अथ द्वितीयं प्रकरणम् ।

अथ गर्भिणीधर्माः ।

 पाद्मे गर्भिण्यधिकारेऽदितिं प्रति कश्यपः--

"नावस्करेषूपविशेन्मुसलोलूखलादिषु ।

 अवस्करेषु मार्जन्यादिषु । नोपस्करेष्विति पाठ उपस्करशब्देन शूर्पादि ज्ञेयम् ।

जलं च नावगाहेत शून्यागारं विवर्जयेत् ॥
वल्मीकं नाधितिष्ठेत न चोद्विग्नमना भवेत् ।
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना ॥
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत् ।
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ॥
वर्जयेत्कलहं गेहे गात्रभङ्गं तथैव च ।
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन ॥
न शयीतोत्तरशिरा न चैवाधःशिराः क्वचित् ।
न वस्त्रहीना नोच्छिष्टा न चार्द्रचरणा तथा ॥

नामङ्गल्यं वदेद्वाक्यं न च हास्याधिका भवेत् ।
कुर्याच्छ्वशुरयोर्नित्यं पूजां माङ्गल्यतत्परा ॥
तिष्ठेत्प्रसन्नवदना सदा भर्तुर्हिते रता" इति ।

 भविष्ये--

"संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ।
स्थातव्यं न च गन्तव्यं वृक्षमूले च सर्वदा ॥
न दुर्मुखी सदा तिष्ठेत्खट्वाछायां विवर्जयेत् ।
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥

 ईषदुष्णं कोष्णम् ।

कृतरक्षा सुभूषा च वास्तुपूजनतत्परा ।
दानशीला तृतीयायां पार्वत्या नक्तमाचरेत् ॥
गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् ।
व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥
शोकं रक्तविमोकं च साहसं कुक्कुटासनम् ।
व्यवायं च दिवास्वापं रात्रौ जागरणं त्यजेत् ॥
अतिरुक्षं तु नाश्नीयादत्यम्लमतिभोजनम् ।
अत्युष्णमतिशीतं च गुर्वाहारं परित्यजेत् ॥
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ।
यश्च तस्यां भवेत्पुत्रः स्थिरायुर्वृद्धिसंयुतः ॥
अन्यथा गर्भपतनमवाप्नोति न संशयः" इति ॥

मार्कण्डेयोऽपि--

"वृक्षमद्रिं च नाऽऽक्रामेन्न प्राकारं पयोनिधिम् ।
परिखां च न चाऽऽक्रामेदबला गर्भधारिणी ॥
गर्भरक्षा सदा कार्या नित्यं शौचनिषेवणात् ।
प्रशस्तमन्त्रलिखनाच्छस्तमाल्यानुलेपनात्" इति ॥

 स्मृत्यन्तरे--

"भूम्यां चैवोच्चनीचायामारोहश्चावरोहणम् ।
नदीप्रतरणं चैव शकटारोहणं तथा ॥
उग्रौषधं तथा क्षारं मैथुनं भारवाहनम् ।
कृते पुंसवने चैव गर्भिणी परिवर्जयेत्" [ इति ] ॥

 गर्भग्रहणं च श्रमादिलिङ्गैर्वेदितव्यम् । गृहीतगर्भायाः सद्यः श्रमो ग्लानिश्च जायते । पिपासाऽऽयासः सक्थिस्पन्दनं शुक्रशोणितयोरनुसंबन्धो योन्याः स्फुरणं चेत्यादि ।  ([१]अन्यच्च प्रयोगार्णवे स्मृत्यन्तरे--

"दानं पक्वान्नभिक्षायाः परिवेषणमेव च ।
पचनं च न कर्तव्यं गर्भिण्या सर्वथैव तु" इति )॥

इति संक्षेपेण गर्भिणीधर्माः ।

अथ गर्भिणीपतिधर्माः ।

"गर्भिणीवाञ्छितं द्रव्यं तस्यै दद्याद्यथोचितम् ।
सूते चिरायुषं पुत्रमन्यथा दोषमर्हति" इति ॥

याज्ञवल्क्यः--

"दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वाऽपि तस्मात्कार्यं प्रियं स्त्रियाः" इति ॥

 दोहदं गर्भिणीप्रियम् । स्मृतिचिन्तामणौ--

"पुंसो भार्या गर्भिणी यस्य चेत्स्यात्सूनोश्चौलं क्षौरकर्माऽऽत्म[२]नश्च ।
गेहारम्भः स्तम्भसंस्थापनं च वार्धिस्नानं नैव कुर्याच्च यात्राम्" इति ।

 वार्धिः समुद्रः ।

दक्षः--

"ऋतुद्वये व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् ।
अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत्" इति ॥

कालविधाने--

"क्षौरं शवानुगमनं नखकृन्तनं च
युद्धं च वास्तुकरणं त्वतिदूरयानम् ।
उद्वाहमौ(औ)पनयनं जलधेर्वगाह
आयुष्क्षयो भवति गर्भिणिकापतीनाम्" इति ॥

 वगाह इत्यत्र, अवेत्युपसर्गावयवाकारस्य भागुरिमतेन लोपः । क्षौरं वपनम् । तच्चात्र कर्तनस्याप्युपलक्षणम् ।

"नोदन्वतोऽम्भसि स्नायान्न च श्मश्र्वादि कर्तयेत् ।
अन्तर्वत्न्याः पतिः कुर्वन्नप्रजो भवति ध्रुवम्" इति ऋतुस्मरणात् ।

 यत्तु--

"वपनस्य निषेधेऽपि कर्तनं वै विधीयते"

 इति स्मृत्यन्तरवचनं तद्गर्भिणीपतिभिन्नानां जीवत्पितृकादीनां यो वपननिषेधस्तत्र कर्तनविधानपरम् ।

 संग्रहे--

"दहनं वपनं चैव पर्वतारोहणं तथा ।
नाव आरोहणं चैव वर्जयेद्गर्भिणीपतिः" इति ॥

 स्मृत्यन्तरे--

"गर्भिण्यामपि भार्यायां विवाहेऽप्यथवा व्रते ।
सपिताऽपि वपेत्केशान्गौतम्यां सिंहगे गुरौ" इति ॥

 विवाह इत्यत्र निवृत्तेऽपीति शेषः । एवं व्रत इत्यत्रापि । गौतम्यामिति गौतम्यसंनिहितदेशनिवृत्त्यर्थम् । सिंहगे गुराविति तीर्थयात्रान्तरोपलक्षणम् ।

"विवाहे व्रतबन्धे च गर्भिणीपतिरेव च ।
मुण्डनं सर्वतीर्थेषु कुर्यादेवाविचारयन्" ॥

 इति स्मृतिदर्पणधृतसंग्रहवचनसंवादात् ।

स्मृत्यन्तरे--

"सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम् ।
विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः" इति ॥

 प्रेतवाहनमित्यनेन प्रेतविधानमप्युपलक्ष्यते । ज्योतिर्निबन्धे गालवः--

"प्रव्यक्तगर्भापतिरब्धियानं मृतस्य वाहं क्षुरकर्म सङ्गम् ।
तथैव यत्नेन गयादितीर्थं यागादिकं वास्तुविधिं न कुर्यात्" इति ॥

 आदिशब्देन व्रतोद्यापनादीति शुद्धिदर्पणे ॥

दक्षः--

"मुण्डनं पिण्डदानं च प्रेतकर्म तथैव च ।
न जीवत्पितृकः कुर्याद्गर्भिणीपतिरेव च" इति ॥

 पिण्डदानशब्देन श्राद्धमुपलक्ष्यत इति केचित् ।

 वपनप्रेतविधानापवादस्तत्रैव--

"क्षौरं नैमित्तिकं कुर्यान्निषेधे सत्यपि ध्रुवम् ।
पित्रोः प्रेतविधानं च गर्भिणीपतिरेव च" इति ॥

 एते च नियमाः सप्तममासादूर्ध्वं भवन्ति ।

"वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः ।
श्राद्धं च सप्तमान्मासादूर्ध्वं नैव समाचरेत्" इत्याश्वलायनोक्तेः ।

 अत्र केचित्--सप्तममासोत्तरं यो वपनादिनिषेधः स दोषातिशयार्थः । तेन तत्पूर्वमपि शक्तौ सत्यां वपनादिनिषेधपरिपालनमस्त्येवेत्याहुः । ( [३]ऊर्ध्वं नैव समाचरेदितिवचनात्सप्तममासात्पूर्वं कदाचिद्वपनादिकरणमस्तीति गम्यते ।

 दक्षः--

"मासषट्के व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् ।
अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत्" इति ॥

संस्कारदर्पणे सत्यव्रतः--

ऋतुत्रये व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् ।
अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत्" इति ॥

 संकटवशेन शक्ताशक्तपरतया वा व्यवस्था यथायथं बोध्या ।) तीर्थं तीर्थयात्रा । श्राद्धं श्राद्धभोजनमिति केचित् । पित्रोः क्षयाहश्राद्धादिकं तु सप्तममासादूर्ध्वमपि भवति ।

"पित्रोः क्षयाहं दर्शं च गयाश्राद्धं महालयम् ।
ग्रहणान्वष्टकाश्राद्धे कुर्याद्गर्भवतीपतिः" इति सत्यवतोक्तेः ।

 एतच्च नित्यानां युगादिश्राद्धानामुपलक्षणम् । पिण्डयज्ञोऽपि भवत्येव । नित्यत्वात् । मुण्डनं पिण्डदानं चेत्युदाहृतदक्षवाक्ये पिण्डदानशब्देन श्राद्धमुपलक्ष्यत इति मते श्राद्धस्यैव निषेधप्राप्तौ पित्रोः क्षयाहमिति सत्यव्रतवाक्येन नित्यश्राद्धानां प्रतिप्रसवः क्रियते । पिण्डदानशब्देन पिण्डदानमेव निषिध्यत इति मते पित्रोः क्षयाहादिश्राद्धेष्वपि पिण्डदाननिषेधः ।

( [४]न च--"पिण्डनिर्वपणं कार्यं तस्यामपि नृसत्तम"।

 इत्यान्वष्टक्यविषय एव गर्भिणीपतित्वप्रयुक्तो यः पिण्डदाननिषेधः प्राप्तः स नास्ति, इति निबन्धकारलेखनादान्वष्टक्यव्यतिरिक्तसांवत्सरिकादिस्थले कथं पिण्डदानप्राप्तिरिति वाच्यम् । अपिशब्देन सांवत्सरिकादीनामपि संगृहीतत्वेन तत्रापि तत्प्राप्तिसंभवात् । न चापिशब्दस्य पिण्डनिर्वपणशब्देऽन्वयात्कथमेतदिति वाच्यम् । संनिहितपदान्वयसंभवे व्यवहितान्वयकल्पनस्यानुचितत्त्वात्सांवत्सरिकादिषु गर्भिणीपतिकर्तृकपिण्डदानाचारस्य बहुशो दृष्टत्वाच्च, इति केचित् । वस्तुतस्तु--एतन्मतेऽपि क्षयाहादिश्राद्धेष्वपि पिण्डनिषेधो नैवास्ति ।)

"श्राद्धं च सप्तमान्मासादूर्ध्वं नैव समाचरेत्" |

 इत्याश्वलायनवचनस्थश्राद्धशब्दः श्राद्धभोजनपर इति मते श्राद्धकरणस्यैतस्मादेव वचनात्प्राप्तत्वात्पित्रोः क्षयाहमितिवचनं सपिण्डकत्वविधानार्थं द्रष्टव्यम् । यथाचारं व्यवस्था । इति गर्भिणीपतिधर्माः ।

अथ गर्भवृद्ध्युपायः ।

"वरी विश्वा च गन्धा च मधुकं भृङ्गराट्समम् ।
अजादुग्धेन पानं तु नार्या गर्भस्य वृद्धिकृत्" इति ॥

 वरी शतावरी । विश्वा शुण्ठी । गन्धाऽश्वगन्धा । भाषया 'आस्कन्द' इत्युच्यते । मधुकं ज्येष्ठमधु । भृङ्गराट्, भाषया 'माका' इति ।

अथ गर्भरक्षणोपायः ।

 शाङ्खायनगृह्ये-- "चतुर्थे मासि गर्भरक्षणं ब्रह्मणाऽग्निः संविदान इति षट्स्थालीपाकस्य हुत्वाऽक्षीभ्यां त इति प्रत्यृचमाज्यलेपेनाङ्गान्यवमृजेत्" इति ॥

 ब्रह्मणाऽग्निः संविदान इति राक्षोघ्नम् । रक्षोहाऽग्निर्देवता । शास्त्रान्तरोक्तत्वाल्लौकिकाग्नाविदं कार्यम् । इति गर्भरक्षणोपायः ।

अथ गर्भिण्या गर्भस्रावहरोपायः ।

 तत्रेदं गृह्यम्-- "यदि गर्भः स्रवेदार्द्रेणास्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपवेश्य दशमासो अवीरहेति" [ इति ] ।

 यदि गर्भो गर्भिण्याः स्रवेत्तदा तस्या नाभेरूर्ध्वं देशो गर्भावस्थितियोग्यस्तं स्वेन पाणिना पराञ्चं त्वेति मन्त्रेण त्रिरुन्मार्ष्टि । ऊर्ध्वापवर्गं संमृजीतेत्यर्थः । सकृदेव मन्त्रः । यत्रैकस्मिन्द्रव्य इति सूत्रात् । नैमित्तिकमिदं कर्म ।

औषधमपि--

"पीत्वा तण्डुलतोयेन तण्डुलीयजटा ऋतौ ।
पतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥

शर्कराथच(यव)तिलैः समांशकर्माक्षिकेण सह भक्षितैः स्त्रियाः ।
नास्ति गर्भपतनोद्भवं भयं पापभीतु(ति)रिव तीर्थसेवनम्(नात्)" इति ॥

 तण्डुलीयजटा तण्डुलजामूलम् । माक्षिकं मधु ।

इति गर्भिण्या गर्भस्रावहरोपायः ।

अथ सीमन्तोन्नयनम् ।

 तत्रेदं गृह्यम्-- "अथातः सीमन्तोन्नयनं प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे" इति ।

 प्रथमगर्भो यस्याः सा प्रथमगर्भा तस्याश्चतुर्थे गर्भमासे पुण्ये नक्षत्रे स्त्रीसंस्कारत्वात्स्त्रिया अनुकूले । प्रथमगर्भ इति वाच्ये प्रथमगर्भाया इतिवचनं स्त्रीप्राधान्यख्यापनार्थम् । तस्मादयं सर्वगर्भार्थ आधारसंस्कार इति द्रष्टव्यम् ।

 बैजवापः--"अथ सीमन्तोन्नयनं चतुर्थे मासि पञ्चमे षष्ठे वा" इति ।

 शाङ्खायनगृह्ये--"सप्तमे मासि प्रथ[५]मगर्भे सीमन्तोन्नयनम्" इति ।

 याज्ञवल्क्यः--"षष्ठेऽष्टमे वा सीमन्ते" इति ।

अत्रिः--

"आधानादष्टमे मासि सीमन्तोन्नयनं भवेत् ।
नवमे मासि वा कुर्याद्यावद्गर्भविमोचनम्" इति ॥

शङ्खः--

"गर्भस्पन्दने सीमन्तोन्नयनं यावद्वा न प्रसवः" इति ।

 अत्र मासः सावनो ग्राह्यः ।

"सीमन्तः सावने मासि चतुर्थेऽप्यथवाऽष्टमे" इति वसिष्ठोक्तेः ।

 बृहस्पतिस्तु सौरं मासमाह सीमन्तं प्रकृत्य--

"सौरेणैव चतुर्थे स्यान्मासे षष्ठेऽष्टमेऽपि वा" इति ।

 सावनादिलक्षणमुक्तं श्रीधरीये--

"त्रिंशद्दिनं सावनमासमाहुर्नाक्षत्रमिन्दोर्भगणभ्रमेण ।
दर्शावधिं मासमुशन्ति चान्द्रं सौरं तथा भास्करराशिभोगात्" इति ॥

 अत्र शुक्लपक्ष एव मुख्यः । आपूर्यमाणपक्ष इति गृह्योक्तत्वात् । असंभवेऽन्यांशं विना कृष्णपक्षो ग्राह्यः । तथा च बृहस्पतिः--

"शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना " इति ।

 तिथयः कालविधाने--

"पक्षच्छिद्राश्च रिक्ताः पितृतिथिमपहायापराः स्युः प्रशस्ताः" इति ।

 पक्षच्छिद्रास्तद्वर्ज्या नाडिकाश्च वसिष्ठ आह--

"चतुर्दशी चतुर्थी च अष्टमी नवमी तथा ।
षष्ठी च द्वादशी चैव पक्षच्छिद्राह्वया इमाः ॥
क्रमादेतासु तिथिषु वर्जनीयाश्च नाडिकाः ।
भूताष्टमनुतत्त्वाङ्कदशशेषास्तु शोभनाः" इति ॥

 भूतानि पञ्च । मनवश्चतुर्दश । तत्त्वानि पञ्चविंशतिः । अङ्का नव । कश्यपस्तु षष्ठ्यष्टमीद्वादशीनामेव पक्षच्छिद्रात्वमुक्त्वा सर्वसाधारण्येन दशैव घटिका वर्जनीया इत्याह--

"अष्टमी द्वादशी षष्ठी पक्षच्छिद्रास्तु तासु च ।
मङ्गले सर्वदा त्याज्या न्यू(नू)नं हि दश नाडिकाः" इति ॥

 उभयत्रापि घटिकास्तिथेराद्या एव । प्रथमातिक्रमे कारणाभावात् । अनन्तरोदाहृतकालविधानवाक्यस्य वसिष्ठोक्तपक्षच्छिद्राख्यतिथिपरत्वे पक्षच्छिद्रात्वेनैव चतुर्थ्यादीनां निषेधे सिद्धे रिक्तात्वेन पुनर्निषेधो दोषातिशयार्थः । कश्यपोक्तपक्षच्छिद्राख्यतिथिपरत्वे तु चतुर्थ्यादीनां पक्षच्छिद्रात्वाभावाद्रिक्तात्वेन निषेध आवश्यक एवेति द्रष्टव्यम् । पितृतिथिरमावास्या । अपरा अन्या उक्तापेक्षया । शुक्लपक्षे चतुर्थीचतुर्दश्योः पक्षच्छिद्रात्वेन रिक्तात्वेन वा निषिद्धयोः पौर्णमास्याश्च केषांचिन्मतेन ग्राह्यत्वमुक्तं कालनिर्णये--

"शुभसंस्थे निशानाथे चतुर्थीं च चतुर्दशीम् ।
पौर्णमासीं प्रशंसन्ति केचित्सीमन्तकर्मणि" इति ॥

 पौर्णमासीसाहचर्याच्चतुर्थीचतुर्दश्यौ शुक्लपक्षसंबन्धिन्यावेव ग्राह्ये ।

 वारानाह बृहस्पतिः--

"पुरुषग्रहवाराः स्युः शुभाः सीमन्तकर्मणि ।
मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्तु नपुंसकौ" इति ॥

 पुरुषग्रहा रविभौमगुरवः । स्त्रीग्रहौ सोमभृगू । नपुंसकौ शनिबुधौ ।

 उक्तं च ज्योतिर्निबन्धे--

"पुरुषा रविगुरुभौमा नपुंसकाख्यो बुधोऽर्कपुत्रश्च ।
नार्यौ भृगुचन्द्रमसौ ग्रहस्वभावस्थितिः कथिता" इति ॥

 नक्षत्राण्याह बृहस्पतिः--

"रोहिण्यैन्दवमादित्यपुष्यहस्तोत्तरात्रयम् ।
पौष्णं वैष्णवमं चैव सीमन्ते दशकं स्मृतम्" इति ॥

 ऐन्दवं मृगशिरः । आदित्यं पुनर्वसू ।

कालविधाने--

"सीमन्तोन्नयनं कार्यं शुभांशे शुभलग्नके ।
कुलीरमृगकन्याश्च वर्ज्याः शेषाश्च शोभनाः" इति ॥

 कुलीरः कर्कः । मृगः सिंहः ।

"कुलीरं मिथुनं कन्यां हित्वा शेषाः शुभावहाः " ।

इति बृहस्पतिनोत्तरार्धं पठितम् । लग्नादिकं तु ज्योतिःशास्त्रादितोऽवगन्तव्यम् ।

 नारदः--

"विप्रक्षत्रिययोः कुर्याद्दिवा सीमन्तकर्म तत् ।
वैश्यशूद्रकयोरेतद्दिवा निश्यपि केचन" इति ॥

 एतच्च सकृदेव कर्तव्यं न तु प्रतिगर्भम् ।

 प्रथमगर्भाधारसंस्कारकत्वस्यैव ज्ञापितत्वात् ।

"सकृच्च कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत्" ॥

 इति हारीतोक्तेश्च । अत्र द्विजग्रहणाच्छूद्रैः प्रतिगर्भमावर्तनीयम् ।  सीमन्तोन्नयनात्पूर्वं प्रसूताया विशेषमाह गार्ग्यः--

"यदि सीमन्ततः पूर्वं प्रसूता स्यात्तु भामि[६]नी ।
पेटिकायां तदा जातं स्थाप्य संस्कारमाचरेत्" इति ॥

 अत्रापि गुरुशुक्रास्तमलमासाद्यनिषेधोऽमासंक्रान्त्यादिनिषेधः कर्त्रन्तरविधिश्च द्रष्टव्यः ।

 अत्र भोजने प्रायश्चित्तमुक्तं धौम्येन--

"ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्" इति ॥

 अत्र ब्रह्मौदनाङ्गभोजनमिव सीमन्ताङ्गभोजनमेव निमित्तत्वेन विवक्षितम् । अतस्तद्दिने तद्गृहे भोक्तुः प्रायश्चित्तमिति पारिजातोक्तिरपास्ता । सोमसाहचर्याद्ब्रह्मौदनमग्न्याधानाङ्गभूतं ग्राह्यमिति केचित् । वस्तुतस्तु सोमसीमन्तोन्नयनादिषु यथा केवलभोजनार्थं प्रवृत्तं प्रति प्रायश्चित्तविधानं तत्सदृशकेवलब्रह्मौदनभोजनार्थं प्रवृत्तं प्रत्येवेदमपि प्रायश्चित्तमित्येव वक्तव्यम् । अन्यथा वैरूप्यापत्तेः । एतादृशं ब्रह्मौदनमाश्वलायनोक्तोपनयनसंबद्धमेव । अग्न्याधानाद्यङ्गभूतब्रह्मोदनं न तथा । तत्र भोजनातिरिक्तस्य प्रभूतकर्मणः सत्त्वेन केवलतदर्थप्रवृत्तेरभावात् । न च सांतपनात्मकसंस्कारभोजनप्रायश्चित्तेनैव तत्सिद्धावेतत्प्रायश्चित्तविधानं व्यर्थमिति वाच्यम् । अत्राऽऽपदि प्राणायामोपवासयोः सामान्यतः प्राप्तयोर्बाधनार्थत्वेन सार्थक्यसंभवात् । एवं च ब्रह्मौदनग्रहणेनाऽऽश्वलायनाद्युक्तस्यौपनायनिकब्रह्मौदनस्यैव ग्रहणं युक्तम् । इदं च ज्ञानतः । अज्ञानाद्भोजने तु ऋग्विधानोक्तम्--

"अरा इवेज्जपेन्मन्त्रं शतवारं शिवालये ।
सीमन्ते च यदा भुङ्क्ते मुच्यते किल्बिषात्ततः" इति ॥

अथ प्रयोगः ।

 सावने सौरे वा चतुर्थे मासि पञ्चमे षष्ठे सप्तमेऽष्टमे नवमे वा यावद्गर्भविमोचनं तावत्पर्यन्ते काले वा शुक्लपक्षेऽसंभवेऽन्त्यांशरहिते कृष्णपक्षे चतुर्थीषष्ठ्यष्टमीनवमीद्वादशीचतुर्दश्यमावास्याव्यतिरिक्ततिथावेतदसंभवे चतुर्दशीचतुर्थ्यष्टमीनवमीषष्ठीद्वादशीनां क्रमेण पञ्चाष्टौ चतुर्दश पञ्चविंशतिर्नव दशेत्याद्या घटिकाः साधारण्येन दश घटिका वा विहाय तास्वपि रविभौमगुर्वन्यतमे वासरे संकटे सोमभृग्वन्यतरेऽपि वासरे रोहिणीमृगशिरः पुनर्वसुपुष्यहस्तोत्तरात्रयरेवतीश्रवणान्यतमे नक्षत्रे कर्कसिंहमिथुनकन्याव्यतिरिक्ते लग्ने दिवैव कार्यम् । नात्र गुरुशुक्रास्तमलमासादिनिषेधः ।

 कर्ता ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रियः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जनिष्यमाणसर्वगर्भाणां च बीजगर्भसमुद्भवैनोनिवर्हणक्षेत्रसंस्कारद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र धाता प्रीयतामिति विशेषः । देवरादिभिस्तु पूर्ववदूहेन संकल्पः कर्तव्यः ।

 तत औपासनाग्निं मङ्गलनामाऽयमित्यनुसंदधत्प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा सीमन्तोन्नयनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा, वैशेषिकप्रधानहोमे--धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अङ्गहोमे--वरुणं द्वाभ्यामित्यादि । पात्रासादने विश्वेतां शललीयुदुम्बरफलस्तबकं वटफलस्तबकं वा दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानिध्मं बर्हिराज्यमित्येतान्यासादयेत् ।

 ततो ब्रह्मवरणादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । धाता ददात्विति चतुर्णां मन्त्राणां विश्वे देवा ऋषयः । धाता देवता । प्रथमस्य गायत्री छन्दः । द्वितीयस्य त्रिष्टुप् । तृतीयस्यानुष्टुप् । चतुर्थस्य त्रिष्टुप् । सीमन्तोन्नयनवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ धाता ददातु नो रयिमी० नत्स्वाहा' धात्र इदं न मम । 'ॐ धाता प्र० धेम स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु नो रयिं प्रा० सः स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु दा० षाः स्वाहा' धात्र इदं न मम । इति चतस्त्र आहुतीर्हुत्वेमं मे वरुणेत्यङ्गहोमादि संस्थाजपान्तं समाप्य त्रिवृदन्नहोमं पुण्याहादिवाचनं विधाय धाता प्रीयतामिति वदेत् ।

 ततः कर्मार्थत्वेन कृतस्नानां शुद्धवस्त्राङ्गभूषणादिभिरलंकृतां शिष्टाकुटिलब्राह्मणेन कृतसंभाषणां भार्यामपरेणाग्निमुपरिबद्धशुभ्रवर्तुलवितानस्याधस्तात्प्राङ्मुखीमुपवेश्य तस्याः पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नासादितां त्रिश्वेतां शललीं गृहीत्वा तयाऽऽसादितमुदुम्बरफलस्तबकं वटस्तबकं वा गृहीत्वा, व्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । राकामहमिति द्वयोर्विश्वे देवा जगती । सीमन्तोन्नयने विनियोगः । 'ॐ भूर्भुवः सुवः, राकामह सुहवा सु० मुक्थ्यम् । यास्ते राके० रराणा' इति तया शलल्योर्ध्वं सीमन्तमुन्नयेत् । केशान्विभजेदित्यर्थः ।

"ॐ सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजा विवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः"

 इति भार्यामभिमन्त्रयते । अत्र गङ्गाव्यतिरिक्तनदीसमीपनिवासे तु यस्या नद्याः समीपे निवासस्तन्नाम संबुद्ध्या ग्राह्यम् । गोदाकृष्णयोः समीपे निवासे तु भागीरथीवद्गङ्ग इत्येव । एतयोरपि गङ्गापदप्रवृतिनिमित्तत्वस्य तन्माहात्म्ययोर्दर्शनात् ।

 ततो ब्राह्मणभोजनं भूयसीदानं च । तत आशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । देवरादिभिर्लौकिकाग्नावेवायं होमः कार्यः ।

इति सीमन्तोन्नयनप्रयोगः ।

अथ पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः ।

 तत्राऽऽदाबालस्यादिनाऽकृतपुंसवनस्य सूत्रविहितकालातिक्रमदोषपरिहारार्थं लौकिकाग्नौ व्याहृतिहोमादिभिः सहितेन रहितेन वाऽऽघारवत्तन्त्रेणाऽऽपूर्विकतन्त्रेण वा त्वं नः स त्वं न इत्याद्याः पूर्ववत्सप्ताऽऽहुतीः समस्तव्याहृतिभिरेकामाहुतिं च हुत्वा, अशक्तौ केवलां समस्तव्याहृतिभिरेकामेव वा हुत्वा गोदानाद्यन्यतमप्रत्याम्नायेन पादकृच्छ्रमालस्येनाकरणेऽर्धकृच्छ्रं प्रायश्चित्तं चरित्वा पुंसवनं सीमन्तेन सह कुर्यात् । तस्यापि सूत्रोक्तकालातिक्रमे तस्मिन्नेवाग्नौ द्विवारं पूर्वोक्ताहुतीर्हुत्वा प्रतिसंस्कारं पादकृच्छ्रमर्धकृच्छ्रं वा प्रायश्चित्तं कुर्यात् ।

 तत आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानगर्भस्य पुंस्त्वप्रतिपादनबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जनिष्यमाणसर्वगर्भाणां च बीजगर्भसमुद्भवैनोनिबर्हणद्वारा क्षेत्रसंस्कारद्वारा च श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनं च तन्त्रेण करिष्य इति संकल्पः । पुंसवनसीमन्तोन्नयनकर्मणोः पुण्याहं भवन्तो ब्रुवन्तु । पुंसवनसीमन्तोन्नयनकर्मणोः स्वस्ति भवन्तो ब्रुवन्तु । पुंसवनसीमन्तोन्नयनकर्मणोर्ऋद्धिं भवन्तो ब्रुवन्तु । पुंसवनसीमन्तोन्नयनकर्मणोः श्रीरस्त्विति भवन्तो ब्रुवन्तु । इति पुण्याहादिवाक्यानि । द्वितीये प्रतिवचनवाक्य ऋध्येतामिति विशेषः । पुंसवनसीमन्तोन्नयनकर्मणोर्या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामीत्यन्वाधानवाक्ये । गणेशपूजनादिबलिकरणपुण्याहादिवाचनान्तं तन्त्रेणैव । वैशेषिकधात्रीचतुष्टयहोमस्यापि नाऽऽकृतिः । संप्रतिपन्नदेव[७]तत्वात् ।  ततो दधिद्रप्सादिप्राशनं सीमन्तोन्नयनादिकं च क्रमेण कार्यम् । आसन्ने प्रसव एतयोर्मुख्यकालातिपन्नयोरपि मलमासादौ क्रिया भवत्येवानन्यगतिकत्वात् । इति पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः ।

अथ सूतिकागृहं तत्प्रवेशकालः प्रवेशविधिश्चोच्यते ।

ज्योतिर्वसिष्ठः--

"ऐन्द्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः ।
याम्यां तु शयनस्थानं नैर्ऋत्यां सूतिकागृहम् ॥
वारुण्यां भोजनगृहं वायव्यां पशुमन्दिरम् ।
कौबेर्यां तु धनस्थानमीशान्यां देवतागृहम्" इति ॥

प्रवेशकालो गर्गेणोक्तः--

"रोहिण्यैन्दवपौष्णेषु स्वातीवारुणयोरपि ।
पुनर्वसौ पुष्यहस्तधनिष्ठात्र्युत्तरासु च ॥
मैत्रे त्वाष्ट्रे तथाऽश्विन्यां सूतिकागारवेशनम्" इति ॥

 तथा--

"ग्रहेऽनुकूले राशौ तु रिक्ताषष्ठ्यष्टवर्जिते ।
सर्वे वाऽथ शुभाः केन्द्रे पापाश्च त्रिषडायगाः ॥
शुभांशे शुभदृष्टौ तु सूतिकागृहवेशनम्" इति ।

 आय एकादशस्थानम् । एतच्च संभवे ।

"प्रसूतिसंभवे काले सद्य एव प्रवेशयेत्" इति तेनैवोक्तत्वात् ।

प्रवेशविधिः पाद्मे--

"प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः ।
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः ॥
प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ।

 अथवोत्तरद्वारमित्यन्वयः ।

देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ।
विप्रपुण्याहशब्देन शङ्खवाद्यरवेण च ॥
प्रसूता बहवस्तत्र तथा क्लेशक्षमादयः ।
त्दृद्या विश्वसनीयाश्च प्रविशेयुर्गृहं स्त्रियः" इति ॥

अथ सुखप्रसवोपायः ।

[८]त्रैको गृह्ये--

"विजननकाले क्षिप्रप्रसवन शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणाऽवसर्पत्वित्यवाङ्वमार्ष्टि" इति ।  विजननकाले प्रसवकाले । क्षिप्रं प्रसूयते येन कर्मणा तत्क्षिप्रप्रसवनं तद्वक्ष्यते । शिरस्तः शिरसः समीप उदकुम्भं निदधाति । पत्तः पादयोः समीपे तूर्यन्तीमव[९]कातां निदधाति । केचित्तु--ओषधिविशेष इत्याहुः । पत्त इत्यत्र पद्भावश्छान्दसः । उदराभिमर्शो मन्त्रेण तूष्णीमवमार्जनमिति प्रथमे व्याख्याने । उदराभिमर्शस्तूष्णीं मन्त्रेणावमार्जनमिति द्वितीयव्याख्याने । पूर्वव्याख्यानेऽपरितोषादेव व्याख्यानान्तरं कृतं वृत्तिकृता ।

 यथाऽऽहुर्भट्टपादाः--

"पूर्वव्याख्यानतोऽन्यस्य द्वयमिष्टं प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयाव्याप्तिरेव वा" इति ॥

 अत्रापरितोषोऽवसर्पत्वितिलिङ्गानुपपत्तिरूपदोषवशेन । सूत्रेऽथशब्दोऽनित्यत्वख्यापनार्थः । तेन काम्यमिदं न पुंसवनवन्नित्यम् ।

 ऋग्विधाने--

"प्रमन्दिने प्रसूयन्त्यां जपेद्गर्भप्रमोचनीम् ।
इन्द्रं च मनसा ध्यायेन्नारी गर्भं प्रमुञ्चति" इति ॥

 शास्त्रान्तर उपायान्तरम्--

"हिमवत्युत्तरे पार्श्वे शबरी नाम यक्षिणी ।
तस्या नूपुरशब्देन विशल्या भवतु गर्भिणी स्वाहा" ॥

 अनेनैरण्डतैलं महिषीक्षीरमिश्रितमभिमन्त्र्य पाययेदुदरे लापयेच्चेति । ग्रन्थान्तरे तु--हिमवत्युत्तरे पार्श्व इत्यमुं मन्त्रं जपन्नेकविंशतिदूर्वाङ्कुरैस्तिलतैलमेकपलं प्रदक्षिणमावर्तयन्नष्टशतं जपित्वा तत्तैलं किंचित्पाययित्वा शेषं योनौ निषेचयित्वा(च्य) दूर्वाङ्कुरान्केशेषूपगूहेदित्युक्तम् ।

"वृषस्य मूलं यदि नाभियोनिप्रलेपितं स्त्री झटिति प्रसू[१०]ते ।
तथा कटिस्थः कदलीसुकन्दो वेगात्प्रसूतिं कुरुतेऽङ्गनानाम्" इति ॥

 वृषः 'अडुळसा' तस्य मूलम् । एवमन्येऽप्युपायाः शास्त्रान्तरे द्रष्टव्याः ।

 यन्त्रमप्युक्तं यन्त्रप्रकाशे--

"गजाग्निवेदा उडुराट्शराङ्का रसर्षिपक्षा इति हि क्रमेण ।
लिखेत्प्रसूतेः समये गृहेऽदः सुखेन नार्यः प्रसवन्ति शीघ्रम्" इति ॥

 अस्यार्थः--गर्भिण्या नार्या दृष्टिगोचरे देशे समं चतुरश्रं संसाध्य तस्य समान्नव कोष्ठकान्कृत्वैशानोत्तरवायुकोष्ठेष्वष्टमतृतीयचतुर्थानङ्कान्क्रमेण लिखित्वा पूर्वमध्यमपश्चिमकोष्ठेषु प्रथमपञ्चमनवमाङ्कान्क्रमेण विलिख्याऽऽग्नेयदक्षिणनैर्ऋ तकोष्ठेषु षष्ठसप्तमद्वितीयाङ्कान्क्रमेण विलिखेत् । अद इदं यन्त्रं प्रसूतिसमये सूतिकागृहे लेखनीयम् । एतद्दर्शनेन सुखेन शीघ्रं नार्यः प्रसवन्तीति ।

संस्काररत्नमाला (भागः २).pdf

इति सुखप्रसवोपायः ।

अथ यमलयोः संस्कारक्रमार्थं ज्येष्ठत्वकनिष्ठत्वनिर्णयः ।

 तत्र मनुः--

"जन्मज्येष्ठेन चाऽऽह्वानं सुब्रह्मण्यास्वपि स्मृतम् ।
यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता मता" इति ॥

 अस्यार्थः--सुब्रह्मण्याख्यो मन्त्रो ज्योतिष्टोमादाविन्द्राह्वानार्थं प्रयुज्यते । तत्र वपायागोत्तरकालीनेषु सुब्रह्मण्याह्वावानेषु सनामग्रहत्वविधानात्प्रथमपुत्रेण पितरमुद्दिश्याऽऽह्वानं क्रियतेऽमुकस्य पिता यजत इति । एवमृषिभिः स्मृतम् । यथा दायविभागे मातृतो ज्यैष्ठ्यं न किं तु जन्मत एव ज्यैष्ठ्यं तथैव सुब्रह्मण्याह्वान इत्यपिशब्दार्थः । तथा यमलजातयोर्गर्भ एककालं निषिक्तयोरपि जन्मक्रमेण ज्येष्ठता स्मृतेति ।

 स्मृतितत्त्वे देवलोऽपि--

"यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ।
संतानः पितरश्चैव तस्मिज्यैष्ठ्यं प्रतिष्ठितम्" इति ॥

 अस्यार्थः--यमयोर्मध्ये यस्य जातस्य प्रथमं मुखदर्शनं स ज्येष्ठस्तस्मिन्संतानः पितरश्च प्रतिष्ठिताः । तत्र ज्यैष्ठ्यं च प्रतिष्ठितं भवतीति ।

 श्रीभागवते तु--

"प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत ।
तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साऽग्रतः" ॥

 इत्यनेन पश्चादुत्पन्नस्य ज्येैष्ठ्यमुक्तम् । व्याख्यातमेतच्छ्रीधरेण--यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं प्रजा विदुः, सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतः । तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः ।

"यदा विशद्द्विधा बीजभूतपुष्पं परिक्षरत् ।
द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात्" ॥

 इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितेः प्रथमप्रसूतस्य हिरण्याक्ष इति नाम कृतवानिति । अत्र देशाचाराद्व्यवस्था । अत्र ज्येष्ठक्रमेणैव संस्कारा उक्ता धर्मप्रकाशे यमौ प्रकृत्य--

"संस्कारास्तत्र कर्तव्यास्तत्क्रमेणैव सर्वदा" इति ॥

 तत्क्रमेण ज्येष्ठक्रमेण । इति यमलयोर्ज्येष्ठत्वकनिष्ठत्वनिर्णयः ।

अथ जातकर्म ।

 तत्र 'जातेऽश्मनि परशुं निधाय' इत्यादिगृह्यसूत्रम् । अत्र जात इति वचनमित आरभ्य शिरःसमीप उदकुम्भं निदधातीत्यन्तस्य कर्मणो जातकर्मेति संज्ञां गमयति । सप्तमीनिर्देशप्रयोजनं जन्मानन्तरमेव क्रिया स्यान्न त्वाशौचनिवृत्त्यपेक्षेत्येतदर्थम् । उत्तरमधरं येषामिति बहुव्रीहिः । यथावस्थितं विपर्यस्य यथाऽधस्ताद्धिरण्यमुपरिष्टादश्मा तथा कृतेष्वित्यर्थः । उपनिर्हरन्त्यौपासनमतिहरन्ति सूतकाग्नि स एष उत्तपनीय एव । नास्मिन्किंचन कर्म क्रियतेऽन्यत्रोद्धूपनादिति । उपनिर्हरणवचनं तस्मिन्गृह्याणि कर्माणि क्रियन्त इतिवचनस्य जायापतिकर्मार्थत्वात्प्रजासंस्कारेष्वौपासनस्याप्राप्तिः स्यात्सा मा भूदित्येतदर्थम् । उक्तं च बौधायनेन--तस्मिन्प्रजासंस्कार इति । सूतकसंबद्धकर्मार्थोऽग्निः सूतकाग्निः सूतककर्तव्योद्धूपनार्थोऽग्निरिति यावत् । स एषोऽग्निरुत्तपनीय एव कपालसंतापाग्निरेव भवति । आम्बरीषोऽग्निरुत्तपनीय इत्येके । एवकारकरणं कैश्चिन्निर्मन्थ्यस्य विहितस्य निवृत्त्यर्थम् । अस्मिन्सूतकाग्नाबुद्धूपनादन्यत्किमपि न कर्म क्रियत इति । जातकर्म सचैलं स्नानं कृत्वैव कर्तव्यम् ।

 तत्र वसिष्ठः--

"जातमात्रकुमारस्य मुखमस्यावलोकयेत् ।
पिता ऋणाद्विमुच्येत पुत्रस्य मुखदर्शनात्" इति ॥

 जातमात्र इत्यनेन जननाव्यवहितोत्तरकाले मुखावलोकनं विधीयते ।

ज्योतिर्वसिष्ठः--

"श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत् ।
उत्तराभिमुखो भूत्वा नद्यां वा देवखातके" इति ॥

 अनेन श्रवणाव्यवहितोत्तरकाले स्नानं विधीयते । अत्रासंनिधौ श्रवणान न्तरं स्नानम् । संनिधौ मूलाद्यजातस्य मुखदर्शनानन्तरं स्नानमिति व्यवस्था बोध्या । उत्तराभिमुख इति विशेषणं प्रवाहाभिमुखत्वादिबाधनार्थम् ।

 संवर्तः--

"पुत्रे जाते पिता सद्यः सचैलं स्नानमाचरेत् ।
"स्पर्शयोग्यस्ततः पश्चादित्याह भगवान्मनुः" इति ॥

 एतेषु वसिष्ठादिवचनेषु पुत्रपदगतं पुंस्त्वमविवक्षितम् । अनुवाद्यगतत्वात् । तेनात्र स्त्र्यपत्येऽपि पितुः स्नानमावश्यकम् । सूतिकावर्जं पित्रादीनां सर्वेषां सपिण्डानामस्पृश्यत्वं नास्त्येव । अतो न तेषां स्नानमपि ।

 यदाहाङ्गिराः--

"सूतके सूतिकावर्जं संस्पर्शो न निषिध्यते" इति ।

 नद्यादिषु गमनाशक्तौ सांख्यायनः--

"दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् ।
रात्रिस्नाने तु संप्राप्ते कुर्यादनलसंनिधौ" इति ॥

 एतच्च रात्रावपि कार्यम् । तथा च वसिष्ठः--

"पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश्च दर्शने स्नानं प्रशस्तं नान्यदा निशि" इति ॥

 अत्र संक्रमणनिमित्तस्नानस्य रात्रौ विधानं दिवास्नानासंभवे रात्रेर्गौणकालत्वबोधनार्थम् । बहुभिर्वचनैः सर्वसंक्रमेषु दिवैव पुण्यकालत्वोक्तेः ।

 अथवा--

"रात्रौ संक्रमिते भानौ दिवा कुर्यात्तु तत्क्रियाम् ।
विष्णुपद्यां धनुर्मीने" ।

 इत्यादिवचनैरत्यन्तबाध आनर्थक्यप्रसङ्गात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति विकल्पे सत्याचारतो व्यवस्थेति द्रष्टव्यम् । एतच्च जातकर्माऽऽशौचान्तरमध्येऽपि कार्यम् ।

यथाऽऽह प्रजापतिः--

"सूतके तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन सिध्यति" इति ॥

 एतच्च जाताशौचपरम् ।

"मृताशौचस्य मध्ये तु पुत्रजन्म यदा भवेत् ।
आशौचापगमे कार्यं जातकर्म यथाविधि" ॥

 इति वसिष्ठेन मृताशौचविषय एवोत्कर्षोक्तेः । एतेन स्मृत्यर्थसारोक्तो विकल्पोऽपि व्यवस्थितो ज्ञेयः ।

 पुत्रजन्मनिमित्ताशौचस्य पूर्वावधिमाह जैमिनिः--

"यावन्न च्छिद्यते नालं तावन्नाऽऽप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते" इति ॥

 हारीतः--"जातकर्म ततः कुर्यात्पुत्रे जाते यथोदितम्" इति ।

 ततः स्नानानन्तरम् । यथोदितं स्वगृह्योक्तविधिनेत्यर्थः । नालच्छेदात्प्राग्जातकर्म कर्तव्यम् ।

 तदुक्तं मनुना--"प्राङ्नालच्छेदनात्पुंसो जातकर्म विधीयते" इति ।

 हारीतोऽपि--"प्राङ्नाभिच्छेदनात्संस्कारः पुण्यार्थान्कुर्वन्ति

च्छिन्नायामाशौचम् इति । नाभिर्नालम् ।

 असंभवे कालान्तरमाह जाबालिः--

"जन्मनोऽनन्तरं कार्यं जातकर्म यथाविधि ।
दैवादतीतकालं चेदतीते सूतके भवेत्" इति ॥

विष्णुधर्मोत्तरे--

"अच्छिन्ननाले कर्तव्यं श्राद्धं वै पुत्रजन्मनि ।
आशौचोपरमे कार्यमथवा नियतात्मभिः" इति ॥

 अत्र पुत्रशब्दः कन्योपलक्षकः ।

"प्रादुर्भावे पुत्रपुत्र्योर्ग्रहणे चन्द्रसूर्ययोः ।
स्नात्वाऽनन्तरमात्मीयान्पितॄञ्श्राद्धेन तर्पयेत्" इति कार्ष्णाजिनिवचनात् ।

 अत्र नान्दीश्राद्धमामेन हेम्ना वा कार्यम्,

"आमद्रव्येण हेम्ना वा पितॄणां श्राद्धमाचरेत् ।
जातश्राद्धे न दातव्यं पक्वान्नं ब्राह्मणेष्वपि" ॥

 इत्यादित्यपुराणात् । बृहन्नारदीये विकल्प उक्तः--

"जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म तु ।
कुर्याच्च नान्दीश्राद्धं वै स्वस्तिवाचनपूर्वकम् ॥
हेम्नाऽथवा तु धान्यैर्वा नान्दीश्राद्धं प्रकल्पयेत् ।
अन्नेन कारयेद्यस्तु स चाण्डालसमो भवेत्" इति

 हेमाद्रौ संवर्तस्तु हेम्नैवाऽऽह--

"पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् ।
न पक्वेन न चाऽऽमेन कल्याणान्यभिकामयन्" इति ॥

 पुरुषार्थे जातश्राद्ध आमहेम्नोर्विकल्पः । जातकर्माङ्गश्राद्धे(द्धं) तु हेम्नैवेत्यविरोधः । एतच्च रात्रावपि कार्यम् ।

"पुत्रजन्मनि यात्रायां शर्वर्यां दत्तमक्षयम्" इति व्यासोक्तेः ।

 दिनान्तरे क्रियमाणे जातकर्मणि तु अनेनैवैतद्भवति ।

 अन्यथा--"जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् "।  इति धौम्येनोक्तस्य भोक्तुः प्रायश्चित्तस्य निर्विषयत्वापत्तेः । नैमित्तिकर्मोत्तरमपि तदहःकर्तव्यमाह हारीतः--

"जाते कुमारे पितॄणामामोदात्पुण्यं तदहस्तस्मात्तिलपूर्णानि पात्राणि
सहिरण्यानि ब्राह्मणानाहूय पितृभ्यः स्वधा कुर्यात्प्रजापतये च" इति ।

 ब्राह्मे--

"देवाश्च पितरश्चैव पुत्रे जाते द्विजन्मनाम् ।
आयान्ति तस्मात्तदहः पुण्यं पूज्यं च सर्वदा ॥
तत्र दद्यात्सुवर्णं च भूमिं गां तुरगं रथम् ।
छत्रं च गन्धमाल्यं च शयनं चाऽऽसनं गृहम्" इति ॥

बृहद्याज्ञवल्क्यः--

"कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वादिधान्यशय्यासनादिषु ॥
तत्र सर्वं प्रतिग्राह्यं पक्वान्नं तु विवर्जयेत् ।
भक्षयित्वा तु तन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥
सूतके तु सकुल्यानां न दोषो मनुरब्रवीत्" इति ।

 वसिष्ठः--

"दत्त्वा गोभूहिरण्यादि ततो लग्नं निरीक्षयेत् ।
लग्नमेव प्रशंसन्ति ज्योतिःशास्त्रविदो जनाः ॥
अरिक्तपाणिर्दैवज्ञाच्छृणुयात्पुत्रजन्मनि" इति ।

 ततश्च दैवज्ञोक्तदुःस्थानस्थितग्रहप्रीत्यर्थं शक्त्योचितदानानि कुर्यात् । संकल्पपूर्वकं जपपूजादौ ब्राह्मणान्नियुञ्जीतेत्यादि शक्त्यनुसारेण कर्तव्यम् ।

 पितुः पातित्यादौ विशेषमाहाऽऽश्वलायनः--

"पत्यौ मृते वा पतिते संन्यस्ते वा विदेशगे |
तद्गोत्रजेन श्रेष्ठेन कार्याः पुंसवनादयः ॥
दीक्षान्ते दीक्षितो भर्ता जातकृत्यादिकं चरेत् ।
पुंसवनादिकर्माणि त्रीणि श्रेष्ठो न कारयेत् ॥
अकृतेऽन्यकृते कर्मण्यापत्सु स्वास्थ्यमागतः ।
दानैर्ब्राह्मणवाक्यैश्च पुत्रकर्मोत्तमं चरेत्" इति ॥

 श्रेष्ठेनेति तादृश एव प्रतिनिधिरित्येवमर्थम् । दीक्षितेन तु दीक्षाकाले स्वयमपि जातकर्म न कार्यम् । नापि तत्प्रतिनिधिनाऽन्येन । किंत्ववभृथान्ते विसृष्टदीक्षः स्वयमेव कुर्यादित्यर्थः । अत्र त्रीणीत्याश्वलायनानामनुकूलं, तेषामेवानवलोभनरूपतृतीयसंस्कारसत्त्वात् । न चाऽऽश्वलायनातिरिक्तविषयेऽपि जातकर्मसंस्कारमादाय त्रीणि श्रेष्ठो न कारयेदित्येतस्य वचनस्य प्रवृत्तिरस्त्विति वाच्यम् ।

"श्रेष्ठः कनिष्ठहस्तेन जातकर्मादि कारयेत्" ।

 इति वसिष्ठवचनविरोधापत्तेः । अकृत इति निषिद्धप्रतिनिधिना कृतमित्यकृततामापन्नं कर्मातिक्रान्तं केनापि निमित्तेन कंचित्कालं स्वयं कर्तुमसमर्थोऽपि नान्येन कारयेत् । स्वास्थ्योत्तरं दानसहिताभिर्ब्राह्मणाशीर्भिः सोत्कर्षं पुत्रसंस्कारं कुर्यादित्यर्थः । महारोगार्तस्तु सत्यपि सामर्थ्ये स्वयं जातकर्म न कुर्यात् ।

"रोगार्दितस्तु तत्कालं स्पृशन्नन्येन कारयेत् ।
यावत्स्वास्थ्यं भवेत्तावन्नाऽऽचरेज्जातकक्रियाम्" इत्याश्वलायनवचनात् ।

 आशौचापगमे जातकर्मानुष्ठाने नक्षत्राण्याह वसिष्ठः--

"मृदुध्रुवक्षिप्रचरेषु भेषु चारिक्तपर्वाख्यदिनेषु कार्यम् ।
शुभग्रहाणां दिनवर्गलग्ने तज्जातकर्म त्वथ नामकर्म" इति ॥

 मृद्वादिनक्षत्राण्याह श्रीधरः--

"रोहिण्युत्तरभं स्थिरं गिरिशमूलैन्द्रोरगा दारुणं
क्षिप्रं चाश्विदिनेशपुण्यमनलैन्द्राग्नं तु साधारणम् ।
उग्रं पूर्वमघान्तकं मृदुमृगत्वाष्ट्रान्त्यमैत्रं चरं
विष्णुस्वातिशतोडुवस्वदितयः कुर्युः स्वसंज्ञाफलम्" इति ॥

 उत्तरशब्देनोत्तरात्रयम् । गिरिशमार्द्रा । ऐन्द्रं ज्येष्ठा । उरगमाश्लेषा । अश्विनावश्विनी । दिनेशो हस्तः । अनलः कृत्तिकाः । ऐन्द्राग्नं विशाखे । पूर्वशब्देन पूर्वात्रयम् । अन्तकं भरणी । त्वाष्ट्रं चित्रा । अन्त्यं रेवती । मैत्रमनूराधाः । शतोडु शततारानक्षत्रम् । वसुशब्देन धनिष्ठाः । अदितिः पुनर्वसू । एतच्च जन्मदिवसेऽमासंक्रान्त्यादिसत्त्वे न कार्यम् ॥

"अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्" इतिगर्गोक्तेः ।

 एतच्चाधिके मासेऽपि कार्यम् । तथा च कालादर्शेऽधिमासे कर्तव्यानि प्रकृत्य-- "सीमन्ते पुंसवे श्राद्धं द्वावेतौ जातकर्म च" इति ।

 एतौ सीमन्तपुंसकौ । यमेनाप्युक्तम्--

"गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे नित्ये जातनामादिकर्मसु ॥
सीमन्ते पुंसवे चैव नाधिमासं विवर्जयेत्" इति ।

 गर्भे गर्भाधाने । वार्धुषिके द्रव्यप्रयोगप्रयुक्तद्रव्यादाने । भृत्ये सेवाप्रयुक्तधनग्रहणे । एतच्च मुख्यकालेऽनुष्ठाने । तस्यातिपाते तु शुद्धकाल एव ।

"नामकर्म च दर्शेष्टिं यथाकालं समाचरेत् ।
अतिपाते सति तयोः प्रशस्ते मासि पुण्यभे" इतिवचनात् ।

 नामकर्मेत्युपलक्षणमितरसंस्काराणाम् । नात्र गुरुशुक्रास्तनिषेधः ।

"उत्सवेषु च सर्वेषु सीमन्त ऋतुजन्मनोः ।
सुरासुरेज्ययोश्चैव मौढ्यदोषो न विद्यते"

 इति ज्योतिर्निबन्धे भृगूक्तेः । चकारान्मलमासातिचारादीनां ग्रहणम् ।

अथ प्रयोगः ।

 जातमात्रे पुत्रे मूलज्येष्ठादावनुत्पन्नस्य तस्य मुखं कुलदेवताकुलवृद्धप्रणामपूर्वकमालोक्य नद्यादावुदङ्मुखः स्नायात् । तदसंभवे गृहे वाऽऽहृताभिः स्वर्णयुताभिरद्भिः स्नायात् । रात्रावनलसंनिधौ ।

 ततो द्विराचम्य प्रागकृतसंध्यावन्दनश्चेत्पूर्णसंध्योपासनं कुर्यात् । अथ श्वेतवस्त्रमाल्यादिभिरलंकृतः पवित्रपाणिरकृतनालच्छेदमपीतस्तन्यमन्यैरस्पृष्टं मात्रा क्षालितमलं मात्रशक्तौ सूतिकास्पृष्टया यया कयाऽपि कुशलया स्त्रिया क्षालितमलं कुमारं मातुरुत्सङ्गे प्राङ्मुखं संस्थापयित्वा(प्य) स्वयं प्राङ्मुखो देशकालौ संकीर्त्य ममास्य कुमारस्य गर्भाम्बुपानजनितसकलदोषनिबर्हणायुर्मेधावर्चोभिवृद्धिबीजगर्भसमुद्भवैनोनिबर् हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातकर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं तन्त्रेण पुरुषार्थकाङ्गभूते नान्दीश्राद्धे च कुर्यात् । जीवत्पितृकस्य तु श्राद्धद्वयं पृथगेव भवति । स्वरूपभेदात् । तत्र मातृकापूजनस्याङ्गत्वपक्षे तदपि पृथगेव । अनङ्गत्वपक्षे तु सकृदेवाऽऽदौ । यदि त्वङ्गभूतनान्दीश्राद्धस्यैवाङ्गं मातृकापूजनं न पुरुषार्थकनान्दीश्राद्धस्याङ्गमिति मते पुरुषार्थमादौ कृत्वा मातृकापूजनं कृत्वा द्वितीयं कार्यम् । तत्राऽऽदौ पुरुषार्थं पितुः पितृमातृमातामहवर्गकं नान्दीश्राद्धं कृत्वा पश्चात्सुतसंस्कारप्रयुक्तं स्वीयमातृमातामहवर्गकं कार्यम् । सर्वेषां जीवने संस्काराङ्गश्राद्धलोपस्यैव विहितत्वात्पुरुषार्थकमेव श्राद्धम् । अथवाऽऽदौ पुरुषार्थकमनन्तरं संस्काराङ्गकम् । उद्वाहे पुत्रजनन इत्येतद्वाक्ये पुत्रजननशब्देनाङ्गभूतनान्दीश्राद्धस्यापि ग्रहणमित्यस्मिन्मते प्रधानस्यैकत्वाद्द्वयोस्तन्त्रेणैवानुष्ठानम् । अथवा संकल्पात्पूर्वमेव पुरुषार्थं नान्दीश्राद्धं कर्तव्यम् । केचित्तु संकल्पात्पूर्वमेव तन्त्रेण नान्दीश्राद्धद्वयं कार्यमित्याहुः ।

"नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्" ।

 इति निषेधस्तु काम्यश्राद्धपरो ज्ञेयः । न सोष्यन्ती जातकर्मेतिवचनप्राप्तोऽङ्गभूतनान्दीश्राद्धनिषेधश्छन्दोगविषयः । नान्दीश्राद्धे युग्मब्राह्मणभोजनपर्याप्तमाम हिरण्यं वा स्वाहा न ममेति समर्पणवाक्ये विशेषः ।

 ततोऽश्मनि परशुं निधाय तदुपरिष्टाद्धिरण्यं तानि विपरीतानि कृत्वा तदुपरि हस्ताभ्यां कुमारं प्राञ्चं धारयति--

"ॐ अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामाऽसि जीव त्व शरदः शतम् । अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतम्" इति ।

 गर्भे निर्गते जरायुर्नाम गर्भवेष्टनपुटकं किंचित्स्त्रीणामुदरान्तर्गतं तद्यदि केनचित्कारणेन न निर्गच्छति न पतति तदाऽञ्जलिनोदकमादाय, "ॐ तिलदेव पद्यस्व न मा समसि नो दलमवपद्यस्व स्वपथात्" इति मूर्धानमस्या [अ]वसिञ्चति । नैमित्तिकमिदम् ।

 तत औपासनाग्निं सूतिकागारे चेद्बहिरुद्धननादिसंस्कृते देशे संस्थाप्योत्तपनीयमाम्बरीषं वाऽग्निं सूतिकागारे नीत्वा संस्थापयेत् । एकं कपालं संतप्तं कृत्वा तस्मिञ्छुष्कगोमयचूर्णं प्रक्षिप्य [११] प्र[१२]ज्वलयेदेष उत्तपनीयः । अम्बरीषं भ्राष्ट्रं तत्रत्योऽग्निराम्बरीषः ।

 ततस्तमग्निं परिस्तीर्य समत्रं परिषिच्य--

"ॐ शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः ।
च्यवनो नश्यतादितः स्वाहा" नात्र त्यागाः ।
ॐ आलिखन्विलिखन्ननिमिषन्किं वदन्त उपश्रुतिः स्वाहा ।
ॐ अर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणिः स्वाहा ।
ॐ आन्त्रीमुखः सर्षपारुणो नश्यतादितः स्वाहा ।
ॐ केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहा ।
ॐ कौबेरका विश्ववासो रक्षोराजेन प्रेषिताः ।
ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान्स्वाहा ।
ॐ एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसरत् ।
तानिन्द्रस्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः
प्रमृशतः कूटदन्तान्विकेशाल्लँम्बस्तनान्स्वाहा ।

ॐ नक्तंचारिण उरस्पेशान्स्थूलहस्तान्कपालपान्स्वाहा ॥
ॐ पूर्व एषां पितेत्युच्चैः श्राव्यकर्णकः ।
माता जघन्या गच्छन्ति(न्ती) ग्रामे विखुरमिच्छन्ती स्वाहा ॥
ॐ नक्तंचारिणी स्वसा संधिना प्रेक्ष्यते कुलम् ।
या स्वपत्सु जागर्ति यस्यै विजातायां मनः स्वाहा ॥
ॐ तासां त्वं कृष्णवर्त्मने क्लोमान हृदयं यकृत् । अग्ने यक्षीणि निर्दह स्वाहा"

 इत्येकादशभिः स्वाहाकारान्तैर्मन्त्रैः प्रतिमन्त्रं हस्तेनैवाङ्गारेषु कणानावपत्युद्धूपनार्थम् । सूत्रेऽङ्गारेष्वितिवचनं ज्वालाकाष्ठवत्तानिवृत्त्यर्थम् । आवपतीतिवचनं हस्तेन प्रक्षेपार्थम् । उद्धूपनार्थमप्येतत्स्वाहाकारवत्त्वाद्धोमकर्मैव । तेन परिस्तरणपरिषेकभावः सायंप्रातःपक्षश्चोक्तो भवति । परिस्तरणपरिषेकप्रतिषेधपक्षे सकृदिहैवोद्धूपनम् । अथवा सायमेवोपक्रम्य सायंप्रातर्दशाहमुद्धूपनभूम्यालम्भने कार्ये । केचित्परिस्तरणं तूष्णीं परिषेकं चेच्छन्ति । परिस्तरणपरिषेकाभावपक्षे न त्याग इ[१३]ति केचित् ।

ततः पाणी प्रक्षाल्य

"ॐ यत्ते सुशीमे त्दृदयं दिवि चन्द्रमसि श्रितम् ।
तस्यामृतत्वस्य नो धेहि माऽहं पौत्रमघ रुदम् ॥
वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् ।
तथाऽमृतत्वस्येशानो माऽहं पौत्रमघ रुदम्" ॥

 इति द्वाभ्यां भूमिमालभते । जातकर्मोत्कर्षेऽपि कुमारमनवलोकयन्नुद्धूपनमात्रं कर्तव्यमेव, रक्षणार्थत्वात् । भाष्यादप्येवं प्रतीयते । भूम्यालम्भनमप्युद्धूपनसंबन्धित्वात्कार्यम् ।

अथ मेधाजननम् ।

  दर्भेण हिरण्यं प्रबध्य गोघृतेऽन्तर्धाय प्राक्शिरसमन्येन धार्यमाणं कुमारं घृतं प्राशयति--"ॐ भूर्ऋचस्त्वयि जुहोमि स्वाहा । ॐ भुवो यजू षि त्वयि जुहोमि स्वाहा । ॐ सुवः सामानि त्वयि जुहोमि स्वाहा । ॐ भूर्भुवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा" इत्येतैश्चतुर्भिः प्रतिमन्त्रम् । नात्र त्याग इति मातृदत्तः । इति मेधाजननम् ।

 ततः क्षेत्रियै त्वेति द्वयोर्मन्त्रयोर्विश्वे देवाः कुमारस्त्रिष्टुप् । सूर्यमृतमित्यस्य विश्वे देवाः कुमारस्त्रिष्टुप् । कुमारस्नापने विनियोगः । "ॐ क्षेत्रियै त्वा निर्ऋत्यै त्वा० इमे । शं ते अग्निः सहा० भवन्तु । सूर्यमृतं तम० पाशात्" । इत्येतैरुष्णशीताभिरद्भिः सर्वान्ते कुमारं स्नापयति । प्रतिमन्त्रमिति केचित् । या दैवीरित्यस्य विश्वे देवाः कुमारस्त्रिष्टुप् । मात्रुत्सङ्ग आधापने विनियोगः । "ॐ या दैवीश्चतस्रः प्र० राचैः" इति मातुरुत्सङ्गे कुमारमाधापयति ।

 ततस्तूष्णीं दक्षिणं स्तनं प्रक्षाल्य "ॐ मा ते पुत्र रक्षो हि सीर्मा धेनुरतिसारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे" [ इति ] आधापितं कुमारमभिमन्त्रयते । उभयोर्वाऽभिमन्त्रणम् ।

"ॐ अयं कुमारो जरां धयतु सर्वमायुरेतु ।
तस्मै स्तनं प्रप्रायस्वाऽऽयुः कीर्तिर्वर्चो यशो बलम्" ॥

 इति दक्षिणस्तनं पाययति ।

 तत उत्तरस्तनं तूष्णीं प्रक्षाल्यैतेनैव मन्त्रेण पाययति ।

"ॐ नामयति न रुदति यत्र वयं वदामो यत्र वाऽभिमृशामसि"

 इत्युभौ स्तनावनेन मन्त्रेणाभिमृशति । प्रतिस्तनं मन्त्रावृत्तिः ।

"ॐ आपो गृहेषु जाग्रत यथा देवेषु जाग्रथ । एवमस्यै सुपुत्रायै जाग्रत" ।

 इति सूतिकायाः शिरसः समीप उदकपूर्णं कुम्भं पिहिताननं निदधाति । क्षिमप्रसवार्थकात्कुम्भाद्भिन्न एव कुम्भोऽयम् ।

 ततो जन्मलग्नदुष्टस्थानस्थितग्रहपीडानिवृत्तये दानजपादि कारयेत् । ततः पितॄन्प्रजापतिं चोद्दिश्य सहिरण्यानि तिलपूर्णपात्राणि ब्राह्मणेभ्यो दद्यात् । विभवे सति सुवर्णभूमिगोरथतुरगच्छत्रशयनासनगृहादिकं दद्यात् । पक्वान्नभक्षणे चान्द्रायणं प्रायश्चित्तम् ।

 ततो भूयसीं दक्षिणां दत्त्वा विप्राशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

 ततो नालच्छेदादि यथाचारं कार्यम् । एतच्च पितरि ग्रामान्तरं गते नष्टे वा पित्रपेक्षया ज्येष्ठपितृव्यादिः कनिष्ठो भ्रात्रादिर्वा स्तनाभिमर्शनवर्जं सर्वं कुर्यात् । अथवाऽभिमर्शनस्थाने समीक्षणं कर्तव्यम् । ग्रहणमूलाश्लेषाव्यतीपातादिषु जनने द्वादश्यामेव शान्तिरत्नमालोक्तरीत्या तत्तद्दोषप्रयुक्तां शान्तिं विधाय जातकर्मनामकरणे सह कर्तव्ये । यदि द्वादश्यां सावकाशः सुमुहूर्तः कालो न लभ्यते तदाऽन्येषु शास्त्रान्तरोक्तेषु कालेषु शान्तिं विधाय जातकर्मनामकरणे सहैव कर्तव्ये । जननाशौचान्तरसत्त्वेऽप्येतत्कार्यम् । मृताशौचसत्त्वे त्वाशौचापगम एव । पुत्र्या अपि जातकर्म कार्यम् । नामकरणप्रकरणे जातकर्मादि प्रागुपनयनात्सर्वं कर्म तूष्णीं कर्तव्यमिति मातृदत्तोक्तेः । 'आवृतैव कुमार्याः' इत्याश्वलायनोक्तेः ।

"तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः"

 इति याज्ञवल्क्योक्तेश्च । एता जातकर्मादिचूडान्ताः ।

"जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्"

 इतिवचनेऽनुवाद्यविशेषणत्वात्पुंस्त्वमविवक्षितम् । तेन कन्याया अपि संस्काराङ्गमाभ्युदयिकं समन्त्रमेव भवति । मन्त्रबाधे मानाभावात् । यत्तु पुंजातकर्मादिसंस्कारानुक्त्वा याज्ञवल्क्यवचः "तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः" इति तत्प्रधानाङ्गमन्त्रबाधपरम् । यत्र प्रथमान्तपदोपात्तत्वं तत्र प्रधान एव तूष्णींत्वविधिर्नाङ्ग इति । आथर्वणा वै काम्या इष्टयस्ता उपांशु क्रियन्त इत्यत्रोपांशुत्वमिव । एवं च वृद्धिश्राद्धं समन्त्रमेव भवतीति द्रष्टव्यम् । यमयोस्तु जातकर्म जननदिने नैव भवति । तस्य यमलजनननिमित्तकशान्तिपूर्वकस्यैवानुष्ठेयत्वादाशौचे तस्या अनुष्ठानानधिकारात् । किंतु नामकर्मदिन एव जातकर्म भवति । नामकर्मदिवसस्यैव तत्कालत्वान्न तु तत्पूर्वं, तत्कालस्याशौचावरुद्धत्वात् । न चैकादशदिवसस्याशौचानवरुद्धत्वेन तत्र जातकर्मानुष्ठानेऽधिकारोऽस्त्येवेति वाच्यम् । तत्र कर्तुरधिकारसत्त्वेऽपि सहाधिकारिण्या भार्याया अधिकाराभावेन तदनुष्ठानस्य सर्वथैवासंभवात् । न च द्वादशेऽहनि नामकर्माधिकारवदेकादशेऽहनि जातकर्मण्यधिकारोऽस्त्विति वाच्यम् । नामकर्मवदत्र तथाविधवचनाभावादेकादशेऽहन्यस्पृश्यत्वलक्षणाशौचस्यानिवृत्तत्वाच्च । तत्र जातकर्मनामकरणे तन्त्रेणैव कालैक्यात् । न चैवं जातकर्मद्वयं नामकरणद्वयं चापि तन्त्रेणैव कर्तव्यमुक्तहेतोरिति वाच्यम् । ज्येष्ठक्रमेणैव संस्कारकर्तव्यतोक्त्या तन्त्राभावस्यैवावगमात् । ज्येष्ठे कृत्स्नसाङ्गसंस्कारसंपादनं कृत्वैव कनिष्ठे साङ्गसंस्कारसंपादनस्यो[१४]क्तत्वाच्च । अन्यथोपनयनादावपि तन्त्रापत्तेः । शान्तिसंस्कारयोस्तन्त्रं नैव भवति । शान्तेर्दोषनिबर्हणार्थकत्वेन संस्कारस्य दोषनिबर्हणोत्तरमेवानुष्ठेयत्वेन स्वरूपविरोधात् । अत एव गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्यपि पृथक्पृथगेव ।

"नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्" ।

 इति निषेधस्तु काम्यश्राद्धपरः । एकस्यैव श्राद्धस्य पुनरावृत्तिनिषेधपरो वा, न तु नित्यनैमित्तिकपरः । अन्यथा सांवत्सरिकदर्शादीनां नित्यानां ग्रहणगजच्छायादिनैमित्तिकानां च संनिपातेऽन्यतराननुष्ठानापत्तेः । द्वितीयकल्पे काम्यश्राद्धद्वयमपि भवति । न च दिनभेदेनैव कर्मद्वयमनुष्ठेयं किमर्थमयं प्रयास इति वाच्यम् । विंशतिरात्रमासान्यतमकालात्पूर्वं तस्या अधिकारस्यैवाभावेन विहितनामकरणदिनव्यतिरिक्तदिने शान्त्यनुष्ठानासंभवात् । तदुत्तरं तु भवत्येव । तस्या अधिकारसत्त्वात् । इति जातकर्म ।

अथ सूतकिनां कर्मनियमाः ।

 तत्र विष्णुः--

"आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते
नाशौचे कस्यचिदन्नमश्नीयात्" इति ।

भृगुरपि--

"स्नानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ।
सूतके मृतके चै[१५]वास्पर्शनं मृतकेऽधिकम्" इति ॥

अत्र होमशब्दो वैश्वदेवाख्यहोमपरः ।

"संध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत् ।
न त्यजेत्सूतके वाऽपि त्यजन्गच्छेदधो द्विजः" इति पुलस्त्योक्तेः ।

 इष्टिः पूर्णमासाख्या दर्शाख्या च । चरुः पार्वणस्थालीपाकश्रवणाकर्मादेः । होम औपासनहोमः । स्नाननिषेधः समन्त्रकस्नानस्यैव न तु स्नानमात्रस्य ।

"संध्यास्नाने त्यजन्विप्रः सप्ताहाच्छूद्रतां व्रजेत् ।
तस्मात्स्नानं च संध्यां च सूतकेऽपि न संत्यजेत्" इतियमस्मरणात् ॥

 पिण्डपितृयज्ञपार्वणस्थालीपाकौपासनहोमा असगोत्रेण कारणीया इत्युक्तं जातकर्ण्येन--

"सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुं होममसगोत्रेण कारयेत्" इति ॥

 हारीतः--

"कर्म वैतानिकं कार्यं स्नानोपस्पर्शनात्स्वयम् ।
जन्महान्योर्वितानस्य त्यागस्तु न विधीयते" इति ॥

 गोभिलः--

"अग्निहोत्रस्य होमार्थं शुद्धिस्तात्कालिकी स्मृता " इति ।

स्मृत्यन्तरेऽपि--"श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्" इति ।

 पैठीनसिरपि--

"नित्यानि निवर्तेरन्वैतानवर्जं शालाग्नौ चैकेऽन्य एतानि कुर्युः" इति ।

 यमोऽपि--

"शिवविष्ण्वर्चनं दीक्षा यस्य चाग्निपरिग्रहः ।
श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्" इति ॥

मन्त्रमुक्तावल्याम्--

"जपो देवार्चनविधिः कार्यो दीक्षान्वितैर्नरैः ।
नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्" इति ॥

 नारदः--

"अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम् ।
स्नात्वा नित्यं च निर्वर्त्य मानस्या क्रियया तु वै ॥
बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् ।
यदि कामी न चेत्कामी नित्यं पूर्ववदाचरेत्" इति ॥

रामार्चनचन्द्रिकायाम्--

"अशुचिर्वा शुचिर्वाऽपि गच्छंस्तिष्ठन्स्वपन्नपि ।
मन्त्रैकस्मरणो विद्वान्मनसैव सदाऽभ्यसेत्" इति ॥

 मरीचिः--

"दर्शं च पूर्णमासं च कर्म वैतानिकं च यत् ।
सूतकेऽपि त्यजन्मोहात्प्रायश्चित्ती भवेद्द्विजः" इति ॥

 अपिशब्दान्मृतके ।

 संध्योपासने विशेषमाह पुलस्त्यः--

"सूतके मृतके चैव संध्याकर्म समाचरेत् ।
मनसोच्चारयेन्मन्त्रान्प्राणायाममृते द्विजः" इति ॥

 प्राणायाममृत इति न मानसत्वस्य पर्युदासः । मुखनासिकासंचारिवायुनिरोधेन तन्मन्त्रे तस्य सिद्धत्वात् । किंतु मन्त्रेष्वेव । तथा चामन्त्रकः प्राणायामः कार्य इत्युक्तं भवति । अत्र यद्यपि प्राणायामव्यतिरिक्तं सर्वं मानसमन्त्रैः कर्तव्यमित्युक्तं तथाऽप्यर्घ्यदाने मत्रोच्चारो द्रष्टव्यः ।

"सूतके सावित्र्या त्वञ्जलिं प्रक्षिप्य प्रदक्षिणं
कृत्वा सूर्यं ध्यायन्नमस्कुर्यात्"॥

 इति पैठीनसिस्मरणात् । सावित्र्याः प्राप्तत्वात्पुलस्त्योक्तमानसत्वनिवृत्त्यर्थमेवात्र सावित्रीग्रहणम् । सूतकग्रहणं मृतकोपलक्षणम् ।

 भारद्वाजेनायमेवार्थः स्पष्टीकृतः--

"सूतके मृतके कुर्यात्प्राणायामममन्त्रकम् ।
तथा मार्जनमन्त्रांस्तु मनसोच्चार्य मार्जयेत् ॥
गायत्रीं सम्यगुच्चार्य सूर्यायार्घ्यं निवेदयेत् ।
मार्जनं तु न वा कार्यमुपस्थानं न चैव हि" इति ॥

 दशवारं गायत्र्यपि जप्येत्युक्तमाश्वलायनसत्यतपोभ्याम्--

"आपन्नश्चाशुचिः काले तिष्ठन्नपि जपेद्दश" इति ।

आपन्न आपद्ग्रस्तः । अशुचिराशौचवान् ।

 यत्तु चन्द्रिकायां जाबालिः--

"संध्यां पञ्च महायज्ञान्नैत्यकं स्मृतिकर्म च ।
तन्मध्ये हापयेत्तेषां दशाहान्ते परिक्रिया" इति ॥

 तन्मध्य आशौचमध्ये ।

 यच्च विष्णुपुराणं--

"सार्वकालमुपास्या तु संध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः" इति ॥

 यच्च संवर्तः--"सूतके कर्मणां त्यागः संध्यादीनां विधीयते" ।

 इति तत्पूर्णसंध्यापरम् । "अर्घ्यान्ता मानसी संध्या कुशवारिविवर्जिता" इति शुद्धिप्रदीपे च्यवनोक्तेः ।

 एतच्चार्घ्यान्तत्वं पूर्वेण जपान्तत्वेन विकल्पत इति केचित् । अन्ये तु स्नानाशक्तस्य शूद्रादिस्पर्शनिमित्ताशौचपरमिदं सूतकमृतकयोरर्घ्यान्तत्वविधानान्न सूतकमृतकाशौचपरमित्याहुः । वैश्वदेवस्य त्वग्निसाध्यत्वेन "प्रत्यूहेन्नाग्निषु क्रियाः" इति सामान्यतो मनुवचनात्कर्तव्यत्वप्राप्तावपि--

"विप्रो दशाहमासीत वैश्वदेवविवर्जितः" ।

 इति विशेषेण संवर्तवचनेन निवृत्तिः ।

 यद्यपि--"पञ्चयज्ञविधानं तु न कुर्यान्मृतिजन्मनोः" ।

 इति तेनैवोक्तेः पूर्वनिषेधो व्यर्थस्तथाऽपि यस्यां शाखायां वैश्वदेवभिन्ना देवयज्ञादय उक्तास्तदर्थोऽयं निषेधो ज्ञेयः ।

स्मृत्यन्तरे--

"वैश्वदेवं ब्रह्मयज्ञं तथा श्राद्धं च सूतके ।
न कुर्यात्स्वयमन्यैर्वा कारयेन्न च सर्वथा" इति ॥

स्मृतिभास्करे--"कुर्यात्पञ्च महायज्ञान्नित्यं वै सूतकं विना" इति ।

 सूतकमिति मृतकोपलक्षणम् ।

स्मृत्यर्थसारे--

"सूतकादौ नित्यस्नानबलिदानापोशनप्राणाहुत्यादयो भुजि-
नियमा अस्पृश्यस्पर्शनस्नानादिकं चेति सर्वं कर्तव्यमेव" इति ॥

 आदिशब्देन मृतकमपि गृह्यते ।प्राणाहुतिसाहचर्याद्बलिदानशब्देन भोज नाङ्गबलिदानं ग्राह्यम् । प्राणाहुत्यादय इत्यत्राऽऽदिशब्देनोत्तरापोशनादिकं ग्राह्यम् । नित्यस्नानमङ्गतर्पणसहितमेव कार्यम् ।

"अस्पृश्यस्पर्शने वान्ते अश्रुपाते [१६]क्षुरे भगे ।
स्नानं नैमित्तिकं कार्यं दैवपित्र्यविवर्जितम् ॥
उद्धृतैरुदकैः स्नायान्न कुर्याद्वस्त्रपीडनम्" ।

 इति अस्पृश्यस्पर्शादिनिमित्तकस्नान एव तर्पणाद्यङ्गपर्युदासात् । काम्यस्यापि कस्यचित्प्रतिप्रसवं पुलस्त्य आह सद्यःशौचमित्यनुवृत्तौ--

"सांनिहित्यमुपस्पृश्य राहुग्रस्ते दिवाकरे ।
सत्रधर्मप्रवृत्तस्य दानकर्मफलैषिणः" इति ॥

 संनिहिततीर्थे स्नात्वा राहुग्रस्ते काम्यदानं कुर्यात् । तथाऽन्नसत्रप्रवृत्तोऽपीति व्याख्यातं पारिजाते ।

 जमदग्निः--

"सूतके मृतके चैव जाह्नव्याः सलिले स्थितः ।
नाभिमात्रे जले स्थित्वा कुर्याद्दानजपादिकम्" इति ।

 इदमपि काम्यविषयमित्यपि तत्रैवोक्तम् ।

 ग्रहणश्राद्धादावप्याशौचापवादमाह व्याघ्रः--

"स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके" इति ।

लैङ्गेऽपि--

"सूतके मृतके चैव न दोषो राहुदर्शने ।
तावदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते" इति ॥

वृद्धशातातपः--

"यदा भोजनकाले तु अशुचिर्भवति द्विजः ।
भूमौ निक्षिप्य तं ग्रासं स्नात्वा विप्रो विशुध्यति ॥
भक्षयेद्यदि तं ग्रासमहोरात्रेण शुध्यति ।
अशित्वा सर्वमेवान्नं त्रिरात्रेण विशुध्यति" इति ॥

 इदमविशेषात्सूतकादिपरमिति शुद्धितत्त्वे शूलपाणौ च ।

षट्त्रिंशन्मते--

"उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् ।
एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत्" इति ॥

 उभाभ्यां भोक्तृभोजयितृभ्याम् ।

माधवीये मात्स्ये--

"सूतकान्ते नरः स्नात्वा पूजयित्वा जनार्दनम् ।
दानं दत्त्वा विधानेन व्रतस्य फलमश्नुते" इति ॥

 अन्यत्रापि--

"सूतकात्प्राक्समारब्धमनेकाहं तु यद्व्रतम् ।
कायिकं तत्तु कुर्वीत न तु दानार्चनं जपम् ॥
सूतकाहे तु यत्किंचिद्दानाद्यन्तरितं भवेत् ।
सूतकानन्तरे त्वह्नि तत्कर्तव्यमतन्द्रितैः" इति ॥

 त्रिंशच्छ्लोक्याम्--

"तत्तत्कार्येषु सत्रिव्रतिनृपनृपवद्दीक्षितर्त्विक्स्वदेश-
भ्रंशापत्स्वप्यनेकश्रुतिपठनभिपक्कारुशिल्पातुराणाम् ।
संप्रारब्धेषु दानोपनयनयजनश्राद्धयुद्धप्रतिष्ठा-
चूडातीर्थार्थयात्राजपपरिणयनाद्युत्सवेष्वेतदर्थे" इति ।

 नाशौचमिति शेषः । पूर्वत्रोपक्रमात् । सत्र्यन्नसत्रवान् । मुख्यसत्रस्य दीक्षितपदात्सिद्धेः । व्रती, अनन्तव्रतादिनियमवान् । नृपा राजानः । नृपवन्तो नृपतुल्या राजभृत्याः । दीक्षितः संजातदीक्षः । तस्यावभृथात्पूर्वमेवाऽऽशौचाभावः । तदादि त्वाशौचमस्त्येव । 'वैतानोपासनाः कार्याः' इत्यनेनावभृथादेर्वैतानत्वेन कर्तव्यतायां प्राप्तायां--

तद्वद्गृहीतदीक्षस्य त्रैविद्यस्य महामखे ।
स्नानं त्ववभृथे यावत्तावत्तस्य न सूतकम्"

 इतिवचनेऽवभृथात्प्राक्सूतकाभावोक्त्या तदादौ सूतकसत्त्वस्यार्थादेव सिद्धेः । 'वैतानोपासनाः कार्याः' इत्यनेनैव सिद्धे 'ऋत्विजां दीक्षितानां च' इति पुनर्दीक्षितग्रहणं याजमाने स्वयंकर्तृ[क]त्वार्थं स्नानप्राप्त्यर्थं वेति प्राञ्चः । दीक्षणीयासंस्कृतस्य प्रागवभृथात्कर्मप्राप्त्यर्थं दीक्षितग्रहणमिति नवीनाः । यत्तु 'प्रारम्भो वरणं यज्ञे' इति तदृत्विक्परम् । ऋत्विजां मधुपर्कोत्तरमाशौचाभावः । यत्र मधुपर्को नास्ति तत्र दोषोऽस्त्येव । आधानेष्टिपशुबन्धादौ मधुपर्का वैकल्पिकाः । ज्योतिष्टोमादौ नियत इति केचित् । सर्वत्रापि नियत इत्यन्ये । यत्र समन्त्रकं वरणं तत्रैव मधुपर्कः । यत्र च विधानं तत्रापीत्यपरे । श्रौते कर्मणि यजमानस्य तत्कालं स्नानाच्छुद्धिः । त्यागातिरिक्तं श्रौते स्मार्ते वाऽन्यस्यैव कर्तृत्वम् । श्रौतो होमः शुष्कान्नेन फलेन वा कार्यः । स्मार्ते त्वकृतं व्रीह्यादिकं हावयेत् । तदभावे कृताकृतं तण्डुलादि हावयेत् । श्रोते समारोपप्रत्यवरोहयोराशौचापवादाभावादनन्यकर्तृकत्वाच्चैतावाशौचे न भवतः । अन्यथा पुनराधान[१७]मपि स्यादिति केचित् । एतन्मते पर्वणि समारूढेष्वग्निषु प्रत्यवरोहणेऽधिकाराभावात्पर्वणि प्रत्यवरोहणाकरणे पुनराधानस्यैवोक्तत्वात्पुनराधानमेवेति ।

"नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन "।

 इति मण्डनवचनात्प्रत्यवरोहणमाशौचेऽपि भवतीत्येतन्मते न पुनराधानम् । स्मार्ते तु सर्वमते पुनःसंधानमेव । स्वदेशभ्रंश आपत्सु च नाऽऽशौचं, शिल्पिवैद्यादीनां सद्यः शौचम् । एतदनन्यसाध्यकर्मण्येव न तु पञ्चयज्ञादाविति मिताक्षरायाम् । भिषजो वैद्याः । कारवः सूपकाराद्याः । शिल्पिनश्चैलनिर्णेजकाद्याः । आतुरस्य व्याधिनाशार्थे दानादौ । संप्रारब्धेष्विति दानाद्युत्सवान्तानां विशेषणम् । तुलादाने प्रारम्भो नान्दीश्राद्धं संकल्पो वा । उपनयने नान्दीश्राद्धम् । यजनं तडागोत्सर्गकोटिहोमादि । तत्र प्रारम्भ ऋत्विग्वरणम् । श्राद्धं दर्शादि । तत्र प्रारम्भः पाकप्रोक्षणम् । युद्धारम्भः प्र[१८]सिद्धः । प्रतिष्ठायामारम्भो नान्दीश्राद्धं संकल्पो वा । चूडायामारम्भो नान्दीश्राद्धम् । तीर्थार्थयात्रा तीर्थार्था यात्रा तत्र संकल्पो घृतश्राद्धं वा । जपः पुरश्चरणादिः, स्तोत्रपाठः, अविच्छेदेन संकल्पितहरिवंशश्रवणादिश्च । एवं देवपूजादि । कालनियमाभावे तु स्तोत्रपाठहरिवंशश्रवणादि देवपूजादि च हेयमेव । उत्सवो रथयात्रादिः । एषु च नाऽऽशौचमित्यर्थः । एतदर्थं एतन्निमित्तमाशौचं नास्ति । एतदन्यनिमित्तेषु त्वस्त्येवेत्यर्थः । अयं चाऽऽशौचाभावोऽनन्यगतिकत्व आर्तौ च ज्ञेयः । सर्वत्र मूलमाकरे स्पष्टम् ।

 द्रव्यविषय आशौचाभावमाह मरीचिः--

"लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयःसु च ॥
तिलौषधाजिने चैव पक्वापक्वे स्वयंग्रहः ।
पण्येषु चैव सर्वेषु नाऽऽशौचं मृतसूतके" इति ॥

 पक्वापक्वे स्वयंग्रहः । स्वययेव स्वाम्यनुज्ञया ग्राह्यं नान्यद्ध(ह)स्तादिति नियम इत्यर्थः । पक्वं लड्डुकादि । अपक्वं तण्डुलादि ।

 एतदन्नसत्रपरम् ।

"अन्नसत्रप्रवृत्तानामाममन्नमगर्हितम् ।
भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु व्रती भवेत्" इत्यङ्गिरोवचनात् ।

 पक्वान्नमोदनादि न तु भक्ष्यमिति निबन्धकाराः ।

षडशीतौ--

"संसर्गाद्यस्य चाऽऽशौचं यस्यातिक्रान्तकालता ।
तदीयस्य पदार्थस्य नाऽऽशौचं विद्यते क्वचित्" इति ॥

 शुद्धितत्त्वे शुध्येदित्यनुवृत्तौ विष्णुः--"प्रोक्षणेन पुस्तकम्" इति ।

 पुत्रजनने सूतिकाया विंशतिरात्रमनधिकारः । कन्याजनने तु मासपर्यन्तम् ।

 तथा च पैठीनसिः--

"सूतिकां पुत्रवतीं विंशतिरात्रेण कर्म कारयेन्मासेन स्त्रीजननीम्" इति ।

 दशाहपर्यन्तमाशौचेनैव कर्मानधिकारप्राप्तेर्जन्मप्रभृति गणनायां विंशतिरात्रमासपदयोः प्राप्तदशाहांशेऽनुवादोऽवशिष्टदिनांशे विधिरिति विध्यनुवादवैरूप्यापत्तेर्मासाशौचवन्तं शूद्रं प्रत्यानर्थक्यप्रसङ्गाच्च यस्य यावदाशौचं प्राप्तं तदुत्तरमेव विंशतिरात्रं मासं च कर्मानधिकार इति केचिद्वदन्ति । अन्ये तु यत्र हि एकेनैव पदेन स्वार्थ एकं पदार्थं प्रत्युद्दिश्यतेऽन्यं च प्रत्युपादीयते तत्र वैरूप्यम् । यथा वाजपेयेन स्वाराज्यकामो यजेतेति यजिपदे । इह तु दशाहोत्तरदिनेष्वधिकानधिकारमात्रबोधनान्न तत् । अन्यथा द्वादशाहीनस्येत्यत्रापि प्रकृतितस्तिसृणामुपसदां प्राप्तेस्तदंशेऽनुवादोऽधिकांशे विधिरिति वैरूप्यं स्यात् । अतो जन्मप्रभृत्येव विंशतिरात्रं मासं च यावदप्राप्ताहःकर्मानधिकारो बोध्यत इत्याहुः । इति सूतकिनां कर्मनियमाः ।

अथ सूतिकाशुद्धिः ।

 तत्र स्मृतिः--

"द्विजातेः सूतिका या स्याद्दशाहेन तु शुध्यति ।
त्रयोदशेऽह्नि संप्राप्ते शूद्रा शुध्यत्यसंशयम्" इति ॥

 अस्पृश्यत्वनिवृत्तिरत्रोच्यते । कर्मानधिकारस्तु द्विजातिस्त्रीणां पुत्रप्रसूनां विंशतिरात्रान्ते । कन्याप्रसूनां तु मासान्त इति द्रष्टव्यम् । इयं च दशाहशुद्धिर्न सत्याषाढसूत्रानुसारिभिरादरणीया ।

"द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति" ।

 इति सूत्रेण द्वादश्यामेवाऽऽशौचनिवृत्तेराचार्येणोक्तत्वात् । प्रसूतिदिनमारभ्य विंशतिरात्रमासौ ग्राह्याविति षडशीतौ । अस्पृश्यत्वलक्षणाशौचनिवृत्तिर्यस्मिन्दिने तदारभ्येति त्रिंशच्छ्लोक्याम् । उत्तरमताङ्गीकार आचार्येण द्वादश्यामेवाऽऽशौचनिवृत्तेरुक्तत्वात्तदारभ्यैव विंशतिरात्रमासौ ग्राह्यौ ।

इति सूतिकाशुद्धिः ।

अथ जननादिषु कर्तव्यमुच्यते ।

 व्यासः--

"सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुद्धिर्जन्मनि कीर्तिता ॥

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्वाशौचं न कुर्वीत सूतके पुत्रजन्मनि ॥
दद्यात्तु प्रथमे हेम षष्ठे वा सप्तमेऽपि वा ।
बलिदानं तु दशमे ह्यन्नदानं प्रशस्यते" इति ॥

 बलिदानशब्दस्य षष्ठसप्तमपदयोरन्वयः । तुशब्दो दशमपदोत्तरमन्वेति । अयमाशौचाभावो दानविषय एव न संध्यादिविषयः । अन्नदानं सगोत्राणाम् । अन्येषामाशौचान्नस्याप्रतिग्राह्यत्वात् । सप्तमेऽपि वेत्यत्रत्यापि वाशब्दात्पञ्चमस्यापि ग्रहणं शिष्टसमाचारात् । सूतिकाया आवासो गृहं तदेवाऽऽलयो गृहं यासां ताः । सूतिकागृह एव जन्मदानां देवतानां पूजनं कर्तव्यमिति तात्पर्यार्थः । पुत्रजन्मनि पुत्रजन्मनिमित्तम् । पुत्रजन्मनीत्यत्र पुत्रशब्देन पुत्र्यपि गृह्यते । तथा च कन्याजन्मन्यपि जन्मदानां देवतानां पूजनं कर्तव्यमिति सिध्यति । अत एव श्रीधरीये--

"विशेषात्कन्यकायाश्च कर्तव्यं मङ्गलं न वा"

 इति विशेषात्कन्यकाया मङ्गलं न वा कर्तव्यमिति विकल्प उक्तः । एतेन पुत्रजन्मनि विशेषान्मङ्गलमावश्यकमिति सिध्यति । मङ्गलं जन्मोत्सवजन्मदापूजनादि ।

 बालतन्त्रे--

"उत्पन्नस्य तु बालस्य षष्ठे वा पञ्चमे दिने ।
विघ्नेशो जन्मदा षष्ठीदेवी जीवन्तिका तथा ॥
प्रदोषे पूजनीयाश्च गन्धपुष्पादिदानतः ।
फेणिकापूरिकाश्चैव(भिश्च) कृशरान्नैस्तथैव च ॥
प्रणवादिव्याहृतिभिर्नमोन्तैः पूजनं पृथक् ।
पित्रोर्बालस्य रक्षा स्यादन्येषां च न संशयः ॥
अपूजिताश्च या देव्यः पीडयेयुः कुमारकम् ।
कुङ्कुमेनाथ गन्धेन कुड्यसंस्थाः प्रकल्पयेत् ॥
पीठे वाऽक्षतपुञ्जादौ पुरुषाः शस्त्रपाणयः ।
स्त्रियश्च गानं कुर्वत्यो जागृयुस्तां निशां पराम् ॥
गृहं धूपाग्निदीपैश्च संयुतं कारयेत्ततः ।
सूतिकाया गृहे शस्त्रं स्थापयेन्मु[१९]शलं तथा ॥
सर्षपान्सर्वतो दद्याद्बलिर्देयश्च पुष्कलः ।

विप्रेभ्यश्चैव ताम्बूलदक्षिणादिकमर्पयेत् ॥
हिरण्यवस्त्रशय्यादि यथावित्तं प्रदापयेत्" इति ।

 देवी जीवन्तिका तथेत्यत्र तथाशब्दात्स्कन्दस्य शस्त्रे भगवत्याश्च पूजनं संगृह्यते । मिताक्षरायां मार्कण्डेयोऽपि--

"रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कार्यं जन्मदानां तथा बलिः ॥
पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ।
रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके" इति ॥

 चशब्दात्पञ्चम्यपि गृह्यते । देशाचारतो व्यवस्थितानि चैतानि पूजादिनानि ।

अथ प्रयोगः ।

 पञ्चमे षष्ठे च दिवसे प्रदोषसमये स्नात्वा गन्धमाल्यभूषित आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्याः सूतिकाया भार्यायाः शिशोश्च सकलानिष्टनिरसनपूर्वकायुरारोग्यैश्वर्याभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विघ्नेशस्य जन्मदानां षष्ठीदेव्या जीवन्तिकायाः स्कन्दस्य शस्त्रे भगवत्याश्च पूजनमहं करिष्य इति संकल्पं कुर्यात् । ममास्याः सूतिकाया भ्रातृपत्न्याः, ममास्याः सूतिकायाः स्नुषायास्तच्छिशोश्चेति भ्रातृपत्न्यादावन्यकर्त्रा यथापथमूहेन संकल्पः कार्यः ।

 ततः कुड्यादिलिखितप्रतिमास्वक्षतपुञ्जेषु वा क्रमेणाऽऽवाहयेत् । 'ॐ विघ्नेशाय नमः' विघ्नेशमावाहयामि । 'ॐ जन्मदाभ्यो नमः' जन्मदा आवाहयामि । 'ॐ षष्ठीदेव्यै नमः' षष्ठीदेवीमावाहयामि । 'ॐ जीवन्तिकायै नमः' जीवन्तिकामावाहयामि । 'ॐ स्कन्दाय नमः' स्कन्दमावाहयामि । शस्त्रे 'ॐ भगवत्यै नमः भगवतीमावाहयामि । इत्यावाह्य, 'ॐ विघ्नेशजन्मदाषष्ठीदेवीजीवन्तिकास्कन्दभगवतीभ्यो नमः' इति षोडशोपचारैः पूजयेत् ।

ततः प्रार्थना--

"सर्वविघ्नहरोऽसि त्वमेकदन्त गजानन ।
पष्ठीगृहेऽर्चितः प्रीत्या बालं दीर्घायुषं कुरु ॥
लम्बोदर महाभाग सर्वोपद्रवनाशन ।
त्वत्प्रप्तादादविघ्नेन चिरं जीवतु बालकः" इति विघ्नेशं प्रार्थयेत् ।

"वरदाः सायुधा यूयं जन्मदा इति विश्रुताः ।
शक्तिभिः सह बालं मे रक्षतात्राह्नि जागरे" इति जन्मदाः प्रार्थयेत् ।

"शक्तिस्त्वं सर्वदेवानां लोकानां हितकारिणी ।
मातर्बालमिमं रक्ष महाषष्ठि नमोऽस्तु ते ॥
गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा ।
तथा ममाप्ययं बालः षष्ठिके रक्ष(क्ष्य)तां नमः"

 इति षष्ठीदेवीं प्रार्थयेत् ।

"कार्तिकेय महाबाहो गौरीहृदयनन्दन ।
कुमारं रक्ष भीतिभ्यः पाहि देव नमोऽस्तु ते" इति स्कन्दं प्रार्थयेत् ।

"अस्मिंस्तु सूतिकागारे देवीभिः परिवारिता ।
रक्षां कुरु महाभागे सर्वोपद्रवनाशिनी ॥
अयं मम कुलोत्पन्नो रक्षार्थं पादयोस्तव ।
नीतो मातर्महाभागे चिरं जीवतु बालकः ॥
रूपं देहि जयं देहि भगं भ[२०]गवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥
शान्तिरस्तु शुभं चास्तु प्रणम्य त्वां सुखाय तत् ।
यतः समागतं पापं तत्रैव प्रतिगच्छतु" ॥

 इति भगवतीं प्रार्थयेत् । तत आवाहितदेवतानां सदीपान्दधिमाषभक्तबलीन्क्रमेण द[२१]द्यात् ।

 ततो ब्राह्मणेभ्यो यथाचारं ताम्बूलदक्षिणादि दद्यात् । जन्माशौचमध्ये प्रथमपञ्चमषष्ठदशमदिनेषु पक्वान्नभिन्नदानप्रतिग्रहयोर्न दोषः । पुरुषाः शस्त्रहस्ताः स्त्रियो गीतकारिण्योऽस्यां रात्रौ जागरणं कुर्युः । सूतिकागृहं च धूपाग्निदीपशस्त्रमुशलविभूतियुतं कार्यम् । सर्षपादिविकिरणशान्तिसूक्तपाठादिकमपि यथाचारं कर्तव्यम् । इति षष्ठीपूजा ।

अथ सूतिकास्नानम् ।

ज्योतिर्निबन्धे--

" करेन्द्रभागानिलवासवान्त्यमैत्रैन्दवाश्विध्रुवभेऽह्नि पुंसाम् ।
दिने त्वरिक्ते शुभमामनन्ति प्रसूतिकास्नानविधिं मुनीन्द्राः" इति ।

 करो हस्तः । इन्द्रो ज्येष्ठा । भागं पूर्वा(र्व)फल्गुन्यौ । अनिलः स्वाती । वासवं श्रविष्ठाः । अन्त्यं रेवती । मैत्रमनूराधाः । ऐन्दवं मृगशिरः । अश्विनावश्विनी नक्षत्रम् । ध्रुवभानि रोहिणी, उत्तरात्रयं च । अरिक्ते रिक्ताभिन्ने दिवसे । अयं च विधिर्दशाहान्तर्गतस्नानपरः । न तु सूतिकायाः शुद्ध्यर्थ स्नानपरः । नामकरणस्य सूतकान्तकर्तव्यताविधानेन मध्य एतेषां नक्षत्रादीनामवकाशासंभवात् ।

अथ नामकरणम् ।

 तच्च सूतकनिवृत्तौ सत्यां कार्यम् ।

"सूतकान्ते नामकर्म विधेयं स्वकुलोचितम्" इति नारदोक्तेः ।

"आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते" इति शङ्खोक्तेश्च ।

 सा च सूतकनिवृत्तिर्द्वादशेऽहन्येव । 'द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति' इतिसूत्रेण स्नानागारशुद्ध्यादिकं द्वादशेऽह्नि विदधताऽऽचार्येणैकादशेऽह्न्यप्याशौचसत्त्वबोधनात् । एतच्च मातापुत्रयोः पितुस्तत्कुलीनानां च । सूत्रे मातृग्रहणं मातुरेवाशौचपक्षमाश्रित्येति मातृदत्त आह । वैजयन्तीकारकारिकाकारादयश्चाप्येवमाहुः । वस्तुतस्तु मातापुत्रयोरेव न तु पित्रादीनाम् । सर्वस्मृत्यविरोधेन व्याख्यानसंभवे तद्विरुद्धस्यैकादशेऽह्नि पितुरप्याशौचं तत्कुलीनानां चेत्येतादृशव्याख्यानस्यायुक्तत्वात् । न चैवं मातुरप्येकादशेऽह्न्याशौचसत्त्वबोधनं सर्वस्मृतिविरुद्धमिति वाच्यम् । सर्वस्मृतिविरुद्धस्यापि मातापुत्रयोरेकादशेऽह्न्याशौचस्य 'द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति' इतिस्पष्टार्थकसूत्रप्रतिपादितस्नानागारशुद्धिविधानबललभ्यत्वात् । न च मातापुत्रयोरपि बहुस्मृत्यनुरोधेनैकादश्यामेवाशौचनिवृत्तिः स्नानं तु द्वादश्यां पुनरदृष्टार्थं कर्तव्यमिति वाच्यम् । शुद्धिरूपे दृष्टे संभवत्यदृष्टकल्पनायोगात् । 'स्नातायां नाम दधाति' इत्यापस्तम्बसूत्राद्दृष्टार्थत्वस्यैव प्रतीतेश्च । न च दृष्टार्थकस्य स्नानस्य स्मृतित एव सिद्धत्वाद्विधेर्वैयर्थ्यमिति वाच्यम् । तस्य द्वादशीविधायकत्वेन वैयर्थ्याभावात् । न चैवमेकादेशेऽह्नि पितुराशौचस्य निवृत्तत्वेन कर्मण्यधिकृतत्वात्तत्रैव नामकरणानुष्ठानं युक्तमिति वाच्यम् । पितुरधिकारित्वेऽपि सहाधिकारिण्या भार्यायाः संस्कार्यस्य चाशुचित्वेन नामकरणस्यैकादशेऽहन्यनुष्ठानस्यायुक्तत्वात् । जातकर्मणस्तु तथात्वेऽपि निमित्तप्राबल्यादनुष्ठानम् । अतः समन्त्रकस्नानसंपूर्णसंध्यावन्दनादीन्येकादशेऽह्नि पित्रादिभिः कर्तव्यान्येवेति युक्तं प्रतिभाति । स्नात इत्यत्रान्तर्भावितो णिच् । तेन स्नापयत इत्यर्थः । स्त्रियाविति शेषः । कुर्वन्तीत्यत्र परिकर्मिणः स्त्रियो वेति शेषः । 'द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति' इति सर्ववर्णप्रसूतिकासाधारणम् । सूत्रकृता विशेषानुपदेशात् । अतः क्षत्रियादिप्रसूतिकानामपि द्वादश्यामेव शुद्धिः ।  कालान्तरमप्युक्तं पारिजाते बृहस्पतिना--

"द्वादशे दशमे वाऽपि जन्मतो दिवसे शुभे ।
षोडशे विंशतौ चैव द्वाविंशे वर्णतः क्रमात्" इति ॥

 दशमेऽतीत इत्यर्थः । तेनैकादशदिनेऽनुष्ठानं सिध्यति । अयं च कल्पः सत्याषाढसूत्रानुसारिणां न भवति । मातापुत्रयोरशुचित्वेन तत्र तस्यासंभवात् ।

"षोडशैकोनविंशे वा द्वात्रिंशे वर्णतः क्रमात्" इति क्वचित्पाठः ।

 एकादशद्वादशौ ब्राह्मणस्य । क्षत्रियस्य षोडशः । वैश्यस्य विंशतिः । द्वाविंशः शूद्रस्येति वर्णतः क्रमादित्यस्यार्थः ।

 भविष्ये--

"नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव ।
द्वादश्यामपरे प्राहुर्मासे पूर्णे तथा परे ॥
अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिणः" इति ।

 अत्रापि दशम्यामतीतायामित्यर्थः ।

गोभिलसूत्रे--

"जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामकरणम्" इति।

 व्युष्टेऽतिक्रान्ते । व्युष्ट इत्यस्य नोत्तरयोरन्वयः । अन्नप्राशनपूर्वभाविनो नामकरणस्य संवत्सरात्मकोत्तरकाले क्रियायां तदाद्युत्कर्षन्यायेनान्नप्राशनमपि संवत्सर उत्कृष्यते । संवत्सरान्त्यदिवसे नामकरणवदन्नप्राशनस्यापि क्रिया भवति । दिनस्य विहितत्वात् । अत्र सूत्रोक्तकालव्यतिरिक्ताः काला असंभवे द्रष्टव्याः ।

मनुः--

"नामधेयं दशम्यां तु द्वादश्यां वाऽपि कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते" इति ॥

 कारयेदिति स्वार्थे णिच् ।

"ततस्तु नाम कुर्वीत पितैव दशमेऽहनि" इति विष्णुपुराणात् ।

 ततश्च द्वादशदिनान्तकालेषु न पुण्यतिथिनक्षत्रचन्द्रानुकूल्यादिगुणादरः । मुख्यकालातिक्रमे पुण्यतिथ्यात्मक एकः स्वतन्त्रः काल: । नक्षत्रात्मक एकः । उभयोः स्वातन्त्र्यं ज्ञापयितुं वाशब्दद्वयोपादानम् । ब्राह्मणादेरुक्तकाले नामकरणं कुर्वतो न मलमासगुरुशुक्रमौढ्यादिनिषेधादरः ।

 तदुक्तं दीपिकायाम्--

"गर्भाधानमुखं च चौलविधितः प्राग्जातयागं विना

कृच्छ्रेष्वाग्रयणं गजेन्द्रपुरतश्छायामघानङ्गयोः ।
तीर्थेन्दुक्षययोश्च पित्र्यमधिके मास्येवमाद्याचरेत्" इति ॥

 तथा पारिजाते बृहस्पतिरपि--

"यस्यां क्रियायां यश्चोक्तः कालो मासदिनैरपि ।
तस्यां न दोषो मूढत्वं वक्रं वा जीवशुक्रयोः" इति ॥

 दिनैरिति तृतीयेत्थंभावे । मासात्मना दिनात्मना वा यो नियतः कालस्तस्मिन्क्रियमाणायां तस्यां मूढत्वादि न दूषणमित्यर्थः । वक्रं वक्रत्वमित्यर्थः ।

 एवमुक्तदिनेषु सर्वनिषेधानादरे प्राप्ते तदपवादमाह गर्गः--

"व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि ।
श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः" इति ॥

 कुर्यादिति शेषः ।

तथा-- "अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्" इति ।

 एतच्च सर्वसंस्कारविषयं द्रष्टव्यम् ।

 नारदः--

"देशकालोपघाताद्यैः कालातिक्रमणं यदि ।
अनस्तगेज्ये च सिते तत्कार्यं चोत्तरायणे" इति ॥

 सर्वदिनेषु विशेषान्तरं बृहस्पतिराह--

"पूर्वाह्णः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः ।
अपराह्णं च रात्रिं च वर्जयेन्नामकर्मणि" इति ॥

 यथोक्तदिने त्वकृतस्य नामकर्मणः कालान्तरे क्रियमाणस्यापेक्षितस्तिथ्यादिनिर्णयः ।

पारिजाते नृसिंहः-- "छिद्राख्याः पर्व नवमीं हित्वा शेषाः शुभावहाः" इति ।

 चतुर्थीषष्ठ्यष्टमीद्वादशीचतुर्दश्यश्छिद्राः । द्वे पर्वणी, नवमी चेत्यष्टौ तिथीर्विहाय शेषास्तिथयो नामकर्मणि शस्ता इत्यर्थः ।

 वसिष्ठः--

"बुधेन्दुसितजीवानामंशके दिवसोदये ।
द्रेष्काणे कालहोरायां नामकर्म प्रशस्यते" इति ॥

 षष्ठ्यन्तस्य सप्तम्यन्तेषु प्रत्येकमन्वयः । अंशको नवांशो राशेः । उदयो लग्नम् । द्रेष्काणो राशेस्तृतीयोंऽशः । कालहोरा वारप्रवृत्तिमारभ्याहोरात्रसंबन्धिनो भागभेदाः । दिवसोदय इत्येकवद्भावः । ततश्चत्वारो वासराः प्रशस्ता इत्यर्थः ।  पारिजाते--

" मित्रादित्यमघोत्तराशतभिषक्स्वातीधनिष्ठाच्युत-
प्राजेशाश्विशशाङ्कपौष्णदिनकृत्पुष्येषु राशौ स्थिरे ।
छिद्रां पञ्चदशीं विहाय नवमीं शुद्धेऽष्टमे भार्गव-
ज्ञाचार्यामृतपादभागदिवसे नामानि कुर्याच्छिशोः" इति ॥

 मित्रोऽनूराधाः । आदित्यं पुनर्वसू । उत्तरा उत्तरात्रयम् । शतभिषक्शततारकाः । अच्युतः श्रवणः । प्राजेशं रोहिणी । अश्विनौ अश्विनीनक्षत्रम् । शशाङ्को मृगशिरः । पौष्णं रेवती । दिनकृद्धस्तः । राशौ स्थिरे वृषसिंहवृश्चिककुम्भलग्नेषु । तेभ्य एवाष्टमस्थाने । कीदृशे, शुद्धे । अरिष्टसूचकग्रहानाक्रान्तत्वं शुद्धत्वम् । भार्गवः शुक्रः । ज्ञो बुधः । आचार्यो बृहस्पतिः । अमृतपादश्चन्द्रः । एषां भागाख्यांशे दिवसाख्यवासरे । प्रत्येकमन्वयः । भागदिवसमित्येकवद्भावः । नामानीतिबहुवचनमेकशिशोर्बहूनि नामानि कार्याणीतिज्ञापनार्थम् । तत्रैवं(कं) शङ्खलिखिताभ्यामुक्तम्--

"कुलदेवतासंबद्धं पिता नाम कुर्यात्" इति ।

 कुलपूज्या या देवता तत्संबद्धमित्यर्थः । अस्यां व्याख्यायामनादिराचारो मूलम् । एकं गर्गेणोक्तम्--

"मासनाम प्रकुर्वीत बालकस्य पिता ततः ।
कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः ॥
उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः ।
योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात्" इति ॥

 अत्र मार्गशीर्षादिरेव क्रमः ।

"चैत्रादिमासनामानि वैकुण्ठोऽथ जनार्दनः ।
उपेन्द्रो यज्ञपुरुषो वासुदेवो हरिस्तथा ॥
योगीशः पुण्डरीकाक्षः कृष्णोऽनन्तोऽच्युतस्तथा ।
चक्रीत्येतानि नामानि क्रमादाहुर्मनीषिणः" ॥

 इतिमदनरत्नोदाहृतगर्गवचःसंवादात् । स्मृत्यन्तरे तु अन्यान्युक्तानि--

"केशवं मार्गशीर्षे तु पौषे नारायणं विभुम् ।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा ।
चैत्रे विष्णुं तथा विद्याद्वैशाखे मधुसूदनम् ।
त्रिविक्रमं तथा ज्येष्ठ आषाढे वामनं विदुः ॥

श्रावणे श्रीधरं विद्धि त्दृषीकेशं तु भाद्रके ।
आश्विने पद्मनाभं तु ऊर्जे दामोदरं विदुः" इति ॥

 स्त्रीणां मासनामान्याह बृहस्पतिः--

"वाग्देवी मार्गशीर्षे तु पौषे पद्मावती भवेत् ।
श्रीदेवी माघमासे स्यात्सावित्री फाल्गुने स्मृता ॥
चैत्रमासे भवेद्भूतिः कल्याणी माधवे भवेत् ।

 माधवो वैशाखः ।

सत्यभामा स्मृता ज्येष्ठे शुचौ पुण्यवती भवेत् ।

 शुचिराषाढः ।

नभसि स्याद्रूपवती भाद्र इन्दुमती भवेत् ।

 नभाः श्रावणः । भाद्रो भाद्रपदः ।

चन्द्रवत्याश्विने प्रोक्ता लक्ष्मीः कार्तिक ईरिता ।
एतानि मासनामानि स्युः स्त्रीनामकृतौ ध्रुवम्" इति ॥

 मासाश्चात्र चान्द्राः । तत्रैव चैत्रादिशब्दानां मुख्यत्वात् । ते च शुक्लादिकृष्णान्ता एव । एतादृशचान्द्रमानस्यैव मुख्यत्वाद्ब्राह्मणेन चैतदेव विशेषेणाऽऽदरणीयम् ।

"अमावस्यापरिच्छिन्नो मासः स्याद्ब्राह्मणस्य तु" इतिवचनात् ॥

 सविशेषं व्यावहारिकं नाक्षत्रं च नाम गृह्य उक्तम्--

"पुत्रस्य नाम दध्याद्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तं यत्र वा स्वित्युपसर्गस्तद्धि प्रतिष्ठितमिति विज्ञायते, पिता मातेत्यग्रेऽभिव्याहरेयातां विज्ञायते च मम नाम प्रथमं जातवेद इति द्वे नामनी कुर्याद्विज्ञायते च तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति नक्षत्रनाम द्वितीय स्यादन्यतरद्गृह्य स्यादन्यतरेणैनमामन्त्रयीरन्" इति ।

 पुत्रस्यास्य नाम संज्ञां दध्यात् । कीदृशमित्याकाङ्क्षायां द्व्यक्षरमित्यादि । द्वे अक्षरे परिमाणं यस्य तद्द्व्यक्षरम् । चत्वार्यक्षराणि परिमाणं यस्य तच्चतुरक्षरम् । अक्षरशब्दोऽत्र स्वरेषु वर्तते यथा चतुर्विं शत्यक्षरा गायत्रीति । घोषवत्सर्ववर्गप्रथमद्वितीयेभ्योऽन्यद्व्यञ्जनमादिर्यस्य तद्धोषवदादि । अन्तर्मध्येऽन्तस्था यरलवास्तेषामेको यस्य तदन्तरन्तस्थम् । दीर्घश्चाभिनिष्टानश्च दीर्घाभिनिष्टानौ तावन्ते यस्य तद्दीर्घाभिनिष्टानान्तम् । अभिनिष्टानो विसर्जनीयः । अभिनि ष्ठान इति तु प्रमादपाठः । यौगपद्येनासंभवाद्दीर्घान्तं विसर्जनीयान्तं वेत्यर्थः । केचिद्दीर्घात्परं विसर्गं मन्यन्ते । यस्मिन्नाम्नि सु इत्युपसर्गः स्यात्तद्वा दध्यात् । अस्मिन्पक्षे नास्ति घोषवदादिकं लक्षणम् । तन्नाम प्रतिष्ठितं लोक इति हि यस्माद्विज्ञायते श्रुतिरिति शेषः । नाम्नि प्रतिष्ठितत्वं नाम नामवतो विशेषतो दीर्घायु:प्रदातृत्वम् । उपसर्गग्रहणमप्रातिपदिकस्य केवलस्य सु इत्यक्षरस्य निवृत्त्यर्थं सुषुवादिषु प्रतिष्ठितत्वं मा भूदिति । सुशब्दोपादानमुपसर्गान्तरनिवृत्त्यर्थम् । धावा देवः, वीरयायी बलिवरः, निर्णीः, नववयाः सुदः, सुश्रीः, इत्येवमादीन्युदाहरणानि । तन्नाम पिता माता च प्रथममभिव्याहरेयाताम्, उच्चारयेयाताम् । विज्ञायते हि मम नामेत्येतस्मिन्मन्त्रवर्णे पिता माता च दधतुर्यदग्र इति । तस्मादादौ ताभ्यामुच्चारयितव्यममुकोऽयमिति । ततः पुण्याहादिवाचने ब्राह्मणैरुच्चारणीयम् । द्वे नामनी कुर्यात् । नैकमेव । कुतः । विज्ञायते हि तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति धिष्णियव्याधारणवाक्यशेषे । अर्धुको वर्धनशील इत्यर्थः । अस्यानुवादत्वाद्ब्राह्मणग्रहणं त्रैवर्णिकप्रदर्शनार्थम् । नामाधिकारे पुनर्नामग्रहणमुक्तलक्षणमिदं नामानित्यमितिज्ञापनार्थम् । तेन घोषवदाद्यनियमेन संख्याद्यनियमेन च चतुर्णां वर्णानां क्रमेण शर्मवर्मभूतिदासान्तत्वं, पूर्वपुरुषनामक्रिया, ऋष्यनूकत्वं, देवतानूकत्वं, कृदन्ततानियमो, वृद्धतद्धितप्रतिषेधः, स्त्रीणामयुगक्षरत्वमिति सिद्धानि भवन्ति । तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति श्रुतिसिद्धयोर्नाम्नोरेकस्य नाम्नो नक्षत्रनाम द्वितीयं स्यात् । कृत्रिमयोर्नाम्नोरन्यतरन्नाम गुह्यमन्यैरविदितं स्यात् । मातापितरावेव तज्जानीतः । उपनयनप्रभृति कुमारोऽपि जानीते । अन्यतरेण गुह्यादन्येन नाम्नैनं कुमारं लौकिकेषु वैदिकेषु च कर्मस्वामन्त्रयीरन्, संबोधनादिना व्यवहरेयुः । येन व्यवहरेयुस्तस्य नक्षत्रनाम द्वितीयं स्यात् । यत्तु द्विनामा ब्राह्मणोऽर्धुक इतिश्रुतिसिद्धनामद्वयमध्य एकमेव व्यावहारिकं द्वितीयं नाक्षत्रं तयोश्चान्यतरन्नाम व्यावहारिकं नाक्षत्रनाम वा गुह्यं स्यात् । अन्यतरेण गुह्यादन्येनैनं लौकिकेषु व्यवहारेष्वामन्त्रयीरन्निति केषांचिद्व्याख्यानं तत्कौषीतक्युक्तव्यावहारिकनामद्वयविधानादर्शनमूलकत्वादुपेक्ष्यम् । तत्रैकं जातकर्मदिने नामकरणदिन एव वा प्राक्स्वस्तिवाचनात्कार्यं मातृदत्तोक्तेः ।

 सोमयाजीत्यपि नाम कार्यमिति गृह्य उक्तम्--

"सोमयाजीति तृतीयं नाम कुर्वीतेति विज्ञायते" इति ।

 य: सोमेनेष्टवान्स सोमयाजी । स एतयोर्नाम्नोस्तृतीयं नाम सोमयाजीति  त्यर्थः । एतस्य विनियोगो हौत्र एव । इतरयोस्त्वत्रान्यत्र चेति ज्ञेयम् । व्यावहारिकनाम्नि विशेष उक्तः शङ्खलिखिताभ्याम्--

"घोषवदाद्यन्तरन्तस्थं पुंसामिकारान्तं स्त्रीणामेवं
कृते नाम्नि शुचि तत्कुलं भवति" इति ।

 पतञ्जलिः--

"अवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं
कृतं कुर्यान्न तद्धितम्" इति ।

 यत्राऽऽद्यस्याचो वृद्धिस्तद्वृद्धमिति पाणिनिपरिभाषितं वृद्धं तद्भिन्नमवृद्धम् । नामकर्तुस्त्रिपुरुषान्पितामहादीननु कायत्यभिधत्त इति त्रिपुरुषानूकम् । पितामहादित्रितयान्यतमं नाम कार्यमित्यर्थः । कृतं कृदन्तम् । तद्धितं तद्धितान्तम् ।

 यत्तु प्रयोगपारिजाते कपिलसंहितावचनम्--

"एकादशेऽह्नि विधिवन्नाम कुर्यात्कुलोचितम् ।
देवतानां विशेषेण पित्रोर्वा नाम शस्यते ॥
नैव कार्यं नृपादीनां नाम जीवनहेतुतः ।
पूर्वः परस्य वर्णस्य हीनस्यापि न धारयेत्" ॥

 इति, तदपि नामकर्तुः पित्रोर्नामेत्येवं व्याख्येयं पातञ्जलेनाविरोधाय । अतश्च पित्रादिः कर्ता स्वनामैव करोतीति केषांचिदनाचार एव ।

 वसिष्ठः--

"तद्द्व्यक्षरं वा चतुरक्षरं वा विवर्जयेदन्त्यलकाररेफम् ।
तन्मासनामादिकमेव चिन्त्यं स्फुटं वदेद्दक्षिणकर्णरन्ध्रे" इति ॥

 बालस्येति शेषः ।

 व्यावहारिकं नाम प्रकृत्य यमः--

"शर्म देवश्च विप्रस्य वर्म राजा च भूभुजः ।
गुप्तो दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्" इति ॥

 भूतिर्गुप्तश्च वैश्यस्येत्यपि पाठः ।

 बौधायनोऽपि--

"शर्मान्तं ब्राह्मणस्य वर्मान्तं क्षत्रियस्य
गुप्तान्तं वैश्यस्य दासान्तं शूद्रस्य" इति ।

 ( [२२]वासिष्ठसूत्रेऽपि-–'शर्मान्तं ब्राह्मणस्य येन व्यवह्रियते' इति । अनेन नक्षत्रादिनाम्नां शर्मान्तता व्यावर्त्यते । )  स्त्रीनाम्नि विशेष उक्तः पारस्करेण--

"अयुगक्षरमाकारान्तं स्त्रियै तद्धितम्" इति ।

 तद्धितं तद्धितान्तम् ।

 गोभिलेन दान्तत्वमप्युक्तम्--"अयुगक्षरं दान्तं नाम स्त्रीणाम्" इति ।

 अत्र केचित्--अत्र दान्तता नामान्तर्गतदाकारेण यशोदा शर्मदेत्यादि । अन्ये तु नामान्तर्गतदाकारेण दान्तता न, किं तु नामातिरिक्तदाकारेणैव दान्तता । यथा पार्वतीदा गङ्गादेत्येवं प्रयोग इत्याहुः । एतन्मते यशोदा शर्मदेत्यादिषु यशोदादा शर्मदादा, इति प्रयोगो ज्ञेयः ।

 यमेनान्योऽपि विशेष उक्तः--

"स्त्रीणां तु सुखमक्रूरं विस्पष्टार्थं मनोरमम् ।
माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्" इति ॥

 यशोदेत्याद्युदाहरणानि । स्त्रीणां पुरुषाणां च देवालयगजादीनां नाम न कार्यम् ।

तदुक्तं स्कान्दे--

"देवालयगजाश्वानां वृक्षाणां वापिकूपयोः ।
सर्वापणानां पण्यानां चिह्नानां योषितां नृणाम् ॥
काव्यादीनां कवीनां च पश्वादीनां विशेषतः ।
गजप्रासादयज्ञानां नाम नैव प्रदीयते" इति ॥

 वापीशब्दस्य ह्रस्व आर्षः । नक्षत्रनाम त्रिविधं, जन्मनक्षत्रनाम जन्मनक्षत्रदेवतानाम जन्मनक्षत्रपादचतुष्टयभूताक्षराद्याक्षरकं नामेति । तत्राऽऽद्यस्वरूपं मातृदत्त आह--नक्षत्रनाम किं तत् , जन्मनक्षत्रप्रकृतिकं तत्रजातार्थतद्धितान्तम् । यथा रौहिण इत्यादि । 'असावसावित्यादिश्य नामनी' इत्याश्वलायनसूत्रव्याख्यानावसरे देवत्रातोऽपि 'तत्र जात इत्यस्मिन्नर्थे तद्धित उत्पद्यते' इति प्रकृत्य 'तस्मादेवं प्रयोगो भवति अनूराधो देवदत्तः' इति । तथा बौधायनेन 'पुत्रस्य नाम गृह्णाति' इति प्रकृत्य 'रौहिणाय तिष्याय' इति यथानुशासनं विनियोगोऽभ्यधायि । तथोपनयनप्रकरणस्थस्य--

"को नामासीति नामधेयं पृच्छति तस्याऽऽचार्योऽभिवादनीयं नामधेयं
कल्पयित्वा देवताश्रयं नक्षत्राश्रयं गोत्राश्रयमप्येके"

 इति च्छन्दोगसूत्र[स्य] व्याख्यानावसरे तद्भाष्यकृतोक्तं 'नक्षत्राश्रयं फल्गुननामाऽसि' इति ।  तत्रोक्ततद्धितान्तानां नक्षत्रनाम्नां संग्रहार्थः श्लोकः प्रयोगवैजयन्त्यां सुदर्शनभाष्ये विद्यारण्यकृतबौधायनीयदर्शपूर्णमाससूत्रभाष्ये चोदाहृतः--

"रोरेममृज्येचिषु वृद्धिरादौ ठात्पे च वाऽन्त्यश्रवशाश्वयुक्षु ।
शेषेषु नाऽऽर्म्वो कपरः स्वरोऽन्त्यः स्वाप्वोरदीर्घः सविसर्ग इष्टः" इति ।

 अस्यार्थः--रोहिणी रेवती मघा मृगशीर्षं ज्येष्ठा चित्रेत्येतेषु आद्याक्षरनिर्दिष्टेषु आदावाद्याक्षरे वृद्धिर्भवति । 'नक्षत्रेभ्यो बहुलम्' इति बहुलग्रहणाज्जातार्थप्रत्ययस्य लुगभावः । रूपं च रौहिणः, रैवतः, माघः, मार्गशीर्षः, ज्यैष्ठः, चैत्र इति । ठात्पे च । प्रोष्ठपदेत्यत्र ठकारात्परे पकारे च वृद्धिर्भवति । 'जे प्रोष्ठपदानाम्' इत्युत्तरपदवृद्धिरित्यर्थः । पूर्ववच्च लुगभावः । रूपं च प्रोष्ठपाद इति । वाऽन्त्यश्रवशाश्वयुक्षु । अन्त्यमाम्नानतः । अपभरणीत्यर्थः । श्रवः श्रवणः । शः शतभिषक् । अश्वयुगित्येतेषु चतुर्षु विकल्पेन वृद्धिः । तत्र श्रवणापभरण्योर्बहुलग्रहणादेव लुको विकल्पः । अश्वयुक्शतभिषजोस्तु 'वत्सशालाभिजिदश्वयुक्छतभिषजो वा' इति सूत्रेण । रूपं च-- अपभरणं आपभरणः । श्रवणः श्रावणः । शतभिषक्, शातभिषजः । अश्वयुगाश्वयुज इति । शेषेषु न । उक्तेभ्योऽन्येषु नक्षत्रेषु न वृद्धिः । यतोऽत्र 'श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्' इत्यनेन 'नक्षत्रेभ्यो बहुलम्' इत्यनेन च लुग्भवति । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । अत्र बहुलशब्देन पर्यायभूतानां कृत्तिकानामपि ग्रहणम् । रूपं च कृत्तिकः, तेष्यः, फल्गुनः, आश्लेषः, हस्तः, विशाखः, अनुराधः, अषाढः, श्रविष्ठ इति । आर्म्वोः कपरः स्वरोऽन्त्यः । आर्म्वोरार्द्रामूलयोरन्त्यः स्वरः कशब्दपरो भवति । 'पूर्वाह्णापराह्णार्द्रामूला' इत्यादिसूत्रेण वुन्प्रत्यये 'युवोरनाकौ' इति स्याकादेशे 'यस्येति च' इत्यनेनाऽर्द्राशब्दान्त्याकारलोपे च कृत आर्द्रको मूलक इति रूपद्वयं सिद्धं भवति । आरित्यत्र रेफग्रहणमाश्लेषाग्रहणाकारेण मा भूदित्येतदर्थम् । स्वाप्वोरदीर्घः सविसर्ग इष्टः । स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यः स्वरो ह्रस्वः सविसर्गश्चेष्टः । 'श्रविष्ठाफल्गुन्यनुराधा' इत्यालुक् सविसर्गत्वं च । पूर्वस्त्रीप्रत्ययनिवृत्तौ हल्ङ्यादिलोपाभावात् । स्य तूकारान्तत्वादिति । रूपं च स्वातिः पुनर्वसुरिति । स्वातीति सदीर्घप्रत्पुनर्वस्वोर्द्वित्वेन च पुनर्वसू इति सदीर्घत्वप्रसक्तेरदीर्घत्वमुक्तम् । एवं विंशतिनक्षत्रसंबन्धिनाम्नां सिद्धिः । नक्षत्रेष्टिष्वभिजितः पृथगाम्नानेऽपि निनाऽषि 'वत्सशालाभिजिदश्वयुक्' इति तत्प्रकृतिकयोरभिजिदाभिजित नाम्नोरनुशिष्टयोरपि श्लोके योऽनादरस्त(र: स त)स्य नक्षत्रान्तरेऽन्त र्भावात्तन्नाम्नैव व्यवहारसौकर्यादिति बोध्यम् । आदृतं तु मातृदत्तेनाऽऽभिजित इति नक्षत्रनाम, तस्यापि स्वीकारः । अभिजित्स्वरूपं ब्राह्मणेऽभिहितम्--'अभिजिन्नाम नक्षत्रमुपरिष्टादषाढानामवस्ताच्छ्रोणायाः' इति ।

 विवृतमेतद्वसिष्ठेन--

"अभिजिद्भभागमेतद्वैश्वदेवान्त्यपादमखिलम् ।
आद्याश्चतस्रो नाड्यो विज्ञेया हरिमस्य बुधैः" इति ॥

 वैश्वदेवमुत्तराषाढाः । चतस्र इति पञ्चदशांशोपलक्षणम् । द्वयोर्नक्षत्रयोर्वृद्धिक्षयालोचनेन पादपञ्चदशांशावभिजिदित्यर्थः । स्त्रीणामेतान्येव नक्षत्रनामानि स्त्रीप्रत्ययान्तानि कार्याणि मातृदत्तोक्तेः । कृत्तिका रोहिणी मार्गशीर्षी [आर्द्रिका] पुनर्वसू(सुः) तिष्याऽऽश्लेषी(षा) माघी फा(फ)ल्गुनी हस्ता चैत्री(चित्रा) स्वातिर्वैशाखी(र्विशाखा) अनुराधा ज्येष्ठा(ज्यैष्ठी) मूलिकाऽषाढा, [अभिजित्] आभिजिता(ती) श्रावणी श्रवणा श्रविष्ठा शतभिषक्शातभिषजी प्रोष्ठप(पा)दी रै(रे)वती, अश्वयुगाश्वयुजी, अपभरण्या(णाऽऽ)पभरणी, इत्युदाहरणानि । जन्मनक्षत्रदेवतानाम ज्यौतिषे--

"नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम्" इति ॥

 एतच्छब्दपरामृष्टा नक्षत्रदेवतास्तु--

"अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च ॥
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वे देवास्तथैव च ॥
विष्णुर्वसवो वरुणोऽज एकपात्तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च " इति ।

 एता देवताः कृत्तिकाप्रभृति ज्ञेयाः । अभिजिद्देवता तु ब्रह्म श्रुतितो ज्ञेयम् । अत्र कृत्तिकादावुत्पन्नस्याऽऽग्नेयः प्राजापत्य इत्येवमादीन्युदाहरणानि । एतानि यज्ञकर्मण्येव विकल्पेन प्रवर्तन्ते ।

 तृतीयं तु परिशिष्टे--

"तदक्षरादिकं नाम यस्मिन्धिष्ण्ये यदक्षरम्" इति ।

 अक्षरमित्येकवचनं पादाक्षराभिप्रायेण ।  तानि ज्योतिषार्के--

"चुचेचोला पदेष्वाद्ये लि लु ले लो यमस्य भे ।
अ (मे०), इ उ ए वह्निभे च ओ व वि वु तथा कभे
वे वो (वृ०), क कि मृगः ख्यातः कु घ ङ् च्छ शिवस्य भे ।
के को ह (मि०), हि त्वदितिभे हुहेहोडाश्च पुष्यभे ॥
डि डु डे डो (क०), इमे सार्पे म मि मू मे मघाभिधे ।
मो ट टि टु तथा भागे टे (सिं०), टो प प्यर्यमर्क्षके ॥
पुषणठास्तथा हस्ते पे पो (क०), र रि च चित्रभे ।
रुरेरोतास्तथा स्वातौ ति तु ते (तू०), तो द्विदैवभे ॥
न नि नू ने क्रमान्मैत्रे नो य यि यु (वृ०), इतीन्द्रभे ।
ये यो भ भि च मूलाख्ये [२३]बुधफाढा जलस्य भे ॥
भे (ध०), भो ज नि च विश्वर्क्षे जु जे जो खाभिजिद्भवेत् ।
खि खु खे खो[२४] श्रुतौ ज्ञेया ग मि (म०), गू गे च वासवे ॥
गो सा सि सू जलेशर्क्षे से सो द (कु०), दि अजैकभे ।
दुथझञास्तथोपान्त्ये दे दो च ची(मी०), ति पौष्णभे ॥
इति प्रोक्ता इमे पद्ये वर्णो नामादिजाः स्फुटाः ।
ज्ञेया मेषादिराशीनां नवभिर्नवभिः पदैः" इति ॥

 आद्यमश्विनीनक्षत्रम् । यमस्य नक्षत्रं भरण्यः । वह्निभं कृत्तिकाः । कः प्रजापतिस्तस्य नक्षत्रं रोहिणी । शिवस्य भमार्द्रानक्षत्रम् । अदितिभं पुनर्वसू । सार्पमाश्लेषाः । भागं भगदैवतं पूर्वा(र्व)फल्गुनीनक्षत्रम् । अर्यमर्क्षमुत्तरा(र)फल्गुनीनक्षत्रम् । द्विदैवभं विशाखानक्षत्रम् । मैत्रमनूराधाः । इन्द्रभं ज्येष्ठाः । जलस्य भं पूर्वाषाढाः । विश्वर्क्षमुत्तराषाढाः । श्रुतिः श्रवणनक्षत्रम् । वासवं श्रविष्ठाः । जलेशो वरुणस्तस्य नक्षत्रं शततारकाः । अजैकभं पूर्वा(र्व)प्रोष्ठपदाः । उपान्त्यमुत्तरा(र)प्रोष्ठपदाः । पौष्णभं रेवतीनक्षत्रम् । इतराणि प्रसिद्धार्थानि ।

"इति प्रोक्ता इमे पद्ये वर्णा नामादिजाः स्फुटाः"

 इत्युपसंहाराद्येऽश्विन्यां पदेषु चरणेषु ये चु इत्यादयो वर्णास्तदादीनि नामानि कार्याणीति प्रतीतेर्ज्योतिर्विदां नक्षत्रतच्चरणज्ञानफलानि सन्तु तान्यपि नामानि । यदि नामकरणप्रकरणे क्वचिद्गृह्यग्रन्थे तादृशं नक्षत्रनाम कार्यमिति स्फुटो विधिर्भवेत्तदाऽपि सूक्तवाकादिसंबद्धकर्मानधिकृतजात्यन्धविषयोऽसाविति ज्ञेयम् । तदधिकृतान्प्रति व्याकरणानुसारिनक्षत्रनाम्नामेवाऽऽवश्यकताया दर्शितत्वात् । अत्र प्रसङ्गात्तान्यपि नामानि लिख्यन्ते--चुक्रभुक् १,चेतोहर: २,चोष्यप्रियः ३,लब्धविद्यः ४,लिपिकुशलः ५,लुब्धः ६,लेखनकुशलः ७,लोकप्रियः ८,अच्युतः ९,इडापतिः १०,उपेन्द्रः ११,एकनाथः १२,ओषधीपतिः १३,वसुमान् १४,विष्णुः १५,वुन्नन्तवासुदेवः १६,वेदाध्यायी १७,वोकारप्रियः १८,करुणाकरः १९,किर्मीरवर्णः २०,कुरुपतिः २१,घनश्यामः २२,ङकारप्रियः २३,छत्रपतिः २४,केशवः २५,कोमलाङ्गः २६,हरः २७,हिमाद्रिजाभक्तः २८,हुंकारकृत् २९,हेमस्रग्वी ३०,होता ३१,डमरुकस्वरप्रियः ३२,डिण्डिमस्वरप्रियः ३३,डुण्डुभवशंकरी ३४,डेकारप्रियः ३५,डोकारप्रियः ३६,महादेवः ३७,मित्रप्रियः ३८,मूर्तिसेवी ३९,मेखली ४०,मोहितारातिः ४१,टणत्कारकृत् ४२,टिप्पणकृत् ४३,टुकारादिधातुज्ञः ४४,टेकारप्रियः ४५,टोकारोच्चारी ४६,परशुरामः ४७,पितृसेवी ४८,पुरुषोत्तमः ४९,पान्तनामभक्तः ५०,णान्तक्रीडः ५१, उन्नन्तक्षीरप्रियः ५२,पेयप्रियः ५३,पोषकः ५४,रघुनाथः ५५,रिरंसावान् ५६,रुचिमान् ५७,रेवतीरमणः ५८,रोहिणीशः ५९,तर्ककुशलः ६०,तिक्तप्रियः ६१,तुच्छीकृतारातिः ६२,तेजस्वी ६३,तोमरपाणिः ६४,नरपतिः ६५,निधिपतिः ६६,नूतनकान्तिः ६७, नेता ६८,नोशब्दार्थपालकः ६९,यज्ञेश्वरः ७०,यिकारान्तनामा ७१, युक्तिकुशलः ७२,येकारकृत् ७३,योगकुशलः ७४,भगवत्सेवी ७५,भिन्नरागः ७६,[२५]बुधसेवी ७७,धर्मचारी ७८, फाणितप्रियः ७९, ढक्कानिनादप्रियः ८० भेदितारातिः ८१,भोगनिपुणः ८२,जनमोहनः ८३,जितामित्रः ८४,जुगुप्सावान् ८५,जेता ८६,जोषणकर्ता ८७,खलशासकः ८८,खिलवेत्ता ८९,खुरवदधीशः ९०,खेलनशाली ९१,[२६]खान्तक्रत्वनुष्ठाता (खोकारप्रियः) ९२,गणपत्तिः ९३,गिरीशः ९४,गढकर्मा ९५,गेकारकृत् ९६,गोपीनाथः ९७,सामप्रियः ९८,सिद्धिपतिभक्तः ९९,सूर्यभक्तः १००,सेवाप्रियः १,सोमानुष्ठाता २,दनुजारिः ३,से सो दा दीति पाठे तृतीयचरणस्य दामोदर इति नाम । दिवाकरः ४,दुश्च्यवनः ५, थड(या) न्तदेवतापूजकः ६,झर्झरप्रियः ७,अञन्त(कार)प्रियः ८,देवतापूजकः ९,दोलाप्रियः १०,चरित्रवान् ११,चित्रलेखनकुशलः १२,इति । नाम्नि आद्यमक्षरं प्र, इति संयुक्तं तत्राऽऽद्यो वर्णः पकारस्तस्माद्भं ज्ञेयम् । प्रियवचा इत्यत्र पिकारः, त्रिविक्रम इत्यत्र तिकारः, द्रुपद इत्यत्र दुकार इत्यादि द्रष्टव्यम् । उक्तं च स्वरशास्त्रे--

"संयोगाक्षरजे नाम्नि ज्ञेयं तत्राऽऽदिमाक्षरम्" इति ।

नामाद्याक्षराभास्वरशास्त्रे--"खषौ शसौ बवौ चैव ज्ञेयावेतौ परस्परम्" इति ।'

अथ नामकरणप्रयोगः ।

 व्यतीपातादिकुयोगरहिते जन्मतो द्वादशे दिवसे मातापुत्रयोः स्नानानन्तरं भृत्यैः सूतिकागारं खननसेचनोपलेपनैः शुद्धं कारयित्वा सूतिकाग्निं बहिर्निष्काशयित्वो(श्यो)पासनाग्निमानीत्यो[२७]द्धननादिसंस्कृत आयतने संस्थाप्य नामकरणं कुर्यात् । द्वादशे दिवसेऽसंभवे व्यतीपातादिकुयोगसत्त्वे वाऽष्टादशेऽहनि मासे शतरात्रे संवत्सरेऽतीते वोक्तायां यस्यां कस्यांचित्पुण्यतिथौ वा केवले पुण्ये नक्षत्रे वा कार्यम् । स्नानसूतिकागारशुद्धी तु द्वादश्यामेव । स्वकाले नामकरणक्रियायां तु गुरुशुक्रास्तमलमासादिनिषेधो नास्ति । कर्ता होमसामग्रीं त्रिवृदन्नं कांस्यपात्रं सुवर्णशलाकां चोपकल्प्य ज्योतिर्विदादिष्टे मुहूर्ते प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालकां भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्वर्चोभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकरणाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्या[२८]हादिवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।

 तत औपासनाग्निं पार्थिवनामाऽयमिति ध्यायन्प्रज्वाल्य चत्वारि शृङ्गेति ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा नामकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे धातारं चतसृभेराज्याहुतिभिर्यक्ष्ये । अनुमतिं चतसृभिराज्याहुतिभिर्यक्ष्ये । राकां द्वाभ्यां आज्याहुतिभ्यां यक्ष्ये । सिनीवालीं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । त्रयोदशाकुहूमेकयाऽऽज्याहुत्येत्यधिकम् ।

 ततोऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोम  धाता ददातु न इति चतुर्णां विश्वे देवा ऋषयः । धाता देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । तृतीयस्यानुष्टुप् । चतुर्थस्य त्रिष्टुप् । अनु न इति चतुर्णां विश्वे देवा ऋषयः । अनुमतिर्देवता । प्रथमद्वितीययोरनुष्टुप् । तृतीयचतुर्थयोस्त्रिष्टुप् । राकामहमिति द्वयोर्विश्वे देवा ऋषयः । राका देवता । जगती छन्दः । सिनीवालीति द्वयोर्विश्वे देवा ऋषयः । सिनीवाली देवता । अनुष्टुप् छन्दः । सर्वेषां नामकरणप्रधानाज्यहोमे विनियोगः । 'ॐ धाता ददातु नो रयिमी० नत्स्वाहा' धात्र इदं न मम । 'ॐ धाता प्र० म स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु नो रयिं प्रा० सः स्वाहा' धात्र इदं न मम । 'ॐ धाता ददा० जोषाः स्वाहा' धात्र इदं न मम । 'ॐ अनु नोऽद्यानुमति० यः स्वाहा' अनुमत्या इदं न मम । 'ॐ अन्विदनु० षः स्वाहा' अनुमतय इदं न मम । ॐ अनुम० च्छतु स्वाहा' अनुमतय इदं न मम । 'ॐ यस्यामिदं० यच्छतु स्वाहा' अनुमत्या इदं न मम । 'ॐ राकामह मुक्थ्य स्वाहा' राकाया इदं न मम । 'ॐ यास्ते राके सु० रराणा स्वाहा' राकाया इदं न मम । 'ॐ सिनीवालि पृथुष्टुके० ढ्ढि नः स्वाहा' सिनीवाल्या इदं न मम । 'ॐ या सुपाणिः० जुहोतन स्वाहा' सिनीवाल्या इदं न मम । अन्वाधाने कुह्वा उत्कीर्तनं कृतं चेत्तदा कुह्वूमित्यस्य विश्वे देवाः कुहूस्त्रिष्टुप् । नामकरणप्रधानाज्यहोमे विनियोगः । 'ॐ कुहूमह सुभगां० विधेम स्वाहा' इति त्रयोदश्याहुतिर्होतव्या । कुह्वा इदमिति त्यागः ।

 ततोऽङ्गहोमजयाद्युपहोमादि त्रिवृदन्नहोमीयपुण्याहादिवाचनान्तं कृत्वा प्रजापतिः प्रीयतामित्युक्त्वा नामकरणं कुर्यात् ।

 तत्राऽऽदावेकं गुप्तं नामास्मिन्नेव दिने पुण्याहादिवाचनात्प्रागेव शुभे मुहूर्ते मातापितृभ्यां कार्यममुकोऽयमिति । जातकर्मदिने वा । तत्र कुयोगसत्त्वे तु नामकरणदिन एवैतन्नाम कार्यम् । एतच्च नाम मातापितरावेव मौञ्जीबन्धनपर्यन्तं जानीतः । अनन्तरं पुत्रोऽपि जानीते ।

 तत आचारात्तण्डुलान्कांस्याद्यन्यतमे पात्रे प्रसार्य सुवर्णशलाकया श्रीगणपतये नम इति लिखित्वा नामानि लिखेत् । तत्राऽऽदौ शास्त्रान्तरप्राप्तं कुलदेवतानाम व्याडीश्वरयोगेश्वरीभक्त इति ।

 ततः शास्त्रान्तरप्राप्तं जन्मकालिकमासनाम कृष्णोऽनन्त इति यथामासं ततो व्यावहारिकं द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घान्तं विसर्गान्तं वा सविसर्गदीर्घान्तं वा सु इत्युपसर्गपूर्वं वा स्वत्रिपुरुषवाचि देवतावा  प्यृषिवाचि वा कार्यम् । एतच्च ब्राह्मणस्य शर्मान्तममुकशर्मेति । दीर्घान्तत्वविसर्गान्तत्वपक्षे शर्मान्तता नास्ति ।

 ततो जाताधिकारविहिताणादिप्रत्ययान्तं जन्मनक्षत्रप्रकृतिकं कृत्तिक इत्यादि । एतानि नामानि लिखित्वा श्रीगणपतये नम इति मातुरुत्सङ्गस्थस्य बालस्य दक्षिणे कर्ण उक्त्वा त्वं कुलदेवतानाम्ना व्याडीश्वरयोगेश्वरीभक्तोऽसीति कथयित्वैतन्नाम सुप्रतिष्ठितमस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्वाचयेत् । नाम सुप्रतिष्ठितमस्त्विति विप्राः प्रतिब्रूयुः ।

 ततः कुलदेवतानाम्ना व्याडीश्वरयोगेश्वरीभक्तोऽयं भवतः सर्वान्ब्राह्मणानभिवादयत इत्युक्त्वाऽऽयुष्मान्भवतु व्याडीश्वरयोगेश्वरीभक्त इति विप्रैरुक्तेऽस्मै व्याडीश्वरयागेश्वरीभक्ताय पुण्याहं भवन्तो ब्रुवन्त्विति त्रिर्विप्रान्वाचयेत् । ॐ अस्तु पुण्याहमिति त्रिर्विप्राः । एवमस्मै व्याडीश्वरयोगेश्वरीभक्ताय स्वस्त्ययनं भवन्तो ब्रुवन्तु । अस्मै व्याडीश्वरयोगेश्वरीभक्ताय ऋद्धिं भवन्तो ब्रुवन्तु इति स्वस्त्ययनर्द्धिवचनम् । ॐ अस्तु स्वस्त्ययनम् । ॐ अस्त्वृद्धिरिति प्रतिवचने । मासनाम्ना कृष्णोऽसि । मासनाम्नाऽनन्तोऽसि । मासनाम्ना कृष्णोऽयं भवतः० । मासनाम्नाऽनन्तोऽयं भवतः० । अस्मै कृष्णायानन्तायेत्यादि यथायथं मासनाम्न्यूहः । व्यावहारिकेण नाम्नाऽमुकोऽयं भवत इत्यादि व्यावहारिके नाम्नि । अमुकशर्माऽयं भवत इति शर्मान्तत्वपक्षे । नाक्षत्रेण नाम्ना कृत्तिकोऽसि रौहिणोऽसीत्यादि यथानक्षत्रम् । नाक्षत्रेण नाम्ना कृत्तिकोऽयं भवतः० । रौहिणोऽयं भवतः० इति नक्षत्रनाम्नि । पुण्याहादिवाचनं त्रिष्वपि समानम् ।

 ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय विप्राशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति पुंसो नामकरणम् ।

अथ स्त्रियाः ।

 तत्र विशेषः । अस्याः कुमार्या इति संकल्पवाक्यम् । नान्दीश्राद्धे विकल्पः । करणपक्षे समन्त्रमेव तत् । न होमः । स्वस्तिवाचनान्ते नामानि लिखेत् । भक्तेत्यावन्तं कुलदेवतानाम । वाग्देवी पद्मावती श्रीदेवी सावित्री भूतिः कल्याणी सत्यभामा पुण्यवती रूपवतीन्दुमती चन्द्रवती लक्ष्मीरित्येतानि प्रासनामानि मार्गशीर्षादिक्रमेण । घोषवदादीत्यादिनियमरहितं तद्धितान्तकारान्तं वा त्र्यक्षरं पञ्चाक्षरं सप्ताक्षरं वा नक्षत्रवृक्षपक्ष्यादिनामव्यतिरिक्तं व्यावहारिकं नाम कार्यम् । नाक्षत्राणि तु पूर्वमेव प्रदर्शितानि । नात्र नाम । नाममन्त्रेणैव पूजादि । वैदिकमन्त्रवर्जं सर्वं पुंवत् । इति स्त्रियाः ।

 द्विविधमप्येतत्पितुरसंनिधौ पितामहादिः कुलवृद्धः कुर्यात् । 'पिता नाम कुर्यादन्यो वा कुलवृद्धः'  इति शङ्खस्मरणात् ।

 यदाऽऽलस्याज्जातकर्म न कृतं तदा नामकर्मदिने जातकर्मकालात्ययनिमित्तं लौकिकाग्नौ व्याहृतिहोमवारुणीहोमादिभिः सहितेन रहितेन वाऽऽघारवत्तन्त्रेणाऽऽपूर्विकतन्त्रेण वा त्वं नः स त्वं न इत्याद्याः सप्ताऽऽहुतीः समस्तव्याहृतिभिरेकाहुतिं च हुत्वा गोदानाद्यन्यतमप्रत्याम्नायेनार्धकृच्छ्रं प्रायश्चित्तं चरित्वाऽनन्तरं जातकर्म नामकरणं च क्रमेण कुर्यात् । यदा तु जननकाले कुयोगस्तदा तद्दोषोपशमनाय विहितां शान्तिं कृत्वोभयं क्रमेण कुर्यात् । व्याहृतिहोमार्धकृच्छ्रे अप्यत्र कार्ये इति केचित् । तत्तद्दोषोपशमनशान्तयस्तु शान्तिरत्नमालायां वक्ष्यन्ते । गणपतिपूजनपुण्याहादिवाचनमातृकापूजननान्दीश्राद्धानां तन्त्रमेव ।

इति संस्काररत्नमालायां नामकरणविधिः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे द्वितीयं प्रकरणम् ॥ २ ॥

  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोर्नास्ति ।
  2. ख. ङ. च. त्मजस्य । गें ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तक एव ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तक एव ।
  5. ङ. च. थमे ग ।
  6. क.ख.च. मिनि । पे ।
  7. वताकत्वा ।
  8. क. तत्रैव ।
  9. अत्र क. पुस्तकटिप्पण्यां शैवालमिति वर्तते ।
  10. ङ. च. सूयते ।
  11. क. प्य ज्वाला
  12. ख. प्रज्वाल ।
  13. ख. इत्यपि ।
  14. ङ. च. स्योचितत्वा ।
  15. क. चैव स्प ।
  16. क. पुस्तकटिप्पण्यां--'क्षुरे श्मश्रुकार्ये । भगे मैथुने" इति वर्तते ।
  17. क. नप्राप्तिः स्या ।
  18. ङ. च. प्रत्यक्षसि ।
  19. च. न्मुसलं
  20. ङ. भव ।
  21. ख. ङ. च. दत्त्वा ब्रा ।
  22. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।
  23. अत्र भुधेति क. पुस्तकशोधित: पाठः ।
  24. ख. ङ. च. स्वाः ।
  25. भुजंगभूषणभक्त इति क. पुस्तकशोधितः पाठः ।
  26. क. पुस्तके खोन्तक्रत्वनुष्टातेति शोधितः पाठः ।
  27. ङ. च. योल्लेखना ।
  28. क. ख. च. ण्याहवा ।