काकसंस्पर्शे तु न दोषः । पिण्डोपघातं प्रक्रम्य--

"धनस्य च विनाशः स्यात्काकसंस्पर्शनं विना"

 इति तत्रैव श्लोकगौतमोक्तेः । स्मृतिदर्पणेऽत्रिः--

"मार्जारमृषकस्पर्शे पिण्डे च विदलीकृते ।
पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात्" इति ॥

 बौधायनः--

"श्वचाण्डालादिभिः स्पृष्टः पिण्डो याद्युपहन्यते ।
प्राजापत्यं चरित्वाऽथ पुनः श्राद्धं समाचरेत्" इति ॥

अथ वैश्वदेवकालः ।

तत्राऽऽहिताग्नेर्विशेषः--

"पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ॥
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः" इति ॥

 अत्र साग्निकपदेनाऽऽहिताग्निर्गृह्यत इति हेमाद्रिः । नवीनास्तु साग्निकपदेन श्रौताग्निमान्गृह्याग्निमांश्च गृह्यत इत्याहुः । अनाहिताग्नेस्तु--अग्नौकरणानन्तरं बलिदानोत्तरं वा वैश्वदेव इति । अत्र मूलं वैश्वदेवप्रकरणे प्रदर्शितम् । अत्र पृथक्पाकेनैव वैश्वदेवहोममात्रं कृत्वा श्राद्धसमाप्त्यनन्तरं वैश्वदेवान्नेनैव बलिहरणादि कर्तव्यम् । यदा त्वन्ते तदा श्राद्धशेषेणैव । आहिताग्नेः सर्वेषु श्राद्धेष्वैकादशाहिकं मुक्त्वा श्राद्धारम्भात्प्रागेव वैश्वदेवः ।

"श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः ।
ऐकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते"

 इति सालङ्कायनिवचनात् ।

 समवदाय शेषं प्राश्नीयादित्यनेन शेषस्याशनं विहितं तच्च दिवैव कार्यं न रात्रौ ।

'न रात्रौ शेषमश्नीयात्' इति स्मृतौ निषेधात् ।

 तस्मिन्दिन आवश्यकोपवासप्राप्तौ शेषाघ्राणं कार्यम् । तत्रापि प्राशनव्यवहारस्य शास्त्राभ्युपगतत्वात् । तन्नेव प्राशितं नेवाप्राशितमित्यर्थवादेनाप्युभयविधित्वबोधनात् । तावताऽपि शास्त्रार्थसंभवाच्च । चतुर्थ्यादिरात्रिव्रतेषु दिवा शेषाघ्राणं कृत्वा रात्रौ पूजां विधाय मूलफलादिकं भक्षयेत् । रात्रौ भोजनस्य तस्मिन्दिन उपवासस्य च निषेधात् ।

"उपवासनिषेधे तु किंचिद्भक्ष्यं प्रकल्पयेत्"

 इतिवचनेन फलमूलादिभक्षणस्य विहितत्वात् । केचित्तु रात्रावपि शेषा घ्राणमाहुः । शेषनाशे भोजनलोप इति केचित् । प्रतिनिधिभूतेनान्नेन भोजनं कार्यमित्यन्ये ।

"दन्तधावनताम्बूलतैलाभ्यङ्गमभोजनम् ।
रत्यौषधपरान्नानि श्राद्धकर्ता विवर्जयेत् ॥
पुनर्भोजनमध्वानं भारमध्यायसंगमम् ।
दानं प्रतिग्रहो(हं) होमः(मं) श्राद्धभुग्वर्जयेद्द्विजः ॥"

 इत्यादिकर्तृभोक्तृनियमाः श्राद्धरत्नमालायां द्रष्टव्याः ।

 श्राद्धदिनेषु यद्यृतुमत्या भार्यायाः षोडशदिनं पतेत्तदा तत्र विशेषमाह वसिष्ठः--

"एकादश्यां यदा राम प्रतिसंवत्सरं दिनम् |
भार्या ऋतुमती चैव कथं धर्मः प्रवर्तते ॥
श्राद्धं कुर्याद्व्रतं कुर्यादाघ्राय पितृसेवितम् ।
ऋतुमत्या ऋतुं दद्यादर्धरात्रादनन्तरम्" इति ॥

 तथा श्राद्धकर्तुः पत्न्यां रजस्वलायां प्रवासादौ च तद्दिन एवान्नंनैव कार्यम् । तदुक्तं माधवीये लौगाक्षिणा--

"पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः ।
अन्नेनैवाऽऽब्दिकं कुर्याद्धेम्ना वाऽऽभेन न क्वचित्" इति ॥

 अपुत्रकस्त्रीकर्तृकश्राद्धं तु पञ्चमेऽह्नि भवति । तदुक्तं तत्रैव श्लोकगौतमेन--

"अपुत्रा तु यदा भार्या संप्राप्ते भर्तृराब्दिके ।
रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि" इति ॥

 दर्शश्राद्धाद्यन्नेनैव कार्यम् । तदुक्तं कालिकापुराणे--

"मासिकानि सपिण्डानि अ(आ)मावास्या(स्यं) तथाऽऽब्दिकम् ।
अन्नन्नैव तु कर्तव्यं यस्य भार्या रजस्वला" इति ॥

 इदं चाप्रवासविषयम् । तथा चोशना--

"अपत्नीकः प्रवासी न यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते" इति ॥

 एतदपि पाकासंभवे । तथा सुमन्तुः--

"पाकाभावेऽधिकारः स्याद्विप्रादीनां नराधिप ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ।
आत्मनो देशकालाभ्यां विप्लवे समुपस्थिते ॥
आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि ।
चन्द्रसूर्यग्रहे चैव दद्यादामं विशेषतः" इति ॥

मरीचिः--

"श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादिनियतं माससंवत्सरादृते" इति ॥

 दर्शसांवत्सरिकश्राद्धदिने यदि पत्नी रजस्वला तदा पञ्चमेऽह्नि कार्यमिति हेमाद्रिः । तस्मिन्नेव दिने कर्तव्यमिति माधवप्रयोगपारिजातकारादयः । आमश्राद्धाशक्तौ हेमश्राद्धं कुर्यात् ।

"द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला" ॥

 इतिस्मृत्यन्तरवचनात् ।

 आमहेम्नोः परिमाणमुक्तं स्मृत्यन्तरे--

"आमं तु द्विगुणं दद्याद्धे[६०]मं दद्याच्चतुर्गुणम्" इति ।

 द्विगुणामान्नदानाशक्तौ सममप्यामं दद्यादित्युक्तं प्रघट्टके । चतुर्गुणहिरण्यदानाशक्तौ द्विगुणं समं वा हिरण्यं दद्यादित्यपि तत्रैव । हेम्नोऽप्यसंभवे श्राद्धकाण्डे स्मृत्यन्तरे--

"तृणानि वा गवे दद्यात्पिण्डान्वा विधिपूर्वकम् ।
तिलोदकैः पितॄन्वाऽपि तर्पयेत्स्नानपूर्वकम् ॥
अग्निना वा दहेत्कक्षं श्राद्धकालसमागमे ।
तस्मिंश्चोपवसेदह्नि जपेद्वा श्राद्धसंहिताम्" इति ॥

 श्राद्धसंहिता सर्वमन्त्रसहितः श्राद्धकल्पः । कक्षं पर्वतदरीति हेमाद्रिः ।

बृहन्नारदीये--

"द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत् ।
पैतृकेण तु सूक्तेन होमं कुर्याद्विचक्षणः ॥
अत्यन्तद्रव्यशून्यश्चेच्छक्त्या दद्यात्तृणं गवे ।
स्नात्वा च विधिवद्विप्रः कुर्याद्वा तिलतर्पणम् ॥
अथवा रोदनं कुर्वन्नत्युच्चैर्विजने वने ।
दरिद्रोऽहं महापापी वदन्निति विचक्षणः" इति ॥

 आशौचेन मृताहातिक्रमे तदाशौचान्ते कार्यम् । तथा च ऋष्यशृङ्गः--

"देये पितॄणां श्राद्धे तु आशौचं जायते यदि ।
तदाऽऽशौचे व्यतीते तु तेभ्यः श्राद्धं प्रदीयते" इति ॥

 आब्दिकदिने ग्रहणं चेत्तस्मिन्नेवाहनि श्राद्धमपराह्णेऽन्नादिना कार्यमित्युक्तं प्रयोगपारिजाते गोभिलेन--

"दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थिते ।

अन्नेनासंभवे हेम्ना कुर्यादामेन वा सुतः" इति ॥
"अन्नेनैवाऽऽब्दिकं कुर्याद्धेम्ना वाऽऽमेन न क्वचित्" ।

 इति तु[६१] ग्रहणदिनातिरिक्तविषयमिति निर्णयामृते ।

यत्तु--"ग्रहणात्तु द्वितीयेऽह्नि रजोदोषात्तु पञ्चमे"

 इति वचनं तन्महानिबन्धेष्वनुपलम्भान्निर्मूलमिति नवीनग्रन्थे ।

 विस्तृतपार्वणविधिना श्राद्धकरणाशक्तौ विवाहादिनिमित्तेन पिण्डदाननिषेधे च सांकल्पविधिरुक्तः स्मृत्यन्तरे--

"पिण्डो यत्र निवर्तेत मघादिषु कथंचन ।
सांकल्पि[६२]तं तदा कार्यं नियमाद्ब्राह्मणादिभिः" इति ॥

 अत्र कथंचनेत्युक्त्याऽशक्तिकृतपिण्डदाननिवृत्तिरनुगृह्यते ।

संग्रहे--

"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
संकल्पश्राद्धमेवासौ कुर्यादर्घ्यादिवर्जितम्" इति ॥

 सांकल्पिकस्वरूपमुक्तं संवर्तेन--

"समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम् ।
अपि संकल्पविधिना काले तस्य विधीयते ॥
पात्रं भाज्यस्य चा[६३]न्नस्य त्यागः संकल्प उच्यते ।
तत्प्रयुक्तो विधिर्यस्तु स तेन व्यपदिश्यते ॥
तावन्मात्रेण संबद्धं श्राद्धं सांकल्पमुच्यते" इति ।

 अत्र यद्यन्निषिद्धं तदाह व्यासः--

"सांकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
नाऽऽवाहनाग्नौकरणे पिण्डांश्चैव न दापयेत्" इति ॥

 दापयेदिति स्वार्थे णिच् । पात्रपूरणमर्घ्यपात्रपूरणम् । आवाहननिषेधः समन्त्रकावाहननिषेधपरः । तेन तूष्णीं भवत्येवेति हेमाद्रिः । स्मृत्यन्तरे तु "विकिरं न च दापयेत्' इति तुरीयः पादः ।

 वसिष्ठः--

"आवाहनं स्वधाशब्दं पिण्डाग्नौकरणे तथा ।
विकिरं पिण्डदानं च सांकल्पे षड्विवर्जयेत्" इति ॥

 पिण्ड उच्छिष्टपिण्डः ।  हेमाद्रौ वृद्धशातातपस्तु--

"पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते ।
स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते" ॥

 इति विकिरस्यालोपमाह । तेन विहितप्रतिषिद्धत्वाद्विकल्पः ।

व्याघ्रपादः--

"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचयेद्विप्रान्संकल्पात्सिद्धिरस्त्विति" [ इति ] ।

 प्रत्याब्दिककर्तव्यतामाह जातूकर्ण्यः--

"पितृवर्गस्य कुर्वीत श्राद्धं पार्वणवत्सुतः ।
कुर्वीत दर्शवच्छ्राद्धं मातापित्रोर्मृतेऽहनि" इति ॥

 अपुत्रसा(स)पत्नमातृमातामहीस्वपत्नीपितृव्यमातुलज्येष्ठभ्रातॄणामपि तद्दिने कार्यम् ।

"अपुत्रस्य पितृव्यस्य श्राद्धं पितृवदाचरेत्" इतिवचनात्,
"पत्नीभर्त्रोः परस्परम्" इति वचनात्,
"पितृव्यभ्रातृमातॄणां पत्न्या मातामहस्य च ।
मातामह्या मातुलस्यापुत्रत्वे श्राद्धमाचरेत्" इति वचनाच्च ।

 एतच्चैकोद्दिष्टविधिना मातामहमातामहीपार्वणव्यतिरिक्तानामेव ।

"मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्" ।

 इति चतुर्विंशतिमतात् । पितृव्यभ्रातृमातॄणामेकोद्दिष्टमेव ।

"पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्" इतिवचनात् ।

 माता[६४] सपत्नमाता । पत्न्या अप्येकोद्दिष्टमेव ।

"पितृव्यभ्रातृपत्नीनां मातुर्नैव तु पार्वणम्" इतिवचनात् ।

 पित्रोः सांवत्सरिकश्राद्धेऽप्येकोद्दिष्टविधिरुक्तो यमेन--

"सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथक्कार्यमेकोद्दिष्टं क्षयेऽहनि" इति ॥

शातातपस्तु--

"सपिण्डीकरणादूर्ध्वं कुर्यात्पार्वणवत्सदा ।
प्रतिसंवत्सरं विद्वांश्छागलेयोदितो विधिः" इत्याह ॥

 अत्र देशाचारायद्व्यवस्थितविकल्प इति विज्ञानेश्वरः ।

"भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च ।
दैवहीनं तु तत्कुर्यादिति धर्मविदब्रवीत्" इति ॥

 दैवहीनमेकोद्दिष्टम् । ज्येष्ठो भ्राताऽनाद्यगर्भजः । तथा च शातातपः--

"अनाद्यज्येष्ठगर्भस्य भ्रातुर्नैव तु पार्वणम् ।
ऋते सपिण्डनात्तस्येत्येवं धर्मविदो विदुः" इति ॥

 आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः ।

यत्तु वृद्धपाराशरः--

"अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् ।
स एव तस्य कुर्वीत पिण्डदानादिकक्रियाम् ॥
पार्वणं तेन कार्यं स्यात्पुत्रवद्भ्रातृजेन तु ।
पितृस्थाने तु तं कृत्वा शेषं पूर्ववदुच्चरेत्"

 इति, तद्देशाचाराद्व्यवस्थितं ज्ञेयमिति पृथ्वीचन्द्रोदये ।

 श्राद्धदीपकलिकायां चतुर्विंशतिमति तु--

"सदा पितृव्यभ्रातॄणां ज्येष्ठानां पार्वणं भवेत् ।
एकोद्दिष्टं कनिष्ठानां दंपत्योः पार्वणं मिथः ॥
अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः ।
मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्" इत्युक्तम् ॥

 अत्र दंपत्योः पार्वणं मिथ इति पत्न्याः पार्वणविधानं पूर्वेणैकोद्दिष्टविधानेन विकल्पते । सा च व्यवस्था देशाचाराद्व्यवस्थितेति श्राद्धप्रदीपे । पत्न्याः कर्तृत्वेऽपि पार्वणमेव ।

"सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाममन्त्रकम् ।
सपिण्डीकरणे कुर्युस्ततः पार्वणमेव च" ॥

 इति लौगाक्षिस्मृतेरिति निर्णयामृते । अन्ये तु-- एतत्पाक्षिकपार्वणपरम् ।

"भर्तुः श्राद्धं तु या नारी मोहात्पार्वणमाचरेत् ।
न तेन तृप्यते भर्ता कृत्वा तु नरकं व्रजेत्" ॥

 इतिवचनं क्षयाहे पाक्षिकैकोद्दिष्ट[६५]प्रशंसार्थं न पार्वणनिषेधार्थम् । स्वभर्तृप्रभृति त्रिभ्य इत्यनेनापि विरोधो नेत्याहुः ।

 प्रचेताः--

"सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं विधीयते ।
अपुत्राणां च सर्वेषामपत्नीनां तथैव च" इति ॥

 अपत्नीनां ब्रह्मचारिस्नातकादीनामिति हेमाद्रिः ।

माकर्डेयपुराणे--

"प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।
मृताहनि यथान्यायं नॄणां तद्वदिहोदितम्" इति ॥

 वसिष्ठः--

"सपिण्डीकरणादूर्ध्वं यत्तु यत्र प्रदीयते ।
भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥
मातामहस्यासुतस्य श्राद्धं वै पितृवद्भवेत्" इति ॥

 एतच्चाऽऽवश्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः ।

स्मृत्यन्तरेऽपि---"पितृव्यभ्रातृपुत्राणामेकोद्दिष्टं न पार्वणम्" इति ।

 अत्रिः--

"भ्रात्रे भगिन्यै पुत्राय श्वशुरे मातुलाय च ।
पितृ[६६]व्ये गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्" इति[६७]

 श्वशुरे श्वशुराय । पितृव्ये पितृव्यस्य(व्याय)। ([६८] न च सपिण्डीकरणादूर्ध्वं यत्र(त्तु ) यत्र प्रदीयत इतिवृद्धवसिष्ठवचनादमावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् ।)

'पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च
मातामहस्य पुत्राय श्राद्धादि पितृवद्भवेत्"

 इति जातूकर्ण्यवाक्यस्य क्षयाहप्रकरणस्थत्वेन [ क्षयाहपरतया तत्सदृशवसिष्ठवाक्यस्य ] तत्परत्वात् । तत्रत्यश्राद्धशब्दस्य क्षयाहपरताय एव हेमाद्र्यादिभिरुक्तत्वाच्च । अत एव क्षयाहश्राद्धमेवाऽऽवश्यकं नान्यत् । एवं च पित्रादिवर्गचतुष्टयस्य पार्वणं, सपत्नमातृपितृव्यादीनामेकोद्दिष्टमेव । पत्न्या एकोद्दिष्टं पार्वणं वा । केचित्तु पितृव्यभ्रातृसपत्नमात्रादिश्राद्धं पार्वणमाचरन्ति । तत्र मूलं पितृवदिति पार्वणत्वस्यातिदेश इति द्रष्टव्यम् । सांवत्स[६९]रादिकं विभक्तैः पृथक्कार्यम् ।

"विभक्तैस्तु पृथक्कार्यं प्रतिसं(सां)वत्सरादिकम् ।
एकेनैवाविभक्तेषु कृतं सर्वैस्तु तत्कृतम्" इति पैठीनसिस्मृतिः (तेः)

 सांवत्सरिकात्पूर्वाणि मासिकान्यैकत्रैव । तदाह लघुहारीतः--

"सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश ।
पृथक्त्वे न सुताः कुर्युः पृथग्द्रव्या अपि क्वचित्" इति[७०]
"अर्वाक्संवत्सराज्ज्येष्ठः श्राद्धं कुर्यात्समेत्य तत् ।
ऊर्ध्वं सपिण्डीकरणात्सर्वे कुर्युः पृथक्पृथक्" इति[७१] व्यासोक्तेः ॥

"नवश्राद्धं सपिण्डं च श्राद्धान्यपि च षोडश ।
एकेनैव तु कार्याणि[७२] संविभक्तधनेष्वपि" ॥

 इत्युशनोवचनाच्च ।

 एकोद्दिष्टस्वरूपमाह मनुः--

"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम्" इति ।

 तत्र विशेषमाह याज्ञवल्क्यः--

"एकोद्दिष्टं देवहीनमेकार्व्यैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं त्वपसव्यवत्" इति ॥

अथ प्रोष्ठपदीश्राद्धम् ।

तत्र ब्रह्मपुराणम्--

"नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ ।
पौर्णमास्यां प्रकर्तव्यं वराहवचनं यथा" इति ॥

 नान्दीमुखशब्दार्थस्तत्रैवोक्तः--

"पिता पितामहश्चैव तथैव प्रपितामहः ।
त्रयो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्तिताः ॥
तेभ्यः परतरा ये च प्रजावन्तः सुखैधिताः ।
ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते" इति ॥

 एतच्च प्रत्यब्दमित्युक्तेः पक्षश्राद्धे सकृन्महालयपक्षे चाऽऽवश्यकमिति प्रयोगपारिजाते । अत्र मातामहा अपि कार्याः । 'पितरो यत्र पूज्यन्ते' इति वचने पितृशब्दस्य साधारणत्वादिति केचित् । जनकघटितसमुदायवाचित्वादत्र तादृशसमुदायाभावात्पितरो यत्रेतिवाक्यस्यात्राप्रवृत्तिरित्यन्ये ।

 महालयेऽपि श्राद्धं कार्यमित्युक्तं पृथ्वीचन्द्रोदयादौ वृद्धमनुना--

"आषाढीमवधिं कृत्वा पञ्चमं पक्षमाश्रिताः ।
काङ्क्षन्ति पितरः क्लिष्टा अन्नमप्यन्वहं जलम् ।" इति ॥

 वृद्धमनुः--

"मध्ये वा यदि वाऽप्यन्ते यत्र कन्यां व्रजेद्रविः ।
स पक्षः सकलः श्रेष्ठः श्राद्धषोडशकं प्रति" इति ॥

 मार्कण्डेयः--

"कन्यागते सवितरि दिनानि दश पञ्च च ।
पार्वणेनैव विधिना तत्र श्राद्धं विधीयते" इति ॥

 अन्येऽपि पक्षा ब्राह्मे--

"अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने ।
त्रिभागहीनपक्षं वा त्रिभागं त्वर्धमेव वा" इति ॥

 त्रिभागमित्यनेन पञ्चम्यादिपक्ष उच्यते । तथा च स्मृतिः--

"भौजगीं तिथिमारभ्य यावच्चन्द्रार्कसंगमम्" इति ॥

 भौजगी तिथिः पञ्चमी । चन्द्रार्कसंगमेऽमावास्यायां तावत्पर्यन्तमित्यर्थः । अर्धमित्यष्टम्यादिपक्षः । त्रिभागमिति दशम्यादिपक्षः । त्रिभागहीनमिति चतुर्दशीसहितप्रतिपदादिचतुष्टयवर्जनाभिप्रायेणेति कल्पतरुः । अशक्तस्त्वेकदिन एव कुर्यात् । तदुक्तं हेमाद्रौ नागरखण्डे--

"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
यो वै श्राद्धं पितुर्दद्यादेकस्मिन्नपि वासरे ॥
तस्य संवत्सरं यावत्संतुष्टाः पितरो ध्रुवम्" इति ।

 तत्र वर्ज्यतिथ्यादिकमुक्तं पारिजाते वसिष्ठेन--

"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्" इति ॥

 त्रिजन्मनक्षत्राणि जन्मनक्षत्रं दशमैकोनविंशे च । एतच्च सकृन्महालयविषयम् ।

"सकृन्महालये काम्ये पुनः श्राद्धे खिलेषु च ।
अतीतविषये चैव सर्वमेतद्विचारयेत्" ॥

 इति पृथ्वीचन्द्रोदये नारदोक्तेः ।

एतदपवादः संग्रहे--

"अमापाते भरण्यां च द्वादश्यां पक्षमध्यके ।
तथा तिथिं च नक्षत्रं वारं च न विचारयेत्" इति ॥

 पराशरमाधवीये मदनपारिजातादिषु चैवम् । निर्णयदीपिकायां तु पितृमृताहे निषिद्धदिनेऽपि सकृन्महालयः कार्य इत्युक्तम् । स्मृत्यन्तरे--

"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
मृताहनि पितुर्यो वै श्राद्धं दास्यति मानवः ॥
तस्य संवत्सरं यावत्संतुष्टाः पितरो ध्रुवम्" इति ।

 कात्यायनोऽपि--

"या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते ।
सा तिथिः पितृपक्षे तु पूजनीया प्रयत्ननः ॥
तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया ।
पिण्डश्राद्धं च कर्तव्यं वि[७३]च्छित्तिं नैव कारयेत्" इति ॥

 अत्र विनाऽऽशौचमिति वचनात्पितृमृताहे सकृन्महालयपक्षपरिग्राहिणो भार्यायां रजस्वलायामपि तद्दिने महालयश्राद्धं भवत्येवेति केचित् । वस्तुतस्तु यावद्वृश्चिकदर्शनादितिकालान्तरस्य सत्त्वादनिषिद्धे दिनान्तर एव महालयश्राद्धं कार्यम् । तत्रापि रजस्वलायां तु कालान्तराभावात्तत्रैव श्राद्धं पञ्चमदिने वेति मतद्वयं दर्शादिवदत्रापि द्रष्टव्यम् ।

 पक्षश्राद्धकरणेऽपि न नन्दादिषु पिण्डनिषेध इत्याह पराशरमाधवीये कार्ष्णाजिनिः--

"नभस्यस्यापरे पक्षे श्राद्धं कुर्याद्दिने दिने ।
नैव नन्दादि वर्ज्यं स्यान्नैव निन्द्या चतुर्दशी" इति ॥

 यत्तु--"प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् "

 इति याज्ञवल्कीयं [तत्] पञ्चम्यादिपक्षविषयम् । पृथ्वीचन्द्रोदयमदनपारिजातादिषु चैवम् । निर्णयदीपे तु नन्दादिनिषेधः प्रत्यहभिन्नश्राद्धविषयः । षोडशाहव्यापिश्राद्धप्रयोगैकत्वे तु प्रत्यहं पिण्डदानं कार्यमित्येवोक्तम् । तदयमर्थः संपन्नः--षोडशाहव्यापिश्राद्धैक्ये न पिण्डनिषेधः । मृताहे सकृन्महालयेऽपि । तथा प्रत्यहं श्राद्धभेदेऽपि । व्यतीपातादौ तथा । अन्यत्र मृताहातिक्रमे च पिण्डनिषेध इति । चतुर्दश्यां मृतस्य तु 'श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां समाचरेत्' इतिवचनेन शस्त्रहतस्यैव तत्र श्राद्धनियमेनेतरेषां चतुर्दश्यां श्राद्धनिषेधे सिद्धेऽर्थादमावास्यादिष्वितरेष्वनिषिद्धेषु दिनेष्वनुष्ठानम् । एतच्चापरपक्षप्रयुक्तश्राद्धविषयम् ।

"प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः ।
दैवयुक्तं च यच्छ्राद्धं पितॄणां दत्तमक्षयम्" ॥

 इतिवचनादिति पारिजातः । नवीनास्तु--एतस्य वचनस्यानिर्दिष्टमूलकत्वेनैकोद्दिष्टं देवहीनमित्यादिवचनानां कथमेतेन वचनेन बाध इति चिन्त्यमित्याहुः । पौर्णमास्यां मृतस्य महालयश्राद्धममावास्यायां कर्तव्यमिति कौस्तुभे । तस्या महालयान्तर्गतत्वाभावादिति तदाशयः । न च प्रोष्ठपद्या सह षोडशत्वसंपादनस्य हेमाद्रिणोक्तत्वात्तस्या अपि महालयान्तर्गतत्वमस्तीति वाच्यम् । तस्य पक्षस्यैव विरुद्धत्वेन निर्मूलत्वेन च हेयत्वात् । कथं तर्हि षोडशत्वसंपादनमिति चेत् ।

"अहःषोडशकं यत्तु शुक्लप्रतिपदा सह ।
चन्द्रक्षयाविशेषेण साऽपि दर्शात्मिका स्मृता" ॥

 इतिवचनप्रतिपादितशुक्लप्रतिपदेति गृहाण । तिथिवृद्धौ पोडशत्वसंपादनमिति माधवाचार्याः । एतच्च श्राद्धमन्नेनैव कार्यम् ।

तथा च गालवः--

"मृताहं च सपिण्डं च गयाश्राद्धं महालयम् ।
आपन्नोऽपि न कुर्वीत श्राद्धमामेन कर्हिचित्" इति ॥

 अत्र देवताः संग्रहे--

"ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं
सस्त्रि स्त्रीतनयादि तातजननीस्वभ्रातरः सस्त्रियः ।
ताताम्बात्मभगिन्यपत्यधवयुग्जायापिता सद्गुरुः
शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे" इति ॥

 सस्त्रीतिपाठे मातामहादीनां सपत्नीकानामित्यूहः । तत्स्त्रीति पाठे मातामहीवर्गस्य सर्वं पृथगेव ।

"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु न ।
नवदैवतमत्रेष्टं शेषं षाट्पौरुषं विदुः ॥
ज्ञैयं द्वादशदैवत्यं तीर्थे प्रोष्ठे मघामु च ।
महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च" ॥

 इति स्मृतिभ्यां पक्षद्वयस्याप्युक्तत्वात् । अत्र शक्ताशक्तत्वेन देशाचाराद्व्यवस्था ज्ञेया । नवदैवतमिति वचनं पार्वणत्रयमत्रेतिप्रदर्शनार्थं न त्वेकोद्दिष्टनिवर्तकम् । एवं द्वादशदैवत्यमितिवचनमपि । तातजननीस्वभ्रातरस्तत्स्त्रिय इतिपाठे पितृव्यमातुलभ्रातृपत्नीनां पृथग्देवतात्वम् । तत्तदनन्तरं पृथगुल्लेख इति प्रघट्टके । अपत्यधवयुगित्यत्र सापत्यायाः सधवाया इत्युल्लेखः । शिष्टं स्पष्टम् ।

 यत्तु--

"आषाढ्याः पञ्चमे पक्षे श्राद्धं कुर्याद्दिने दिने ।
उद्दिश्य नवदैवत्यमित्येवं मनुरब्रवीत् ॥
अथैकस्मिन्दिने कुर्यात्सर्वानुद्दिश्य यत्नतः ।
महालयात्मकं श्राद्धं तद्गयासदृशं भवेत्" ॥

 इति धर्मप्रवृत्तौ वचनं तन्निर्मूलमेव । महानिबन्धेष्वदर्शनात् ।

 महालयेऽनेकब्राह्मणनिमन्त्रणाशक्तस्य विशेषः स्मृत्यन्तरे--

"एकस्मिन्ब्राह्मणे सर्वानाचार्यान्तान्प्रपूजयेत्" इति ।

 विधवायास्तु विशेषः संग्रहे--

"चत्वारि पार्वणानीह विधवायाः सदैव हि ।

स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च ॥
ततो मातामहानां च श्राद्धदानमुपक्रमेत्" इति ।

 इह महालये । सदेत्यनेन सांवत्सरिकव्यतिरिक्ते गयाश्राद्धादावप्येवं पार्वणानि न तु स्वभार्त्राद्युद्देश्यकपार्वणमात्रमिति बोध्यते ॥

 तथा--"श्वश्रूणां च विशेषेण मातामह्यास्तथैव च" इति ।

 अशक्तौ तु स्मृतिरत्नावल्याम्--

"स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च ।
विधवा कारयेच्छ्राद्धं यथाकालमतन्द्रिता" इति ॥

 एतच्च विधवाकर्तृकं श्राद्धमपुत्रत्वे ।

"अपुत्रा पुत्रवत्पत्नी पुत्रकर्म समाचरेत्" इतिवचनात् ।

 अत्र स्वपितुरपुत्रपौत्रवत्त्व एव तत्पार्वणमिति दिवोदासीये । भर्तुर्मातामहपार्वणेन सह षड्दैवत्यम् । अपुत्रा पुत्रवत्पत्नीतिवचनस्य वनिताप्रकरणानुरोधाच्छ्राद्धक्रियातुल्यतोक्त्या पुत्रकर्तृकश्राद्धवदेव मातामहादीनामपि प्रापणात् । अत्रोद्देश्यत्वं पित्रादीनां तन्मातामहादीनां च पितृत्वादिना । यं प्रति येन रूपेण संबन्धिता नां(तं) प्रति तेनैव रूपेणोद्देश्यत्वादिति केचित् । अन्ये तु--अपुत्रा पुत्रवदितिवचनं दर्शश्राद्धादिषु पुत्रकर्तृकश्राद्धदेवतामात्रप्रापणाना(र्थ)म् । उद्देश्यता तु स्वस्वसंबन्धानुसारेणैवेत्याहुः । वस्तुतस्तु स्वभर्तृश्वशुरादीनामितिबहुवचनाद्भर्तृमातामहादीनां प्राप्तिः स्वस्वसंबन्धानुसारेणोद्देश्यता चेति द्रष्टव्यम् । स्वस्य भर्ता च श्वशुरश्च तावादी येषां त इति विग्रहः । अस्मिन्कल्पे भर्ता श्वशुरो भर्तुः पिता । आदिपदग्राह्यो भर्तुः पितामह इत्येवं पार्वणम् । बहुवचनग्राह्या भर्तुर्मातामहादयः । स्वस्य भर्ता श्वशुरादयश्चेति विग्रहे भर्तुरेकोद्दिष्टत्वापत्तिर्द्रष्टव्या । न च सांवत्सरिकादौ भर्तुः पक्ष एकोद्दिष्टत्वमपि दृष्टमस्ति तद्वदत्राप्यस्त्विति वाच्यम् । पार्वणधर्मविरोधेन सांवत्सरिकवदेकोद्दिष्टत्वासंभवात् । न च महालये यथा विरुद्धयोरप्येकत्रानुष्ठानं तथाऽत्राप्यस्त्विति वाच्यम् । महालये च स्पष्टं वचनाभावात् । अस्तु वा पक्ष एकोद्दिष्टत्वमपि सांवत्सरिकवदिति यद्यभ्युपेयते तदा भर्तुः पितृपितामहप्रपितामहानां देवतात्वं द्रष्टव्यम् । अस्मिन्नेव कल्पे श्वश्र्वादित्रय्या उद्देश्यत्वं संभवति । पूर्वत्र श्वश्रूणामितिबहुवचनमपि संगच्छते । पूर्वकल्पे द्विवचने बहुवचनं द्रष्टव्यम् । वस्तुतस्तु

"श्वश्रूणां च विशेषेण मातामह्यास्तथैव च" ।

 इतिवचनस्य समूलत्वं मृग्यम् । स्वमात्रादिपार्वणचतुष्टयमपुत्रविषयकमिति नवीनाः । पितृव्याद्येकोद्दिष्टानां तु पुत्रवत्तस्या अपीति प्रघट्टके । विधवा स्वयं संकल्पं कृत्वाऽन्यद्ब्राह्मणद्वारा कारयेदिति प्रयोगपारिजाते । अत्र धूरिलोचनौ विश्वे देवाः ।

"अपि कन्यागते श्राद्धे काम्ये च धूरिलोचनौ" ।

 इत्यादित्यपुराणात् ।

 अत्र कन्यागत इत्युपलक्षणम् ।

"आदौ मध्ये तथाऽप्यन्ते यत्र कन्यां रविर्व्रजेत् ।
स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति" इतिवचनात् ॥

 तथा च कन्यागते कन्याग[त]त्वोपलक्षिते भाद्रपदापरपक्षश्राद्धे धूरिलोचनावित्यर्थ इति हेमाद्रिः । अन्ये तु कन्यागत इत्यनेन कन्यासंक्रमणस्य साक्षान्निमित्तत्वबोधनेनोपलक्षणत्वे प्रमाणाभावात्कन्यासंक्रान्तिनिमित्तके श्राद्ध एव धूरिलोचनौ न महालयश्राद्धे । तत्र तु पुरूरवार्द्रवावेवेति [आहुः] । कन्यासंक्रान्तिनिमित्तकं श्राद्धं तु प्रोष्टपदीश्राद्धम् ।

"नान्दीमुखानां प्रत्यब्दं कन्याराशिगतौ रवौ" ।

 इतिवचनेन कन्याराशिनिमित्तत्वस्यैव बोधनात् । इदं च महालयश्राद्धं नित्यं काम्यं च ।

"वृश्चिके समनुप्राप्ते पितरो दैवतैः सह ।
निश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदारुणम्" ॥

 इतिकार्ष्णाजिनिवचनेनाकरणे प्रत्यवायस्योक्तत्वात् ।

"पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे कृत्वा श्राद्धं कामांश्च पुष्कलान्" ॥

 इति तत्रैव जाबालिवचने फलश्रवणाच्च । पञ्चमे पञ्चमे पक्षे महालय इत्यर्थः । एतस्य पञ्चमत्वं तु--

"आषाढ्याः पञ्चमः पक्षः स महालयसंज्ञकः"

 इतिवचनसिद्धम् । महालयस्य नित्यतयाऽनुष्ठाने तु पुरूरवार्द्रवावेव । काम्यतयाऽनुष्ठाने तु काम्ये तु धुरिलोचनावितिशास्त्राद्धुरिलोचनावेवेति ।

आश्वलायनः--

"अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् ।
पित्रादि मातृमध्यं च ततो मातामहान्तकम्" इति ॥

ब्रह्माण्डेऽपि--

"पितॄणां प्रथमं दद्यान्मातॄणां तदनन्तरम् ।
ततो मातामहानां च आन्वष्टक्ये क्रमः स्मृतः" इति ॥

 हेमाद्रौ छागलेयः--

"केवलास्तु क्षये कार्या वृद्धावादौ प्रकीर्तिताः ।
अन्वष्टकासु मध्यस्था नान्ते कार्यास्तु मातरः" इति ॥

 दीपिकायां तु मातृयजनं त्वन्वष्टकास्वादित इत्युक्तम् ।

हेमाद्रौ ब्राह्मेऽपि--"अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते" इति ।

 अत्र शाखाभेदेन व्यवस्थेति पृथ्वीचन्द्रोदये । जीवत्पितृकविषयमिति निर्णयदीपे । एतच्च नित्यम् ।

"अष्टकान्वष्टकास्तिस्रस्तथैव च नृपोत्तम ।
एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः ॥
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते" ॥

 इति हेमाद्रौ विष्णुधर्मोत्तरात् । अत एवेदं स्वतन्त्रं प्रधानं नाष्टकाङ्गं, पूर्वेद्युः--श्राद्धं त्वष्टकाङ्गमेव, फलवत्संनिधावफलं तदङ्गमिति न्यायादिति केचित् । अन्ये तु--अन्वष्टकातः पृथगेवेदं मातुः श्राद्धमिति परास्तं, लाघवेन मूलैक्यादन्वष्टकापदाविशेषाच्च । तेनान्यत्रान्वष्टकाश्राद्धस्याङ्गस्याप्यत्र प्रधानत्वं वचनादित्याहुः । इयमेवान्वष्टकाऽक्षय्यनवमी सौभाग्यनवमीति व्यवह्रियते पामरैः । न तत्र कर्मभेदे प्रमाणं किंचिदस्ति । अजीवत्पितृकेण शक्तौ सत्यामेतस्यामष्टस्यामष्टकाश्राद्धमपि कर्तव्यम् । एतस्या अष्टम्या अष्टकात्वं गौतमेनोक्तम्--तथा महालयाष्टमीति । स्मृत्यन्तरेऽपि--

"प्रोष्ठपद्यष्टका भूयः पितृलोके भविष्यति" इति ।

 एतदङ्गभूतत्वात्पूर्वेद्युःश्राद्धान्वष्टकाश्राद्धेऽप्येतस्या अन्वष्टकायाः प्रधानीभूतान्वष्टकानुष्ठानेन प्रसङ्गसिद्धिरिति द्रष्टव्यम् । अत्रैव नवम्यां मृतमातृकस्य जीवत्पितृकस्य श्राद्धमावश्यकम् । तदुक्तं निर्णयामृते मैत्रायणीयपरिशिष्टे--

"आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि ।
मातुः श्राद्धं पृथक्कुर्यात्पिृतर्यपि च जीवति" इति ॥

 अग्निगुराणे--

"अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि ।
अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह" इति ॥

 यथा जीवत्पितृकस्य सर्वा अन्वष्टका आवश्यकास्तथेयमप्यावश्यकी--

"सर्वासामेव मातॄणां श्राद्धं कन्यागते रवौ ।
नवम्यां हि प्रदातव्यं ब्रह्मलब्धवरा यतः" ॥

 इति हेमाद्रौ सुमन्तूक्तेः । अत्र सर्वासामित्युक्तेः स्वमातरि जीवन्त्यामपि सपत्नमातृभ्यो दद्यात् । तन्मरणे सति तस्यै ताभ्यश्च दद्यात् । तच्च पार्वणमेव कुर्यात् ।

"आन्वष्टक्यं च यन्मातुर्गयाश्राद्धं महालयम् ।
पितृपत्नीषु च श्राद्धं सर्वं पार्वणवद्भवेत्" ॥

 इति बृहन्मनूक्तेरिति श्राद्धदीपकलिकायाम् । अन्ये तु--पितृव्यभ्रातृमातॄणामितिवाक्यादेकोद्दिष्टमेव न पार्वणमित्याहुः ।

 तत्र विशेषः--

"अनेका मातरो यस्य श्राद्धे चाऽऽपरपक्षिके ।
अर्घ्यदानं पृथक्कुर्यात्पिण्डमेकं तु निर्वपेत्" इति ॥

 यन्मातुर्जनन्या आन्वष्टक्यं गयाश्राद्धं महालयश्राद्धं च पार्वणवद्यथा तथा पितृपत्नीपु जननीव्यतिरिक्तासु सर्वास्वपि श्राद्धमान्वष्टक्यादि तत्सर्वं पार्वणवदेव भवेदिति वाक्यार्थः । पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्' इतिवचनेन प्राप्तस्य पार्वणधर्मस्य बाधोऽनेन क्रियते । पितृपत्नीषु पितृपत्नीनामित्यर्थः । श्राद्ध इत्यत्र तीर्थ इति कुत्रचित्पाठः । पिण्डो(ण्डं) ब्राह्मणाय देयं भोज्यं बर्हिषि प्रदेयं च, एकं तु निर्वपेत्, मात्रो(त्रु)द्देशेनैकमेव दद्यात्, द्विवचनादिनाऽनेकमात्रुद्देशेन दद्यादित्यर्थः । तत्र प्रकारः--अस्मिन्पक्षे सपत्नमातॄणां मात्रनन्तरमेव निर्देशः संकल्पे क्षणादिषु च । मातृपार्वणेऽनेकब्राह्मणपक्ष--अस्मन्मात्रोरमुकगोत्रयोरमुकामुकदयोर्वसुरूपयोरित्यूहः । तथैवाऽऽसनाक्षय्ययोः । गन्धादिप्रदानेषु अस्मन्मातरावमुकामुकदे अमुकगोत्रे वसुरूपे एष युवां गन्ध इत्यादि । अन्नदाने मातृभ्यां दाभ्यां गोत्राभ्यां वसुरूपाभ्यामिदमन्नमित्यूहो मातृद्वित्वे । बहुत्वे तु अस्मन्मातॄणां दानां गोत्राणां वसुरूपाणां, मातरो दाः, गोत्राः, वसुरूपाः । मातृभ्यः, दाभ्यः, गोत्राभ्यः, वसुरूपाभ्य इत्यूहः । एवं पिण्डदानेऽपि । आन्वष्टक्यं च यन्मातुरित्यनन्तरोदाहृतबृहन्मनूक्त्या महालये यदि सपत्नमातॄणां पार्वण[७४]श्राद्धं क्रियते तदाऽप्येवमेव । एतच्चाशक्तिविषयम् । शक्तस्तु--पृथक्ब्राह्मणभोजनं पृथक्पिण्डदानं च कुर्यादिति प्रघट्टके । अत्र सुवासिनीभोजनमुक्तं मार्कण्डेयपुराणे--

"मातुः श्राद्धे तु संप्राप्ते ब्राह्मणैः सह भोजनम् ।
सुवासिनीभ्यो दातव्यमिति शातातपोऽब्रवीत् ॥
भर्तुरग्रे मृता नारी सह दाहेन वा मृता ।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्" इति ॥

 एतच्च सांवत्सरिकादिष्वपि, मातुः श्राद्ध इति सामान्यतः श्रवणादिति केचित् । अत्र भर्तृमरणोत्तरमिदं न कार्यमिति केचिदाहुः ।

 पठन्ति च-- 'श्राद्धं नवम्यां कुर्वीत मृते भर्तरि लुप्यते' इति ।

 अन्ये तु–-एतस्य वचनस्य निर्मूलत्वात्कार्यमेवेत्याहुः ।

 श्राद्धदीपकलिकायां ब्राह्मे--

"पितृमातृकुलोत्पन्ना याः काश्चित्तु मृताः स्त्रियः ।
श्राद्धार्हास्तास्तु विज्ञेयाः श्राद्धं तेषां(तासां) प्रदीयते" इति ॥

 अत्र देशाचाराद्व्यवस्था । इदं चानुपनीतेनापि कार्यम् । तदुक्तं शूलपाणौ मात्स्ये--अमावास्याऽष्टका कृष्णपक्ष इत्यभिधाय--

"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु ।
श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥
भार्याविरहितोऽप्येतत्प्रवासस्थोऽपि नित्यशः" इति ।

 जीवत्पितृकेणाप्येतच्छ्राद्धं मातृक्षयाहश्राद्धवदविशेषात्सपिण्डमेव कार्यम् ।

 यत्तु--

"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः ।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च" ॥

 इति दक्षवाक्यत्वेन केनचिल्लिखितं तद्दक्षस्मृतौ निबन्धान्तरे चादर्शनादनाकरमिति केचित् । मात्रतिरिक्तपरमित्यन्ये । 'अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च' इत्युपक्रम्य 'पिण्डनिर्वपणं कार्यं तस्यामपि नृसत्तम' इतिवचनं श्राद्धविधिना पिण्डदाने प्राप्ते पुनर्वचनं यस्य जीवत्पितृकत्वगुर्विणीपतित्वादिना पिण्डदानं निषिद्धं तस्यापि प्राप्त्यर्थमिति नवीनाः ।

 संन्यस्तपितृको महालयश्राद्धं द्वादश्यामेव कुर्यात् ।

तदुक्तं वायवीये--

"संन्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि ।
महालयं तु यच्छ्राद्धं द्वादश्यामेव तद्भवेत्" इति ।

स्मृत्यर्थसारे--

"एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रिया[म्] ।
न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे ॥
त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ।
एकादशाहे संप्राप्ते कर्तव्यं पार्वणं ततः" इति ॥

 वपनमपि न कर्तव्यमिति कैश्चिदुक्तं तन्निर्मूलम् । परमहंसस्य वार्षिकादिकमपि न कार्यमिति शूलपाण्यादयः ।  बौधायनः--

"ब्रह्मनिष्ठे च संन्यस्ते पितर्युपरते श्रुते ।
सपिण्डीकरणं नैव कर्तव्यं तु सुतादिभिः ॥
सद्यः संन्यसनादेव प्रेतत्वं नैव जायते ।
एकोद्दिष्टं न कर्तव्यं संन्यस्तानां कदाचन" इति ॥

 शौनकः--

"ब्रह्मीभूते च संन्यस्ते ताते च निधनं गते ।
न तस्य सूतकं कार्यं पञ्च(न च) पिण्डोदकक्रिया ॥
ब्रह्मीभूतस्यात्र पितुः कर्तव्यं नैव विद्यते ।
दशाहे तु व्यतिक्रान्ते पुत्रः कुर्यात्तु पार्वणम्" इति ॥

 तथा--

"संनिकृष्टो यदा पुत्रो यदि स्वपितृ[७५]नाशनम् ।
कुर्यात्तु वपनस्नाने नोदकं नैव च क्रिया" इति ॥

 सपिण्डविषय आहोशना--

"यतौ मृते च वपनं नोदकं नैव च क्रिया ।
नाऽऽशौचं नैव शोकं च(कश्च) बन्धूनां गोत्रिणामपि" इति ॥

 अनुभाविनां तु परिवापनमित्यनेन सपिण्डानामपि वपनं प्राप्तमनेन निषिध्यते । अनुभाविनः कनिष्ठाः सपिण्डाः ।

 अत्र मघात्रयोदश्यां श्राद्धमुक्तं संग्रहे--

"विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक्सुताः ।
मघासु तु ततोऽन्यत्र नाधिकारः पृथ[७६]ग्विना" इति[७७]

 तुशब्दस्य ततोऽन्यत्रेत्यनन्तरमन्वयः । पृथ[७८]ग्विना विभक्तं विना मघाश्राद्धव्यतिरिक्तश्राद्धेषु पृथगधिकारो नास्तीत्यर्थः ।

"([७९] श्राद्धं न चैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।
न तृप्तास्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते" इति ॥)

 चतुर्दश्यामपमृत्युहतानामेकोद्दिष्टं तच्च देवयुक्तं कार्यम् ।

तदुक्तं स्मृत्यन्तरे--

"प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः ।
दैवयुक्तं च तच्छ्राद्धं दत्तं भवति चाक्षयम्" इति केचित् ।

 अन्ये तु--अनिर्दिष्टमूलकेन वचनेन 'एकोद्दिष्टं देवहीनम्' इत्यादिवचनानां बाधः कथमिति चिन्त्यमित्याहुः । एतन्मते देवाः सन्त्येवात्र ।  अपमृत्युनिमित्तान्युक्तानि प्रचेतसा---

"वृक्षारोहणलोहाद्यैर्विद्युज्ज्वालाविषाग्निभिः ।
नखिदंष्ट्रिविपन्नानां तेषां शस्ता चतुर्दशी" इति ॥

मरीचिरपि--

"विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणवातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता" इति ॥

 एतच्च युद्धव्यतिरिक्तविषयम् ।

"चौरादिभिः शस्त्रहते चतुर्दश्यां क्रिया भवेत् ।
युद्धे शस्त्रहते तु स्यात्स्वस्थकाले परिक्रिया"

 इति स्मृत्यन्तरवचनात् । पितामहोऽपि शस्त्रहतश्चेदेकोद्दिष्टद्वयं कार्यम् ।

तदुक्तं स्मृत्यन्तरे--"एकस्मिन्द्वयोर्वैकोद्दिष्टम्" इति ।

 त्रिषु शस्त्रहतेषु पार्वणमेव ।

"पित्रादयस्त्रयो यस्य मृताः शस्त्रैर्यदि क्रमात् ।
स भूते पार्वणं कुर्यादाब्दिकादि पृथक्पृथक्" इति पराशरोक्तेः ॥

 यस्त्वत्रैव शस्त्रादिना हतस्तस्य वार्षिकमेव न तु श्राद्धद्वयं प्रसङ्गसिद्धरिति पृथ्वीचन्द्रोदये । तच्च पार्वणविधिनैकोद्दिष्टविधिना वेत्यपि तत्रैव । सर्वतृप्त्यर्थं महालयश्राद्धममावास्यायां पृथक्कर्तव्यम् । महालये चतुर्दश्यां श्राद्धं लुप्तं चेद्वृश्चिकदर्शनपर्यन्तं यस्मिन्कस्मिंश्चिदनिषिद्धदिन एकोद्दिष्टविधिनैव कार्यं यथाप्राप्त एव गौणकालविधानात् । एतेन टोडरानन्दीया पार्वणोक्तिरपास्ता । सकृन्महालयश्राद्धं तु आहिताग्निना दर्श एव कार्यम् ।

तदुक्तं संग्रहे-- "न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः" इति ।

 आश्विनशुक्लप्रतिपदि दौहित्रो मातामहश्राद्धं कुर्यात् । उक्तं च हेमाद्रौ स्मृत्यन्तरे--

"जातमात्रोऽपि दौहित्रो विद्यमाने च मातुले ।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते" इति ॥

 इदं च संगवव्यापिन्यां कार्यम् । उक्तं च निर्णयदीपे--

"प्रतिपद्याश्विने शुक्ले दौहित्रस्त्वेकपार्वणम् ।
श्राद्धं मातामहं कुर्यात्सपिता संगवे सिते" इति ॥

 अत्र सपितेति विशेषणाज्जीवत्पितृ[८०]कोऽप्यधिकारी[८१] । तत्र जीवत्पितृकः पिण्डरहितं कुर्यात् ।

"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः ।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च" ॥

 इति दक्षवचनादान्वष्टक्यवद्विशेषवचनाभावाच्चेति । कैश्चित्तु दौहित्रप्रतिपच्छ्राद्धं सपिण्डमेव मुण्डनं पिण्डदानं चेति दक्षवाक्यस्य निर्मूलत्वादित्युक्तम् । संगवव्यापित्वबोधकवचसोऽपि निर्मूलत्वमाहुः केचित् । तथा तीर्थेऽपि श्राद्धं कार्यम् । तदुक्तं पाद्मे--

"तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ।
विविक्तेषूपलिप्तेषु श्राद्धं देयं विनानता" इति ॥

 मात्स्ये तीर्थं पुष्करकं नामेत्यादिना तीर्थान्यनुक्रम्योक्तम्--

"एषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते ।
यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत्" इति ॥

 तत्र विशेषो देवीपुराणे--

"अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।
तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत्" इति ।

तथा--

"नाऽऽवाहनं न दिग्बन्धो न दोषो दृष्टिसंभवः ।
सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणैः" इति ॥

 वोपदेवकृतसंग्रहेऽग्नौकरणस्यापि निषेधः कृतः--

"तैर्थ्येऽर्घ्यावाहनाग्नौकरणविकिरदृग्दोषदिग्बन्धतृप्ति-
प्रश्नाङ्गुष्ठावगाहा न च भवति विसर्गः" इति ।

 स्मृतिरत्नावल्यामप्युक्तम्-- "तीर्थश्राद्धेऽग्नौकरणमपि न" इति ।

 प्रयोगपारिजाते तु--अर्घ्यमावाहनं चैवेत्यस्मिन्वाक्ये पञ्चानामेव निषेधेनाग्नौकरणस्यानिषेधात्तीर्थश्राद्धेऽग्नौकरणं कार्यमेवेत्युक्तम् । यदा तीर्थसमीपे कुशवटुषु श्राद्धं क्रियते तदा तीर्थजल एव होमः । अन्यथा तु पाणावेवेत्यपि तत्रोक्तम् । तीर्थश्राद्धेऽग्नौकरणपक्षेऽग्नावेव होमो न जल इति शिष्टाः ।

 पिण्डद्रव्यमुक्तं पाने--

"तीर्थे श्राद्धं प्रकुर्वीत पक्वान्नेन विशेषतः ।
आमान्नेन हिरण्येन कन्दमूलफलैरपि" इति ॥

 देवीपुराणब्राह्मयोः--

"सक्तुभिः पिण्डदानं च संयावैः पायसेन वा ।
कर्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा" इति ॥

 देवलः--

"न चात्र श्येनकाकादीन्पक्षिणः प्रतिषेधयेत् ।
तद्रूपाः पितरश्चैव समायान्तीति वै श्रुतिः" इति ॥

 भविष्ये--

"देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः ।
आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते" इति ॥

 ब्राह्मणपरीक्षानिषेधोऽत्रोक्तो मरीचिना--

"न ब्राह्मणान्परीक्षेत तीर्थश्राद्धे सदा बुधः" इति ॥

 तत्र पिण्डास्तु जल एव प्रक्षेप्याः ।

"तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्या दिक्सा प्रकीर्तिता" ॥

 इतिवचनादिति प्रघट्टके । एतच्चाधिमासेऽपि कार्यम् ।

"मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च" इति चन्द्रिकोक्तेः ।

 तीर्थयात्रार्थं गच्छन्गमनारम्भे यात्रोत्तरं गृहप्रवेशे च श्राद्धं कुर्यात् ।

तदुक्तं स्मृत्यन्तरे--

"गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा ।
यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः" इति ॥

 अत्र सर्पिषेति सर्पिग्रहणात्सर्पिष एव प्राधान्यम् । अन्नभक्ष्यादिकं तु व्यञ्जनार्थत्वेनेति विशेषः ।

 एतच्च पारणादिन एव ।

"उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च ।
गणेशं ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान्सुधीः" इतिस्कान्दात् ।

 वायवीये--

"उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कार्पटीवेषं ग्रामं कृत्वा प्रदक्षिणम्
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः" इति ॥

 श्राद्धशेषस्य भोजनं घृतस्य भोजनम् । तच्च क्रोशमध्य एव । श्राद्धोत्तरं क्रोशाधिकगमननिषेधात् । गयायामेवैतन्नान्यत्रेति केचित् । हेमाद्रिस्तु--गयायां श्राद्धदिन एव प्रस्थानं, तीर्थान्तरे तु श्राद्धोत्तरदिन इत्याह । यात्रामध्य आशौचे रजसि वा शुद्धिपर्यन्तं स्थित्वा तदन्ते गच्छेत् । मार्गवैषम्ये त्वदोषः । यात्रां गच्छता मध्ये तीर्थान्तरप्राप्तौ श्राद्धादि कार्यमेव । यो हि वाणिज्याद्यर्थं गच्छति तेन मुण्डनोपवासादि न कार्यमिति प्रयागसेतौ । तत्रापि मुण्डनोपवासश्राद्धादि कार्यमेवेति युक्तम् ।

"अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति" इति ब्राह्मोक्तेः ।

काशीखण्डादिषु--

"अकालेऽप्यथवा काले तीर्थे श्राद्धं च तर्पणम् ।
अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेत्" इति ॥

 मात्स्ये पितॄणां तर्पणमिति तुर्यः पादः । तत्र देवता महालयनिर्णये प्रागुक्ताः ।

 शङ्खदेवलौ-- "तीर्थद्रव्योपपत्तौ च न कालमवधारयेत् । सत्पात्रब्राह्मणं प्राप्य सद्यः श्राद्धं समाचरेत्" इति ॥

 हारीतः--

"दिवा वा यदि वा रात्रौ भुङ्क्ते चोपोषितोऽपि वा ।
न कालनियमस्तत्र गङ्गां प्राप्य सरिद्वराम्" इति ॥

 भारते--

"भुक्तो वाऽप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा ।
पर्वकालेऽथवा काले शुचिर्वाऽप्यथवाऽशुचिः ॥
यदैव दृश्यते तत्र नदी चित्रा यथा प्रिया ।
प्रमाणं दर्शनं तस्मान्न कालस्तत्र कारणम्" इति ॥

 एतदाशौचेऽपि कार्यम् ।

"विवाहयज्ञदुर्गेषु यात्रायां तीर्थकर्मणि ।
न तथा सूतकं तद्वत्कर्म यज्ञादि कारयेत्" इतिपैठीनसिस्मृतेः ।

 तदानीमकरणे त्वाशौचान्त एव कुर्यात् । प्रभासखण्डे--

"न वारो न च नक्षत्रं न कालस्तत्र कारणम् ।
यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम्" इति ॥

 एतच्च मलमासेऽपि कार्यम् ।

"नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ।
तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च" इतिबृहस्पतिवचनात् ।

 एतच्चाशौचे कृतभोजनस्य रात्रौ वा स्नानश्राद्धादिकमाकस्मिकतीर्थप्राप्तावामहेमश्राद्धविषयं ग्रहणादिवत् । न तु बुद्धिपूर्वमाशौचादौ तीर्थप्राप्तिः कार्या । मलमासे तु मासद्वये तीर्थश्राद्धं कार्यमिति चन्द्रिकायाम् ।

 जीवत्पितृकेणाप्येतत्कार्यम् ।

"महानदीषु सर्वासु तीर्थेषु च गयामृते ।
जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवत्" इति परिशिष्टोक्तेः ।

 गयामृत इति मातृव्यतिरिक्तविषयम् । आन्वष्टक्यगयाप्राप्तावित्यनन्तरोदाहृतपरिशिष्टवचनात् ।  गयाप्राप्तौ प्रासङ्गिकम् ।

"गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेत्" इतिवचनात् ।

 तेन मृतमातृको गयायां तत्पार्वणमात्रं कुर्यात् । तच्च फल्गुविष्णुपदाक्षय्यवटेष्विति केचित् । आद्यान्त्ये एत्येवेत्यन्ये । मध्यमान्त्ये इत्यपरे । संकोचे प्रमाणाभावात्तत्र तु श्राद्धानि सर्वाणि कार्याणीति युक्तमिति सिन्धौ । तीर्थश्राद्धादि विधवयाऽपुत्रया कार्यं न सपुत्रया ।

"सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचन" इति स्मृतेः ।

 अनुपनीतेनापि कार्यम् ।

"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु" ।

 इतिप्राप्ततीर्थश्राद्धमुपक्रम्योक्तेः । जीवत्पित्राऽपि कर्तव्यम् ।

"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवितः पितुः" इति ॥

 श्राद्धविधिस्तु पूर्वोक्ततीर्थश्राद्धविधिवदिति ।

 तथा कालविशेषेऽपि श्राद्धं कार्यमित्याह याज्ञवल्क्यः--

"अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः" इति ॥

 द्रव्यं पायसादि । ब्राह्मणो वक्ष्यमाणलक्षणः । तयोः संपत्ती इति द्विवचनान्तः पाठ इति केचित् । एकवचनान्तः पाठः । द्रव्यब्राह्मणसंपत्तिर्यस्मिन्काल इति बहुव्रीहिरिति माधवस्मृतिचन्द्रिकाकारौ । द्रव्यमित्यसमस्तमिति विज्ञानेश्वरः ।

 तथाऽन्यत्रापि--

"आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु ।
युगादिषु च दुःस्वप्ने जन्मर्क्षे ग्रहपीडने ॥
प्रोष्ठपद्यसिते पक्षे श्राद्धं कुर्यात्प्रयत्नतः" इति ।

 अयनद्वयं मकरकर्कसंक्रमौ । विषुवत्तुलामेषसंक्रमौ । सूर्यसंक्रम इत्यनेनैव सिद्धेऽत्र श्राद्धमशक्तेनापि सर्वथा कार्यमितिप्रदर्शनार्थमयनविषुवयोः पृथङ्निर्देशः । व्यतीपातो योगेषु प्रसिद्धः । तिथिनक्षत्रविशेषप्रयुक्तो वा ।

 एतल्लक्षणं तु स्मृतिचन्द्रिकायां वृद्धमनुराह--

"श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकैः ।
यद्यमा रविवारेण व्यतीपातः स उच्यते" इति ॥

 नागदैवतमाश्लेषा । मस्तकं मृगशिरः । यद्यमावास्या रविवारेण श्रवणाद्यन्यतमनक्षत्रेणैव वा युक्ता स व्यतीपात इत्यर्थः । श्रवणादिपञ्चानां चतुर्थपाद इति हेमाद्रौ । शास्त्रान्तरेऽपि--

"पञ्चाननस्थौ गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे ।
पाशाभिधाना करभेण युक्ता तिथिर्व्यतीपात इतीह योगः" इति ॥

 पञ्चाननः सिंहः । पाशाभिधाना द्वादशी । करभं हस्तः ।

 गजच्छाया त्वपरार्के वायुपुराणे--

"हंसे हंसस्थिते या तु मघा शुक्ला त्रयोदशी ।
तिथिर्वैवस्वती नाम सा छाया कुञ्जरस्य तु" इति ।

तथा--

"हंसे हंसस्थिते या तु अमावास्या करान्विता ।
सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत्" इति ।

 हंसः सूर्यः । तद्दैवतत्वाद्धस्तनक्षत्रमपि । चन्द्रसूर्ययोर्हस्तस्थयोरिति फलितोऽर्थ इति हेमाद्रौ ।

 स्कान्दे--

"यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
तिथिर्वैवस्वती नाम गजच्छाया प्रकीर्तिता" इति ॥

 इन्दुश्चन्द्रः । पितृदैवत्यं मघाः । हंसः सूर्यः । करो हस्तः । वैवस्वती तिथिस्त्रयोदशी । याम्या तिथिर्भवेत्सा हीत्यपि क्वचित्पाठः । याम्या तिथिस्त्रयोदश्येव हस्तिच्छायेति स्मृतिचन्द्रिकायाम् । 'एतद्ध्येव पि[८२]तृणामयनं यद्धस्तिश्राद्धं तस्माच्छायायां श्राद्धं दद्यात्' इति पाठकोक्तेः । गजच्छायासु कुर्वीत कर्णव्यजनवीजित इति भारतोक्तेश्च ।

"परमान्नं तु यो दद्यात्पितॄणां मधुना सह ।
छायायां तु गजेन्द्रस्य पूर्वस्यां दक्षिणामुखः" ॥

 इति विश्वामित्रोक्तं वा ग्राह्यम् । मन्वन्तरादयो युगादयश्चानध्यायप्रकरण उक्ताः । शुक्लपक्षे पूर्वाह्णव्यापिनी तिथिः कृष्णपक्षे त्वपराह्णव्यापिनीति हेमाद्रिः । कालादर्शे तु--अविशेषेणापराह्णव्यापिन्येव तिथिः । अपराह्णः पितॄणामितिवचनादित्युक्तम् । एतच्चाधिमासेऽपि कार्यम् । मन्वादिकं तैर्थिकं चेत्युदाहृतवचनात् । अपरार्के मात्स्ये--

"अयनद्वितये चैव विषुवद्द्वितये तथा ।
संक्रान्तिषु च सर्वासु मन्वादिषु युगादिषु ॥
एषु श्राद्धं प्रकुर्वीत पिण्डनिर्वपणादृते" इति ॥

 अत्र पिण्डनिषेधात्सांकल्पविधिरेवावतिष्ठते ।

 अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने--

"त्वं भुवः प्रतिमन्त्रं च शतवारं जले जपेत् ।
मन्वादयो यदा न्यूनाः कुरुते नैव वा यदि" इति ॥

 मन्वादिरित्युपलक्षणं युगादेः । षण्णवतिश्राद्धान्यपि नित्यानि ।

 तेषां संग्रहः--

"अमा१ २मनु१ ४युग ४क्रान्ति१ २धृति१ ३पात १ ३महालयाः१६ ।
आन्वष्टक्यं च पूर्वेद्युः षण्णवत्योऽष्टका१ २स्तथा" इति ॥

अथ क्षयाहाज्ञाने निर्णयः ।

तत्र मरीचिः--

"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः" इति ॥

 विशेषत इत्युक्तेः शुक्लैकादश्यामपि ।

बृहस्पतिः--

"न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति ।
मासश्चेत्प्रतिविज्ञातस्तद्दर्शे स्यादथाऽऽब्दिकम् ॥
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानमासदिवसौ ग्राह्यौ पूर्वोक्तया दिशा" इति ॥

 मदनरत्ने भविष्ये--

"मृताहं यो न जानाति मानवो विनतात्मज ।
तेन कार्यममायां तु श्राद्धं सांवत्सरं सदा ॥
दिनमेव तु जानाति मासं नैव तु यो नरः ।
मार्गशीर्षेऽथवा भाद्रे मासे वा तद्दिनं भवेत्" इति ॥

निर्णयामृते तु--

"यदा मासो न विज्ञातो विज्ञातं दिनमेव च ।
तदा त्वाषाढके मासि माघे वा तद्दिनं भवेत्" ॥

 इति बृहस्पतिस्मृतावाषाढोऽप्युक्त इत्युक्तम् । कालादर्शेऽपि--

"मासाज्ञाने दिनज्ञाने कार्यमाषाढमाघयोः" इत्युक्तम् ॥

 हेमाद्रौ प्रभासखण्डे--

"मृताहं यो न जानाति मासं वाऽपि कथंचन ।
तेन कार्यममायां स्याच्छ्राद्धं माघेऽथ मार्गके" इति ॥

भविष्ये तु--"मृतवार्ताश्रुतेर्ग्राह्यौ तौ पूर्वोक्तक्रमेण तु" इत्युक्तम् ॥

 पूर्वोक्तेति प्रस्थानदिनाज्ञाने मासज्ञाने च तद्दर्शे मासाज्ञाने दिनज्ञाने च मार्गशीर्षादावितिवच्छ्रवणदिनमपि ज्ञेयमित्यर्थः । श्रवणदिनमासाज्ञाने माघमार्गशीर्षदर्शे कार्यम् । अनन्तरोदाहृतप्रभासखण्डात् ।

इति क्षयाहाज्ञाने निर्णयः ।

अथ पिण्डप्रमाणम् ।

हेमाद्रावङ्गिराः--

"कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः ।
कुक्कुटाण्डप्रमाणान्वाऽऽमलकैर्बदरैः समाः" इति ॥

तत्रैव यमः--

"कपित्थस्य प्रमाणेन पिण्डान्दद्यात्समाहितः ।
तत्समं विकिरं दद्यात्पिण्डान्तेषु सुसंयुतः" इति ॥

संग्रहे--

"एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते ।
नारिकेलप्रमाणं तु प्रत्यब्दे मासिके तथा ॥
तीर्थे दर्शे च संप्राप्तौ कुक्कुटाण्डप्रमाणतः ।
महालये गयाश्राद्धे कुर्यादामलकोपमम्" इति ॥

 कलिकायां स्मृत्यन्तरे--

"यत्र स्युर्बहवः पिण्डास्तत्र बिल्वफलोपमाः ।
यत्र चैको भवेत्पिण्डस्तत्र खर्जूरसंनिभः" इति ॥

अथ पिण्डदाननिषिद्धकालः ।

 तत्र बृहत्पराशरपुलस्त्यौ--

"युगादिषु मघायां च विषुवेऽप्ययनेऽथवा ।
भरणीषु च कुर्वीत पिण्डनिर्वपणं न हि" इति ॥

 कालादर्श स्मृतिसंग्रहेऽपि--

"विषुवायनसंक्रान्तिमघासु च युगादिषु ।
विहाय पिण्डनिर्वापं श्राद्धं सर्वं समाचरेत्" इति ॥

मात्स्ये--

"अयनद्वितये श्राद्धं विषुवद्द्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणादृते" इति ॥

 अत्र संक्रातिष्वित्यनेनैवायनविषुवलाभे पुनस्तदभिधानं तत्कालकृतस्य पिण्डदानस्यातिनिन्दितत्वद्योतनार्थमिति हेमाद्र्यादयः ।

ब्रह्मपुराणे--

"यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निवित् ।
तेनैकेन तु कर्तव्यं श्राद्धं विषुवदुत्तमम्" इति ॥

 विषुवतो विषुवच्छ्राद्धादुत्तमं श्रेष्ठं श्रोत्रियागमननिमित्तकमपि श्राद्धम् । विषुवच्छ्राद्धादुत्तममित्युक्त्येदमप्यपिण्डकं भवितुमर्हतीति हेमाद्रिः ।  मघायुक्तां भाद्रपदापरपक्षत्रयोदशीमधिकृत्य देवीपुराणे--

"तत्रापि महती पूजा कर्तव्या पितृदैवते ।
ऋक्षे पिण्डप्रदाने(नं) तु ज्येष्ठपुत्री विवर्जयेत्" इति ॥

 तत्रापि भाद्रपदापरपक्षत्रयोदश्यामपि पितृदैवत ऋक्षे मघानक्षत्रे जाते सति महती श्राद्धलक्षणा पितृपूजा कर्तव्या । स तु कर्ता ज्येष्ठपुत्रवाञ्जीवत्प्रथमपुत्रश्चेद्भवेत्तर्हि तत्र श्राद्धं कुर्वन्पिण्डदानं वर्जयेत् । पिण्डरहितं श्राद्धं कुर्यादित्यर्थः । ज्येष्ठपुत्रीत्यनेन मघाकालिकस्य त्रयोदशीकालिकस्योभयसमवायकालिकस्य च पिण्डदानस्य ज्येष्ठपुत्रविनाशकत्वलक्षणो दोषः सूचितः ।

तत्र महाभारतम्--

"संक्रान्तावुपवासेन पारणेन च भारत ।
मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति" इति ॥

कृत्यरत्ने गार्ग्यः--

"पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् ।
वर्जयित्वा प्रोष्ठपदीं यथा दर्शस्तथैव सा" इति ॥

 अस्य समूलत्वं विमृश्यम् ।

"संक्रान्तावुपरागे च पर्वोत्सवमहालये ।
निवपेदत्र पिण्डांस्त्रीन्" ॥

 इति प्रजापतिवाक्यं तु माधवादिभिरलिखनान्निर्मूलम् । समूलत्वेऽपि न पिण्डदानविधायकं, किंत्वशक्तस्यैकपार्वणश्राद्धविधायकत्वेनोपपादनीयम् ।

 स्मृतिरत्नावल्याम्--

"पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ।
श्राद्धं कुर्यात्प्रयत्नेन पिण्डनिर्वपणादृते" इति ॥

 संग्रहे--

"नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे ।
गण्डवैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः" इति ॥

 नन्दाः प्रतिपत्षष्ठ्येकादश्यः । अश्वः सप्तमी । कामस्त्रयोदशी । आरो भौमः । भृगुः शुक्रः । अग्निपितृकालभानि कृत्तिकामघाभरण्यः । पातो व्यतीपातः ।

नारदः--

"कृत्तिकासु च नन्दासु भृगुवारे त्रिजन्मसु ।
पिण्डदानं न कर्तव्यं कुलक्षयकरं यतः" इति ॥

 त्रिजन्मानि जन्मनक्षत्रं दशमैकोनविंशे च नक्षत्रे

 यत्तु--"कर्तुश्च पुत्रदाराणां त्रिजन्मर्क्षाणि वर्जयेत्" ।  इति तत्र मूलं चिन्त्यम् । स्मृतिरत्नावल्यां स्मृत्यन्तरे--

"भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्" इति ॥

 वसिष्ठः--

"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्" इति ॥

 नारदः--

"त्रिजन्मसु त्रिपादेषु नन्दासु भृगुवासरे ।
धातृपौष्णभयोः श्राद्धं न कर्तव्यं कुलक्षयात्" इति ॥

 कृत्तिकापुनर्वसूत्तरा(र)फल्गुनीविशाखोत्तराषाढापूर्वा (र्व)भाद्रपदास्त्रिपादनक्षत्राणि । धातृनक्षत्रं रोहिणी । पौष्णं रेवती ।

 वृद्धगार्ग्यः--

"प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा ।
यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति" इति ॥

 प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्रर्क्षं मघाः । अत्र सर्वेऽपि श्राद्धशब्दाः पिण्डदानपराः । अन्यथा विधिवैयर्थ्यापत्तेः । योऽयं च तिथिवारनक्षत्रनिषेधः स तत्तत्प्रयुक्तश्राद्धेष्वेव बोध्यः । न तु तत्र पतितेषु नित्येषु ।

 अत एवोक्तं विश्वरूपनिबन्धे--

"तिथिवारप्रयुक्तो यो निषेधः समुदाहृतः ।
स श्राद्धे तन्निमित्ते स्यान्नान्यश्राद्धे कदाचन" इति ।

 अत्र तिथिवारग्रहणं नक्षत्रोपलक्षणम् ।

 अत्रापवादः प्रयोगपारिजाते हेमाद्रौ च--

"अमापाते भरण्यां च द्वादश्यां पक्षमध्यगे ।
तिथिवारं च नक्षत्रं योगं च न विचारयेत्" इति ॥

 इदं निषेधतत्प्रतिप्रसवपर्यालोचनं महालयपक्षान्तर्गततिथौ सकृन्महालयासंभवेन यदा तिथ्यन्तरेऽनुष्ठानं तदैव । महालयान्तर्गतमृततिथौ सकृन्महालयानुष्ठानं मुख्यं तत्र न निषेधः ।

"अशक्तः पक्षमध्ये तु करोत्येकदिने यदि ।
निषिद्धेऽपि दिने कुर्यात्पिण्डदानं यथाविधि" इतिकात्यायनोक्तेः ।

 अत एव निषेधप्रयोजकनक्षत्रादियुक्तायामपि तिथौ सकलदेशीयशिष्टानामनुष्ठानम् ।

 अत्रिः--

"महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि ।
तीर्थेऽपि निर्वपेत्पिण्डान्रविवारादिकेष्वपि" इति ॥

 विवाहादिनिमित्तकपिण्डदाननिषेधकालास्तु विवाहोत्तरवर्ज्यपदार्थनिरूपण उक्ताः ।

अथान्वारोहणे निर्णयः ।

तत्र लौगाक्षिः--

"मृताहनि समासेन पिण्डनिर्वपणं पृथक् ।
नवश्राद्धं तु दंपत्योरन्वारोहण एव तु" इति ॥

 अस्यार्थः---अन्वारोहणेन सहगमनेन निमित्तेन दंपत्योर्मृततिथेरेकत्वे पिण्डनिर्वपणं श्राद्धं समासेन तन्त्रेण । यथा द्विपितृकश्राद्धे द्वयोरेकः पिण्डो विप्रश्च, एवमत्रापि द्वावुद्दिश्यायुग्मब्राह्मणभोजनं पिण्डनिर्वपणमपि द्वावुद्दिश्य । एवमेकदैव श्राद्धद्वयकरणात्समासः । अत्र वैश्वदेविकमपि आरादुपकारकत्वात्तन्त्रेणैव । मृततिथेर्भेदे तु न समासेन श्राद्धं किं तु पृथगेव । वार्षिके समासविधानादन्यत्र सर्वत्र पृथक्त्वे प्राप्ते नवश्राद्धमेव पृथगिति परिसंख्ययाऽन्यत्र पृथगुक्तेष्वपि वार्षिकषोडशश्राद्धतीर्थसपिण्डनान्वष्टक्यादिषु समास एव । समासविधिबलादेव ज्येष्ठपुत्रस्य कर्तृत्वे सपत्नमातुरन्वारोहणे तत्पुत्रे सत्यपि तद्वार्षिकादिकमविभक्तः सापत्नपुत्र एव ज्येष्ठः कुर्यान्नौरसः । वक्ष्यमाणपृथ्वीचन्द्रादिमते तु--औरस एव मातुः पृथक्कुर्यादिति । एवं बह्वीष्वपि मातृषु ज्ञेयम् ।

यत्तु गार्ग्यः--

"एकचित्यां समारूढौ दंपती निधनं गतौ ।
पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक्" ॥

 इति, अत्रत्यश्राद्धशब्दस्य ब्राह्मणभोजनपिण्डदानरूपप्रधानवाचित्वात्तन्मात्रपृथक्त्वोक्त्याऽन्येषामारादुपकारकाङ्गानां(णां) तन्त्रत्वे प्रसिद्ध ओदनस्याप्यारादुपकारकाङ्गत्वात्तन्त्रत्वं सिध्येत्तन्मा भूदित्येतदर्थमोदनस्य पार्थक्यं विधीयते । एकः पृथक्शब्दस्तिथिभेदबोधकः । एतन्नवश्राद्धविषयम् ।

यत्तु भृगुः--

"या समारोहणं कुर्याद्भर्तुश्चित्यां पतिव्रता ।
तां मृताहनि संप्राप्ते पृथक्पिण्डेन योजयेत् ॥
प्रत्यब्दं च नवश्राद्धं युगपत्तु समापयेत्" ।

 इति, तद्येषां वार्षिकमेकोद्दिष्टमुक्तं तद्विषयम् । नवश्राद्धं युगपदिति दर्शे वर्गद्वयवदेकतन्त्रेण न पृथगित्यर्थमाह हेमाद्रिः । एतन्मृततिथेर्भेदविषयमिति पृथ्वीचन्द्रोदयदेवयाज्ञिकनिर्णयामृताद्याः । पराशरमाधवस्तु--गार्ग्यभृगुवचनाभ्यां लौगाक्षिवाक्ये समासवचनेन पाकादितन्त्रै[८३]क्यविधानाद्दर्शे वर्गद्वयवत्पृथक्श्राद्धं कुर्यान्नवश्राद्धं च तथेत्याह । पृथ्वीचन्द्रोदयस्तु--द्वयोरेकपिण्डदानं लौगाक्षिवचनसिद्धमापद्विषयं पृथक्पिण्डदानं तु मुख्यः कल्पः ।  तदाह वृद्धपराशरः--

"आरुह्य भर्तुश्चितिमङ्गना या प्राप्नोति मृत्युं खलु सत्त्वयुक्ता ।
एकादशाहे तु तयोर्विधेयं श्राद्धं पृथक्स्वर्गमपेक्ष्य सद्भिः ॥
एकत्वमिच्छन्ति मतिप्रहीणा एकादशाहादिषु ये तु नार्याः ।
ते स्वर्गमार्गं विनिहत्य कुर्युः स्त्रीसत्त्वघातान्नरकाधिवासम् ॥

भर्त्रा सह मृता या तु नाकलोकमभीप्सती ।
साऽर्हेच्छ्राद्धे पृथक्पिण्डान्नैकत्वं तु स्मृतं तयोः ॥
पृथगेव हि कर्तव्यं श्राद्धमैकादशाहिकम् ।
यानि श्राद्धानि सर्वाणि तान्युक्तानि पृथक्पृथक्" इति ॥

विश्वादर्शेऽपि--

"मातुर्गयाष्टकावृद्धिमृताहेषु महालये ।
श्राद्धं कुर्यात्पृथग्दैवतन्त्रं त्वनुगतावपि ॥
एकचित्यां समारुह्य मृतयोरेकबर्हिषि ।
पित्रोः पिण्डान्पृथग्दद्यात्पिण्डं त्वापत्सु तत्सुतः" ॥

 इत्यत्रिस्मृतरित्याहुः(ह) ।

यत्तु षड्त्रिंशन्मते--

"एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ।
न पृथक्पिण्डदानं तु तस्मात्पत्नीषु विद्यते"

 इति, तद्दर्शादिपरम् ।

चन्द्रप्रकाशे तु--

"एकचित्यां समारूढौ दंपती प्रमृतौ यदि ।
पृथक्श्राद्धं प्रकुर्वीत पत्युरेव क्षयेऽहनि" इति ॥

 सहगमने सर्वत्र श्राद्धार्थमेकः पाक इत्याह मदनरत्ने प्रचेताः--

"एकचित्यां समारूढौ म्रियेते दंपती यदि ।
तन्त्रेण श्रपणं कुर्यात्पृथक्पिण्डं तु निर्वपेत्" इति ॥

 एतत्सर्वं तिथिभेदविषयम् ।

तिथ्यैक्ये तु--

"एकचित्यधिरोहे तु तिथिरेकैव जायते ।
एकपाकेन पिण्डैक्ये द्वयोर्गृह्णीत नामनी" इति स्मृत्यन्तरात् ।
"अन्वारोहे तु नारीणां पत्युश्चैकोदकक्रिया ।
पिण्डदानक्रिया तद्वच्छ्राद्धं प्रत्याब्दिकं तथा ॥
नवश्राद्धानि सर्वाणि सपिण्डीकरणं पृथक् ।
एक एव वृषोत्सर्गो गौरेका तत्र दीयते" इति संग्रहवचनाच्च ॥

 वार्षिकं तु तिथिभेदे पृथगेवेति निर्णीतं प्राक् । अत्र भर्तुराशौचमध्येऽन्य दिनेऽनुगमने पतिमरणदिनगणनयाऽऽशौचपिण्डदाने । एकादशाहादिकार्यं भिन्नं, नात्र पक्षिणीवृद्धिः ।

"मृतं पतिमनुव्रज्य पत्नी चेदनलं गता ।
न तत्र पक्षिणी कार्या पैतृकादेव शुध्यति ॥
पुत्रोऽन्यो वाऽग्निदस्तस्यास्तावदेवाशुचिस्तयोः ।
ततः श्राद्धं सपिण्डं च युगपत्तु समापयेत्" इति स्मृत्यन्तरोक्तेः ।
"यदा नारी विशेदग्नौ यस्य वा प्रियवाञ्छया ।
तदाऽऽशौचं विधातव्यं भर्त्राशौचक्रमेण हि" इतिलघुहारीतोक्तेश्च ।

 भर्त्राशौचोत्तरमन्वारोहणे तु त्र्यहमाशौचम् ।

"ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी ।
त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शाश्वत[म्]" ॥

 इति ब्राह्मोक्तेरिति पृथ्वीचन्द्रापरार्कौ । एतदन्यारोहण एव न त्वेकचितावित्यन्ये । एतदसवर्णापरमित्यपरं । ऋग्वेदवाद इमा नारीरविधवा इत्यादिः । स्मार्तगौडास्तु-- देशान्तरमृते पत्यौ साध्वी तत्पादकाद्वयम्" इत्युपक्रम्य ब्राह्मे त्र्यहाशौचे तु निर्वृत्तेरित्युक्तेर्भर्त्राशौचोत्तरमन्वारोहणे त्र्यहम् । सहगमने तु पूर्णदशाहादि ।

 पिण्डास्तु दशापि सहैव ।

"संस्थिते पतिमालिङ्ग्य प्रविशेद्या हुताशनम् ।
तस्याः पिण्डादिकं ज्ञेयं क्रमशः पतिपिण्डवत् ॥
अन्विता पिण्डदानं च यथा भर्तृदिने दिने ।
तदन्वारोहणी यस्मात्तस्मात्सा नाऽऽत्मघातिनी" इति व्यासोक्तेः ।

 पृथक्चितौ तु भर्त्राशौचमध्ये तदूर्ध्वं वा सत्यां त्र्यहेण दश पिण्डाः ।

"अन्वितायाः प्रदातव्या दश पिण्डास्त्र्यहेण तु ।
स्वाम्याशौचे व्यतीते तु तस्याः श्राद्धं प्रदीयते" इति पैठीनसिवचनात् ।

 भर्त्राशौचोत्तरं मृतौ तु चतुर्थेऽह्नि श्राद्धम् । युद्धहतस्य सद्यःशौचे त्वन्वारोहणे त्रिरात्रम् । एकचितौ तु संस्थितं पतिमिति प्रागुक्तव्यासोक्तेः सद्यः--शौचमित्याहुः । अन्यसपिण्डाशौचमध्ये विदेशमृतान्वारोहणं स्वशक्यमेव शुचिताया अङ्गत्वादिति । अत्र विशेषो हेमाद्रौ स्मृत्यन्तरे--

"माता मङ्गलसूत्रेण म्रियते यदि तद्दिने ।
उद्दिश्य विप्रपङ्क्तौ तां भोजयेच्च सुवासिनीम्" इति ॥

अथ श्राद्धसंपाते निर्णयः ।

 तत्र भृगुः--

"एककाले गतासूनां बहूनामथवा द्वयोः ।
तन्त्रेण श्रपणं कुर्याच्छ्राद्धं चैव पृथक्पृथक् ॥
पूर्वकस्य मृतस्याऽऽदौ द्वितीयस्य ततः परम् ।
तृतीयस्य ततः कुर्यात्संनिपाते त्वयं क्रमः" इति ॥

 यदा पितृमातृभ्रात्राद्यनेकसांवत्सरिकाणां युगपत्संनिपातस्तदा पितुः श्राद्धं ततो मातुस्ततश्चान्येषामिति प्रधानोपसर्जनतरतमभावेन सांवत्सरिकं कुर्यादित्यर्थः । पूर्वकस्य संबन्धासन्नस्य द्वितीयस्य ततो दूरसंबन्धस्य तृतीयस्य ततोऽपि दूरतरस्येत्येवं संबन्धानुसारेण क्रमेण सर्वेषामेषां सांवत्सरिकश्राद्धं कुर्यादित्यर्थः । ऋष्यशृङ्गेणाप्ययमेवार्थ उक्तः--

"भवेद्यदि सपिण्डानां युगपन्मरणं तदा ।
संबन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत्" इति ॥

 एतच्च श्राद्धं तेषामपुत्रत्वे ।

 अत्रिः--

"बहूनामथवा द्वाभ्यां श्राद्धं चेत्स्यात्समेऽहनि ।
तन्त्रेण श्रपणं कृत्वा पृथक्श्राद्धानि कारयेत्" इति ॥

 कार्ष्णाजिनिः--

"पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा ।
पितृपूर्वं पुनः कुर्यादन्यत्राऽऽसत्तियोगतः" इति ॥

 अत्र पितृपूर्वमित्यनेन मातुः पूर्वं मरणेऽपि पितृश्राद्धं पूर्वं पश्चान्मातुः श्राद्धमित्युच्यते । विप्रकृष्टस्य पूर्वं मरणे संनिकृष्टस्य पश्चान्मरणेऽपि संनिकृष्टस्याऽऽदौ पश्चाद्विप्रकृष्टस्येति पूर्वोक्तार्थकं ज्ञेयम् ।

 पार्वणैकोद्दिष्टयोर्युगपत्प्राप्तावाह जाबालिः--

"यद्येकत्र भवेयातामेकोद्दिष्टं च पार्वणम् ।
पार्वणं त्वभिनिर्वर्त्य एकोद्दिष्टं समाचरेत्" इति ॥

 अत्रैकोद्दिष्टमभिनिर्वर्त्य पार्वणं समाचरेदित्यन्वयो युक्तः । क्रमानुरोधेन कालबाधस्य सिद्धान्तविरुद्धत्वात् । यत्रैकेन पाकेनानेकश्राद्धानुज्ञा तत्र दर्शादौ पितृश्राद्धमातामहश्राद्धवत्तन्त्रेणैवानुष्ठानमुक्तं गारुडे--

"एकेनैव तु पाकेन श्राद्धानि कुरुतेऽत्र हि ।
विकिरं त्वेकतः कुर्यात्पिण्डान्दद्यात्पृथक्पृथक्" इति ॥

 एवं च यदाऽनेकोद्देश्यकानामपि श्राद्धानां कालैक्ये तन्त्रेणानुष्ठानं तदा किं वक्तव्यमेकस्मिन्कालेऽनेकनिमित्तसमवाय एकोद्देश्यकश्राद्धानां तन्त्रेणानु ष्ठाने । यत्तु 'नैकस्मिन्क्रियमाणे तु नाना कर्म समाचरेत्' इति हेमाद्रौ वचनं तत्सहैवानुष्ठाननिषेधकं न तु तन्त्रस्येति बोध्यम् । अत एव हेमाद्रिणाऽमावास्यानिमित्तकं संक्रान्तिनिमित्तकं युगादिनिमित्तकं चेत्येतानि श्राद्धानि तन्त्रेण करिष्य इत्येतादृशं संकल्पवाक्यमुक्तम् । प्रसङ्गे तु महातन्त्रवतोऽमाश्राद्धादेरेवोल्लेखो न प्रसङ्गिनः संक्रान्त्यादिश्राद्धस्य । वस्तुतस्तु अमाश्राद्धे विशेषग्रहणात्प्रसङ्ग एवोचितः । जाबालिवचनमप्यत्रास्ति--

"श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने ।
नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमोदयम्" इति ॥

 कात्यायनवचनमपि--

"द्वे बहूनि निमित्तानि जायेरन्नेकवासरे ।
नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात्" इति ॥

 नैकः श्राद्धद्वयं कुर्यादिति निषेधस्तु श्राद्धं कृत्वा तु तस्यैवेत्येकवाक्यतयैकोद्देश्यकैककालिकैककर्तृकश्राद्धस्यैव पुनःप्रयोगनिषेधकमिति न तद्विरोधोऽपि । अत एव हेमाद्रिणोक्तम्--उदाहृतनिषेधस्तु श्रद्धाजडारभ्यमाणैकनिमित्तकश्राद्धावृत्तिविषय इत्युक्तम्(इति) । यत्तु त्रिप्रायमेके श्राद्धमुपदिशन्तीति धर्मसूत्रवचनं [ तत् ] श्राद्धं श्राद्धसंबन्धि यावदङ्गजातं त्रिवारं कर्तव्यं न तु स्वातन्त्र्येण सर्वं श्राद्धं त्रिवारं कर्तव्यमित्येतदभिप्रायेणैव नेयं विरोधपरिहाराय ।

कालादर्शे--

"नित्यस्य चोदकुम्भस्य नित्यमासिकयोरपि ।
नित्यस्य चाऽऽब्दिकस्यापि दार्शिकाब्दिकयोरपि ॥
युगाद्याब्दिकयोश्चैव मन्त्राद्याब्दिकयोस्तथा ।
प्रत्याब्दिकस्य चालम्ययोगेषु विहितस्य च ॥
संपाते देवताभेदाच्छ्राद्धयुग्मं समाचरेत् ।
निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणम् ॥
पित्रोस्तु पितृपूर्वत्वं सर्वत्र श्राद्धकर्मणि" इति ॥

 अत्र नित्यदर्शयुगादिमन्वाद्यलभ्ययोगश्राद्धेषु सपत्नीकाः पितरो देवताः । उदकुम्भमासिकाब्दिकेषु त्वपत्नीका इति देवताभेद इत्याशयः । यत्र त्वान्वष्टक्यादौ नवदैवत्यविधानात्केवलानामेव पित्रादीनां देवतात्वं तत्राऽऽन्वष्टक्यादिना मासिकाब्दिकयोरपि प्रसङ्गसिद्धिः । एवं सपिण्डकश्राद्धेनापिण्डकस्य श्राद्धस्यापि प्रसङ्गसिद्धिः । देवतैक्ये क्वचिदेकनिमित्तकानुष्ठानेनाप्यन्यनिमित्तकस्य प्रसङ्गतः सिद्धिर्भवति । तदप्युक्तं तत्रैव--

"नित्यदार्शिकयोश्चोदकुम्भमासिकयोरपि ।
दार्शिकस्य युगादेश्च दार्शिकालभ्ययोगयोः ॥
दार्शिकस्य च मन्वादेः संपाते श्राद्धकर्मणः[८४]
प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत्" इति[८५]

 इतरस्याल्पतन्त्रस्यापि सिद्धेः, उत्तरं महातन्त्रमाचरेदित्यर्थः ।

 स्मृतिसंग्रहे--"काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति" इति ।

 दर्शे वार्षिकं चेत्तदा पूर्वं वार्षिकं कृत्वाऽनन्तरं पिण्डपितृयज्ञो दर्शश्राद्धं चेति क्रमः ।

"दर्शे क्षयाहे संप्राप्ते कथं कु[८६]र्वन्ति याज्ञिकाः ।
आदौ क्षयाहं निर्वर्त्य पश्चाद्दर्शो विधीयते" ॥

 इति स्मृतिसारवचनादिति निर्णयप्रदीपे[८७] । केचित्तु--एतद्वचने मूलाभावात्, 'पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः' इति दर्शश्राद्धे पिण्डपितृयज्ञानन्तर्यस्याऽऽब्दिकेऽप्यतिदेशप्राप्तेः पिण्डपितृयज्ञानन्तरं वार्षिकं ततो दर्शश्राद्धमिति । निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणमिति कालादर्शोक्तिरप्यत्रानुकूला । सर्वान्प्रत्यैकरूप्याभावात्क्षयाहनिमित्तस्यानियतत्वम् । ([८८] सांवत्सरिकमहालयदर्शानां संपातेऽल्पत्वान्निमित्तानियतत्वादा(च्चाऽऽ)दौ मध्याह्न एव सांवत्सरिकं श्राद्धं कृत्वा ब्राह्मणविस्तारवर्जं महालयं कृत्वा पिण्डपितृयज्ञं कृत्वा दर्शश्राद्धं कुर्यात् । सांवत्सरिकात्पूर्वं पिण्डपितृयज्ञ इति मतं(ते) तदनुसारेण पूर्वं कार्यः । अत्र सर्वश्राद्धपाकभेदः केवलौदनमात्रभेदो वा । दर्शश्राद्धमत्र सांकल्पविधिनैव कार्यमन्यथाऽपराह्णे कर्मचतुष्टयासंभवात् । मासिकश्राद्धस्य दर्शश्राद्धाभे(द्भे)दस्य साधितत्वात्तस्यापि सर्वामावास्यास्वनुष्ठाने पिण्डपितृयज्ञेन सह चतुर्णां श्राद्धानामनुष्ठानासंभवात्सांवत्सरिकस्य दर्शस्य च सांकल्पविधिनैवानुष्ठानम् । ) एवं मासिकादिष्वपि ज्ञेयम् ।

"प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि" ।

 इति सर्वातिदेशात् । एतच्च देवताभेद[८९] इत्याहुः । इति संपातनिर्णयः ।

अथ सामान्यतः श्राद्धतिथिनिर्णयः ।

"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम् ।
त्रीनुद्दिश्य तु यच्छ्राद्धं पार्वणं मुनयो विदुः" ॥

 इतिवचनात्त्रिपुरुषोद्देश्यकं श्राद्धं यस्यां तिथौ विहितं सा चेद्दिनद्वयसंबन्धिनी तदा याऽपराह्णसंबन्धिनी सा ग्राह्या ।

 तथा च हेमाद्रौ निगमः--

"पूर्वाह्णिकास्तु तिथयो देवकार्ये फलप्रदाः ।
अपराह्णिकास्तथा ज्ञेयाः पितृकार्ये शुभप्रदाः" इति ॥

 यदा तु दिनद्वयेऽप्यपराह्णसंबन्धिनी तदा पूर्वा ।

तदाह तत्रैव मनुः--

"यस्यामस्तं विनिर्याति पितरस्तामुपासते ।
सा पितृभ्यो यतो दत्ता ह्यपराह्णे स्वयंभुवा" इति ॥

 यस्यामपराह्णसंबन्धे सत्यस्तमयानुवृत्तिः सा पितृकार्ये प्रशस्ता न त्वनस्तमयसंबन्धिनीत्यर्थः ।

अत एवाऽऽह हारीतः--

"अपराह्णः पितॄणां तु याऽपराह्णानुयायिनी ।
सा ग्राह्या पितृकार्ये तु न पूर्वाह्णानुयायिनी" इति ॥

 यदा दिनद्वयेऽप्यपराह्णसंबन्धो नास्ति तदा पूर्वैव ।

 तदुक्तं तत्रैव नारदीये--

"तिथेः प्रान्तं सुराख्यं हि उपोष्यं कवयो विदुः ।
पित्र्यं मूलं तिथेः प्रोक्तं शास्त्रज्ञैः कालकोविदैः ॥
पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ।
न तत्रौदयिकी ग्राह्या दैवे ह्यौदयिकी तिथिः" इति ॥

 गोभिलोऽपि--"सायाह्नव्यापिनी या तु पार्वणे सा उदात्दृता" इति ।

 ननु 'सायाह्नस्त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः' इति सायाह्नस्य निषेधादपराह्णे तु निमित्तभूततिथ्यभावेऽपि तत्रानुष्ठाने 'कर्मणो यस्य यः कालः' इति वचनविरोध इति चेन्न । 'विधिः पूज्यतिथौ तत्र निषेधः कालमात्रकः' इति वचनाद्वचनान्तरबोधितपूज्याया एव तिथेः कर्मकाले ज्योतिःशास्त्रप्रसिद्धत्वाभावेऽपि साकल्यवचनबोधिततिथिसत्त्वमादायैव कर्मकालव्याप्तिशास्त्रप्रवृत्तेः । अत एव 'पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते' इत्यादिवचनानां सार्थक्यम् ।

"तिथ्यादिषु भवेद्यावान्ह्रासो वृद्धिः परेऽहनि ।
तावान्ग्राह्यः स पूर्वेद्युरदृष्टेऽपि स्वकर्मणि" ॥

 इति वचनादधिककालकल्पनयाऽपराह्णेऽपि निमित्तभूततिथिसंभवादि[९०] सिद्धान्तयतां हेमाद्र्यादीनामुक्तार्थ एव स्वारस्याच्च । इदं च तिथिक्षये । तिथिवृद्धौ तिथिसाम्ये चोत्तरा ग्राह्या ।

तथा च व्या[९१]घ्रः--

"खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् ।
खर्वदर्पौ परौ पूज्यौ हिंसा स्यात्पूर्वकालिकी" इति ॥

 खर्वः साम्यम् । दर्पो वृद्धिः । हिंसा क्षयः । उभयत्र साम्येनैकदेशव्याप्तावप्येवमेव । यदा तु वैषम्येणोभयत्रैकदेशव्याप्तिस्तदा यत्राधिककालव्यापिनी सैव ग्राह्येति । एकोद्दिष्टश्राद्धे तु मध्याह्नव्यापिनी तिथिर्ग्राह्या ।

तथा च वृद्धगौतमः--

"मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत् ।
अपराह्णव्यापिनी तु पार्वणे सा तिथिर्भवेत्" इति ॥

 हारीतः--

"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः ।
पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्" इति ॥

 मनुः--

"पूर्वाह्णे दैविकं श्राद्धमपराह्णे तु पार्वणम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्" इति ॥

 दैविकं श्राद्धं हेमाद्रौ पा[९२]राशरः--

"देवानुद्दिश्य क्रियते यत्तद्दैविकमुच्यते ।
तन्नित्यश्राद्धवत्कुर्याद्द्वादश्यादिषु यत्नतः" इति ॥

 अत्र कर्मणो यस्य यः काल इति वचनात्कर्मकालव्यापिनी तिथिर्ग्राह्या ।

इति सामान्यतः श्राद्धतिथिनिर्णयः ।

अथ दर्शश्राद्धतिथिनिर्णयः ।

तत्र शातातपः[९३]--

"दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।
अपराह्णे पितॄणां तु तत्र दानं प्रशस्यते" इति ॥

 अत्र विशेषमाह कात्यायनः--

"पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयांशे नातिसंध्यासमीपतः" इति ॥

 राजनि चन्द्रे क्षीणे । त्रेधाविभक्तदिनतृतीयभागेऽपराह्ण इति हेमाद्रिः । सायाह्नात्प्राचीनोऽपराह्ण एवाभिप्रेतः । ईषन्न्यूनोऽपराह्णः सायाह्नसहितस्तृती यांश इत्यनेनोच्यते । तत्र नातिसंध्यासमीपत इत्यनेन 'सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्' इति यमवचनेन त्रिमुहूर्तात्मकस्य सायाह्नकालस्य श्राद्धकालत्वेन प्रतिषिद्धस्यैव निषेधः । तेनार्थात्तृतीर्येऽश इत्यस्यैकादशद्वादशमुहूर्तयोस्तत्कालत्वं सिद्धं भवति ।

 तत्रोपक्रमकालेऽमावास्याया अप्रवृत्तावपि--

"यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः ।
सा तिथिः सकला ज्ञेया पितृकर्मणि सूरिभिः" ॥

 इति साकल्यप्रयुक्ततत्सत्त्वमादायाप्यनुष्ठानम् ।

 एतदभिप्रायेणैव कात्यायन आह--

"यदा चतुर्दशी यामं तुरीयमनुपूरयेत् ।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते" इति ॥

 दिनद्वयेऽपराह्णाव्यापित्वे निरग्निकानामुत्तरा साग्निकानां पूर्वा ।

तथा च जाबालिः-- "अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता" इति ॥

 दिनद्वयेऽपराह्णव्यापित्वे शिवराघवसंवादे--

"अमावास्या तु या हि स्यादपराह्णद्वये समा ।
क्षये पूर्वोत्तरा वृद्धौ साम्येऽपि च परा स्मृता" इति ॥

 अनेन वचनेन द्वितीयापराह्णस्पर्शेऽपि तिथिक्षयेऽपि च निरग्न्यादीनामुत्तरस्या एव नियमनात्तिथेः साम्ये वृद्धौ चोत्तराग्रहणमर्थसिद्धम् ।

 उक्तं च लौगाक्षिणाऽपि--

"सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि ।
स्त्रीभिः शूद्रैः कुहूः कार्या तथा चानग्निकैर्द्विजैः" इति ॥

व्यासेनाप्युक्तम्--

"दृष्टचन्द्रा सिनीवाली कार्या विप्रैस्तु साग्निकैः ।
नष्टचन्द्रा कुहूः कार्या शूद्रैर्विप्रैरनग्निकैः" इति ॥

बौधायनेनाप्युक्तम्--

"सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि ।
साग्निकैस्तु सिनीवाली कुहूः कार्या निरग्निकैः" इति ।

 यानि तु--

"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा ।
श्राद्धकर्मणि ये कुर्युस्तेषामायुः प्रहीयते ॥
मध्याह्नात्परतो यत्र चतुर्दश्यनुवर्तते ।
सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ॥

मध्याह्नाद्या त्वमावास्या परस्तात्संप्रवर्तते ।
भूतविद्धा तु सा ज्ञेया न तु पञ्चदशी भवेत्" ॥

 इति हेमाद्रौ कार्ष्णाजिनिबौधायनवचनानि "भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम्" इत्येकवाक्यतयाऽपराह्णे चतुर्दशीनिषेधकानि, तान्याहिताग्निभिन्नविषयाण्युदाहृतवचनविरोधात् ।

"अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता" ॥

 इति माधवाद्युदाहृतजाबालिवचनेनापराह्ण(ह्णा)स्पर्शेऽपि साग्निकानां चतुर्दशीविद्धाया अपि सिनीवाल्या एव नियमनाच्च । क्वचित्तु अपराह्णद्वयव्यापीतिपाठः स लेखकप्रमादात् । संपूर्णापराह्णव्यापित्वस्य वृद्ध्येकसाध्यत्वेन तिथिक्षय इत्यस्य हेतुत्वात्संगतेः । अत एव दिनद्वयेऽप्यपराह्णं न स्पृशति तदा साग्न्यनग्निव्यवस्थेति माधवः । एवं च साग्नीनां सिनीवाली निरग्नीनां कुहूरिति व्यवस्थया साग्निकानां तैत्तिरीयाणामपि सिनीवालीग्रहणे प्राप्ते तैत्तिरीयविषयेऽपवादमाह हारीतः--

"त्रिमुहूर्ताऽपि कर्तव्या पूर्वा खर्वाऽपि बह्वृचैः ।
कुहूरध्वर्युभिः कार्या यथेष्टं सामगीतिभिः" इति ॥

 अध्वर्युशब्दस्तैत्तिरीयपरः ।

"सिनीवालीमुपोष्याथ कृत्वेष्टिं चापरेऽहनि ।
पिण्डयज्ञं ततः कुर्युः स्वकाले तैत्तिरीयकाः" ॥

 इति स्मृत्यन्तरवचनेन तैत्तिरीय उपसंहारात् ।

"बह्वृचैः प्रथमा कार्या तैत्तिरीयैस्तु या कुहूः ।
यथेष्टं सामगैः कार्या दर्शश्राद्धे तिथिः सदा" ॥

 इति स्मृत्यन्तरवचनसंवादाच्च ।

"दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते" ॥

 इति वचनमपि तैत्तिरीयातिरिक्तपरमेव । निरग्नीनां सर्वत्र भूतविद्धानिषेधे प्राप्तेऽभ्यनुज्ञामाह हेमाद्रिमाधवयोर्जाबालिः--

"प्रतिपत्स्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धैव सा कार्या पित्र्ये कर्मणि सर्वदा" इति ॥

 प्रतिपदि यामद्वयपरिमितेत्यर्थः ।

"अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः" ॥

 इति हेमाद्र्युदाहृतमात्स्योक्तकुतपापर्धपर्यन्तेति यावत् । अत एव हेमाद्रिमाधवयोर्बौधायनेन

"घटिकैकाऽप्यमावास्या प्रतिपत्सु न चेत्तदा ।
भूतविद्धैव सा ग्राह्या दैवे पित्र्ये च कर्मणि" ॥

 इति कुतपोत्तरार्धव्यापित्वाभाव एव भूतविद्धा विहिता । अत एव निरग्निकानां कुतपव्याप्त्यैव निर्णयमाह हेमाद्रिमाधवयोर्हारीतः--

"भूतविद्धाऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिर्ग्राह्या कुतपकालिकी" इति ॥

 दिनद्वयेऽपि कुतपकालव्याप्तौ क्षये पूर्वा वृद्धिसाम्ययोः परा ।

 तदाह हेमाद्रौ प्रचेताः--

"सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि ।
स्यातां ते चेत्तु मध्याह्ने श्राद्धादि स्यात्कथं तदा ॥
तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूः स्मृता ।
साम्येऽपि च कुहूर्ज्ञेया वेदवेदाङ्गवेदिभिः" इति ॥

कात्यायनोऽपि--

"क्षीयमाणाममावास्यां प्रथमेऽहनि लक्षयेत् ।
वर्धमानाममावास्यां द्वितीयेऽहनि लक्षयेत्" इति ॥

 यदैकादशघटिकानन्तरं प्रवृत्ता चतुर्दशी द्वितीयदिने चतुर्दशघटिकापरिमिता तदनन्तरं प्रवृत्ताऽमावास्या प्रतिपदि षोडशघटिका भवति तदा त्रिषष्टिघटिकापरिमितचतुर्दश्यपेक्षया द्विषष्टिघटिकापरिमितामावास्यायाः क्षीयमाणत्वात्पूर्वा ग्राह्या । एवं तिथिप्रवृत्तिवैचित्र्यात्प्रकारान्तरेणापि चतुर्दश्यपेक्षयाऽमावास्याक्षयेऽपि बोध्यम् । यदा तु द्वादशघटिकानन्तरं प्रवृत्ता, उत्तरदिने चतुर्दशघटिका चतुर्दशी द्वितीयदिने षोडशघटिकाऽमावास्या तदा तिथिसाम्यम् । यदा तु पूर्वदिने चतुर्दशघटिकापेक्षया किंचिन्न्यूना चतुर्दशी द्वितीयदिने किंचिदधिकषोडशघटिकाऽमावास्या तदा तिथिवृद्धिः । एवं प्रकारान्तरेणापि वृद्धिसाम्ययोः कुहूरेवेत्यर्थः । कालादर्शे तु--स्यातां ते चेत्तु मध्याह्नादिति पाठः । तत्र ल्यब्लोपे पञ्चमीति मध्याह्नं व्याप्य स्यातामित्यर्थात्तत्राप्युक्त एवार्थः । द्वितीयदिने कुतपानन्तरममाया अभावात्कथं तत्र पार्वणश्राद्धानुष्ठानमिति शङ्कामपाकरोति हेमाद्रिमाधवयोर्हारीतः--

"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि ।
प्रतिपद्यपि कर्तव्यं श्राद्धं श्राद्धविदो विदुः" इति ॥

 वचनापादिताया अमावास्यायाः सत्त्वात्तत्रैवानुष्ठानमिति तात्पर्यम् । अत एव मृताहतिथेर्विहिताया अपराह्णेऽसत्त्वेऽपि साकल्यवचनापादिततिथिसत्त्वादपराह्ण एव श्राद्धानुष्ठानमिति सांवत्सरिकश्राद्धप्रकरणे हेमाद्रिमाधवादिसिद्धान्तः संगच्छते ।

 तस्मात्--

"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा ।
श्राद्धकर्मणि ये कुर्युस्तेषामायुः प्रहीयते" ॥

 इत्याद्युदाहृतकार्ष्ण्याजिन्यादिवचनैर्निरग्निकानां निषिद्धाया भूतविद्धायाः ।

"प्रतिपत्म्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धैव सा कार्या पित्र्ये कर्मणि सर्वदा" ॥

 इत्यादिजाबाल्यादिवचनैरुत्तरदिने कुतपोत्तराव्यापित्व एव पूर्वविद्धाभ्यनुज्ञानात्--"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि" इतिवचनाद्द्वैधाविभक्तदिनस्य कुतपोत्तरार्धादिरूपापराह्णव्यापिन्यमावास्या निरग्निकैः श्राद्धे ग्राह्येति सिद्धम् ।

"आहिताग्नेस्तु यो धर्मो गृह्याग्नेरपि स स्मृतः"

 इति वृद्धप्रवादाद्गृह्याग्निमतामप्ययमेवामावास्यानिर्णयः ।

इति दर्शश्राद्धतिथिनिर्णयः ।

अथ सांवत्सरिकश्राद्धतिथिनिर्णयः ।

 तत्र या मुख्यापराह्णव्यापिनी पूर्वा परा वा सैव ग्राह्या ।

"अपराह्णव्यापिनी या पार्वणे सा तिथिर्भवेत्" ।

 इति वृद्धगौतमवचनात् ।

 मात्स्ये--

"अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
अष्टमे भास्करो यस्मान्मन्दी भवति सर्वदा ।
तस्मादनन्तफलदस्तत्राऽऽरम्भो विशिष्यते ॥
ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते" इति ॥

 तत्रापि पादन्यूनापराह्णान्त्यमुहूर्तस्य चतुर्थप्रहरान्तर्गतत्वाच्चतुर्थप्रहरस्य--

"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः ।
आसुरं तद्भवेच्छ्राद्धं दाता च नरकं व्रजेत्" ॥

 इति निषिद्धत्वात्कुतपमारभ्य मुहूर्तचतुष्टयं पार्वणस्य मुख्यः कालः । यदा दिनद्वये संपूर्णमुख्यापराह्णव्याप्तिस्तदा पूर्वैव ।

तदाह मनुः--

"यस्यामस्तं रविर्याति पितरस्तमुपासते ।
सा पितृभ्यां यतो दत्ता ह्यपराह्णे स्वयंभुवा" इति ॥

 अत्रापराह्णशब्दोऽपराह्णैकदेशपर इति हेमाद्रिः ।

सुमन्तुरपि--

"द्व्यहे तु व्यापिनी चेत्स्यान्मृताहस्य तु या तिथिः ।
पूर्वस्यां निर्वपेत्पिण्डानित्याङ्गिरसभाषितम्" इति ॥

नारदीयेऽपि--

"दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते" इति ॥

 यदा दिनद्वयेऽपि साम्येनैकदेशव्याप्तिस्तदा तिथिवृद्धावुत्तरा तिथिक्षये पूर्वा ।

तदाह बौधायनः--

"अपराह्णद्वयव्यापिन्यतीतस्य च या तिथिः ।
क्षये पूर्वा तु कर्तव्या वृद्धौ कार्या तदोत्तरा" इति ॥

 अत्र क्षयवृद्धी उत्तरतिथिगते ज्ञेये न ग्राह्यतिथिगते । दिनद्वये संपूर्णापराह्णादिव्याप्तेर्वृद्ध्यैकनियतत्वेन । तत्र क्षयोदाहरणम्-–यदा प्रतिपदष्टादशघटिका द्वितीया चतुर्विंशतिर्घटिका तृतीया द्वाविंशतिर्घटिका तदा द्वितीयाश्राद्धं प्रतिपदि कार्यम् । वृद्ध्युदाहरणं यदा प्रतिपद्द्वितीये यथास्थिते तृतीयाऽष्टाविंशतिघटिका तदा द्वितीयायां तदिति माधवादयः । अत्रेदं क्षयोदाहरणं ज्योतिःशास्त्रप्रसिद्ध्या न कदाचिदपि संभाव्यत इति वृद्धिक्षयौ पूर्वतिथ्यपेक्षया ग्राह्यातिथिगतौ ग्राह्याविति केचिन्नवीनाः । तिथिसाम्येऽपि पूर्वैव । यस्यामस्तमिति दर्शं च पौर्णमासं चेत्यनन्तरोदाहृतवचनद्वयात् । अत एव खर्वशास्त्रं तु क्षयाहविषयबहुवाक्यानुरोधात्तद्व्यतिरिक्तविषयमिति हेमाद्रिः संगच्छते । खर्वो दर्प इति क्षयाहव्यतिरिक्तश्राद्धतिथिविषयम् । द्व्यहे तु व्यापिनीत्याद्युदाहृतवचनविरोधादिति मदनरत्नश्च । वैषम्येणोभयापराह्णैकदेशव्याप्तौ तु यत्राधिकापराह्णव्याप्तिः सा ग्राह्या । तदाह माधवीये मरीचिः--

"द्व्यपराह्णव्यापिनी चेदाब्दिकस्य यदा तिथिः ।
महती यत्र तद्विद्धां प्रशंसन्ति महर्षयः" इति ॥

 यदा दिनद्वयेऽप्यपराह्णसंबन्धाभावस्तदाऽपि पूर्वैव । तदाह मनुः--

"न द्व्यहव्यापिनी चेत्स्यान्मृताहस्य यदा तिथिः ।
पूर्वस्यां निर्वपेत्पिण्डानित्याङ्गिरसभाषितम्" इति ॥

 एकोद्दिष्टस्य तु मध्याह्नो मुख्यः कालः ।

"एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्" इतिवचनात् ।
"मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत्" इतिवचनाच्च ।

 अत्र मध्याह्नशब्देन मध्याह्नैकदेशः कुतपरौहिणाख्यमुहूर्तद्वयात्मको गृह्यते ।

 अत एव श्लोकगौतमः--

"आरभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत्" इति ॥

 कुतपपूर्वभाग एवाऽऽरम्भः । तदाह व्यासः--

"कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।
आवर्तनसमीपे वा तत्रैव नियतात्मवान्" इति ॥

 तत्रैव कुतप एव । अत्रापि तिथिद्वैधे पार्वणतिथिवन्निर्णयो ज्ञेयः ।

इति क्षयाहैकोद्दिष्टतिथिनिर्णयः ।

अथाऽऽमश्राद्धकालः ।

तत्र मरीचिः--

"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः ॥
पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्" इति ॥

 तत्रापि संगवकाले कर्तव्यम् ।

"कालात्प्रातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः ।
आमश्राद्धं तत्र कुर्याद्द्विमुहूर्ताऽपि वा भवेत्" इति व्याघ्रपाद्वचनात् ॥

 अयमेव कालो हिरण्यश्राद्धस्यापि । वृद्धिश्राद्धस्य निमित्तानि पारिजाते--

"स्यादाभ्युदयिकं श्राद्धं वृद्धिपूर्वेषु कर्मसु" इति ।

 वृद्धिपूर्वशब्दार्थं स्वयमेव विवृणोति--

"पुंसः सवनसीमन्तचौलोपनयनेष्विह ।
विवाहे चानलाधेयप्रभृतिश्रौतकर्मसु ॥
इदं श्राद्धं प्रकुर्वन्ति द्विजा वृद्धिनिमित्तकम् ।
अन्यैः षोडशसंस्कारश्रावण्यादावपीष्यते ॥
वाप्याद्युद्यापनादौ तु कुर्युः पूर्तिनिमित्तकम्" इति ।

 आश्वलायनः--"युग्मान्वृद्धिपूर्तेष्वयुग्मानितरेषु" इति ।  पुंसवनसीमन्तोन्नयनचौलकर्मोपनयनविवाहा इति पञ्चाग्न्याधेयादीनि च श्रौतानि वृद्धिश्राद्धविषय इत्येके । अन्ये षोडश कर्मसंस्काराः श्रवणाकर्मादयश्च श्रौतानि चेत्याहुः ।

"अनिष्ट्वा तु पितॄञ्श्राद्धे वैदिकं कर्म नाऽऽचरेत्" इति स्मृतेः ।

 वापीकूपतटाकारामाद्युद्यापनादीनि पूर्वश्राद्धस्य विषयः । उभय[त्र]युग्मान्भोजयेदिति । अत्राऽऽश्वलायनः स्मृतिरूपेणाऽऽह--

"कार्यमभ्युदयश्राद्धं श्रौते स्मार्ते च कर्मणि" इति ।

 अन्यैरित्युक्तसंस्कारेभ्योऽन्येषु जातकर्मादिषु तदनावश्यकमितिज्ञापनार्थमिति कौस्तुभे । वृद्धिश्राद्धस्य कालस्तु "प्रातर्वृद्धिनिमित्तकम्" इत्यनेनोक्तो ज्ञेयः । अत्र प्रातःशब्दार्धो गार्ग्येणोक्तो वृद्धिश्राद्धं प्रकृत्य-- 'प्रहरोऽध्यर्धसंयुक्तः प्रातरित्यभिधीयते" इति ।

 आधानाद्यङ्गभूतनान्दीश्राद्धं त्वपराह्णे ।

"नान्दीमुखाह्वयं प्रातराग्निकं त्वपराह्णतः" इति विष्णूक्तेः ।

 एतस्माद्वचनात्पूर्वद्युरेव नान्दीश्राद्धानुष्ठानं युक्तम् । नान्दीश्राद्धपूर्वभावित्वात्पुण्याहवाचनमातृकापूजनयोरपि । द्वितीयदिनेऽनुष्ठीयमाने कर्मान्तःपातित्वं स्यात् । नहि श्रौतकर्ममध्ये स्मार्तानुष्ठानं युक्तम् । गणपतिपूजनं तूभयदिनेऽपि जातकर्मार्थनान्दीश्राद्धं तात्कालिकमेव ।

"पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम् ।
पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः" इत्यत्रिस्मरणात् ॥

 आपस्तम्बसूत्रानुसारिणस्तु संभारस्पर्शोत्तरं नान्दीश्राद्धमाचरन्ति तदुपेक्ष्यमेव । इदं च केषांचित्कर्मणामावृत्तावपि प्रथमप्रयोग एव कर्तव्यं न प्रतिप्रयोगमित्याह च्छन्दोगपरिशिष्टे कात्यायनः--

"अमकृद्यानि कर्माणि क्रियन्ते कर्मकारिभिः ।
प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च ॥
आधानहोमयोश्चैव वैश्वदेवे तथैव च ।
बलिकर्मणि दर्शे च पूर्णमासे तथैव च ॥
नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः ।
एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक्" इति ॥

 असकृत्पुनः पुनः प्रतिदिनं प्रतिमासं प्रत्यब्दं चेति यावत् । एता मातरः । अत्र प्रथमश्लोकोऽपराभ्यामाधानादीनां केषांचिदेव वाऽऽवृत्तावपि नान्दी श्राद्धं नाऽऽवर्तत इत्येतत्परतया व्यवस्थाप्यते । अत एवाऽऽपस्तम्बसूत्रानुसारियाज्ञिकानां विच्छिन्नाग्न्याधाने नान्दीश्राद्धाचारश्चिन्त्य इति नवीना आहुः । आधान इत्यादि श्लोकद्वयं पूर्वोक्तकर्मणामेव विवरणार्थं न पृथग्वाक्यम् । अतो ज्योतिष्टोमादिषु प्रतिप्रयोगं भवत्येव वृद्धिश्राद्धमित्यन्ये नवीनाः । केषांचित्प्रथमप्रयोगेऽपि नैतत्कार्यमित्यप्याह कात्यायनः--

"नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते ।
न सोप्यन्तीजातकर्मप्रोषितागतकर्मसु" इति ॥

 अत्र द्वितीयः पादो हेतुवन्निगमतया प्रथमशेषः । सोप्यन्त्या आसन्नप्रसवायाः सोष्यन्तीमभ्युक्ष्येति कात्यायनोक्तं कर्म । प्रोषितागतकर्म तु प्रवासादेत्याऽऽगतं पुत्रमभिमृशतीति विहितं कर्म । जातकर्माङ्गत्वेन निषेधस्तु च्छन्दोगमात्रविषयः । तत्परिशिष्टगतत्वात्, इति समयोद्योते । तदाऽपि वृद्धिनिमित्तकं पुरुषार्थं ततः पूर्वं भवत्येवेति नवीनाः । इति वृद्धिश्राद्धनिर्णयः ।

अथ प्रायश्चित्तार्थभूतं वैष्णवं श्राद्धम् ।

 तदाह शातातपः--

"विधाय वैष्णवं श्राद्धं सांकल्पं निजकाम्यया ।
धेनुं दद्याद्द्विजाग्र्याय दक्षिणां च स्वशक्तितः" इति ॥

 अत्र विष्णुदेवतया पित्रादिदेवताबाधः । सांकल्पिकत्वाच्चार्घ्यावाहनाग्नौकरणादिविकिरपिण्डदानस्वधावाचनानां बाधः ।

अथ श्राद्धे निषिद्धकालः ।

"रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते" इति ॥

बौधायनः--

"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ।
आसुरं तद्भवेच्छ्राद्धं दाता च नरकं व्रजेत्" इति ॥

 एतच्च सूत्रोक्तमासिकश्राद्धे न प्रवर्तते ।

"पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्" ॥

 इति दर्शानन्तरं मनुना तस्य विहितत्वात् । पिण्डान्वाहार्यकशब्दस्य दर्शश्राद्धपरत्वं तु दर्शोपोद्घातनिरूपणे प्रदर्शितम् । ग्रहणश्राद्धेऽपि नायं निषेधस्तस्यापि विहितत्वात् । एवं पुत्रजन्मनिमित्तकनान्दीश्राद्धेऽपि ।  माधवीये शिवराघवसंवादे--

"प्रातःकाले तु न श्राद्धं प्रकर्वीत कदाचन ।
नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः" इति ॥
"ग्रहादिव्यतिरिक्तस्य प्रक्रमे कुतपः स्मृतः ।
कुतपादथवाऽप्यर्वागासनं कुतपे भवेत्" ॥

 इति माधवोदाहृतशिवराघवसंवादवचनेन गान्धर्वमुहूर्तेऽप्यारम्भस्योक्तत्वेनार्थात्संगवनिषेधः । तथा च संगवकालादूर्ध्वं सायंकालाप्राक्तनोऽनैमित्तिकस्य श्राद्धस्य काल इत्युक्तं भवति । तत्रापराह्णस्य प्राशस्त्यमाह मनुः--

"अथ चैवापरपक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते" इति ॥
"अपराह्णः पितॄणां तु याऽपराह्णानुयायिनी ।
तिथिस्तेभ्यो यतो दत्ता ह्यपराह्णे स्वयंभुवा" ॥

 इत्यादिपूर्वोदाहृतवचनैश्चापराह्णस्य मुख्यकालत्वं प्रतिपाद्यते । मुख्यत्वेन निषिद्धस्यापि सायाह्नस्य गौणकालत्वमाह व्यासः--

"स्वकालातिक्रमे कुर्याद्रात्रेः पूर्वं यथाविधि" इति ।

 चातुर्मास्यान्तर्गतादित्येष्टौ बद्धक्रमेण प्राप्तपूर्वाह्णकालबाध इव मासिकश्राद्धदिन एवानुष्ठेयतया मुख्यकालस्य मासिश्राद्धावरुद्धत्वेनोत्तरभावित्वादत्रापि मुख्यापराह्णकालबाधः । तत्रापि सति संभवे दिनान्त्यघटिकाद्वयतः पूर्वमेव समापनीयम् ।

 यतु--

"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः ।
आसुरं तद्भवेच्छ्राद्धं दाता च नरकं व्रजेत्" ॥

 इतिवचनं श्रा(तच्छ्रा)द्धान्तरेण मुख्यकालस्यानवरोधे । प्रकृते तु मासिकश्राद्धकालस्य मासिश्राद्धेनावरोधानैतद्वचनप्रवृत्तिः । न चैवं तयोरभेद एवास्तु किमेतावताऽऽयासेनेति वाच्यम् । उभयत्रोपात्तब्राह्मणदक्षिणादिवैयर्थ्यापत्त्यादिदोषग्रस्तत्वेन तस्य वक्तुमशक्यत्वात् । न चान्तेवास्यसंबन्धान्ब्रह्मविद इति विधानायानुवाद इति वाच्यम् । तयोर्विशेषयोर्लाघवादत्रैव वक्तुमुचितत्वेन गुणद्वयविधानार्थं पुनः कृत्स्नानुवादेन गौरवस्य दुष्परिहरत्वात् । न च [९४]तयोर्गुणयोर्मासिकश्राद्धे मासिकश्राद्ध[त्व] मिति वाच्यम् । ब्रह्मविदोऽन्तेवास्यसंबन्धानित्येतावतैव तत्सिद्धौ पुनस्तद्दोषतादवस्थ्यात् । अतस्तयो र्भेद एव । सायाह्नस्याप्यतिक्रमे दर्शश्राद्धमासिकश्राद्धयोर्लोप एव । तदर्थं द्वितीयदिन औपासने समस्तव्याहृतिभिराज्याहुतिं हुत्वोपोष्य प्राणायामं च कृत्वा प्राजापत्यद्वयमाचरेत् । केचित्तु शुक्लपक्षे सर्वप्रायश्चित्तमौपासने हुत्वाऽन्तरितश्राद्धं कुर्यात् । तत्राप्यतिक्रमे द्वितीयदर्शपूर्वदिनप्राप्तौ सर्वप्रायश्चित्तं हुत्वोपोष्य प्राणायामं कृत्वा प्राजापत्याचरणं कर्तव्यमिति वदन्ति । एवं महालयादिष्वपि ज्ञेयम् । सांवत्सरिकश्राद्धे सायाह्नस्यातिक्रमे रात्रावपि कार्यम् ।

 'मृताहं समतिक्रम्य चण्डालेष्वभिजायते' इति मरीचिना मृताहातिक्रमे दोषोक्तेः । न च नक्तं श्राद्धं कुर्वीतेतिधर्मसूत्रोक्तो निषेधः सांवत्सरिकश्राद्धव्यतिरिक्तश्राद्धपर इति बहवः । मृताहं समतिक्रम्येति निषेधस्तु बुद्ध्या समतिक्रमे न तु दैवादतिक्रमे । तेन धर्मसूत्रोक्तनिषेधोऽत्राप्यस्त्येवेति केचिद्वदन्ति । अयं च रात्रौ श्राद्धनिषेधो ग्रहणश्राद्धे न । अन्यत्र राहुदर्शनादितिवचनात् ।

अथ श्राद्धविघ्ने निर्णयः ।

 तत्र विप्रस्य निमन्त्रणोत्तरं सूतके मृतकेऽपि वाऽऽशौचाभावः ।

"निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ।
निमन्त्रणाद्धि विप्रस्य स्वाध्यायाद्विरतस्य च ॥
देहे पितृषु तिष्ठत्सु नाऽऽशौचं विद्यते क्वचित्" इति ब्राह्मोक्तेः ॥

कर्तुस्तु विष्णुराह--

"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतके न स्यादनारब्धे तु सूतकम्" इति ॥

 प्रारम्भशब्दार्थस्तेनैवोक्तः--

"प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः ।
नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया" इति ॥

 पाकपरिक्रिया पाकनिष्पत्तिः पाकारम्भो वा । पाकप्रोक्षणमित्यन्ये । माधवीये ब्राह्मेऽपि सद्यःशौचं प्रकृत्य--

"श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत्" इति ।

 मिताक्षरायां स्मृत्यन्तरेऽपि सद्यःशौचं प्रकृत्य--

"यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि" इति ।

 दातृगृहे मरणादौ ब्राह्मे--

"भोजनार्धे तु संभुक्ते विप्रैर्दातुर्विपद्यते ।

यदा कश्चित्तदोच्छिष्टं शेषं त्यक्त्वा समाहिताः ॥
आचम्य परकीयेन(ण) जलेन शुचयो द्विजाः" इति ।

 विपद्यत इत्यत्र गृह इति शेषः । एतच्च श्राद्धविषयमिति हेमाद्रिः । अन्ये तु--अत्र श्राद्धपदाभावाद्विवाहोत्सवयज्ञेष्वित्युपक्रम्य

"भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके ।
अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः" ॥

 इतिषट्त्रिंशन्मतैकवाक्यत्वान्निमन्त्रितेषु विप्रेष्वित्युदाहृतवचनविरोधाच्च विवाहादिविषयमेवेत्याहुः । श्राद्धे तु यद्यपि विष्णुना पाकोत्तरमाशौचाभाव उक्तस्तथाऽपि कर्तुरेव सः । भोक्तुस्तु दोषोऽस्त्येव ।

"अपि दातृग्रहीत्रोश्च सूतके मृतके तथा ।
अविज्ञाते न दोषः स्याच्छ्राद्धादिषु कथंचन ॥
विज्ञाते भोक्तुरेव स्यात्प्रायश्चित्तादिकं क्रमात्" ।

 इति माधवीये ब्राह्मोक्तेः ।

 आदिशब्देनाऽऽशौचं गृह्यते । तच्चाऽऽह विष्णुः--

"ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं
यावत्तेषामाशौचं व्यपगमे प्रायश्चित्तं कुर्यात्" इति ।
यत्तु-- "देहे पितृषु तिष्ठत्सु नाऽऽशौचं विद्यते क्वचित्" ।

 इति ब्राह्मं तच्छ्राद्धकालिकस्य निषेधकं न तूत्तरकालिकस्य ।

यत्तु--

"देये पितॄणां श्राद्धे तु आशोचं जायते यदा ।
आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते" ॥

 इत्यनेनाऽऽशौचानन्तरं कर्तव्यमित्युक्तं तन्मुख्यकालिकश्राद्धोपक्रमात्प्रागाशौचज्ञाने ज्ञेयम् । श्राद्धचिन्तामणौ ज्योतिषे--

"प्रतिसंवत्सरं श्राद्धमाशौचात्पतितं च यत् ।
मलमासेऽपि तत्कार्यमिति भागुरिभाषितम्" इति ॥

 आशौचादाशौचहेतुना । आशौचान्त्यदिनत्वेन निमित्तत्वादित्यर्थः । एतन्मासिकाब्दिकपरम् । अत एव सुदर्शनभाष्ये-- अपरपक्षे पित्र्याणीतिनियमात्कृष्णपक्षश्राद्धलोपे प्रायश्चित्तमेव न तु गौणकाले करणम् । तच्चोपवासः ।

"वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्" इति मनूक्तेरित्युक्तम् ॥

आशौचे तु प्रायश्चित्तमपि न मुख्यकालेऽनधिकारात् ।  आशोचान्तऽसंभव तु व्यासः--

"श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके ।
अमायां तत्प्रकर्तव्यं शुद्धावेके मनीषिणः" इति ॥

 हेमाद्रौ षट्त्रिंशन्मतेऽपि--

"मासिके चाऽऽब्दिके त्वह्नि संप्राप्ते मृतसूतके ।
वदन्ति शुद्धौ तत्कार्यं दर्शेऽपि च विचक्षणाः" इति ॥

गोभिलः--

"देये प्रत्याब्दिके श्राद्धे अन्तरा मृतसूतके ।
आशौचानन्तरं कुर्यात्तन्मासेन्दुक्षयेऽपि वा" इति ॥

मरीचिः--

"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः" इति ॥

 विशेषत इत्युक्तेः शुक्लायामपि । आशौचेतरविघ्न एतदिति माधवपृथ्वीचन्द्रौ ।

 यत्तु--

"तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना ।
सूतकानन्तरं कुर्यात्पुनस्तदहरेव च" ॥

 इत्यत्रिवचनं तत्पूर्वकालासंभवे ज्ञेयम् । एतदाब्दिकेतरविषयम् ।

 यच्च--

"एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायते ।
मासेऽन्यस्मिन्दिने तस्मिञ्श्राद्धं कुर्यात्प्रयत्नतः" ॥

 इति तदपि मासिकपरमिति मदनरत्ने हेमाद्रौ[९५] च । व्याध्यादौ विस्मरणे चैवं ज्ञेयम् । इति श्राद्धविघ्ने निर्णयः ।

अथ श्राद्धभोजने प्रायश्चित्तानि ।

 तत्र श्राद्धानि त्रिविधानि । नवनवमिश्रपुराणाख्यानि । तत्रान्तर्दशाहश्राद्धानि नवश्राद्धानि, एकादशाहश्च । षोडशैकोदिष्टानि नवमिश्राणि सपिण्डीकरणं च । ततः पुराणानि । तत्राऽऽपदि नवश्राद्धभोजने कायम् । एकादशाहैकोदिष्टे कायं पादोनकायं वा । द्वादशाह ऊनमासे च पादोनं कायमेव कुर्यात् । द्विमासे त्रिपक्ष ऊनषाण्मासिक ऊनाब्दिके चार्धकृच्छ्रः । त्रिमासाद्याब्दिकान्तेषु सपिण्डने चाऽऽद्याब्दिके चोपवासः पादकृच्छ्रो वा । प्रत्यब्दे पुराणे च नक्तम् । द्रव्यार्थं नवश्राद्धे भोजने त्रिरात्रं, द्वादशाहादौ द्विरात्रं, मासादावुपवासः । त्रिमासादौ नक्तं पञ्चगव्याशनं च । प्रत्यब्ददर्शादिषु पुराणेषु षट्प्राणायामाः । वृद्धौ त्रयः प्राणायामाः । तत्रैव निस्पृहभोक्तुर्जपशी लिनो वा तदर्धम् । क्षत्रियादिषु श्राद्धेषु द्वित्रिचतुर्गुणानि क्रमात्कार्याणि । अनापदि तु नवश्राद्धे चान्द्रं कायं च । द्वादशाहादौ कायमेव । द्विमासादौ पादोनं, त्रिमासाद्यब्दान्तेषु त्रिरात्रमर्धकायं वा । आद्याब्दिके पादकायं, प्रत्याब्दिके तूपवासः । क्षत्रियस्य तु नवश्राद्धे चान्द्रम् (न्द्रे) । आद्यमासिके चान्द्रं पराकश्च । द्वादशाहादौ पराकः । आब्दिकद्विमासत्रिपक्षादौ महासांतपनं, त्रिमासादौ कायम् । आब्दिके पादोनं, प्रत्याब्दिके त्वर्धं, पुराणे पादोन(दपरिमित)म् । वैश्यस्य त्वेतान्येव व्रतानि सार्धानि । शूद्रस्य द्विगुणानि । यद्वा नवश्राद्धे चा[९६]न्द्रद्वयं सार्धं चान्द्रं च । द्वादशाहादौ सार्धं चान्द्रमेव । द्विमासत्रिपक्षादौ चान्द्रं त्रिमासादौ पराकः । अ[९७]ब्दे सह(महा)सांतपनम् । चण्डालानामुदकसर्पब्राह्मणपशुदंष्ट्रिवैद्युतप्रपतनविषोद्बन्धनादिमृतानां पापिनां पतिताद्यभोजनानां च नवश्राद्धे चा[९८]न्द्रे । आद्यमासिकं चान्द्रं पराकश्च । द्वादशाहादौ पराक एव । पक्षद्विमासत्रिमासेष्वतिकृच्छ्रः । मासादौ कायोऽ(यम)ब्दे पादः प्रत्यब्दे तूपवासः । धनिकानां द्रव्यार्थभोजिनां चैवम् । अपाङ्गेयानामेकादशाहे चान्द्रम् । यतिव्रतिब्रह्मचारिणां तु सूतकान्ननवश्राद्धमासिकादौ भुक्तावुक्तं प्रायश्चित्तं कृत्वाऽधिकं त्रिरात्रं प्राणायामत्रयं घृतप्राशनं च कृत्वा व्रतशेषं समापयेत् । अनापदि तु कायं त्रिरात्रमेकरात्रं वोपवासः प्राणायामत्रयं पञ्चगव्यप्राशनमित्यधिकम् । अभ्यासे तप्तकृच्छ्रादि द्विगुणम् । आमहेमसांकल्पिकश्राद्धेषूक्तार्धम् । यद्वाऽनापद्यामश्राद्धे कायं तप्तकृच्छ्रं वा शक्तश्चरेत् । हेमश्राद्धे त्रिरात्रं कायं च । सांकल्पिकश्राद्धे तूपवासस्त्रिरात्रं च । दैवात्सूतकव्यवहितेषु तु ब्राह्मणक्षत्रियवैश्यशूद्रश्राद्धेषु एकोद्दिष्टे तु कृच्छ्रातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । द्वादशाहादिषु पादं पादं ह्रासयेत् । अतिव्यवहितेषु तु त्रिरात्रादिकम् । गुरुविषये तूपवासनक्तषट्प्राणायामाः । अनापदि सर्वत्र द्विगुणम् । अतिश्रोत्रियदर्शादिश्राद्धेष्वनुक्तप्रायश्चित्तेषु च गायत्र्या दशकृत्वोऽपः पीत्वा संध्यामुपासनहोमं च यथोचितं कुर्यात् । नामकरणे जातकर्मणि चाङ्गश्राद्धे सूतक आमश्राद्धे चूड(डा)होमान्ते चौलश्राद्धे सीमन्ते सोमे ब्रह्मौदने चामत्या चाऽऽपदि च भुक्त्वा सांतपनम् । मत्याऽनापदि च चान्द्रम् । अन्येषु संस्कारेषु तूपवासो नित्यस्त्रिरात्रं चानापदि । अन्यदत्ता कन्याऽन्यस्मै पुनर्दत्ता सा पुनर्भूस्तद्विवाहेऽसंस्कृते पूर्वगर्भे पूर्ववत्सांतपनं चान्द्रं वा । सर्वस्त्रीप्रथमगर्भे च । ([९९] असंस्कृते पूर्वे गर्भे प्रसूते द्वितीये गर्भ संस्कारे या सा पु[१००]नारताः(ता(?)) [१०१]तुषोडशाहात्पश्चादेव गर्भिणी सा रेतोधाः । भर्तृशासनोल्लङ्घिनी कामचारिणी । आसो(सां)[प्रथ]भ(म)गर्भे पूर्ववत्सांतपनं चान्द्रं वा ।)

अथ श्राद्धाङ्गतिलतर्पणम् ।

 तच्च दर्शश्राद्धे तदहरेव पूर्वं विधाय श्राद्धारम्भः कार्यः ।

 "पूर्वं तिलोदकं दत्त्वा अमाश्राद्धं तु कारयेत्" इति गर्गवचनात् ।

 "दर्शे तिलोदकं पूर्वम्" इति संग्रहोक्तेश्च ।

 ([१०२] कारयेदिति स्वार्थे णिच् । श्राद्धस्य द्व्यहकालत्वे नित्यतर्पणस्य तन्त्रमध्यपातित्वात्तेनैव प्रसङ्गसिद्धिः । सद्यस्कालपक्षेऽप्येवम् । अन्याङ्गैरन्याङ्गानां प्रसङ्गसिद्धेः पशुपुरोडाशादावभ्युपगमात् । यत्तु यदा त्वनायत्या नित्यतर्पणोत्तरं श्राद्धसंकल्पस्तदा पृथक्कार्यम् । नित्यस्य प्रयोगानन्तःपातित्वादिति । तन्न । क्त्वाप्रत्ययेन प्रयोगबहिर्भूताङ्गानुष्ठानस्याऽऽरम्भणीयाबृहस्पतिसंवादा[१०३]व(द)भ्युपगमात् । अत इदमपि प्रयोगबहिर्भूतमेवाङ्गं पूर्वं कार्यम् । अतश्च प्रसङ्गानुष्ठानमविरुद्धम् । अतो न पृथक्तर्पणं दर्शे । यदा तु सप्तम्यादौ नित्यतर्पणं तिलरहितं क्रियते तदा तत्रप्रसङ्गयोरभावादिदं तिलसहितं पृथक्कार्यमेवेति ।) वार्षिकश्राद्धे तु परेद्युरेव ।

 तत्रैव--"प्रत्यब्दे न भवेत्पूर्वं परेऽहनि तिलोदकम्" इतिस्मरणात् ।

 बृहन्नारदीयेऽप्याब्दिकं प्रक्रम्य--

"परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् ।
तस्य ते पितरः क्रुद्धाः शापं दत्त्वा व्रजन्ति हि" ॥

 इति गर्गेण प्रत्यवायस्योक्तेश्च । ( [१०४] मातापित्रोर्वार्षिके विशेषाः(षं) स्मृतिरत्नावल्यां वृद्धमनुराह--

"सप्तम्यां भानुवारे च मातापित्रोः क्षयेऽहनि ।
तिलैर्यस्तर्पणं कुर्यात्स भवेत्पितृघातकः" 'इति ॥

 क्षयेऽहनीति निमित्तसप्तमीति केचित् । तन्न । वैरूप्यापत्तेः । प्रत्यब्दाङ्ग(ङ्गं) तिलैर्दद्यादितिवक्ष्यमाणवचनविरोधाच्च । किं त्वधिकरणसप्तम्येव । तेन क्षयाहे यत्तर्पणं नित्यं नैमित्तिकं वा तत्तिलरहितमेव कार्यम् । इदं च तर्पणं प्रस्तरप्रहरणे देवतासंकीर्तनवत्संनिपत्योपकारकम् । अत एव यद्दैवत्यं श्राद्धं तद्दैवत्यमेव भवति । ) अत्र पितृशब्दश्च श्राद्धेज्यदेवतापरः । तेनाऽऽब्दिकदिने तिलैर्विना सर्वासां नित्यतर्पणं पृथक्कर्तव्यमेव । ( [१०५]न चेयं नित्यतर्पणाकरणनिन्दा । अल्पप्रकरणेऽन्यस्याकरणनिन्दाया अयोग्यत्वात् । श्राद्धाङ्गभूतं तु परेद्युस्तिल[१०६]सहितमेव ।)

तदुक्तं संग्रहे--

"प्रत्यब्दाङ्गं तिलैर्दद्यान्निषिद्धेऽपि परेऽहनि ।
वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्" इति ॥

 तत्र श्राद्धाङ्गतर्पणे विधिरुक्तः संग्रहे--

"स्नात्वा तीरं समागत्य उपविश्य कुशासने ।
संतर्पयेत्पितॄनिज्यान्स्नात्वा वस्त्रं च धारयेत्" इति ॥

 तर्पणोत्तरं नित्यस्नानं संध्यां च कृत्वेत्यर्थः । ([१०७] अत्र स्नानोत्तरसंध्यामकृत्वैव तर्पणं कार्यमित्याहुस्तन्मन्दम् ।

"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इति वाक्यात् ।

 न च तर्पणपर्यन्तं श्राद्धप्रयोगानुवृत्तेर्मध्ये संध्या नानुष्ठेयेति वाच्यम् । श्राद्धदिनसायंसंध्याननुष्ठानप्रसक्तेः । ततश्च स्नानसंध्यादीनां सर्वकर्मार्थत्वेन प्राप्तेरुपवेशनस्यापि सामान्यतः प्रातः(प्तेः) कुशासनं तर्पणोत्तरं स्नानं च विधीयत इति युक्तम् ) । संतर्पयेत्पितॄन्सर्वानिति पाठो महालयाभिप्रायेण । तत्र सर्वेषां पित्रादिगुर्वन्तानां श्राद्धविधानात् ।

"वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्" ।

 इत्याब्दिक इतरदेवतातर्पणनिषेधाच्च ।

गर्गः--

"पक्षश्राद्धे हिरण्ये च अनुव्रज्य तिलोदकम् ।
सकृन्महालये श्वः स्यादष्टकास्वन्त एव हि" इति ॥

 हिरण्ये हिरण्यश्राद्धे । पक्षश्राद्धे हिरण्यश्राद्धे च ब्राह्मणविसर्जनोत्तरं तर्पणं कर्तव्यमित्यर्थः । अन्ते श्राद्धसमाप्तौ ।

 गर्गः--

"कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् ।
पितॄणां प्रत्यहं कार्यं निषिद्धाहेऽपि तर्पणम्" इति ॥

 निषिद्धदिनानि नित्यतर्पणप्रकरणे वक्ष्यन्ते । जीवत्पितृकेणापि मातृमृताहश्राद्धोत्तरदिने तद्वर्गमात्रस्य शुक्लतिलैस्तर्पणं कार्यमेव । ([१०८] परेद्युः श्राद्धकृन्मर्त्य इति तर्पणाकरणे दोषश्रवणा[१०९]दिति केचित् ।

 अन्ये तु--

"जीवमानः पिता यस्य माता यदि विषद्यते ।
मातुः श्राद्धं सुतः कुर्यान्न कुर्यात्तिलतर्पणम्"

 इति स्मृतिसारोदाहृतवचनं[११०] जीवत्पितृकस्य श्राद्धाङ्गतिलयुक्ततर्पणनिषेधकं न तु तिलरहिततर्पणनिषेधकम् । अन्यथा तिलपदवैयर्थ्यापत्तेः । तेन तिलरहितं तु भवत्येवेत्यर्थादवगम्यत इति प्रा[१११]हुः ।) एवमाश्विनशुक्लप्रतिपदादिश्राद्धादिष्वपि ज्ञेयम् । तीर्थश्राद्धे दर्शश्राद्धवत् । ([११२] माघ्या(ध्या)वर्षश्राद्धस्य मासिकश्राद्धवत्पूर्वमष्टकाङ्गत्वात् ।पूर्वेद्युःश्राद्धान्वष्टकाश्राद्धयोरप्यन्त एव । अन्वष्टकाश्राद्धस्या[११३]नङ्गत्वे तु मासिकश्राद्धवत्पूर्वमेव ।

यत्तु--

"विवाहव्रतचूडासु वर्षमर्धं तदर्धकम् ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्" ॥

 इति तन्महालयाष्टकालभ्ययोगश्राद्धव्यतिरेकेण द्रष्टव्यम् ।

"तिथिर्तीर्थविशेषे च गयायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्" इतिवचनात् ॥

 तिथिविशेषोऽष्टकादिः ।

यतु--

"पित्रोः क्षयाहे संप्राप्ते यः कुर्यान्नित्यतर्पणम् ।
आसुरं तर्पणं ज्ञेयं तत्तोयं रुधिरं भवेत् ॥
सर्वदा तर्पणं कुर्याद्ब्रह्मयज्ञपुरःसरम् ।
मृताहे नैव कर्तव्यं कृतं चेन्निष्फलं भवेत्" ॥

 इति पठन्ति तन्निर्मूलमेव । समूलत्वेऽपि सतिलतर्पणनिषेधपरम् । पूर्वलिखितवाक्यानुरोधात् । अन्योऽपि विशेषः--

"ज्येष्ठभ्रातृपितृज्येष्ठसपत्नमातरस्तथा ।
एतेषां तु मृताहे तु परेऽहनि तिलोदकम्" इति ॥

 शौनकः--

"मातापित्रोः क्षयाहे तु परेऽहनि तिलोदकम् ।
कारुण्यश्राद्धविषये सद्यो दद्यात्तिलोदकम्" इति ॥)

 मन्वादिश्राद्धे कपिलः--

"मन्वादिषु युगाद्यासु दर्शे संक्रमणेऽपि च ।
पौर्णमास्यां व्यतीपाते दद्यात्पूर्वं तिलोदकम् ॥
अर्धोदये(य)गजच्छायाषष्ठीषु च महालये ।
भरण्यां च मघाश्राद्धे तदन्ते तर्पणं विदुः" इति ॥

 नान्दीश्राद्धादौ तर्पणनिषेधो बृहन्नारदीये--

"वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके ।
संवत्सरविमोके च न कुर्यात्तिलतर्पणम्" इति " ॥

इति तर्पणम् ।

अथ जीवपितृककर्तृकपितामहाद्युद्देशश्राद्धनिर्णयः ।

 तत्र कात्यायनः--

"वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" इति ॥

 मैत्रायणीयपरिशिष्टमपि--

"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः" इति ॥

 यत्तु प्रयोगपारिजाते--

"न जीवतः पितुः कुर्याच्छ्राद्धमग्निमृते द्विजः ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः" ॥

 इति सुमन्तुवचनान्मैत्रायणीयपरिशिष्टोक्तविषयेष्वपि जीवत्पितृकस्य साग्नेरेवाधिकारो न निरग्नेरिति प्रतिपादितं तदुद्वाहपुत्रजनननिमित्तकनान्दीश्राद्धव्यतिरिक्ततीर्थश्राद्धादिविषयम् ।

"अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि ।
येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणम्" ॥

 इत्याचारमदनरत्नोदाहृतहारीतवचनेन सुमन्तुवाक्यापवादात् । साग्निरत्र श्रौताग्निमान्स्मार्ताग्निमांश्च । तदितरो निरग्निरित्यपि तत्रैवोक्तम् । अतश्च जीवत्पितृकस्य निरग्नेस्तीर्थश्राद्धादौ नाधिकार इति सिद्धम् ।

इति संस्काररत्नमालायां श्राद्धोपोद्धातः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे सप्तमं प्रकरणम् ॥ ७ ॥

  1. क. ख. ङ. गृ ।
  2. क. ख. ङ. सिकं धर्मसूत्रोक्ते मासिश्राद्वम् ।
  3. ख. ह्मणोत्ताली
  4. ख. ङ. द्धैऽद ।
  5. क. ख. दूराम्नानस्य ।
  6. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  7. धनुश्चिह्नान्तर्गत नास्ति ख. पुस्तके ।
  8. ङ. पत्तेः । ए ।
  9. क. ख. ङ. थ. मा ।
  10. ख. ङ. त्वाच्च न ।
  11. धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।
  12. च. शाभावा ।
  13. च. मुष्यै स्वा ।
  14. ख. ङ. ति वा ।
  15. च. नविधेरपि ।
  16. धनुश्चिह्नान्तर्गतं च. पुस्तके नास्ति ।
  17. ङ. च. तिसूत्रसू ।
  18. क ख. ङ. योरुभ ।
  19. च. भेदः ।
  20. क. न. तो भेदमि ।
  21. च. ब्दो योगरूढः प ।
  22. क. तिव ।
  23. धनुश्चिह्नान्तर्गतं ख. ङ. पुस्तकयोर्नास्ति ।
  24. ख. ङ. श्चिद्युग्मदिवसे वा ।
  25. च. त्राप ।
  26. ख. द्धविधानं सर्वतिथिषु श्राद्धविधानाय । प्रथ । ङ. द्धविधानं महालयश्राद्धविधानाय । प्रथ ।
  27. क. ख. ङ. यमि ।
  28. ख. ङ. षविधायकम् ।
  29. च. इतीत्य ।
  30. क. च. रवि ।
  31. च. ताः सं ।
  32. च. देवतानामत्र ।
  33. च. ति । मातामहादीनां प्राप्तिस्तु वैश्वदेवप्रकरणे य ।
  34. च. रस्यापि पक्षे कर्तव्यत्वस्य ज्ञा ।
  35. क. ख. ङ. मन्त्र ।
  36. धनुश्चिह्नान्तर्गतस्थाने च. पुस्तके--"योनिगोत्रमन्त्रासंबद्धानेति पाठः सुपाठः । संबद्धाः संबन्धविशिष्टाः । योनिसंबन्धो मातुलमातामहादीनाम् । गोत्रसंबन्धो गोत्राणाम् । मन्त्रसंबन्ध ऋत्विक्शिष्याचार्यादीनाम् । एतद्व्यतिरिक्ता ये भवन्ति तानामन्त्रयत इत्यर्थः" इति वर्तते ।
  37. ख. ङ. नो दक्षिणाग्निः । विधुरादिः पूर्वोक्तविधि ।
  38. ख. ङ. त् । यद्यौपासनाग्नौ पाक इष्टः स्यात्तदाऽग्निमुपसमाधायान्नं संस्कृत्येन्येव ब्रूयात् । अ ।
  39. च. कल्या ।
  40. ङ. वृत्तपाणिर्दक्षिणा ।
  41. च. ण्डान्कृत्वा ददा ।
  42. क. ङ. च. च. धिविष ।
  43. क. ख. च. चतुर्थम् । त्रि ।
  44. क. तुर्थम् । त ।
  45. ङ. न सर्ववर्गद्वयानां पिण्डानुप ।
  46. ख. च. यपि ।
  47. क. ख. च. तितिष्ठंस्था ।
  48. ङ. पे वर्गद्वयपितॄनुद्दिश्य द ।
  49. ङ. नोष्यापिदधाति ।
  50. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  51. च. णे--अ ।
  52. ख. श्राद्धाद । च. श्राद्धाद्वा ।
  53. क. द्धद ।
  54. क. पुस्तके वसौ वसुसत्वौ च पा इति शोधितः पाठः ।
  55. क. दि रेफ इति शोधितः पाठः । च. दि पुर ।
  56. धनुश्चिह्नान्तर्गतमसंगतम् ।
  57. ङ. रणमनाहिताग्निना ।
  58. ख. च. अग्न्यर्थौ । ङ. अग्न्यर्थे ।
  59. ङ. मभिधा ।
  60. ङ. द्धेम द ।
  61. ख. ङ. च तु मरण ।
  62. ङ. ल्पिकं त ।
  63. ख. च. रान्नस्य ।
  64. क. ङ साप ।
  65. च. प्रसङ्गार्थ ।
  66. ङ. तृव्यगु ।
  67. ङ. ति । एकवचनं छान्दसम् । न चैवममावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् । पितृव्यभ्रा ।
  68. धनुश्चिह्नान्तर्गतो ग्रन्थः सर्वपुस्तकेषु तत्परत्वादित्यन्तग्रन्थात्परं वर्तते । तथाऽपि, अर्थानुरोधेनात्रैवापेक्षित इति अत्रैव संगृहीतः ।
  69. ख. त्सरिकादि ।
  70. क. ख. च. ति स्मृतेः अ ।
  71. क. ख. च. ति । संविभक्तधनेष्वपीत्युशनोर्वचनाच्च । व्या ।
  72. क. ख. च. णि । ए ।
  73. ख. च. विच्छिन्नं ।
  74. क. णवच्छ्राद्धं ।
  75. च तृशासन ।
  76. क. ख. च. थक्पृथक् ।
  77. ङ. ति । ष्ट ।
  78. क. ख. च. थग्भवेत् । अविभक्तानामपि म ।
  79. धनुश्चिह्नातर्गते ङ. पुस्तके नास्ति ।
  80. ङ. तृक एवाधि ।
  81. ङ. री । अत एव पि ।
  82. च. पितॄणा ।
  83. ख. च. न्त्रैक्यावि ।
  84. ख. र्मणि । प्र ।
  85. ङ. ति । अत्रोपात्तयोर्द्वयोर्मध्य उत्तरस्यानुष्ठानेन पूर्वस्यापि सिद्धिरित्य ।
  86. ख. कुर्वीत याज्ञिक ।
  87. ङ .पे । युक्तं त्वेवम् --ए ।
  88. धनुश्चिह्नान्तर्गते ङ. पुस्तके नास्ति ।
  89. ङ. भेदे । इति ।
  90. च. ङ. दिति सि ।
  91. च. व्याघ्रपादः ।
  92. ख. पराशरः ।
  93. ङ. पारस्करः ।
  94. अत्र सतोरिति शेषो ज्ञेयः ।
  95. क. द्रौ । व्या ।
  96. क. ख. च. चान्दं ।
  97. क. ख. च. अब्देन ।
  98. क. ख. ङ. चान्द्रम् ।
  99. धनुश्चिह्नान्तर्गतं ख. च. पुस्तकयोर्नास्ति ।
  100. ङ. पुनरताः ।
  101. क. ऋतुः षो ।
  102. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'नित्यतर्पणेन (नै व श्राद्धाङ्गतर्पणस्य प्रसङ्गतः सिद्धिरिति केचित् । यहवस्तु श्राद्धेज्यदेवतानामेव तर्पणमादौ कृत्वा श्राद्धारम्भः कर्तव्य इति वदन्ति' इति ग्रन्थो वर्तते ।
  103. च. दाभ्यु ।
  104. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  105. धनुश्चिह्नान्तर्गतस्थाने ङ. पुस्तके 'श्राद्धाङ्गभूतस्यैव परेद्युरुक्तेः' इति वर्तते ।
  106. ख. च. लरहि ।
  107. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  108. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  109. च. णात् । यत्तु--जी ।
  110. च. नं तजीव ।
  111. च. ज्ञेयम् ।
  112. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'माघ्यावर्षादिष्वष्टकावदन्ते' । इति वर्तते ।
  113. च. स्यानेकत्वे ।