अथ तृतीयं प्रकरणम्

अथ प्रवासादागतस्य विधिः ।

 तत्रेदं गृह्यम्-- 'प्रवासादेत्याऽऽगतं वा पुत्रमभिमृशति' इत्यादि । प्रवासादेत्य पुत्रमभिमृशति । पुत्रं वा प्रवासादागतमभिमृशतीत्यर्थः ।

 तस्य प्रयोगः--पिता प्रवासादेत्याऽऽगतोपस्थानं कृत्वा गृहा मा बिभीतेत्यादिविधिं विधाय 'ॐ सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा' इति पुत्रमभिमृशति । 'ॐ पशूनां त्वा हुंकारेणाभिजिघ्राम्यसावायुषे वर्चसे हुम्' इति मूर्ध्न्यभिजिघ्रति । असावित्यत्र तस्य संबुद्ध्या शर्मान्तं नाम ग्राह्यम् ।

 ततोऽग्निरायुष्मानिति पञ्चानां सानुषङ्गाणां मन्त्राणां विश्वे देवा अग्न्यायुष्मदादयो यजूंषि । हस्तग्रहणे विनियोगः । 'ॐ अग्निरायुष्मान्स वनस्पतिभिरायुष्मान्तेन० | सोम आयुष्मान्स० । यज्ञ आयुष्मान्स० । ब्रह्माऽऽयुष्मत्तद्ब्राह्मणै० । देवा आयुष्मन्तस्तेऽमृ०'एतैः पञ्चभिः पर्यायैः स्वस्य दक्षिणेन हस्तेन पुत्रस्य दक्षिणं हस्तमुत्तानं साङ्गुष्ठं गृह्णाति ।

 तत आयुष्टे विश्वत इत्यस्य विश्वे देवा आयुर्धा अग्निरनुष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । पुत्रस्य दक्षिणे कर्णे जपे विनियोगः । 'ॐ आयुष्टे विश्वतो दध० । ॐ अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि या स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपोऽनुसंचरन्ति ता स्वस्तिमनुसंचरासौ प्राणस्य ब्रह्मचार्यभूरसौ' इति मन्त्रद्वयं पुत्रस्य दक्षिणे कर्णे जपति ।

 आयुर्दा अग्न इत्यस्य विश्वे देवा आयुर्दा अग्निस्त्रिष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । पुत्रस्योत्तरे कर्णे जपे विनियोगः । ॐ आयुर्दा अग्ने० । ॐ अग्नौ पृथिव्यां०' इति मन्त्रद्वयं पुत्रस्योत्तरे कर्णे । एतच्च यथा पुरस्तादित्यनेन प्राप्यते । प्रागुपनयनादेतत्कुर्यादित्येके । यावज्जीवमित्यपरे । दुहितुरपीदं स्यात्तूष्णीम् । प्रवासादेत्येत्यादिकं प्रतिप्रवासं ज्ञेयम् ।

 मध्ये द्वादशाब्दपर्यन्तं परस्परमवलोकनं दैवान्न जातं तदाऽऽदावलोकनविधिं कृत्वा पुत्राभिमर्शनादिकं कार्यम् ।

 स च विधिः सूर्यारुणसंवादे--

"दंपती पितृपुत्रौ च स्वसारौ भ्रातरौ तथा ।

 अत्र भ्रातृशब्देन सपत्नभ्राताऽपि ।

( [१]पितृव्यभ्रातृपुत्रौ च तथा स्वस्रीयमातुलौ ॥
मातामहदुहितृजौ स्वसृजौ भ्रातृजौ तथा ।)
पुत्रिकापितरौ चैव भगिनीभ्रातरौ तथा ॥
द्वादशाब्दे व्यतीते तु दूरदेशं गतौ यदि ।
एतेषामेकमेकोऽपि नान्योऽन्यमवलोकयेत् ॥
इच्छन्ति केचिदाचार्या अन्योन्यमलोकनम् ।
शिवालयेऽथ वा तीर्थे स्नात्वा प्रज्वाल्य दीपकौ ॥
शिवं संपूज्य विधिवदुभौ तौ देवमध्यतः ।
धृत्वा कांस्यमयं पात्रं सवृतं रत्नपूरितम् ॥
शान्तिदैर्मन्त्रघोषैश्च सहितस्तद्विलोकयेत् ।
आननं चैकमे(ए)कस्य दृष्ट्वा सम्यक्शिवं यजेत् ॥

ब्राह्मणाय ततो दद्यात्तत्पात्रं दक्षिणायुतम् ।
अन्येभ्यस्त्वथ विप्रेभ्यो दद्याद्वित्तानुसारतः ॥
तेभ्योऽपि दक्षिणां दत्त्वा पूजयेच्च पुनः शिवम् ।
नत्वा देवं द्विजान्सूर्यमागत्याथ स्वमन्दिरम् ॥
ततो व्याहृतिभिर्होमं शतमष्टोत्तरं तिलैः ।
कृत्वाऽथ भोजयेद्विप्रान्यथावित्तानुसारतः ॥
बान्धवैः सह भुञ्जीत सर्वारिष्टप्रशान्तये ।
इत्थं यः कुरुते मर्त्यस्तस्यारिष्टं न विद्यते ॥
आयुष्कामो नरश्चैवमकृत्वा नावलोकयेत् ।
पूर्वावलोकितानां तु विधिरेष उदाहृतः ॥
न चैवादृष्टपूर्वाणामिति प्राहुर्मनीषिणः" इति ॥

ग्रन्थान्तरेऽपि--

"दंपती पितृपुत्रौ च स्वसारौ भ्रातरौ तथा ।
सापत्नभ्रातरौ चापि भगिन्यौ वा तथाविधौ ॥

 तथाविधौ सापत्नभगिन्यौ ।

पितृव्यभ्रातृपुत्रौ च भागिनेयकमातुलौ ।
द्वादशाब्दे व्यतीते तु दूरदेशं गतौ यदि ॥
एतेषामेकमेकोऽपि नान्योऽन्यमवलोकयेत् ।
दर्शनात्कुलनाशः स्यात्तयोरेकस्य वा मृतिः ॥
पुण्यक्षेत्रे गयादौ च दोषो नान्योन्यदर्शने ।
कांस्ये रत्नोदकैः पूर्णे शिवाग्रे मध्यतः पटे ।
दृष्ट्वाऽन्योन्यं ततो देवदर्शने नैव दोषभाक्" इति ।

 रत्नोदकपूर्णे कांस्यपात्रे परस्परमवलोकनं कृत्वाऽनन्तरं देवदर्शने कृते सति न दोष इत्यर्थः ।

अन्यत्रापि--

"द्वादशाब्दे व्यतीते तु न कुर्याद्भ्रातृदर्शनम् ।
पित्रोः पुत्रस्य नैवाऽऽहुर्महाहानिकरं भवेत् ॥
दर्शनं यदि कुर्वीत शिवं पूज्य शिवालये ।
नारिकेलं स्फोटयित्वा अन्तःपटविधानतः ॥
मुखावलोकनं कुर्यात्कुर्यादालिङ्गनं ततः ।
एवं कृते विधाने तु दोषशान्तिर्भविष्यति" इति ॥

 गणेशपुराणे चन्द्राङ्गदोपाख्यानेऽपि--

"स्वयं जगाम शिबिरमिन्दुमत्या नृपोत्तमः ।
कारयामास स विधिं द्वादशाब्ददृशैर्द्विजैः ॥
पुण्याहवाचनं कृत्वा गणेशार्चनपूर्वकम् ।
संपूज्य शंकरं सम्यग्द्विजांश्च दक्षिणादिभिः ॥
बभञ्ज श्रीफलं त्यक्त्वा ततस्तत्पुरतो ययौ ।
ददर्श तत्रेन्दुमतीमिन्दोः शेषकलामिव" इति ॥

 स्वयं चन्द्राङ्गद इन्दुमत्याः शिबिरं जगामेत्यन्वयः । स राजा द्वादशाब्ददृशैर्द्वादशाब्दपर्यन्तादर्शननिमित्तकमेलनविधिदृशैर्द्विजैः शास्त्रज्ञैर्ब्राह्मणैर्विधिं मेलनविधिं कारयामासेत्यन्वयः । अथ विधिमाह--पुण्याहवाचनं कृत्वेत्यादिना । गणेशार्चनपूर्वकमिति पुण्याहवाचनविशेषणम् । गणेशार्चनं गणेशपूजनं पूर्वं यस्य तत् । ततः शंकरं साम्बं शिवं द्विजाञ्शास्त्रज्ञान्ब्राह्मणांश्च संपूज्य । कैरित्यपेक्षायां दक्षिणादिभिरिति । अत्राऽऽदिशब्दो मुख्यार्थवाची । दक्षिणा मुख्या येषां ते दक्षिणादयः पाद्यादय उपचारा इत्यर्थः । एतेन दक्षिणाया आवश्यकत्वं द्योतितं भवति । अथवा शंकरं सम्यक्षोडशोपचारैः संपूज्य द्विजान्दक्षिणादिभिरुपचारैः पूजयेदित्यर्थः । दक्षिणादिभिरित्यनेन द्विजपूजन इतरोपचाराणामनावश्यकत्वं ध्वन्यते । अत्राऽऽदिशब्देन प्रदक्षिणानमस्कारप्रार्थनारूपाः पदार्था ग्राह्याः ।

 ततो देवसमीप एव श्रीफलं नारिकेलफलं बभञ्ज स्फोटितवान् । प्रकृते स्फोटयेदिति विधिरुन्नेयः । ततस्तत्स्फुटितं नारिकेलफलं त्यक्त्वा पुरतः स्वगृहं ययौ चन्द्राङ्गदः । प्रकृते गच्छेदिति विधिरुन्नेयः । ततस्तत्र गृहे, इन्दुमतीमिन्दोः शेषकलामिव कृशां ददर्श । प्रकृते पश्येदिति विधिरुन्नेयः । इन्दुमत्या दुःखेन कृशत्वात्कृशां ददर्शेत्युक्तिः । तस्यै दुःखं भर्तुर्मरणशङ्काकृतम् । इदं च कृशत्वविशेषणं सद्भावाभिप्रायेण । एवं च द्वादशाब्दपर्यन्तं भर्तरि प्रवासं गतेऽपि यस्यास्तावत्कालपर्यन्तं सुवार्तायाः श्रवणान्मरणशङ्काकृतदुःखाभावेन कृशत्वाभावेऽप्ययं विधिर्भवत्येवेति द्रष्टव्यम् ।

इति परस्परमेलनविधिः ।

अर्थतत्प्रयोगः ।

 पूजाहोमादिसामग्रीसहितौ कर्तारौ ब्राह्मणैः सह शिवालयं गत्वा परस्परमीक्षणं यत्र न भवति तावति(तोः) दूरप्रदेशयोः स्वस्वसामग्रीं निधाय हस्त पादान्प्रक्षाल्याऽऽचम्य परस्परमनीक्षन्तौ शिवसमीप उपविश्य शिवं नमस्कृत्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य द्वादशाब्दपर्यन्तादर्शनसूचितसर्वानिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकनविधिं करिष्य इति संकल्प्य गणेशं संपूज्य पुण्याहवाचनं कुरुतः । तत्र द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकनाख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिप्रयोगः । साम्बशिवः प्रीयतामिति समर्पणवाक्ये विशेषः ।

 तत उभौ परस्परमनवलोकयन्तावेव शिवसमीपे दीपौ प्रज्वाल्य साम्बशिवाय नम इति शिवं संपूज्यैतद्विधिज्ञान्ब्राह्मणान्पूजयेत् ।

 ततः शिवाग्र उभयोर्मध्ये द्विजैरन्तःपटं धारयित्वा बिल्वफलं नारिकेलफलं वा भङ्क्त्वाऽऽत्मनोर्देवस्य च मध्ये सघृतं रत्नयुक्तं स्वस्वकांस्यपात्रं संस्थाप्य शान्तिपाठसहितौ पात्रद्वयस्थे द्रवीभूते तस्मिन्नाज्ये परस्परं मुखनिरीक्षणं कुर्याताम् । अथवोभौ स्वं स्वं कांस्यपात्रं शुद्धोदकेन पूरयित्वा रत्नं तत्र निक्षिप्य तस्मिन्परस्परं मुखनिरीक्षणं कुर्याताम् । मुखनिरीक्षणोत्तरं वा फलभङ्गः । रत्ननिक्षेपणं कृताकृतम् । ततः पटं निःसार्य परस्परमालिङ्गनं कुर्याताम् ।

 ततः पुनः साम्बशिवं संपूज्य दक्षिणायुतं स्वस्वपात्रं ब्राह्मणाय दत्त्वा विभवानुसारेण ब्राह्मणेभ्यो दक्षिणां दत्त्वा पञ्चोपचारैः पुनः शिवं संपूज्य साष्टाङ्गं प्रणम्य द्विजान्सूर्यं च प्रणम्य गृहमागच्छेत्ताम् ।

 ततो हस्तपादप्रक्षालनं कृत्वाऽऽचम्य प्राणानायम्य प्राक्प्रवणाद्यन्यतमे देशे स्थण्डिलकरणादि कृत्वा वरदनामानमग्निं प्रतिष्ठापयामीति तस्मिन्स्थण्डिलेऽग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकन विध्यङ्गभूततिलहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा वैशेषिकप्रधानहोमे--प्रजापतिं समस्तव्याहृतिभिरष्टोत्तरशतसंख्यघृताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वाऽग्निं स्विष्टकृतं हुतशेषेण यक्ष्य इत्यादि अङ्गहोमे वरुणं द्वाभ्यामित्यादि वा पूर्वान्तानुसारेणोक्त्वाऽन्वाधानसमिदभ्याधानादि । पात्रासादन आज्यासादनोत्तरं तिलानामासादनम् । आज्यपर्यग्निकरणकाले तिलानां पर्यग्निकरणम् । होमकाले स्थालीगताज्येन तिलानभ्यज्य मृगीमुद्रया होमं कुर्यात् । स्रुवेण दर्व्यामुपस्तीर्य तिलानुत्तरार्धात्सकृद्गृहीत्वा द्विरभिघार्य यदस्येति पूर्ववज्जुहुयात् । इमं मे वरुणेत्यादि वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कुर्यात् । कर्मशेषसमाप्तौ तमग्निं संपूज्य भस्म धृत्वा गच्छ गच्छेत्यग्निं विसृजेत् । एवमुभौ सति संभवे होमं कृत्वा ब्राह्मणेभ्यो भूयसीं दक्षिणां दत्त्वा विभवानुसारेण ब्राह्मणान्भोजयित्वा सुहृद्युतावुभौ सह भुञ्जीयाताम् । स्त्रिया होमो नास्त्येव । दंपत्योः परस्परावलोकनविधौ तु एकमेव कांस्यपात्रं अस्मिन्नेव सहैवावलोकनं तद्दक्षिणायुतं भर्त्रैव देयम् । तद्दानकाले पत्न्यन्वारभेत्(त) । एकत्र निवसतोः पितृपुत्रयोर्भ्रात्रोः पितृव्यभ्रातृपुत्रयोश्च ज्येष्ठेनैव वा होमः कार्यः । तत्र पितुः पुत्रमुखनिरीक्षणे मम पुत्रस्य च द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकनविध्यङ्गभूतमष्टोत्तरशतं व्याहृतिभिस्तिलैर्होमं करिष्य इति संकल्पवाक्ये विशेषः । एवं भ्रात्रादिषूह्यम् । अयं चावलोकनविधिरदृष्टपूर्वाणां नैव । पुण्यक्षेत्रे गयादौ तु परस्परदर्शने न दोषः ।

इत्यवलोकनविधिः समाप्तः ।

अथ सूतिकायाः स्तन्यवर्धनविधानम् ।

शिशुरक्षारत्ने--

"सूतिकायाः स्तनक्षीरमकस्मात्क्षीयते यदि ।
विधानमेतत्कर्तव्यं यद्वक्ष्यामि निबोध तत् ।
रेवतीग्रहनामानं पूजयेत्प्रयतः शुचिः ।
ब्रह्मवृक्षस्य पीठे च स्थापयित्वाऽर्चयेत्सुधीः ॥

 ब्रह्मवृक्षः पलाशवृक्षः ।

कृष्णधत्तूरपुष्पैस्तु धूपैः कृष्णागुरोः शुभैः ।
धूपयेद्दीपदानेन ग्रहं नीराजयेत्तथा ॥
रक्ततण्डुलभक्तेन गुडयुक्तेन चैव हि ।
महिषीसर्पिषा चैव पूरिकाः पाचयेत्सुधीः ॥
सुधाफलानि नैवेद्यं पायसं च विशेषतः ।

सुधाफलानि मधुरफलानि आम्रफलादीनि ।

सकर्पूरं च ताम्बूलं सलवङ्गं प्रदापयेत् ॥

 प्रदद्यादित्यर्थः ।

सुगन्धं चन्दनं तत्र ध्वजान्सप्त समाहरेत् ।
रूप्यं वा हेम वा तत्र बलिपात्रे निधापयेत् ॥
होमं च विधिवत्कृत्वा जुहुयात्तिलसर्पिषा ।

 होमं पूर्वाङ्गहोमम् ।

अष्टोत्तरसहस्रं वा अथवाऽष्टाधिकं शतम् ॥
जुहुयात्प्रयतस्तत्र मन्त्रान्रक्षोनिवारणान् ।

 राक्षोघ्नानित्यर्थः । ते च कृणुष्व पाज इत्यादयः ।

जपेच्छान्तिं द्विजैः सार्धं शं न इत्यादिमन्त्रवित् ॥
यत्प्रधानं हविस्तत्तु प्रोक्तं स्विष्टकृतो बुधैः ।
एवं समाप्य विधिवद्धवनं मन्त्रविद्द्विजः ॥
प्रार्थ्य भक्त्या ग्रहं धीमान्रेवतीनामधेयकम् ।
दद्याद्विप्राय मेधावी ग्रहं तं दक्षिणायुतम् ॥
सपीठं च सवस्त्रं च नैवेद्यं चैव सर्वशः" [ इति ] ।

 दानमन्त्रः--

"नमस्ते भगवन्देव रेवतीग्रह शोभन ॥
ग्रहेश तव दानेन स्तन्यं वर्धय मे सदा" इति ॥

 अत्रास्मच्छब्दप्रयोगाद्दानं भार्याकर्तृकम् । दद्यादित्यत्रान्तर्भावितो णिच् । तेन दापयेदित्यर्थः । भार्ययेति शेषः । अथवा म इत्यनन्तरं भार्याया इत्यनुषङ्गो बुद्धिस्थो ज्ञेयः । यथा ममाग्ने वर्च इत्यत्र ममेत्यनन्तरं यजमानस्येति तथाऽत्र द्रष्टव्यम् ।

"ततः समुद्रज्येष्ठेति अभिषेकं समाचरेत् ।
आचार्यादीन्पूजयीत पश्चाद्ब्राह्मणभोजनम् ॥
भुक्तोच्छिष्टेन तस्यास्तु स्तनावालेपयेत्ततः ।
कुमारीमूलकन्देन हरिद्रासंयुतेन च ॥
प्रक्षालितौ स्तनौ पश्चाल्लिम्पेद्दक्षक्रमेण तु ।
एवं कृते विधाने तु बहुक्षीरं प्रजायते" इति ॥

 कुमारी कोरफड, इति भाषया प्रसिद्धा ।

"विदारिकाकन्दरसः सदुग्धः शतावरी वा कुरुतेऽङ्गनानाम् ।
सदुग्धभक्ताशनतत्पराणां पयोधरौ प्राज्यपयःसमुद्रौ" इति ।

 विदारिकाकन्दो भोयकोहळी, इति भाषया प्रसिद्धः । प्राज्यपयःसमुद्रावित्यनन्तरं भवत इति शेषः । इति सूतिकास्तन्यवर्धनविधानम् ।

अथ दोलारोहणम् ।

पारिजाते बृहस्पतिः--

"दोलारोहस्तु कर्तव्यो बालस्य द्वादशे दिने ।
षोडशे दिवसे वाऽपि द्वात्रिंशे दिवसेऽपि वा" इति ।

 द्वाविंशे दिवस इत्यपि पाठः ।

 भविष्ये--

"अभीष्टे पुण्यदिवसे चन्द्रताराबलान्विते ।
मृदुध्रुवक्षिप्रभेषु माता वा कुलयोषितः ॥
योगशायिहरिं स्मृत्वा प्राक्शीर्षं विन्यसेच्छिशुम्" इति ।

 रेवतीचित्रानूराधा मृदूनि । रोहिण्युत्तरात्रयं च ध्रुवाणि । हस्ताश्विनीपुष्याभिजितः क्षिप्राणि ।

ज्योतिर्निबन्धे--

"करत्रये वैष्णवपौष्णभे चादितिद्वये चाश्विनकध्रुवेषु ।
कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं वै सुखिनो भवन्ति" इति ॥

तत्रैव विशेषः--

"आन्दोलारोहणे पुंसो द्वादशो दिवसः शुभः ।
त्रयोदशस्तु कन्याया न नक्षत्रविचारणा" इति ॥

 द्वादशो दिवसः षोडशदिवसस्योपलक्षणम् । जन्मदिवसाद्द्वादशे षोडशे वा दिवसे पुंसः । त्रयोदशे कन्यायाः । अन्यस्मिन्वा ज्योतिःशास्त्रोक्तमृदुध्रुवक्षिप्रनक्षत्रादियुते शुभकाले यथाचारं कुलदेवतापूजां विधायालंकृतं शिशुं हरिद्राद्यलंकृतायां दोलायां मात्राद्याः सौभाग्यवत्यः कुलीनाः स्त्रियो योगशायिनं हरिं संस्मृत्य गीतवाद्यादिघोषे क्रियमाणे प्राक्शिरसं शाययेयुः ।

इति दोलारोहणम् ।

अथ दुग्धपानम् ।

श्रीधरीये--

"एकत्रिंशे वासरे वा द्वितीये जन्मर्क्षे वा शुद्धलग्नेऽनुकूले ।
शङ्खे क्षीरं संनिदध्याच्छिशूनां वक्त्रे धात्री पूज्यपूजां विधाय" इति ॥

 शङ्ख इति तृतीयार्थे सप्तमी । धात्री पूज्यपूजां विधाय शिशूनां वक्त्रे शङ्खेन क्षीरं संनिदध्यादित्यन्वयः । संनिदध्यात्पाययेत् ।

 दुग्धलक्षणं मेधातिथिनिबन्धे--

"गवां च दुग्धं प्रथमं विदध्याद्बालस्य पुष्ट्यै च तदुक्तसर्पिः ।
त्यक्त्वा महिष्यादिपयश्च सर्पिस्त्यक्त्वाऽन्धकारं च विलोकनीयम्" इति ॥

 गवां स्वरूपं सुरेश्वरः-

"ताम्रगौस्तु विशेषेण श्वेतगौर्मध्यमा स्मृता ।
कनिष्ठा कपिला गौस्तु कृष्णा(ष्णां) गौस्तु(गां तु) विवर्जयेत्" इति ॥

 अत्र नक्षत्रादिकमाह नृसिंहः--

"उत्तरात्रयहस्तौ च त्वाष्ट्रवैष्णववासवाः ।
पौष्णाश्विनौ मघास्वातीवरुणादितिजीवनम् ॥
रोहिण्यैन्दवमैत्राश्च दुग्धपाने शिशोः शुभाः ।
पष्ठीरिक्ताष्टमीदर्शा वर्ज्या विष्टिः स्थिराणि च ॥
जीवशुक्रेन्दुसौम्यानां वारवर्गोदयाः शुभाः" इति ।

 त्वाष्ट्रं चित्रा । वैष्णवं श्रवणः । वासवं धनिष्ठाः । पौष्णं रेवती । अश्वि नावश्विनीनक्षत्रम् । वरुणः शततारकाः । अदितिः पुनर्वसू । जीवनं पूर्वाषाढाः । अत्र मूलं चिन्त्यम् । ऐन्दवं मृगशिरः । मैत्रमनूराधाः । एकत्रिंशे दिवसे द्वितीये जन्मनक्षत्रे वाऽन्यस्मिन्वोक्ते नक्षत्रे षष्ठीरिक्ताष्टमीदर्शव्यतिरिक्ततिथौ बृहस्पतिशुक्रचन्द्रबुधान्यतमे वासरे कुलदेवतापूजनं विधाय माताऽन्या वा सौभाग्ययुता शिशुं दक्षिणशिरसं प्राक्शिरसं वा धृत्वा शङ्खेन गोक्षीरं पाययेत् । इति दुग्धपानम् ।

अथ प्रथमकञ्चुकधारणम् ।

ज्योतिर्निबन्धे--

"अश्विनीत्वाष्ट्रपौष्णेज्यमित्रोत्तरकरानिले ।
सितसौम्येज्यवारेषु जयापूर्णादिने तथा ॥
शुभे मूहूर्ते पूर्वाह्णे चन्द्रताराबलान्विते ।
शिशूनां धारयेत्तत्र कञ्चुकं चित्रवर्णकम् ।
नीलवर्णं शिशूनां च मुख्यं प्रथमकञ्चुकम्" इति ॥

 इज्यस्तिष्यः । करो हस्तः । अनिलः स्वाती । सितः शुक्रः । जयास्तृतीयाष्टमीत्रयोदश्यः । पूर्णाः पञ्चमीदशमीपञ्चदश्यः । यद्यप्यविशेषात्पञ्चदशीत्वेनामावास्याया अपि प्राप्तिस्तथाऽपि तस्याः शुभकर्मसु सामान्यतो निषिद्धत्वात्त्याज्येति द्रष्टव्यम् । एवं पूर्णमास्याः पूर्वार्धमपि त्याज्यम् । तस्य भद्रात्वेन निषिद्धत्वात् ।

अथ जलपूजनम् ।

 तच्च मुहूर्तचिन्तामणौ--

"कवीज्यास्तचैत्राधिमासे न पौषे जलं पूजयेत्सूतिकामासपूर्तौ ।
बुधेन्द्विज्यवारे विरिक्तातिथौ हि श्रुतीज्यादितीन्द्वर्कनैर्ऋत्यमैत्रे" इति ॥

 कविः शुक्रः । इज्यो गुरुः । तयोरस्ते, चैत्रेऽधिमासे पोषे च जलं न पूजयेदित्यर्थः । अनेनावशिष्टा मासा अभ्यनुज्ञाता भवन्ति । मासपूर्तौ माससमाप्तौ सत्यां कार्यं न प्रथमे मासि । विरिक्तातिथौ रिक्ताभिन्नतिथौ । श्रुतिः श्रवणः । इज्यस्तिष्यः । अदितिः पुनर्वसू । इन्दुर्मृगशिरः । अर्को हस्तः । नैर्ऋत्यं मूलम् । मैत्रमनूराधाः । इति जलपूजनम् ।

अथ कर्णवेधः ।

तत्र बृहस्पतिः--

" जन्मतो दशमे वाऽह्नि द्वादशे वाऽथ षोडशे ।
सप्तमे मासि वा कुर्याद्दशमे मासि वा पुनः" इति ॥

मदनरत्ने--

"प्रथमे सप्तमे वाऽपि अष्टमे दशमेऽथ वा ।
द्वादशे वा प्रकुर्वीत कर्णवेधं शुभावहम्" इति ॥

 गर्गः--

"मासेऽष्टमे सप्तमे वाऽप्यष्टमे वत्सरेऽथ वा ।
कार्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा ॥
कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने" इति ।

 व्यवहारोच्चये विशेषः--

"न जन्ममासे न च चैत्रपौषे न भाद्रसंज्ञे न हरौ प्रसुप्ते ।
दिने न रिक्ते न च विष्टिदुष्टे कर्णस्य वेधं मुनयो वदन्ति" इति ॥

 अयं च जन्ममासनिषेधो द्वितीयादिवर्षगतजन्ममासविषयः । न त्वाद्यवर्षगतविषयः ।

"प्रथमे जन्ममासे तु कर्णवेधं शुभं विदुः"

 इतिवचनेन तस्य विहितत्वात् । चैत्रस्य निषेधो मीनार्कविषयः । पौषस्य निषेधो धनुरर्कविषयः ।

"मीनस्थिते रवौ चैत्रे पौषे चापस्थिते तथा ।
कर्णवेधं नैव कुर्यादिति प्राहुर्मनीषिणः" ॥

 इतिज्योतिःसागरवचनात् । अनन्तरोदाहृतगर्गवाक्यगतकार्तिकविधिस्तु बोधिन्युत्तरभागविषयो द्रष्टव्यः । भाद्रपदनिषेधो दोषाधिक्यबोधनार्थः ।

मदनरत्ने बृहस्पतिः--

"एकादश्यष्टमीपर्वरिक्ता वर्ज्याः शुभावहाः ।
शिष्टाश्च तिथयः सर्वाः कृष्णे चान्त्यत्रिकं विना" इति ॥

वारानाह स एव--

"मन्दारसूर्यवाराः स्युर्वर्ज्याः कर्णप्रवेधने ।
गुरुशुक्रेन्दृजेन्दॄनां पृज्या वारांशकोदयाः" इति ॥

 मन्दः शनिः । आरो भौमः । इन्दुजो बुधः । नक्षत्रा[२]ण्याह स एव--

"सौम्यार्द्रार्योत्तरादित्यहस्तचित्राश्विविष्णुभम् ।
श्रविष्ठा रेवती चैव शुभान्येतानि वेधने" इति ॥

 सौम्यं मृगशिरः । आर्यो गुरुस्तस्य नक्षत्रं पुष्यः । वेधने कर्णवेधने । चण्डेश्वरेण स्वात्यप्युक्ता--

"हस्ताश्विनीस्वातिपुनर्वसू(सौ) च तिष्येन्दुचित्राहरिरेवतीषु ।
चन्द्रेऽनुकुले गुरुशुक्रवारे कर्णौ तु वेध्यावमले च लग्ने" इति ॥

 अमले ग्रहदोषशून्ये । राशय उक्ता नारदेन--

"वृषभे मिथुने मीने कुलीरे कन्यकासु च ।
तुलाचापे तु कुर्वीत कर्णवेधं शुभर्द्धये ॥
मेषश्च मकरश्चैव मध्यमौ गुरुचोदितौ ।
सिंहवृश्चिककुम्भाश्च अधमाः परिकीर्तिताः" इति ॥

 बृहस्पतिः--

"अष्टमस्था ग्रहाः सर्वे नेष्टाः स्युः कर्णवेधने" इति ।

श्रीधरीये--

"हरकरवसुचित्रासौम्यपौष्णोत्तराश्वि-
न्यदितिषु तु घटालीसिंहवर्जे सुलग्ने ।
शशिगुरुबुधकाव्यानां दिने पर्वरिक्ता-
रहिततिथिषु शुद्धे नैधने कर्णवेधः" इति ॥

अगस्त्यः--

"द्वयोश्च संध्ययोर्लग्ने न कुर्यात्कर्णवेधनम् ।
रात्रावपि तथा लग्ने नक्षत्रतिथिसंधिषु ॥
कर्णवेधं न कुर्वीत कुर्याच्चेच्छेदनं भवेत्" इति ॥

 छेदनं नाशः ।

 संग्रहे--

"दिनच्छिद्राव्यतीपातविष्टिवैधृतिवर्जिते ।
शिशोरजातदन्तस्य मात्रुत्सङ्गगतस्य च ॥
सौचिको वेधयेत्कर्णौ सूच्या द्विगुणसूत्रया" इति ।

सुबोधे--

"शातकुम्भमयी सूची वेधने तु शुभप्रदा ।
राजती वाऽऽयसी वाऽपि यथाविभवतः शुभा" इति ॥

 शातकुम्भं सुवर्णम् ।

 सूचीव्यवस्था(स्थां) तत्प्रमाणं चाऽऽह बृहस्पतिः--

"सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः ।
शूद्रस्य चाऽऽयसी सूची मध्यमाष्टाङ्गुलात्मिका" इति ॥

 बालस्य मध्यमाङ्गुलिमध्यपर्वमिताङ्गुलेनाष्टाङ्गुलेत्यर्थः ।  ज्योतिरर्णवे--

" शुक्लसूत्रसमायुक्तताम्रसूच्याऽथ वेधयेत् ।
वेधात्तृतीयनक्षत्रे क्षालयेदुष्णवारिणा" इति ॥

 यस्मिन्नक्षत्रे कर्णवेधस्तस्मान्नक्षत्रात्तृतीयनक्षत्र उष्णोदकेन क्षालनं कर्तव्यमित्युत्तरार्धार्थः । इयं च ताम्रसूची सर्वेषां वैकल्पिकी ।

 विधिर्गृह्यपरिशिष्टे--

"अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीषु पूर्वाह्णे

प्राङ्मुख उपविश्य दक्षिणकर्णमभिमन्त्रयते भद्रं कर्णेभिरिति सव्यमप्येवम्, यदि रोदिति कुमाराय मधुरं दत्त्वा ब्राह्मणभोजनम्" इति ।

विष्णुधर्मोत्तरे--

"पूर्वाह्णे पूजनं कृत्वा केशवस्य शिवस्य च ।
ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानां तथैव च ॥
नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा ।
गुरूणां मण्डनं कृत्वा तत्र दत्त्वा वरासनम् ॥
तत्रोपवेशयेद्धात्रीं धृतशुक्लाम्बरां तथा ।
अलंकृतं तदुत्सङ्गे बालं धृत्वा तु साऽन्विता ॥
धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते ।
विध्येदनावृते देशे सकृदेवात्र लाघवात् ॥
प्राग्दक्षिणोऽथ वामोऽस्य भिषग्वामस्तु योषितः ।
शिशोर्विधिवर्धनं कार्यं यावदाभरणक्षमम् ॥
कर्णवेधदिने विप्राः सांवत्सरचिकित्सकौ ।
पूज्याश्चाविधवा नार्यः सुहृदश्च तथा द्विजाः" इति ॥

 सूर्यचन्द्राभ्यामिति पष्ठ्यर्थे चतुर्थी । मण्डनं संमाननम् । अलंकृतं तदुत्सङ्ग इत्यनन्तरमुपवेशयेदित्यनुषज्यते । सा धात्री । अन्विता सावधाना । निश्चलं यथा स्यात्तथा सम्यक् । अलक्तकरसचिह्निते वेधस्थाने । अनावृतो देशोऽङ्गणादिस्तत्रोपविष्टो भिषग्वेधकः । लाघवेन कौशल्येन । प्राक्पूर्वं दक्षिणः । अथानन्तरं वामः । अस्य शिशोः पुंसः । योषितः स्त्रियास्तु वामः पूर्वम् । अर्थादनन्तरं दक्षिणः । एवं क्रमेण वेधयेदिति प्राग्दक्षिणोऽथ वामोऽस्येत्यादेरर्थः । शिशोरित्यनन्तरं कर्णच्छिद्रयोरिति शेषः । सांवत्सरिको(रो) दैवज्ञः । चिकित्सको वेधकः ।

देवलः--

"कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः ।
तं(तां) दृष्ट्वा विलयं यान्ति पुण्यौवाश्च पुरातनाः" इति ॥

एतच्च पुरुषपरं द्रष्टव्यम् ।

अथ प्रयोगः ।

 जन्मदिनाद्दशमे द्वादशे षोडशे वा दिवसे सप्तमाष्टमदशमद्वादशान्यतममासि द्वितीयाद्यष्टान्तान्यतमवत्सरे वा फाल्गुनमीनार्करहितचैत्रधनुरर्करहितपौषबोधिन्युत्तरभूतकार्तिकान्यतममासे, एतेषु मासेषु सर्वथैवासंभवे मीनार्कविशिष्टचैत्रधनुरर्कविशिष्टपौषशयन्यादिबोधिन्यन्तमासव्यतिरिक्तमासे, एकादश्यष्टमीपर्व रिक्ताकृष्णपक्षैकादश्यादिपञ्चदिनव्यतिरिक्तायां व्यतीपातविष्ट्यादिरहितायां तिथौ गुरुशुक्रबुधसोमवारान्यतमे वारे मृगशीर्षार्द्रापुष्योत्तरा(र)फल्गुनीहस्तचित्रोत्तराषाढाश्रवणधनिष्टोत्तरा(र)प्रोष्ठपदापुनर्वसुस्वातीरेवत्यश्विन्यन्यतमनक्षत्रे वृषभमिथुनकर्ककन्यातुलाधनुर्मीनान्यतमलग्ने, एतदसंभवे सिंहवृश्चिककुम्भव्यतिरिक्ते मेषमकरान्यतरलग्ने वाऽष्टमस्थग्रहरहिते द्वितीयादिवर्षेषु कर्णवेधक्रियायां जन्ममासव्यतिरिक्तोक्तमासे ज्योतिर्विदादिष्टे शुभे काले पूर्वाह्ण एव गणपतिपूजनं कृत्वा केशवशिवब्रह्मचन्द्रसूर्येन्द्रादिदिगीशनासत्यसरस्वतीकुलदेवतागोब्राह्मणान्गुरूंश्च यथाविभवं संपूजयेत् ।

 भद्रं कर्णेभिरित्यस्य मन्त्रस्यारुणाः काण्डऋषयः । देवा देवता । त्रिष्टुप्छन्दः । शिशोः कर्णद्वयस्याभिमन्त्रणे विनियोगः । 'ॐ भद्रं कर्णेभिः शृणु० यदायुः' इति मातुरुत्सङ्गस्थस्यालंकृतस्य प्राङ्मुखस्योदङ्मुखस्य वा शिशोर्मन्त्रावृत्त्या दक्षिणं वामं कर्णं चाभिमन्त्रयते । स्त्रियाः कर्णवेधने नाभिमन्त्रणम् ।

 ततः शिशोः कुशलेन वेधकेनाङ्गणादौ स्थित्वा सुवर्णाद्यन्यतमसूच्याऽलक्तकाङ्कितप्रदेशे दक्षिणं कर्णं वेधयेत् । एवं वामम् । कुमार्यास्तु पूर्वं वामवेधनं पश्चाद्दक्षिणवेधनम् । वेधनक्षत्रात्तृतीयनक्षत्र उष्णोदकेन क्षालनं कार्यम् । स्त्रिया यथाऽऽभरणधारणक्षमता भवति तथा वर्धनीयौ । पुंसस्तु सूर्यरश्मिप्रवेशयोग्यरन्ध्रपर्यन्तं वर्धनीयौ । लम्बकर्णता तु निषिद्धा ।

 ततस्तस्मिन्नेव दिने दैवज्ञं वेधकं सौभाग्यवतीः स्त्रियः सुहृदो द्विजांश्च संपूज्य विप्राशिषो गृह्णीयात् । अष्टमे वर्षे कर्णवेधक्रियायां चूडाकर्मापि तदनन्तरमेव, तस्मिन्नेव वर्ष उपनयनेन सह पृथग्वेति द्रष्टव्यम् । स्त्रीणां तु नासिकाभरणधारणार्थं नासिकावेधनं विवाहानन्तरं क्वचिद्देशे कुर्वन्ति क्वचित्तत्पूर्वम् । अत्र सुमुहूर्तावलोकनं ज्योतिर्विद्भ्योऽवधार्य कर्तव्यम् । इति कर्णवेधनम् ।

अथ ताम्बूलभक्षणम् ।

चण्डेश्वरः--

"सार्धमासद्वये दद्यात्ताम्बूलं प्रथमं शिशोः ।
कर्पूरादिकसंमिश्रं विलासाय हिताय च ॥

मूलार्कचित्रकरतिष्यहरीन्द्रभेषु पौष्णे तथा मृगशिरोदितिवासवेषु ।
अर्केन्दुजीवभृगुबोधनवासरेषु ताम्बूलभक्षणविधिर्मुनिभिः प्रदिष्टः" इति ॥

चित्रशब्देन चित्रा । बोधनो बुधः । इति ताम्बूलभक्षणम् ।

अथ नवनीतप्राशनम् ।

 श्रीधरः--

"विधातृपुष्योत्तरवायुपौष्णहरित्रयादित्यशशाङ्कभेषु ।
शुभोदये चैव तथा सुरेज्यभृग्वब्जवारेषु शुभे च पक्षे ॥
मातुः शिशोश्चेन्दुबलं विचार्य पूर्वाह्णकाले च शुभे मुहूर्ते ।
शिशोः प्रदेयं नवनीतमत्र मासे तृतीयेऽपि समे दिने च" इति ॥

 विधातृशब्देन रोहिणी । अब्जश्चन्द्रः । शुभः पक्षः शुक्लपक्षः ।

अथाऽऽयुर्वर्धापनम् ।

तच्चोक्तमादित्यपुराणे--

"सर्वैश्च जन्मदिवसे स्नातो मङ्गलवारिभिः ।
गुरुदेवाग्निविप्रांश्च पूजयेत्तु प्रयत्नतः ॥
स्वनक्षत्रं वित्तपं च तथा देवं प्रजापतिम् ।
संपूज्य भानुं विघ्नेशं मार्कण्डेयं मुनिं तथा ॥
सतिलं गुडसंमिश्रमञ्जल्यर्धमितं पयः ।
पिबेदायुष्यवृद्ध्यर्थं ततो दद्यात्तिलान्घृतम्" इति ॥

 सर्वैरित्यत्र बान्धवैरिति शेषः । स्नातः स्नापितः । अथवा बान्धवैः सह स्नात इत्यर्थः । मङ्गलैर्युक्तानि वारीणि मङ्गलवारीणि तैः । पुष्पाक्षतलाजा मङ्गलानि । पुष्पयुक्तमेकं वारि । अक्षतयुक्तमेकम् । लाजयुक्तमेकम् । तत्तन्मङ्गलपदार्थयोगकृतो वारिभेदः । पुष्पाक्षतलाजमिश्रितमेकस्मिन्पात्रे संभरणीयम् । एवमेवान्यस्मिन्पात्रद्वये, इत्येवं वा मङ्गलवारिबहुत्वं संपादनीयम् । चकारोऽवधारणार्थः । स च स्नात इत्यनन्तरं योज्यः । जन्मदिवसे सर्वैर्मङ्गलवारिभिः स्नात एव गुर्वादीन्पूजयेदित्यर्थः । अथवाऽलंकारधारणकुलदेवतानमस्कारसमुच्चयार्थः । गुरुदेवाग्निविप्रांश्चेत्यत्रत्यश्चकारः कुलदेवताग्रहणार्थः ।

"गुरुदेवाग्निविप्रांस्तु पूजयेत्कुलदेवताम्" ।

 इत्यायुर्वर्धापनं प्रकृत्य ब्राह्मोक्तेः ।

 मृत्युंजयपूजनमपि कर्तव्यमित्युक्तं ब्राह्म एव--

"मृत्युंजयं समभ्यर्च्य तथा नक्षत्रदेवताम् ।
मार्कण्डेयं च द्रौण्यादीन्संपूज्य सगुडं पयः ॥
सतिलं प्राशयेदायुरभिवृद्ध्यर्थमेव तु" इति ॥

 अञ्जल्यर्धमितमिति न्यूनत्वव्यावृत्त्यर्थं, तेनाधिकपाने न क्षतिरिति केचित् । नियम इत्यन्ये ।  भविष्ये--

"प्रतिसंवत्सरं कुर्यान्मार्कण्डेयस्य पूजनम् ।
द्रौण्यादींश्च तथाऽभ्यर्च्य पाद्यगन्धादिभिस्ततः ॥
पुष्पाञ्जलिं समार्प्याथ प्रार्थयेद्वरमुत्तमम् ।
ब्राह्मणेभ्यस्ततो दद्यात्तिलान्क्षीरं घृतं गुडम् ॥
नीराजितो ब्राह्मणांश्च तोषयेद्भोजनादिभिः" इति ॥

 प्रतिसंवत्सरमितिवचनान्नित्याधिकारः । द्रौणिरश्वत्थामा । नीराजित इत्यत्र सुवासिनीभिरिति शेषः । ब्राह्मणांश्चेत्यत्र चकारः सुवासिनीग्रहणार्थः । आदिशब्देन दक्षिणानमस्कारादिग्रहणम् ।

व्यवहारनिर्णये--

"नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम् ।
मार्कण्डेयं नरो भक्त्या पूजयेत्प्रयतस्तदा ॥
ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम् ।
प्रह्लादं च हनूमन्तं विभीषणमथार्चयेत् ॥
स्वनक्ष[३]त्रं जन्मतिथिं प्राप्य संपूजयेन्नरः ।
पष्ठीं च दधिभक्तेन वर्षे वर्षे पुनः पुनः" इति ॥

 ब्रह्मपुराण आयुर्वर्धापनं प्रकृत्य--

"पूर्वाह्णे चैव जन्मर्क्षे स्नात्वा नद्यां नरोत्तमः ।
मध्वाज्यदधिसंयुक्ता दूर्वा मृत्युंजयेन च ॥
जुहुयाद्वै सहस्रं तु शतमष्टोत्तरं तु वा" इति ।

 मातृदत्तेन तु--इह केचिज्जन्मनक्षत्रे प्राक्संवत्सरात्प्रतिमासं नक्षत्रहोममिच्छन्ति तत ऊर्ध्वं संवत्सरे संवत्सर इति जन्मनक्षत्रे नक्षत्रदेवताको होम उक्तः सोऽपि कार्यः । इदं च मलमासे न कार्यम् ।

"उपाकर्म तथोत्सर्गः प्रसवाहोत्सवोऽष्टकाः ।
मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम्" इति पराशरोक्तेः ।

 प्रसवाहे वर्धापनकर्मप्रयुक्त उत्सवः प्रसवाहोत्सव इत्यर्थः । अस्मिन्दिने वार्ज्यान्युक्तानि स्कान्दे--

"खण्डनं नखकेशानां मैथुनाध्वगमौ तथा ।
आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत्" इति ॥

 अध्वगमः प्रवासः । मैथुननिवृत्तौ श्रीवृद्धिरिति रुद्रधरः । आमिषत्यागे जन्मान्तरीयश्रोत्रियत्वं फलमिति निबन्धकारा इति सदानन्दकीर्तिचन्द्रोदये ।  वृद्धमनुः--

"मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा" इति ॥

 मरीचिः--

"सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम्" इति ॥

 भृत्यपुत्रकलत्रार्थीतिश्रवणादेतत्कामस्यैव पुरुषस्य निषेधो नान्यस्येति नवीनाः । न कुर्यात्तिलतर्पणमिति तिलयुक्ततर्पणस्यैव निषेधोऽयं न तु केवलतर्पणस्येति द्रष्टव्यम् ।

 दीपिकायाम्--

"कृतान्तकुजयोर्वारे यस्य जन्मतिथिर्भवेत् ।
अनृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे" इति ॥

 कृतान्तः शनिः । कुजो भौमः । अनृक्षयोगो जन्मतिथौ जन्मर्क्षाभावः । एतद्विघ्नपरिहारार्थं वारयोगानुसारेण शनिमन्त्रजपो भौममन्त्रजपो वाऽष्टोत्तरसहस्रं कर्तव्यः ।

"यदि जन्मदिने मन्दो भौमो वा न च जन्मभम् ।
प्रोक्तं तत्र महाविघ्नं तन्नाशाय समाचरेत् ॥
शनिमन्त्रजपं भूमिपुत्रमन्त्रजपं तु वा ।
वारयोगानुसारेण ह्यष्टाधिकसहस्रकम्"

 इति ज्योतिःसागरवचनात् ।

 ज्योतिर्ग्रन्थे--"सौर्यारयोर्दिने मुक्ता देयाऽनृक्षे तु काञ्चनम्" इति ।

 जपेन सहैतद्दानस्य विकल्पः समुच्चयो वा ।

 जन्मतिथेर्दिनद्वयसत्त्वे निर्णयो बृहद्राजमार्तण्डे--

"घस्रद्वये जन्मतिथिर्यदा स्यात्कुर्यात्तदा जन्मभसंयुतां तु ।
असंगताऽनेन दिनद्वये चेत्पूज्या परा या भवतीह यत्नात्" इति ॥

 घस्रो दिनम् । नक्षत्रं तूदयव्यापि ग्राह्यम् । तथा च सदानन्दकीर्तिचन्द्रोदये बौधायनः--

"यस्मिन्नुदेति सविता तन्नक्षत्रदिनं स्मृतम्" इति ।

 तथा च नक्षत्रयुक्तपूर्वाह्णवर्तितिथिग्रहणं, तदसत्त्वे पूर्वाह्णगामिनी ग्राह्या । दिनद्वये नक्षत्रयोगेऽपि परैव ।

 तदुक्तं कृत्यतत्त्वार्णवे--

"युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मना" इति ॥

 पूर्वाह्णोऽत्र त्रे[४]धा विभक्तस्य दिवसस्य पूर्वभागः । अत्र सौरमानेन वत्सरमासदिनानि ग्राह्याणीति ज्योतिर्ग्रन्था इति द्योते । चान्द्रमानेनेति सदानन्दकीर्तिचन्द्रोदये ।

"प्रतिसंवत्सरं यत्नात्कर्तव्यश्च महोत्सवः" इतिवचनात्
"प्रतिसंवत्सरं कुर्यान्मार्कण्डेयस्य पूजनम्" ।

 इति पूर्वोदाहृतभविष्यवचनाच्च नित्याधिकारः । महोत्सवः स्वेष्टदेवतामुद्दिश्य नृत्यगीतवाद्यादिपूर्वकपूजारूपः कर्तव्य इत्यर्थः । इयं च पूजा षोडशवर्षपर्यन्तं पित्रादिभिः कार्या । ततः स्वयं कुर्यादिति सदानन्दकीर्तिचन्द्रोदये ।

अथाऽऽदित्यपुराणभविष्यपुराणब्रह्मपुराणमातृ-
दत्तोक्तविधीनेकीकृत्य प्रयोगः ।

 कर्ता कृतनित्यक्रियः पुष्पाक्षतलाजात्मकमङ्गलद्रव्ययुतवारिभिः स्नातः सर्वोषधियुतजलपूरितसुभूषितकलशोदकेन च शिशुं स्नापयित्वा शुक्लाम्बरधरोऽलंकृतः कौतुकमाबध्य प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालकां भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोरायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमायुर्वर्धापनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धानि कृत्वो[५]द्धननादिविधिनाऽग्न्यायतनसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्वात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा, आयुर्वर्धापनहोमकर्मणि या यक्ष्यमाणा देवतास्ताः परिग्रहीष्यामीत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे मृत्युंजयं मृत्युंजयमन्त्रेणाष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभिर्वा मध्वाज्यदध्यक्तदूर्वाहुतिभिर्यक्ष्ये । अमुकजन्मनक्षत्रदेवतामेकया चर्वाहुत्या यक्ष्ये । जन्मनक्षत्रोपहोमदेवताश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषा[६]हुत्या यक्ष्य इत्यादि । व्याहृत्यन्तत्वपक्षे–-अङ्गहोमे वरुणं द्वाभ्यामित्यादि राष्ट्रभृदन्तमुक्त्वा जन्मनक्षत्रोपहोमदेवताश्चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वाऽग्निं स्त्रिष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं चरुस्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमिध्मं बर्हिः संमार्गदर्भानवज्वलनदर्भानाज्यं दूर्वां मधु दधि चेति युगपदेव यथासंभवमाज्यं दूर्वा मधु दधि[७] चैवाऽऽसादयेत् । मेक्षणस्य प्रहरणपक्षे मुसलासादनोत्तरमुपवेषमेक्षणयोरा सादनम् । यद्यपि मेक्षणस्यैव स्वलोपेन विनियोजकत्वं नोपवेषस्य तथाऽपि द्वंद्वतार्थमुपवेषस्य मेक्षणसाहित्यम् । वार्क्षत्वसामान्यादुपवेषस्यैव मेक्षणसाहित्यं नान्यस्य चरुस्थाल्याद्यन्यतमस्य पात्रस्य ।

 न च दर्वीप्रणीताप्रणयनप्रोक्षणीपात्रोलूखलमुसलेध्मानां मध्ये यस्य कस्यचित्पात्रस्यापीच्छातः साहित्यमस्तु वार्क्षत्वसामान्यस्यैतेष्वपि सत्त्वादिति वाच्यम् । दर्व्यादीनां बद्धक्रमत्वेन मेक्षणसाहित्यासंभवात् । स्रुवस्य तु दर्व्या सहैवाऽऽसादनं भवति । श्रौते स्रुचा सहाऽऽसादनस्य दृष्टत्वात् । दर्व्याः स्रुक्स्थानीयत्वात् । प्रोक्षणीपात्रस्य सर्वपात्रप्रोक्षणसाधनत्वेनाभ्यर्हितत्वात्सर्वार्थिकपात्रासादनपूर्वभावित्वं प्रोक्षणीपात्रासादने । न चैवं स्रुवासादनपूर्वभावित्वं प्रोक्षणीपात्रासादनस्य कुतो न कल्प्यत इति शङ्कनीयम् । कण्ठरवोक्तपात्रव्यतिरिक्तपात्रासादनप्रापकस्य येन चार्थ इति वचनस्य दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनमिति कण्ठरवोक्तपात्रासादनानन्तरभूतत्वेनाऽऽर्थिकपात्रासादनस्य कण्ठरवोक्तपात्रासादनपूर्वभावित्वस्य वक्तुमशक्यत्वात् । शूर्पस्यैव कृष्णाजिनेन साहित्यं शम्याया अत्राभावात् । एकार्थसंबद्धत्वाच्च । एवमुलूखलमुसलयोरपि द्रष्टव्यम् । इध्मस्य बर्हिःसाहित्यं श्रौते दृष्टत्वात् । तस्मादर्थादुपवेषस्यैव मेक्षणसाहित्यं सिद्धं भवति । एवं पात्राण्यासाद्य ब्रह्मवरणादिचरुकल्पेन चरुं श्रपयित्वा स्रुवदर्व्यौ संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुदूर्वामधुदधिभिः सहाऽऽज्यस्य पर्यग्निकरणमिति विशेषः । ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय मधुना स्थाल्याज्येन दध्ना च दूर्वा अभ्यज्य चरोरुत्तरतो बर्हिषि निधाय परिषेकादि प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा प्रधानहोमं कुर्यात् ।

 त्र्यम्बकं यजामह इति मृत्युंजयमन्त्रस्य विश्वे देवा ऋषयः । मृत्युंजयो देवता । अनुष्टुप्छन्दः । आयुर्वर्धापनप्रधानदूर्वाहोमे विनियोगः । ॐ त्र्यम्बकं यजामहे० तात्स्वाहा' इति मध्वाज्यदध्यक्तदूर्वाहुतीरष्टोत्तरसहस्रमष्टोत्तरशतं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण जुहुयात् । तत्र प्रत्याहुति दूर्वाणां त्रयं त्रयं होतव्यम् ।

 ततः स्रुवेण दर्व्यामुस्तीर्य चरोर्मध्यादङ्गुष्ठपर्वमात्रमवदाय तथैव पूर्वार्धास्वदाय स्रुवेणाभिघार्य स्थालीगतं हविः प्रत्यनक्ति । पञ्चावत्ती चेत्पश्चार्धातृतीयमवदानम् ।  ततो बालकजन्मनक्षत्रदेवतायाः पुरोनुवाक्यां याज्यां चोक्त्वाऽन्ते स्वाहाकारमुक्त्वा जुहुयात् । तत्राग्निर्नः पातु कृत्तिका इत्यारभ्य नक्षत्रदेवतानां याज्यापुरोनुवाक्याः क्रमेण । तत्राग्निर्नः पात्विति वाक्यचतुष्टयं पुरोनुवाक्या । यस्य भा[८]न्तीति तदग्रिमं वाक्यचतुष्टयं याज्या । प्रजापते रोहिणीति तदग्रिमं वाक्यचतुष्टयं पुरोनुवाक्या । रोहिणी देव्युदगादिति तदग्रिमं वाक्यचतुष्टयं याज्या । एवमग्रेऽपि क्रमेण पुरोनुवाक्या याज्याश्च द्रष्टव्याः । प्रकृते पौर्णमास्यमावास्योद्देशेन होमस्याभावात्तदीयाः पूर्णा प[९]श्चा पृथ्वी सुवर्चा निवेशनी यत्ते देवा अदधुरिति पुरोनुवाक्या याज्याश्च त्यक्तव्याः । तत्र यद्बालकजन्मनक्षत्रं तदीयपुरोनुवाक्यायाज्यासंज्ञकमन्त्राभ्यां होमः कार्यः । एतेषां सर्वेषां मन्त्राणां विश्वे देवा ऋषयः । अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पाः पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी मित्र इन्द्रो निर्ऋतिरापो विश्वे देवा विष्णुर्वसवो वरुणोऽज एकपादहिर्बुध्न्यः पूषाऽश्विनौ यम इति क्रमेण सप्तविंशतियाज्यानुवाक्यामन्त्राणां सप्तविंशतिर्देवताः । आद्यायाः पुरोनुवाक्याया अनुष्टुप्छन्दः । आद्याया याज्यायास्त्रिष्टुप्छन्दः । द्वितीयादिपुरोनुवाक्यानां याज्यानां च सर्वेषां(र्वासां) त्रिष्टुप्छन्दः । आयुर्वर्धापनप्रधानचरुहोमे विनियोगः । इत्येतेषां मन्त्राणामृष्यादि । एतन्मध्ये बालकजन्मनक्षत्रमात्रसंबन्धिमन्त्रयोर्ऋषिदेवताछन्दोविनियोगान्स्मृत्वा ताभ्यां मन्त्राभ्यां होमं कृत्वा वारुणीहोमादिराष्ट्रभृदन्तानामन्वाधान उत्कीर्तनं कृतं चेत्तदा राष्ट्रभृदुपहोमान्तमुपहोमाञ्जुहुयात् । तत्र सर्वेषामुपहोममन्त्राणां विश्वे देवा लिङ्गोक्ता [वा] देवता यजूंषि । आयुर्वर्धापनोपहोमे विनियोग इत्यृष्यादि । एतेषूपहोमेषु यद्बालकजन्मनक्षत्रं तत्संबन्ध्युपहोमाञ्जुहुयात्[१०] । तत्र केषांचिन्मते यथालिङ्गं त्यागाः । आर्द्रामघामूलनक्षत्राणां क्रमेण रुद्रपितृनिर्ऋतिदेवत्यत्वात्तद्धोमान्त उदकस्पर्श: कार्यः । एवमार्द्रामघानक्षत्रेष्ट्युपहोमान्तर्गतयो रुद्राय स्वाहा पितृभ्यः स्वाहेति द्वयोरुपहोमयोरप्युदकस्पर्शः ।

 ततः स्वजन्मनक्षत्रेष्टिपठितोपहोमान्हुत्वाऽन्वाधाने प्रसाधनीदेव्यन्तमेवो त्कीर्तितं चेत्तदा स्विष्टकृदादिहोमशेषं समापयेत् । व्याहृत्यन्तोत्कीर्तने तु--अङ्गहोमादिहुतशेषेण स्विष्टकृद्धोमः । दूर्वाणां नैव स्विष्टकृतम् । न त्रिवृदन्नहोमः । ततो गुरुं देवेभ्यो नम इति देवांश्च संपूज्याग्निं विप्रांश्च पूजयेत् । ततः प्रतिमास्वक्षतपुञ्जेषु वा क्रमेण वक्ष्यमाणदेवता आवाहयेत् ।

 त्र्यम्बकं यजामह इत्यस्य विश्वे देवा मृत्युंजयोऽनुष्टुप् । आवाहनादौ विनियोगः । 'ॐ त्र्यम्बकं यजामहे० मृतात्' 'ॐ मृत्युंजयाय नमः । मृत्युंजयमावाहयामि' इति प्रतिमायामक्षतपुञ्जे वा मृत्युंजयमावाह्य,

 या दिव्या आप इति मन्त्रद्वयस्य विश्वे देवाः पूर्वाषाढानक्षत्रदेवता आपस्त्रिष्टुप् । आवाहनादौ विनियोगः । 'ॐ या दिव्या आपः० याश्च कूप्या या० भवन्तु' 'पूर्वाषाढानक्षत्रदेवताभ्योऽद्भयो नमः पूर्वाषाढानक्षत्रदेवता अप आवाहयामि[११]' । 'ॐ अमुककुलदेवतायै नमः, अमुककुलदेवतामावाहयामि । ॐ जन्मनक्षत्राय नमः, जन्मनक्षत्रमावाहयामि । ॐ वित्तपाय नमः, वित्तपमावाहयामि । ॐ देवाय प्रजापतये नमः, देवं प्रजापतिमावाहयामि । ॐ भानवे नमः, भानुमावाहयामि । ॐ विघ्नेशाय नमः, विघ्नेशमावाहयामि । ॐ मार्कण्डेयाय मुनये नमः, मार्कण्डेयं मुनिमावाहयामि । ॐ अश्वत्थाम्ने नमः, अश्वत्थामानमावाहयामि । ॐ बलये नमो बलिमावाहयामि । ॐ व्यासाय नमो व्यासमावाहयामि । ॐ हनूमते नमो हनूमन्तमावाहयामि । ॐ विभीषणाय नमो विभीषणमावाहयामि । ॐ कृपाय नमः कृपमावाहयामि । ॐ परशुरामाय नमः परशुराममावाहयामि । ॐ प्रह्लादाय नमः प्रह्लादमावाहयामि । ॐ षष्ठ्यै नमः षष्ठीमावाहयामि' इति प्रतिमास्वक्षतपुञ्जेषु वाऽऽवाह्य षोडशोपचारैः संपूज्य नमस्कुर्यात् । पष्ठ्यै दधिभक्तनैवेद्यम् । ततस्तदुत्तरतः कलशमभिषेकार्थं स्थापयेत् । मही द्यौः पृथिवीत्यादि । तत्र वरुणमावाह्य पूजयेत् ।

"अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मया गुरो ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" इति गुरोः प्रार्थना ।
"अस्मिञ्जन्मदिने भक्त्या भो देवाः पूजिता मया ।
शरणं वः प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छत" इति देवानां प्रार्थना ।
"अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मयाऽनल ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" इत्यग्नेः प्रार्थना ।

"मृत्युंजय महादेव पूजितोऽस्मिन्दिने मया ।
शरणं त्वां प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छ मे" इति मृत्युंजयस्य ।
"अस्मिन्दिने पूजिताऽसि जन्मनक्षत्रदेवते ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" ॥

इति जन्मनक्षत्रदेवतायाः ।

जन्मनक्षत्रदेवतानां बहुत्वे तु--

"अस्मिन्दिने पूजिताः स्थ जन्मनक्षत्रदेवताः ।
प्रपन्नः शरणं वोऽहं दीर्घमायुः प्रयच्छत" इत्यूहः ।
"कुलरक्षणकर्तृत्वाद्विश्रुता कुलदेवता ।
अस्मिन्दिने पूजिता त्वं दीर्घायुष्यं प्रयच्छ मे" इति कुलदेवतायाः ।
"भो जन्मप्रद नक्षत्र अस्मिञ्जन्मदिने मया ।
भक्त्या संपूजितमसि दीघमायुः प्रयच्छ मे" इति जन्मनक्षत्रस्य ।
"वित्ताधिप कुबेर त्वं यक्षाधिप महामते ।
मह्यं प्रयच्छ दीर्घायुर्धनं धान्यं च वर्धय" इति वित्तपस्य ।
"अस्मिञ्जन्मदिने देव पूजितोऽसि प्रजापते ।
दीर्घमायुः प्रयच्छ त्वं पुत्रान्पौत्रांश्च देहि मे" इति प्रजापतेः ।
"अस्मिन्दिने मया भक्त्या भानो त्वं पूजितो ह्यसि ।
दीर्घमायुः प्रयच्छ त्वं मां च तेजस्विनं कुरु" इति भानोः ।
"त्वं पूजितोऽसि विघ्नेश दीर्घमायुः प्रयच्छ मे ।
अविघ्नेन तु कार्याणि सिद्धिं नय गजानन" इति विघ्नेशस्य ।

ततो मार्कण्डेयं प्रार्थयेत् ।

"आयुष्यद महाभाग सोमवंशसमुद्भव ।
तपोधन मुनिश्रेष्ठ मार्कण्डेय नमोऽस्तु ते ॥
मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः ।
चिरंजीवी यथा त्वं भोस्तथा मां कुरु वै मुने" इति मार्कण्डेयप्रार्थना ।
"द्रोणपुत्र महाभाग चन्द्रतेजःसमप्रभ ।
भव त्वं मम बलदो ह्यश्वत्थामन्नमोऽस्तु ते" इत्यश्वत्थामप्रार्थना ।
"दैत्येन्द्रकुलसंभूत बले दाता हरेः पुरा ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" इति बलिप्रार्थना ।

"भविष्यं सांप्रतं चैव व्यतीतं ज्ञातवान्मुने ।
पराशरात्समुद्भूत त्वं व्यासाऽऽयुष्प्रदो भव" इति व्यासप्रार्थना ।
"अञ्जनीगर्भसंभूत कपीन्द्रसचिवोत्तम ।
रामप्रिय नमस्तुभ्यं हनूमन्रक्ष मां सदा" इति हनूमत्प्रार्थना ।
"विभीषण नमस्तुभ्यं लङ्काधिप महामते ।
आयुरारोग्यमैश्वर्यं देहि पौलस्त्यनन्दन" इति विभीषणप्रार्थना ।
"द्विजेन्द्र भारताचार्य सर्वशास्त्रविशारद ।
शरणं त्वां प्रपन्नोऽस्मि कृप त्वं करुणां कुरु" इति कृपप्रार्थना ।
"रैणुकेय महावीर्य क्षत्रियान्वयनाशन ।
आयुः प्रयच्छ मे राजञ्जामदग्न्य नमोऽस्तु ते" इति परशुरामप्रार्थना ।
"वैष्णवेन्द्रासुरेन्द्र त्वं प्रह्लादात्रार्चितो मया ।
दीर्घमायुः प्रयच्छ त्वं सदाऽऽह्लादं च देहि मे" इति प्रह्लादस्य ।
"शक्तिस्त्वं सर्वदेवानां षष्ठिके पूजिता मया ।
दीर्घमायुः प्रयच्छ त्वं बलं पुष्टिं च वर्धय" इति षष्ठ्याः ।

 ततस्तिलगुडसंमिश्रमञ्जल्यर्धमितं दुग्धं गृहीत्वा---

"सतिलं गुडसंमिश्रमञ्जल्यर्धमितं पयः ।
आयुष्यस्याभिवृद्ध्यर्थं पिबामि द्विजसंनिधौ" इति प्राश्नीयात् ।

 ततो ब्राह्मणेभ्यस्तिलान्क्षीरं घृतं गुडं च दत्त्वा सौभाग्यवतीभिः पुत्रवतीभिः स्त्रीभिर्नीराजित आचाराद्यथाविभवं स्वजनबन्धुसुहृन्पूजां स्ववाहनपूजां च कृत्वा स्थापितकलशोदकेन ब्राह्मणैरभिषेकं कारयित्वा स्थापितदेवतानामुत्तरपूजां विधाय प्रतिमा चेत्तामाचार्याय दत्त्वा ब्राह्मणान्सुवासिनीश्च भोजयित्वा तदाशिषो गृहीत्वा स्वजनबन्ध्वादिभिः सह भुञ्जीयात् । अस्मिन्दिने हविष्याशी भवेत् । अस्मिन्दिने नखकेशनिकुन्तनप्रवासमैथुनकलहादि वर्जयेत् । एवं बालकस्यापि यथायोग्यम् । एतच्च जन्मनक्षत्रे जन्मदिने वाऽर्वाक्संवत्सरात्प्रतिमासं कार्यम् । तत ऊर्ध्वं प्रतिसंवत्सरं बाल्यावस्थायां पित्रादिनैतत्कार्यं तस्यायोग्यत्वात् । योग्यतायां तु स्वस्याऽऽयुर्वर्धापनं स्वेनैव कार्यम् । तत्र ममाऽऽयुरभिवृद्धिद्वारेति संकल्पवाक्य ऊहः । पित्रादिकर्तृके तु मह्यं प्रयच्छ दीर्घायुरित्यत्र, अस्मै प्रयच्छेत्यूहः कार्यः । तथा मामित्यत्र तथेममित्यूहो मार्कण्डेयप्रार्थने । भव त्वं ममेत्यत्र भव त्वमस्येति अश्वत्थामप्रार्थने । 'प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे' इत्यस्मिन्नर्धे 'प्रपन्नः शरणं त्वाऽयं देह्यायुर्दीर्घमस्य भोः' इत्यर्थं बलिप्रार्थने । हनूमन्रक्षेमं सदेति हनूमत्प्रार्थने । अस्मीत्यत्र, अस्तीति कृपप्रार्थने । आयुः प्रयच्छ म इत्यत्र, आयुः प्रयच्छास्येति परशुरामप्रार्थने । व्यासविभीषणयोर्यथास्थित एव पाठः । पिबामीत्येतस्य स्थाने प्राशयामीत्यूहो दुग्धप्राशने ।

इत्यायुर्वर्धापनप्रयोगः ।

अथ सूर्यावलोकनम् ।

श्रीधरीये--

"मासे तृतीये दिवसे दिनेशं शिशुं चतुर्थे शशिनं च धेनुम् ।
विलोकयित्वा च विधिः(धि)प्रयुक्ते काले गृहान्निष्क्रमणं विदध्यात्" इति ॥

 तृतीयपदं देहलीदीपन्यायेनोभयत्रान्वेति । तेन तृतीयमासवत्तृतीयमेव दिनं ग्राह्यम् । तृतीयमासे तृतीयदिवसे सुमुहुर्तेऽस्य शिशोरायुरभिवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं सूर्यावलोकनसंस्कारं करिष्य इति संकल्प्य गणपतीष्टदेवतापूजनपूर्वकं सोत्सवं शिशुना दिनेशदर्शनं कारयेत् ।

 ततश्चतुर्थे मासि शुभे काले चन्द्रं धेनुं च दर्शयेत् । तत्र विधिः सूर्यावलोकनविधिवत् । सूर्यावलोकनसंस्कारमित्येतस्य स्थाने चन्द्रधेन्ववलोकनसंस्कारमिति संकल्पवाक्य ऊहः । अथवा सर्याद्यवलोकनसंस्कारो निष्क्रमणेन सहैव कार्यः ।

अथ निष्क्रमणम् ।

बृहस्पतिः--

"अथ निष्क्रमणं नाम गृहात्प्रथमनिर्गमः ।
अकृतायां क्रियायां स्यादायुःश्रीनाशनं शिशोः" इति ॥

 वाराहे--"द्वादशेऽहनि कर्तव्यं शिशोर्निष्क्रमणं गृहात्" इति ।

 द्वादशेऽहनि निष्क्रमणक्रियापक्षे सूर्याद्यवलोकनसंस्कारोऽपकृष्यैव कर्तव्यः । मासे तृतीये दिवस इत्यनन्तरोदाहृतश्रीधरीयवाक्यस्वारस्यात् ।

यमः-"उपनिष्क्रमणं कुर्याच्चतुर्थे मासि सावने" इति ।

मुहूर्तसंग्रहे--

"शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना ।
रिक्ताषष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत् ॥
चत्वार्थर्यमतस्त्रीणि वैश्वात्रीणि च बुध्न्यभात् ।
मैत्रमादित्यपुष्यौ च रोहिणी च शुभावहाः ॥
वृषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च ।
सतां तु वारवर्गाश्च शुभदाः सदयास्तथा ॥
उपनिष्क्रमणे शस्ता मातुलो वाहयेच्छिशुम्" इति ।

 अर्यमत उत्तरा(र)फल्गुनीतः । वैश्वादुत्तराषाढातः । बुध्न्यभादुत्तरा(र) प्रोष्ठपदर्क्षतः । आदित्यं पुनर्व[१२]सू । अलिर्वृश्चिकः । अधोमुखानि मूलाश्लेषामिश्रोग्राणि । सतां शुभग्रहाणाम् ।

विधिरत्ने--

"दिक्पालचन्द्रसूर्याणां दिशां चैव यथाक्रमम् ।
विधाय पूजनं विप्रान्संभोज्य तदनन्तरम् ॥
शिशोः संरक्षणार्थं तु देवान्संप्रार्थयेत्ततः ।
गृहीत्वा भूषितं बालं बाह्यदेवालयं व्रजेत् ॥
ततः संपूज्य तं देवं रक्षां कुर्याच्छिशोस्ततः ।
भूतेशानं गणेशं च पूजयित्वा प्रतर्पयेत् ॥
देवं प्रदक्षिणीकृत्य प्रणम्य गृहमाव्रजेत्" इति ।

 निष्क्रमणसमये मङ्गलदर्शनं[१३] कारणीयम् ।

"द्विजांश्चाऽऽदर्शपूर्वाणि मङ्गलानि पुरो नयेत्" इतिवचनात् ।

 द्विजानादर्शपूर्वाणि मङ्गलानि च पुरो नयेदित्यन्वयः ।

 तानि च विधिरत्न एवोक्तानि--

"दर्पणः कलशः कन्या तथा सुमनसोऽक्षताः ॥
दीपमाला ध्वजो लाजाः संप्रोक्तं मङ्गलाष्टकम् ॥
विवाहे निष्क्रमे कार्ये वृद्धौ पूर्ते समागमे ।
उत्सवेषु च यात्रायां प्रशस्तं मङ्गलाष्टकम्" इति ॥

 समागमे सुहृद्राजादीनां परस्परं समागमे ।

 बौधायनेनात्र सहोमः प्रयोग उक्तः--

"चतुर्थे मास्युपनिष्क्रमणं ब्राह्मणानन्नेन परिविष्य पुण्याह स्वस्त्यृद्धिमिति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा स्वस्त्यात्रेयं जुहोति स्वस्ति नो मिमीता० स्वस्ति संबाधेष्वभयं नो अस्तु स्वस्ति न इन्द्रो० बृहस्पतिर्दधात्वित्यष्टाभिरनुच्छन्दसं स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानादथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान्संपूज्याऽऽशिषो वाचयित्वा प्रदक्षिणीकृत्य स्वान्गृहानानयन्ति" इति ।

 ग्रामाद्बहिःस्थापितानि बाह्यानि । चित्रियाणि देवताः । त्रिवृता त्रिप्रकारेण । स्वान्गृहानानयन्तीति बहुवचनेन सर्वैः संबन्धिभिः स्वस्वगृहे शिशोर्नयनं कर्तव्यमिति बोध्यते । गृह्यपरिशिष्टेऽपि--

"एवं निष्क्रमणं चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे स्वस्ति वाचयित्वा सुस्नातमलंकृतं कुमारमादाय सह भार्याज्ञातिबान्धवैः पुरंध्रीभिश्च मङ्गलतूर्यघोषेण सशिशुर्गृहानिष्क्रम्य देवतायतनमेत्य तां देवतामुपहारैरभ्यर्च्याऽऽशिषो वाचयित्वाऽऽयतनं प्रदक्षिणं परीत्य गृहमियात्संबन्धिगृहान्वा नीत्वाऽऽनयेत्" इति ।

अथ प्रयोगः ।

 कर्ता द्वादशेऽहनि सावने चतुर्थे मासि वा शुक्लपक्षे कृष्णपक्षैकादश्यादिपञ्चदिनरिक्ताषष्ठ्यष्टमीदर्शद्वादशीव्यतिरिक्ततिथावुत्तरा(र)फल्गुनीहस्तचित्रास्वात्युत्तराषाढाश्रवणधनिष्ठोत्तरा(र)प्रोष्ठपदारेवत्यश्विन्यनूराधापुनर्वसुपुष्यरोहिण्यन्यतमे नक्षत्रे चन्द्रबुधगुरुशुक्रान्यतमे वारे मेषवृषभवृश्चिकव्यतिरिक्ते लग्ने विष्ट्यादिरहिते शुभे काले सभार्यः सशिशुः कृताभ्यङ्गस्नानः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोरायुरभिवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं सूर्याद्यवलोकनं निष्क्रमणं च सह करिष्य इति संकल्प्य गणपतिपूजनादिनान्दीश्राद्धान्तमुक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।

 ततः प्राच्याद्यष्टदिक्पालानां चन्द्रसूर्ययोर्दिशां च नाममन्त्रैर्यथाक्रमं पूजां कृत्वा ब्राह्मणान्संभोज्य शिशुमलंकृत्य सूर्यस्य चन्द्रस्य धेनोश्च दर्शनं कारयित्वा मन्त्रान्पठेत् ।

"दिक्पालानां च सूर्येन्द्वोः प्राच्यादीनां दिशां तथा ।
निक्षेपार्थमिमं दत्तं ते त्वां रक्षन्तु सर्वदा ॥
अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा ।
रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः"

 इति शिशुरक्षणार्थं देवान्संप्रार्थ्य द्विजज्ञातिबान्धवैः पुरंध्रीभिर्मङ्गलतूर्यघोषेण च सहितो दर्पणकलशकन्यापुष्पाक्षतदीपमालाध्वजलाजात्मकमङ्गलाष्टकद्रव्यपुरःसरं विष्णुशिवगणेशाद्यन्यतमालयं गत्वा तत्र देवं संपूज्य नानोपहारान्निवेद्य गोमयानुलिप्ते चतुरश्रे देशे धान्यानि निधाय तत्र शिशुमुपवेश्य मन्त्रेण रक्षां कुर्यात् ।

 त्र्यम्बकमित्यस्य मृत्युंजयमन्त्रस्य विश्वे देवास्त्र्यम्बको मृत्युंजयोऽनुष्टुप् । बालकरक्षणे विनियोगः । ॐ हौं[१४] ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ सुवः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ॐ सुवः ॐ भुवः ॐ भूः ॐ सः ॐ जूं ॐ हौं[१५] ॐ' इत्येवंरूपं मृतसंजीवनमन्त्रं पठन्विभूत्याऽक्षतैर्वा मूर्ध्नि ललाटे च रक्षां कुर्यात् ।।

 ततो भूतेशानगणेशयोः पूजनं कृत्वाऽपूपाद्युपहारान्समर्प्य शिशुं भक्ष्यादिभिस्तोषयित्वा विप्राशिषो गृहीत्वा देवं प्रणम्य प्रदक्षि[१६]णं च शिशुना सहितः कृत्वा देवतायतनं प्रदक्षिणं परीत्य स्वगृहमागच्छेत् । अथवा मातुलादिगृहं प्रत्यादौ नीत्वा स्वगृहं प्रत्यानयेत् ।

 ततो ब्राह्मणेभ्यो दक्षिणां दत्त्वा संभोज्य भूयसीं दक्षिणां दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

अथ बौधायनसूत्रोक्तहोमसहितः प्रयोगः ।

 संकल्पप्रभृति नान्दीश्राद्धान्तं कृ[१७]त्वोद्धननादिविधिनाऽग्न्यायतनसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा निष्क्रमणहोमकर्मणि या यक्ष्यमाणा देवतास्ताः परिग्रहीष्यामीत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे--अश्विनौ भगं देवीमदितिं पूषणं द्यावापृथिव्यौ चाऽऽज्येन, वायुं सोमं भुवनस्य पतिं बृहस्पतिं सर्वगणमादित्यांश्चाऽऽज्येन, विश्वान्देवान्वैश्वानरं वसुमग्निमृभून्देवान्रुद्रं चाऽऽज्येन । उदकस्पर्शः । मित्रावरुणौ पथ्यां रेवतीमदितिं चाऽऽज्येन । इन्द्रं वृद्धश्रवसं पुषणं विश्ववेदसं तार्क्ष्यमरिष्टनेमिं बृहस्पतिं चाऽऽज्येन । देवानाज्येन । तार्क्ष्यमरिष्टनेमिमाज्येन । अंहोमुचमाङ्गिरसं स्वस्त्यात्रेयं तार्क्ष्यं चाऽऽज्येन यक्ष्य इत्युक्त्वा प्रसाधनीदेव्यन्तत्वपक्षे--अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि, व्याहृत्यन्तत्वपक्षेऽङ्गहोमे वरुणं द्विरित्याद्युक्त्वाऽन्वाधानसमिदभ्याधानादिप्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा प्रधानहोमं कुर्यात् । 'ॐ स्वस्ति नो मिमीतामश्विना० सुचेतुना स्वाहा' अश्विभ्यां भगाय देव्या अदित्यै पूष्णे द्यावापृथिवीभ्यां चेदं न मम । 'ॐ स्वस्तये वायुमु० भवन्तु नः स्वाहा' वायवे सोमाय भुवनस्य पतये सर्वगणायाऽऽदित्येभ्यश्चेदं न मम । 'ॐ विश्वे देवा नो पात्वंहसः स्वाहा' विश्वेभ्यो देवेभ्यो वैश्वानराय वसवेऽग्नय ऋतुभ्यो देवेभ्यो रुद्राय चेदं न मम । उदकस्पर्शः । 'ॐ स्वस्ति मित्रावरुणा० स्वाहा' मित्रावरुणाभ्यां पथ्यायै रेवत्या अदितये चेदं न मम ।

'ॐ स्वस्ति न इन्द्रो वृद्ध० बृहस्पतिर्दधातु स्वाहा' इन्द्राय वृद्धश्रवसे पूष्णे विश्ववेदसे तार्क्ष्यारिष्टनेमये बृहस्पतये चेदं न मम । 'ॐ स्वस्ति पन्था० संगमेमहि स्वाहा' देवेभ्य इदं न मम । 'ॐ स्वस्त्ययनं तार्क्ष्य० मिवाऽऽरुहेम स्वाहा' तार्क्ष्यायारिष्टनेमय इदं न मम । 'ॐ अंहोमुच० अस्तु स्वाहा' अंहोमुच आङ्गिरसाय स्वस्त्यात्रेयाय तार्क्ष्याय चेदं न मम । इत्यष्टावाज्याहुतीर्हुत्वाऽङ्गहोमादि स्विष्टकृदादि वा [१८]पूर्वान्तानुसारेण कर्मशेषं समापयेत् ।

 ततो ब्राह्मणाय धेनुं दत्त्वाऽग्निं संपूज्य दिगीशपूजनादि पूर्ववत्कुर्यात् ।

इति निष्क्रमणम् ।

अथ भूम्युपवेशनम् ।

पद्मपुराणे--

"पञ्चमे तु तथा मासे भूमौ तमुपवेशयेत् ।
अत्र सर्वे ग्रहाः श्रेष्ठा भौमो राम विशेषतः ।।
तिथिं विवर्जयेद्रिक्तां शस्तानि शृणु भानि मे ।

 रामेति श्रोतृसंबोधनम् । म इत्यनन्तरं गदत इति शेषः । म इत्यत्रापादानस्य शेषत्वविवक्षायां पष्ठी ।

उत्तरात्रितयं सौम्यं पुष्यर्क्षं शक्रदैवतम् ॥
प्राजापत्यं च हस्ताख्यं शस्तमाश्विनमित्रभे" इति ।

 सौम्यं मृगः । शक्रदैवतं ज्येष्ठा । वह्निदैवतमिति पाठे कृत्तिकाः । प्राजापत्यं रोहिणी । आश्विनमश्विनीनक्षत्रम् । मित्रभमनूराधानक्षत्रम् ।

मुहूर्तसंग्रहे--

"शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना ।
रिक्तास्तिथीर्वर्जयित्वा शिष्टाः स्युर्भूमिवेशने" इति ॥

तत्रैव--

"वराहं पूजयेद्देवं पृथिवीं च तथा द्विजः ।
पूजनं पूर्ववत्कृत्वा गुरुदेवद्विजन्मनाम् ॥
भूभागमुपलिप्याथ कृत्वा तत्र तु मण्डलम् ।
शङ्खपुण्याहशब्देन तं तत्रैवोपवेशयेत् ॥

 तं बालम् । तत्रैव मण्डल एव ।

 रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयुष्प्रमाणं निखिलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः । जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥

धारिण्यशेषभूतानां मातस्त्वमधिका ह्यसि ।
अजरा चाप्रमेया न सर्वभूतनमस्कृता ॥
त्वमेवाशेषजगतां प्रतिष्ठा चाऽऽश्रया ह्यसि ।
कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् ।
तस्योपवेशनं कृत्वा भूमौ ब्राह्मणपूजनम् ।
ततः कृत्वा ततः कार्य उत्सवः पूर्ववद्द्विजैः" इति ॥

 उत्सवो नीराजनमिति व्याख्यातं पारिजाते ।

 कर्ता पञ्चमे मासे शुक्लपक्षे कृष्णपक्षैकादश्यादिपञ्चदिनरिक्ताव्यतिरिक्ततिथावुत्तरा(र)फल्गुनीमृगशीर्षपुष्यकृत्तिकाज्येष्ठारोहिणीहस्तोत्तराषाढानूराधोत्तरा(र)प्रोष्ठपदाश्विन्यन्यतमे नक्षत्रे यस्मिन्कस्मिंश्चिद्वारे विशेषतो भौमवारे पूर्वाह्णे चन्द्रतारानुकूले शुभे लग्ने देशकालौ संकीर्त्यास्य शिशोरायुष्याद्यभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं भूम्युपवेशनसंस्कारं करिष्य इति संकल्प्य गणेशपूजनं पुण्याहवाचनं कृत्वा वराहपृथिवीगुरुदेवद्विजान्पूजयित्वा भूमिमुपलिप्य तत्र रङ्गवल्लीमण्डलं कृत्वा शङ्खतूर्यादिमङ्गलघोषे क्रियमाणे पुण्याहशब्देन नीराजितं बालं तस्मिन्मण्डल उपवेशयेत् ।

 तत्र मन्त्राः--

"रक्षैनं वसुधे देवि सदा सर्वगतं शुभे ।
आयुष्प्रमाणं निखिलं निक्षिपस्व हरिप्रिये ॥
अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः ।
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥
धारिण्यशेषभूतानां मातस्त्वमधिका ह्यसि ।
अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥
त्वमेवाशेषजगतां प्रतिष्ठा चाऽऽश्रया ह्यसि ।
कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम्" इति ॥

 एतैर्मन्त्रैर्भूमावुपवेशयित्वा(श्य) ब्राह्मणान्संपूज्य बालं पुत्रवतीभिः सुवासिनीभिर्नीराजयित्वाऽऽ(ज्याऽऽ)शिषो वाचयित्वा ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् । कुमार्या अप्येवम् । तत्र 'रक्षैनां वसुधे देवि सदा सर्वगता शुभे' 'अचिरादायुषस्त्वस्याः' 'कुमारीं पाहि मातस्त्वम्' इत्यूहः ।

इति भूम्युपवेशनम् ।

अथान्नप्राशनम् ।

 तत्रेदं गृह्यम्--"अथ षष्ठे मास्यन्नप्राशनमापूर्यमाणपक्षे पुण्ये नक्षत्रे" इति ।  नारदः--

"जन्मतो मासि षष्ठे स्यात्सौरेणोत्तममन्नदम् ।
तदभावेऽष्टमे मासे नवमे दशमेऽपि वा ॥
द्वादशे वाऽपि कुर्वीत प्रथमान्नाशनं परम् ।
संवत्सरे वा संपूर्णे केचिदिच्छन्ति पण्डिताः" इति ॥

 सौरेण षष्ठेनेत्यन्वयः । न चाप्ययमेव नियमः ।

"बालान्नभोजनविधौ गुरुशुक्रमौढ्यबाल्यप्रयुक्तमशुभं त्वधिमासदोषः ।
नास्त्येव सावनविधाविह मासि षष्ठे युग्मे च मासि परतः शुभचन्द्रपक्षे"

 इति विधिरत्ने सावनमानेनापि षष्ठमासस्य विधानात् । शुभ इति चन्द्रविशेषणं चन्द्रानुकूल्यापेक्षणार्थम् । चन्द्रस्य पक्षः शुक्लपक्षः । तत्रापि परतः परस्मिन्पञ्चम्याः परभाग इत्यर्थः । नवममासस्तु स्त्रीविषयः ।

"नरस्यान्नाशने युग्मं स्त्रीणामन्नाशनेऽयुजम्" इति गर्गोक्तेः ।

 अयुजमिति पदच्छेदः ।

शङ्खलौगाक्षी--

"संवत्सरेऽन्नप्राशनं दन्तेषु जातेषु वा" इति ।

 देवलः--

"षष्ठे मास्यष्टमे वाऽथ पुंसां स्त्रीणां च पञ्चमे ।
सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभम्" इति ॥

तिथीराह नारदः--

"पक्षयोरुभयोरुक्तं कृष्णे चान्त्यत्रिकं विना ।
अयुजस्तिथयः श्रेष्ठा नवमीपर्ववर्जिताः ॥
युग्मासु दशमी प्रोक्ता द्वितीया चान्नभोजने" इति ।

 अयुजो विषमाः । वारानाह कश्यपोऽन्नप्राशनं प्रकृत्य--

"सूर्यार्किभौमवारांश्च त्यक्त्वाऽन्यस्मिंस्तु वासरे" इति ।

 आर्किः शनिः । नक्षत्राण्याह बृहस्पतिः--

"पौष्णादितीन्दुहस्ताश्वित्वाष्ट्रवासववैष्णवाः ।
रोहिणीमैत्रतिष्याश्च वारुणं चोत्तरात्रयम् ॥
वायव्यं च शुभा ह्येतास्तारा अन्नाशने सदा" इति ॥

 श्रीधरीयेऽन्या अप्युक्ताः--

"आदित्यतिष्यवसुसौम्यकरानिलाश्विचित्राजविष्णुवरुणोत्तरपौष्णमित्राः ।
बालान्नभोजनविधौ दशमे विशुद्धे छिद्रां विहाय नवमीं तिथयः शुभाः स्युः" इति ।

 आदित्यं पुनर्वसू । वसवः श्रविष्ठाः । सौम्यं मृगशिरः । करो हस्तः । अनिलः स्वाती । अजो ब्रह्मा तन्नक्षत्रं रोहिणी । विष्णुः श्रवणः । वरुणः शततारकाः । उत्तराशब्देनोत्तरात्रयम् । पोष्णं रेवती । मित्रोऽनूराधाः । अन्यत्प्रसिद्धम् । ज्योतिरर्णवे विशेषः--

"जन्मर्क्षे श्रीक्षयं विद्यात्कर्मर्क्षे चापि सौम्यदृक् ।
आधानर्क्षे च बालानां भोजनं रोगनाशनम्" इति ॥

 एतानि तु संग्रहे--

"ज[१९]न्मदं जन्मनक्षत्रं दशमं कर्मसंज्ञितम् ।
एकोनविंशमाधानम्" इति ॥

 यत्तु--

"पट्टबन्धनचौलान्नप्राशने चोपनायने ।
[२०]शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि"

 इति नारदवचनं तत्क्षत्त्रियविषयम् । पट्टबन्धनसाहचर्यात् । जन्मर्क्षे विकल्प इति प्रयोगपारिजाते । प्राशनविधिमाह वसिष्ठः--

"देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च ।
अलंकृतस्य दातव्यमन्नं पात्रे स काञ्चने ॥
मध्वाज्यशर्करोपेतं प्राशयेत्पायसं तु तत्" इति ॥

 धात्री माता । स कर्ता । आश्वलायनोऽपि विशेषमाह-- "घृतौदनं तेजस्कामो दध्योदनमिन्द्रियकामो मध्वोदनमायुष्कामो दधिमधुघृतमिश्रमन्नं प्राशयन्सर्वकामो भवतीति विज्ञायते" इति ।

 कश्यपसंहितायाम्--

"बालकं प्राङ्मुखं कृत्वा प्राशयेच्च विधानतः ।
स्वर्णदर्व्याऽथवा रौप्यदर्व्या वा मङ्गलस्वनैः" इति ॥

 इदं च कुमार्या अप्यमन्त्रकं कार्यम् ।

 अत्र जीविकापरीक्षा मार्कण्डेयेनोक्ता--

"देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः ।
अस्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम् ॥

प्रथमं यत्स्पृशेद्बालस्ततो भाण्डं स्वयं तदा
जीविका तस्य बालस्य तेनैव तु भविष्यति" इति ॥

 शिल्पस्य लेखन[स्य]भाण्ड(ण्डं)वस्तु लेखनी मशीपात्रादि । अस्त्रं बाणधनुरादि । शस्त्रं खड्गादि ।

अथ प्रयोगः ।

 जन्मतः षष्ठे मासेऽसंभवेऽष्टमाद्यन्यतमे समे मासे दन्तेषु जातेषु वा पूर्णे संवत्सरे वा शुक्लपक्षेऽन्त्यत्रिकव्यतिरिक्ते कृष्णपक्षे वा नवमीपर्ववर्जितायुग्मतिथौ दशमीद्वितीयान्यतरतिथौ वा चन्द्रबुधगुरुशुक्रान्यतमे वारे रोहिणीमृगशिरःपुनर्वसुपुष्योत्तरा(र)फल्गुनीहस्तचित्रास्वात्यनूराधोत्तराषाढाश्रवणधनिष्ठाशतभिषगुत्तरा(र)प्रोष्ठपदारेवत्यश्विन्यन्यतमे नक्षत्रे ज्योतिर्विदादिष्टे मुहूर्ते कार्यम् । कुमार्यास्तु सप्तमनवमैकादशान्यतमो विषमो मासः षष्ठासंभवे ग्राह्यः । षष्ठे मासि क्रियायां गुरुशुक्रास्तमलमासादि[२१]दोषो नास्ति । कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यां संस्कार्यं चोपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोर्मातृगर्भमलपाशनैनोनिबर्हणबीजगर्भसमुद्भवैनोनिबर्हणान्नाद्यब्रह्मवर्चसतेजइन्द्रियायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमन्नप्राशनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्युक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।

 ततः शुचिनामाऽयमग्निरिति ध्यायन्नौपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽन्नप्राशनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा, अङ्गहोमे वरुणं द्विरित्यादि । पात्रासादने दधि मधु घृतं पायसमन्नमाज्यासादनोत्तरं सादयेत् ।

 ततो ब्रह्मवरणादि त्रिवृदन्नहोमीयपुण्याहवाचनान्तं कुर्यात् । अस्मिन्पुण्याहवाचने प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयः कृताकृताः ।

 ततः स्वदक्षिणतो मातुरुत्सङ्गस्थं प्राङ्मुखं शिशुं सुवर्णदर्व्या रौप्यदर्व्या वा मङ्गलघोषपूर्वकमासादितं दधि मधु घृतमिति त्रिवृत्प्रतिमन्त्रं प्राशयति-- 'ॐ भूस्त्वयि दधामि' इति प्रथमम् । 'ॐ भुवस्त्वयि दधामि' इति द्वितीयम् । 'ॐ सुवस्त्वयि दधामि । इति तृतीयम् । 'ॐ अपां त्वौषधीना रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वमीवास्त आप ओषधयो भवन्तु' इत्यासादितं दधि मधु घृतमासादिते पायसे निक्षिप्य काञ्चनाद्यन्यतमे पात्रे तत्पायसं निक्षिप्य मङ्गलघोषपूर्वकं स्वर्णदर्व्या रौप्यदर्व्या वा किंचिदेकवारं प्राशयति । ततो यथेष्टं प्राशयति । अथ वा मधुदधिघृतमिश्रमन्नं प्राशयति ।।

 ततस्तन्मुखं प्रक्षाल्य तं भूमावुपवेश्य तदग्रेऽस्त्रशस्त्रपुस्तकादिशिल्पानि विन्यस्य स्वेच्छया शिशुर्यत्स्पृशेत्साऽस्य जीविकेति परीक्षां कुर्यात् । इदं च कुमार्या अप्यमन्त्रकं होमरहितं कार्यम् । इत्यन्नप्राशनम् ।

अथ शिशुरक्षणविधिः ।

 यदि बालस्य प्रमादाद्भुवि पतनादिना भीतिरुपजायते तदा पार्थिवं रजः परिगृह्य शिशुशिरः प्रदक्षिणं कुर्वन्विष्णुस्त्वां पूर्वतः पात्वित्यादिभिर्मन्त्रै रक्षां कुर्यात् । एष च रक्षाविधिः शकटभञ्जने नन्दगोपेन भीतोऽयं शिशुरिति बुद्ध्या यदुनन्दनस्य कृष्णस्य कृतः ।

 तथा च शिशुरक्षारत्ने--

"नन्दोऽङ्कमेनमारोप्य भूरेणून्परिगृह्य च ।
शिरः प्रदक्षिणं कुर्वन्मन्त्रमेनं जजाप ह ॥
विष्णुस्त्वां पूर्वतः पातु रुद्रो रक्षतु दक्षिणे ।
ब्रह्मा च पश्चिमे पातु चन्द्रो रक्षत्वथोत्त[२२]राम्(रे) ॥
उपरिष्टात्तथा सूर्यः पायाच्चाधश्च वासुकिः ।
पायादूर्ध्वमधो वत्स(सं) शिष्टाः काष्ठाः समीरणः ॥
स्वस्तिं करोतु भगवान्पिनाकी वृषभध्वजः ।
गावो रक्षन्तु सर्वत्र भूमौ पातु सदाशिवः ॥
एवमुच्चार्य नन्दस्तु कृष्णं पस्पर्श सर्वतः ।
एष मन्त्रो हि बालानां रक्षायै परिकीर्तितः" इति ॥

भागवतेऽपि--

"गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ।
यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः ॥
रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः ।
गोमूत्रेण स्नापयित्वा पुनर्गोरजसाऽर्भकम् ॥
रक्षां च[२३]क्रुः सशकृता द्वादशाङ्गेषु नामभिः ।
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ॥
न्यस्याऽऽत्मन्यथ बालस्य बीजन्यासमकुर्वत ।

अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः ॥
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ।
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्त्वत्पार्श्वयोर्धनुरसी मधुहाऽजनश्च ॥
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ।

इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ॥
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ।
पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः ॥
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ।
व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः ॥
भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयंकरः ।
डाकिन्यो यातुधान्यश्च कूश्माण्डा येऽर्भकग्रहाः ॥
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ।
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ॥
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ।
स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ॥
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः
इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् ॥
पाययित्वा स्तनं माता संन्यवेशयदात्मजम्" इति ।

 द्वादशाङ्गेषु ललाटादिषु केशवादिद्वादशनामभिः । अनाचान्ता एव प्रथममतिसंभ्रमेणैव रक्षां कृत्वा किंचिल्लब्धाश्वासाः पुनस्तात्पर्येण बीजन्यासमकुर्वतेत्याह-- गोप्य इति । संस्पृष्टसलिला आचान्ता आत्मनि प्रथममङ्गेषु करयोश्च पृथगजाद्येकादशवीजानां मध्ये करशुद्धौ त्रीणि करयोः संधिषु चत्वारि[२४] चत्वारि तथाऽङ्घ्ज्यादावेकैस्मिन्नङ्गेऽजाद्येकैकं बीजं न्यस्य बालस्याप्यङ्गेषु तथैवाकुर्वत । अङ्घ्रि अङ्घ्री । जानु जानुनी । भुजं भुजौ । कं शिरः । चक्रसहितो हरिस्तवाग्रतोऽस्तु । सहगदो गदासहितो हरिस्तव पश्चादस्तु । त्वत्पार्श्वयोर्धनुर्धरो मधुहाऽसिधरोऽजनश्च । शङ्खधर उरुगायश्चतुष्कोणेषु । क्षितावधस्तात् । आत्मानमहंकारम् । संन्यवेशयत्, शाययामासेति श्रीधरेण व्याख्यातम् । इति शिशुरक्षणविधिः ।

अथ बालस्य दन्तसंघर्षदोषे तत्परिहारोपायः ।

मार्कण्डेयपुराणे--

"दन्ताकृष्टिः प्रसूतानां बालानां दशनस्थितः ।
करोति संघर्षमति चिकीर्षुर्दुःसहागमम् ॥

 बालानां दशनेषु स्थितः स दन्ताकृष्टिर्दुःसहस्याऽऽगमं कर्तुमिच्छुः पूर्वमतिसंघर्षं दन्तानां करोतीत्यर्थः । दुःसह इत्यलक्ष्म्या मृत्योश्च पुत्रस्तत्पौत्रो दन्ताकृष्टिः ।

तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः ।
शयनस्योपरि क्षिप्तैर्मासं च दशनोपरि ॥

 मासं मासपर्यन्तम् ।

सुवर्चलौषधिस्नानात्तथा सच्छास्त्रकीर्तनात् ।
उष्ट्रकण्टकखड्गास्थिक्षौमवस्त्रावधारणात्" इति ॥

 ब्रह्मसोचलीति भाषया बङ्गाले प्रसिद्धा । उष्ट्रकण्टकम् 'उण्टकटारिया' इति भाषया प्रसिद्धम् । खड्गः प्रसिद्धः । अस्थि गजदन्तादि शुच्यस्थि । खड्गास्थीत्येकमेव वा पदम् । तदा खड्गमृगास्थीत्यर्थः । क्षौमवस्त्रे बद्ध्वा तस्य कण्ठेऽवधारणाच्च संघर्षदोषापशमनं भवतीत्यर्थः ।

इति दन्तसंघर्षदोषपरिहारोपायः ।

अथ कटिसूत्रबन्धनम् ।

तच्च स्मृतौ--

"गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् ।
कटिबन्धनसंयुक्तं तत्सर्वं निष्फलं भवेत्" इति ॥

 अस्मादेव वचनादुपनयनात्प्राग्वैदिकतान्त्रिककर्मण्यनधिकारस्तावत्पर्यन्तं कटिबन्धने न दोष इति गम्यते । तच्चाऽऽश्वलायनोक्तम्--

"रौप्यं कार्पासजं हैमीं पट्टसूत्रकृतां तु वा ।
वर्जयेत्कर्मकाले तु काञ्चीं विप्रः प्रयत्नतः" इति ॥

इति कटिसूत्रबन्धनम् ।

अथ चूडाकर्म ।

 तत्रेदं गृह्यम्--"तृतीये वर्षे चूडाकर्माऽऽपूर्यमाणपक्षे पुण्ये नक्षत्रे"  इति ।

 अत्र मातृदत्त आह--"उदगयनमप्यत्राऽऽचाराद्ग्राह्यम्" इति ।

 आश्वलायनेन तु स्पष्टमेवोक्तम्--

"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः" इति ।

 चैत्रमासस्यात्र वर्ज्यत्वमुक्तं देवरातेन--

"चैत्रमासं वर्जयित्वा चौलं स्यादुत्तरायणे" इति ।

यमः--

"ततः संवत्सरेऽपूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा चूडाकर्म विधीयते" इति ॥

 अपूर्ण इति च्छेदः । अयं च प्रथमद्वितीयसंवत्सरविधिः शाखान्तरपर एव । न सत्याषाढसूत्रानुसारिपरः । आचार्यविहिततृतीयवर्षात्मकचौलकालतः पूर्वतनकालग्रहणस्यायुक्तत्वात् ।

 बृहस्पतिः--

"तृतीयेऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः ।
पञ्चमे सप्तमे वाऽपि स्त्रियाः पुंसोऽथ वा समम्" इति ॥

 अत्र तृतीयादि विषमं स्त्रीपुंसयोरुभयोरपि मुख्यम् । चतुर्थादि समं त्वनुकल्पः । तत्रापि जन्मतस्तृतीयादि मुख्यं गर्भतस्त्वमुख्यं, तेन गर्भाष्टमेऽष्टमे वाऽब्द इतिवन्न तुल्यविकल्पः । अत एव नारदः--

"जन्मतस्तु तृतीये चेच्छ्रेष्ठमिच्छन्ति पण्डिताः ।
पञ्चमे सप्तमे वर्षे जन्मतो मध्यमं भवेत् ॥
अधमं गर्भतः स्यात्तु दशमैकादशेऽपि वा[२५]" इति ॥

 केनचित्प्रतिबन्धेन चौलोपनयने दशमवर्षपर्यन्तमेकादशवर्षपर्यन्तं वा न जाते तत्र दशमैकादशेऽपि[२६] वेत्येतस्य संभवो ज्ञेयः । गर्भतस्तृतीये पञ्चमे सप्तमे वा वर्षे चौलमधमं भवेदित्यधमं गर्भतः स्यादित्येतस्यार्थः ।

 वृत्तशते--

"न जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीयदिने विदध्यात् ।
न ज्येष्ठमासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि" इति ॥

चण्डेश्वरः--

"मार्गे मासि तथा ज्येष्ठे क्षौरं परिणयं व्रतम् ।
ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत् ॥
कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठपुत्रस्य कारयेत् ।
उत्सवादिषु कार्येषु दिनानि दश वर्जयेत्" इति ॥

 क्षौरं चौलम् । परिणयो विवाहः । व्रतमुपनयनम् । धर्मप्रकाशे नारदः--

"द्वित्रिपञ्चमसप्तम्यामेकादश्यां तथैव च ।
दशम्यां च त्रयोदश्यां कार्यं चौलं विजानता ॥
पक्षच्छिद्राश्च नवमीमाद्यां पञ्चदशीं तथा ॥
हित्वा तु तिथयः सर्वाः प्रशस्ताश्चौलकर्मणि" इति ॥

 पक्षच्छिद्राः सीमन्तप्रकरण उक्ताः । आद्या प्रतिपत् । पञ्चदशी पूर्णिमा । अमावास्यायास्तु सामान्यशास्त्रादेव निषेधसिद्धेः ।

 व्यासः--

"तिथिं प्रतिपदं रिक्तां विष्टिं चैव विवर्जयेत् ।
वारं शनैश्चरादित्यभौमानां रात्रिमेव च" इति ॥

 शन्यादीनां वारं वर्जयेत् । रात्रिं च वर्जयेत् । रात्रिशब्देन सर्वा रात्रयो ग्राह्याः । न तु शून्यादिवारसंबन्धिन्य एवेति । अन्यथा पृथगुपादानवैयर्थ्यापत्तेः । बृहस्पतिवारेषु वर्णविशेषेण विशेषमाह--

"पापग्रहाणां वा[२७]रेषु विप्राणां शुभदं रवेः ।
क्षत्त्रियाणां क्षमामूनोर्विट्शूद्राणां श[२८]नेः शुभम्" [ इति ] ॥

 बृहस्पतिः--

"हस्ताश्विविष्णुपौष्णानि श्रविष्ठादित्यपुष्यभम् ।
सौम्यचित्रे नवक्षौर उत्तमास्तारकाः स्मृताः ॥
त्रीण्युत्तराणि वायव्यं रोहिणी वारुणं तथा ।
क्षौरे षण्मध्यमाः प्रोक्ताः शेषा द्वादश गर्हिताः" इति ॥

 व्यासः--

"नक्षत्रे तु न कुर्वीत यस्मिञ्जातो भवेन्नरः ।
न प्रोष्ठपदयोः कार्यं नैवाऽऽग्नेये च भारत" इति ॥

 आग्नेयं कृत्तिकाः ।

 वसिष्ठः--

"वृषभश्च कुलीरश्च यमकन्यातुलाघटाः ।
मकरश्चैव मीनश्च क्षुरकर्मणि पूजिताः ॥
मेषे दुःखी मृगेन्द्रे च वृश्चिके व्यसनं महत् ।
राजबन्धश्च धनुषि शुभयुक्ते न दुष्यति" इति ॥

 कुलीरः कर्कः । यमं मिथुनम् । घटः कुम्भः । मृगेन्द्रः सिंहः । अयं च कुम्भविधिर्गत्यन्तराभावे ।

"कुम्भः कुलविनाशाय कथितः क्षुरकर्मणि ।
शुभैर्दृष्टोऽथवा युक्तो न कुम्भः शुभकृत्सदा" ॥

 इति ज्योतिर्निबन्धे तन्निषेधात् ।

 ज्योतिःसागरे-–"वारनक्षत्रयोगेषु शुभेषु करणेषु च ।

हस्तत्रयं मृगशिरः श्रवणत्रयं च पुष्याश्विनी च शुभमानि पुनर्वसौ च ।
क्षौरे तु कर्मणि हितान्युदयक्षणे च युक्तानि चोडुपतिना यदि शस्ततारा" इति ।

 अत्रिः--

"अब्दायनर्तुमासान्ते वर्षान्ते च दिनक्षये ।
कृष्णपक्षे गते क्षौरे तस्याऽऽरोग्यं न विद्यते" इति ॥

ज्योतिर्नारदः--

"सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् ।
पञ्चाब्दात्प्रागथोर्ध्वं तु गर्भिण्यामपि कारयेत् ॥
सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यते" इति ॥

 अत एव कैश्चिदुदाहृतस्य सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेदित्यस्य वचसः समूलत्वेऽपि प्रत्येकमेव निषेधो न सहितयोरिति द्रष्टव्यम् । पञ्चाब्दानि पूर्यन्ते यस्मिन्दिने तत्पञ्चाब्दम् । अथोर्ध्वं पञ्चाब्दादूर्ध्वम् । अत्र सहशब्देन चौलोपनयनयोरव्यवधानं दर्शितं भवति ।

 प्रकारान्तरेण निषेधापवादमाह वसिष्ठः--

"गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म तु ।
पञ्चमासादधः कुर्यादत ऊर्ध्वं न कारयेत्" इति ॥

 पञ्च मासा गर्भसंबन्धिनः पूर्यन्ते यस्मिन्दिने तत्पञ्चमासम् । 'सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत्' इत्यस्मिन्विषये 'पञ्चमासादधः कुर्यात्' इत्ययं प्रतिप्रसवः । 'अत ऊर्ध्वं न कारयेत्' इति वसिष्ठवचनबोधितनिषेधविषये 'अथोर्ध्वं तु गर्भिण्यामपि कारयेत्' इति नारदवचनबोधितोऽयं प्रतिप्रसवः । सूनोर्मातरीत्यस्मिन्वाक्ये माता साक्षान्मातैव ग्राह्या । न तु सापत्नमाता ।

"गर्भिण्यामपि भार्यायां सूनोश्चौलं न कारयेत् ।
भिन्नभार्यासुतस्येह न दोषश्चौलकर्मणि" ॥

 इति प्रयोगदर्पणे स्मृत्यन्तरवचनात् ।

स्मृतिरत्नाकरे स्मृत्यन्तरे--

"सूनोः सापत्नमाता चेद्भवेद्गर्भवती तदा ।
चौलोपनयने कुर्यादित्याहुः पूर्वसूरयः" इति ।

 मातरि रजस्वलायां वृद्धगार्ग्यः--

"विवाहव्रतचूडासु माता यदि रजस्वला ।
तस्याः शुद्धेः परं कार्यं माङ्गल्यं मनुरब्रवीत्" इति ॥

 परमनन्तरम् । यदा चौलादिप्रारम्भोत्तरं रजःप्रारम्भात्प्रागपि रजसि सर्वथा मुहूर्तान्तराभावो वा तदा शान्तिं कृत्वा कार्यमित्युक्तं विवाहप्रकरणे तदत्रापि ज्ञेयम् ।

कात्यायनः--

"कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मुण्डनम् ।
प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम्" इति ॥

 ऋतुत्रयं षण्मासाः । कुलं त्रिपुरुषम् ।

"पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् ।
प्रवेशनिर्गमौ तद्वत्तथा मण्डनमुण्डने" इति मेधातिथ्युक्तेः ।

 प्रवेशादिस्वरूपमाह कात्यायनः--

"पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः ।
मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम्" इति ॥

 वृद्धमनुः--

"एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः ।
न समानक्रियां कुर्यान्मातृभेदे विधीयते" इति ॥

 तथाऽऽरम्भोत्तरं सूतके प्राप्ते संग्रहे--

"कूश्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम् ।
चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्" इति ॥

 चूडाकरणे पक्षद्वयमुक्तं गृह्ये--

"उप्त्वा यथोदि(चि)तं चूडाः कारयन्ति यथर्षि वा" इति ॥

 उप्त्वा वपनादनन्तरं यथोचितं यथाकुलधर्मं चूडाः कारयन्तीत्येकः पक्षः । यथार्षि यथाप्रवरम् । एकार्षेयस्यैका । द्व्यार्षेयस्य द्वे । त्र्यार्षेयस्य तिस्रः । पञ्चार्षेयस्य पञ्चेत्यपरः पक्षः । उप्त्वेतिवचनं छेदनमात्रं मा भूदित्येतदर्थम् । वस्तुतस्तु--उप्त्वेतिवचनं णिजन्तेन संबन्धार्थम् । तेन यश्चूडानां कारयिता पित्रादिः स एव वपनकर्तेति सिद्धं भवति । इदानीं तु तादृशशिक्षाया अभावाल्लोकविद्विष्टत्वाच्च समन्त्रकं चेष्टामात्रं कृत्वा नापितेनैव वपनं कारयन्ति शिष्टाः । क्षुरविषये विशेषमाह षड्गुरुशिष्यः--

"क्षुरस्य नित्यं लौहत्वात्ताम्रत्वाच्चेह लौहगीः ।
गृह्यान्तरेषु बहुषु क्षुरस्ताम्रमयो यतः" इति ॥

 चौले भुक्तवतः प्रायश्चित्तमाह पराशरः--

"निर्वृत्ते चू[२९]डाहोमे तु प्राङ्नामकरणात्तथा ।
चरेत्सांतपनं भुक्त्वा जातकर्मणि चैव हि ॥
अतोऽन्येषु तु भुक्त्वाऽन्नं संस्कारेषु द्विजोत्तमः ।
नियोगादुपवासेन शुध्यते निन्द्यभोजनात्" इति ।

 अत्र ब्रह्मौदनाङ्गभोजनमिव चूडाद्यङ्गभोजनमेव निमित्तत्वेन विवक्षितम् । अतस्तद्दिने तद्गृहे भोक्तुः प्रायश्चित्तमिति केषांचिदुक्तिः परास्ता । चौलोत्तरं विशेषः स्मृत्य[३०]न्तरे--

"विवाहमौञ्जीचौलोर्ध्वं वर्षमर्धं तदर्धकम् ।
पिण्डान्सपिण्डा नो दद्युर्गयायां दद्युरेव ते" इति ॥

 ते सपिण्डाः ।

अथ प्रयोगः ।

 जन्मतस्तृतीये वर्षेऽभावे जन्मतः पञ्चमे सप्तमे वा गर्भतो दशम एकादशे वोदगयने शुक्लपक्षेऽन्त्यत्रिकं विना कृष्णपक्षे वा षष्ठ्यष्टमीद्वादशीप्रतिपत्पूर्णिमाव्यतिरिक्ततिथौ शनिरविभौमव्यतिरिक्ते वासरे जन्मनक्षत्रभिन्नेऽश्विनीमृगशिरःपुनर्वसुपुष्यहस्तचित्राश्रवणधनिष्ठारेवत्यन्यतमनक्षत्रेऽसंभव उत्तरात्रयस्वातीरोहिणीशतभिषक्ष्वपि जन्ममासानन्तर्वर्तिनि व्यतीपातादिदोषरहिते दिने ज्योतिर्विदादिष्टलग्नादौ स्वमा(सूनोर्मा)तर्यगर्भिण्यां पञ्चमवर्षादूर्ध्वं गर्भिण्यामपि कार्यम् । अत्र तृतीयवर्षे क्रियायामपि गुरुशुक्रास्तमलमासादिनिषेधोऽस्त्येव । शुद्धकाललाभसंभवात् ।

 कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यां संस्कार्यं चोपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्वर्चोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं चूडाकर्म करिष्य इति संकल्प्य गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धाङ्कुरारोपणान्युक्तरीत्या कुर्यात् । अत्र केशिनः प्रीयन्तामिति विशेषः ।

 ततः सभ्यनामाऽयमग्निरित्यनुसंदधन्नौपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा चूडाकर्महोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्विरित्यादि । पात्रासादने दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं शीता अपो बहिरत्युष्णीकृता अपः साग्रकुशचतुष्टयं क्षुरमुपवेषं संमार्गदर्भानिध्मं बर्हि[३१]रवज्वलनदर्भानाज्यमिति पात्राण्यासादयेत् ।

 ततो ब्रह्मवरणादि त्रिवृदन्नपुण्याहवाचनान्तं कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयो वैकल्पिकाः ।

 ततोऽग्नेः पश्चात्स्वस्थाने कुमारमुपवेश्य स्वयं तद्दक्षिणत उपविश्याग्नेः कुमारस्य वोत्तरतो धृतानडुहगोमयां कुमारमातरं धृतानडुहगोमयं यं कंचन ब्रह्म चारिणं वोपवेश्याऽऽसादिता अत्युष्णा अप आसादितासु शीतासु मिश्रयित्वा ता आदाय, आप उन्दन्त्वित्यस्य सोम आपो द्विपदा गायत्री यजुर्वा । गोदानोन्दने विनियोगः । 'ॐ आप उन्दन्तु० वर्चसे' इति ताभिर्दक्षिणं गोदानमुनत्ति । आर्द्री करोतीत्यर्थः । गवि पृथिव्यां दीयते स्वापार्थमङ्गं गोदानं, तानि मनुष्ये चत्वारि । ओषध इत्यस्य सोम ओषधयो यजुः । कुशनिधाने विनियोगः । 'ॐ ओषधे त्रायस्वैनम्' [ इति ] आसादितेष्वेकं कुशमूर्ध्वाग्रं तत्र निदधाति । स्वधित इत्यस्य सोमः क्षुरो यजुः । क्षुरनिधाने विनियोगः । 'ॐ स्वधिते मैन हि सीः' [ इति ] तत्राऽऽसादितं क्षुरं निदधाति । देवश्रूरित्यस्य सोमो देवश्रूर्यजुः । वपने विनियोगः । 'ॐ देवश्रूरेतानि प्रवपे' इत्योषधिना सह दक्षिणप्रदेशस्थान्केशान्वपति । एवमवशिष्टगोदानत्रयेऽपि । तत्र वपनमन्त्रेषु विशेषः । येनावपदित्यस्य सोमो वप्तारस्त्रिष्टुप् । वपने विनियोगः । 'ॐ येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योर्जे मरय्या वर्चसा स सृजाथ' इति पश्चिमप्रदेशस्थकेशवपने मन्त्रः । 'ॐ येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चाऽऽयुषेऽवपत् । तेन तेऽहं वपाम्यमुकशर्मन्' इत्युत्तरप्रदेशस्थकेशवपने । अत्र संस्कार्यस्य नाम ग्राह्यम् । 'ॐ यथा ज्योक्च सुमना असत् । ज्योक्च सूर्यं दृशे' इति पूर्वप्रदेशस्थकेशवपने । अत्र सहायभूता अन्येऽपि वप्तारः । ब्रह्माणो वपतेति बहुवचनलिङ्गात् । एवं च कारयन्तीत्यत्रत्यप्रयोजककर्तृगतं बहुवचनमप्युपपद्यते ।

 ततो वपनानन्तरं नापितेन यथाकुलधर्मं यथाप्रवरं वा चूडाः कारयेयुर्वपनकर्तारः । नापितस्तदनुसारेण चूडाः कुर्यात् । एका चेन्मध्ये । द्वे चेन्मध्ये पुरस्ताच्च । तिस्रश्चेत्पश्चान्मध्ये पुरस्ताच्च दक्षिणतो मध्य उत्तर इत्येवं वा । पञ्च चेत्प्रतिदिशं मध्ये च । केचन भृगवः सशिखाः । केचन मुण्डा एव ।

 ततः कुमारस्य यः कश्चन बन्धुजनस्तस्मिञ्छकृत्पिण्डे तान्केशानन्तर्भूतान्कृत्वा 'ॐ यत्र पूषा बृहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवः' इति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति । अवटं खात्वा तस्मिन्सकेशं शकृत्पिण्डं प्रक्षिप्य मृदा प्रच्छादयतीत्यर्थः ।

 ततः कृतशुद्धस्नानः कुमार आचार्यादीन्प्रणमेत् । तत आचार्यो ब्राह्मणेभ्यः पुण्याहवाचकेभ्योऽन्येभ्यश्च दक्षिणां दद्यात् । सूत्र एकवचनं जातौ ।

 ततः सर्पिष्प्रचुरमोदनं नापिताय ददाति । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च कृत्वा विप्राशिषो गृहीत्वा विष्णुं संस्मरेत् । एतच्च स्त्रीणामपि । 'स्त्रीशूद्रौ तु शिखां छित्त्वा क्रोधाद्वैराग्यतोऽपि वा । प्राजापत्यं प्रकुर्वीताम्' इतिप्रायश्चित्तविधिबलात् । एतत्परिग्रहपक्षे । अत्र देशभेदाद्व्यवस्था द्रष्टव्या । स्त्रीणां केशधारणमेव शिखाधारणम् । एतच्चामन्त्रकमेव स्त्रीणां कार्यम् । 'तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः' इतिवचनात् । होमोऽपि न । 'स्त्रीणामहोमकास्तु स्युर्विवाहस्तु समन्त्रकः' इति गोभिलोक्तेः ॥

इति संस्काररत्नमालायां चूडाकरणप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालायां उत्तरार्धे
तृतीयं प्रकरणम् ॥ ३ ॥

  1. धनुश्चिह्नान्तर्गतश्लोकस्थाने ख. ङ. च. पुस्तकेषु 'पितृव्यमातुलौ चैव दोहित्रौ भागिनेयकौ" इत्यर्धं वर्तते ।
  2. ख. त्राण्यप्याह ।
  3. ङ. च. क्षत्रज ।
  4. क. द्वेधा ।
  5. ख. ङ. च. त्वोल्लेखना ।
  6. क. पाद्यर्बाहु ।
  7. ङ. च. धि चेत्यासा ।
  8. क. भान्त्विति ।
  9. क. पश्चात्पृथ्वी ।
  10. अत्र क. पुस्तकटिप्पण्यां-- तद्यथा--- ॐ अग्नये स्वाहा, अग्नय इदं न मम । ॐ कृत्तिकाभ्यः स्वाहा कृत्तिकाभ्य इदं न मम । ॐ अम्बायै स्वाहा । ॐ दुलायै स्वाहा । ॐ नितत्न्यै स्वाहा । ॐ अभ्रयन्त्यै स्वाहा । ॐ मेघयन्त्यै स्वाहा । ॐ वर्षयन्त्यै स्वाहा । ॐ चुपुणीकायै स्वाहा । एवमग्रेऽपि प्रतिस्वाहाकारं पृथक्पृथङ्मन्त्रास्तत्तदनुवाकान्ते द्रष्टव्याः । अत्रस्यानुवाकानां वानी, इति नाम्ना व्यवह्रियते(हारः) । इति वर्तते ।
  11. अत्र क. पुस्तकटिप्पण्याम्--"एतदब्देवतावाहनलेखनं नक्षत्रान्तरदेवतानामप्युपलक्षणं न स्वस्वजन्मनक्षत्रदेवताया आवाहनमत्र स्थले कर्तव्यमिति ज्ञेयम्" इति वर्तते ।
  12. ख. च. र्वसु । अ ।
  13. ख. ङ. च. नं कर ।
  14. च ह्वौ ।
  15. ण. ह्वौ
  16. ङ. च. क्षिणां च ।
  17. ङ. च कृत्या गोमयोपलेपनोल्लेखना ।
  18. पूर्वोक्तानुसारेणेति क पुस्तकशोधितः पाठः ।
  19. ङ. च. जन्मभं ।
  20. अत्र यद्यपि "अशुभं जन्मनक्षत्रं शुभदं त्वन्यकर्मणि" इत्येव पाठः पुस्तकेषु वर्तते तथाऽपि अयं ग्रन्थकारासंमत एवेति ज्ञेयम् । अन्यथा पूर्वोत्तरग्रन्थासंगतेः । अत:, शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणीति पुरुषार्थचिन्तामणौ पाठ इति क. पुस्तकटिप्पणीस्थ एव पाठोऽन्तः स्थापितः । सर्वपुस्तकस्थपाठस्तु लेखकभ्रान्तिमूलक इति द्रष्टव्यम् ।
  21. ख. ङ. च. दिनिषेधो ना ।
  22. च. त्तरम् ।
  23. क. चक्रुश्च श
  24. ख. च. रि त ।
  25. ङ. च. च ।
  26. ङ. च. पि. चेत्ये ।
  27. ङ. च. वारादौ ।
  28. ख. ङ. च. शनौ ।
  29. क. ख. ङ. चूडहो ।
  30. ख. ङ. च. त्यर्थसारे ।
  31. क. ख. हिश्चाव ।