संस्काररत्नमाला (भागः २)/दशमं प्रकरणम्

               




   

अथ दशमं प्रकरणम् ।

अथ माध्यावर्षश्राद्धम् ।

 तत्र गृह्यम्-- एतेन माध्यावर्षं व्याख्यातं तत्र मा सं नियतं मा साभावे शाकम्' इति । मा(म?)ध्यावर्षः प्रो(प्रौ)ष्ठपदो मासः । तत्र यच्छ्राद्धं ([१] तन्माध्यावर्षश्राद्धमिति मातृदत्तः । अत्र तिथिस्तु महालयपक्षान्तर्गता या काचिद्ग्राह्या । अथवोपस्थितत्वान्महालयप्रतिपदेव । वर्षस्य मध्यं मध्यावर्षं तत्र भवं माध्यावर्षमित्येव व्युत्पत्तिः । तथा च--आश्विनशुक्लप्रतिपदि मा[२]ध्यावर्षं भवति तस्या वर्षमध्यवर्तित्वात् । यद्यपि-- 'एतेन माध्यावर्षं व्याख्यातम्' इति सूत्रेणामावास्याया अप्यतिदेशात्तत्रैव कर्तव्यता प्रतीयते तथाऽपि श्राद्धद्वयेनामावास्यापराह्णस्यावरुद्धत्वेन तत्र कर्तुमशक्यत्वान्मासिकश्रा[३]द्धदिवस आरम्भमात्रं द्वितीयदिवसे श्राद्धमित्येवानायत्त्या स्वीकार्यम् ।

 न च मासिकश्राद्ध[४]माध्यावर्षयोस्तन्त्रेणैवानुष्ठानमस्त्विति वाच्यम् । तथा सति मासिकश्राद्धमाध्यावर्षयोः सर्वदा कालैक्यात्तन्त्रेणेवानुष्ठानापत्तेः । न

चेष्टापत्तिः । एतेन माध्यावर्षमित्यत्रत्यातिदेशबोधितपृथग्भावस्योच्छेदापत्तेः । तत्रत्यनैयत्यानैयत्यधर्मयोः परस्परविरोधेन तन्त्रासंभवाच्च ।

 केचित्तु प्रोष्ठपदीश्राद्धमेव माध्यावर्षश्राद्धमित्याहुः । तन्न । एतेन माध्यावर्षं व्याख्यातमितिसूत्रान्मासिकश्राद्धदेवतोद्देश्यकश्राद्धस्यैव कर्तव्यताया अवगतत्वेन प्रोष्ठपदीश्राद्धस्य तथात्वाभावेनासंभवात् । नान्दीमुखसंज्ञकत्रयीपरतरपितॄणां हि प्रोष्ठपदीश्राद्धे देवतात्वं न मासिकश्राद्धोद्देश्यानाम् ।

 न च माध्यावर्षेऽङ्गातिदेशमात्रमेतेन माध्यावर्षमित्यनेन क्रियते न देवतातिदेश इति वाच्यम् । तत्र मांसं नियतं मांसाभावे शाकमित्यनेन देवतातिदेशसत्त्वस्याप्यवगमात् । न च सांवत्सरिकश्राद्धीयैकवर्गोद्देश्यकत्वेन दर्शश्राद्धीयवर्गद्वयोद्देश्यकत्वबाध इवात्रापि नान्दीमुखसंज्ञकत्रयीपरतरपितृवर्गोद्देश्यकत्वेन पितृवर्गमातामहवर्गद्वयोद्देश्यकत्वबाधः, तथा च प्रोष्ठपदीश्राद्धे माध्यावर्षत्वसिद्धिर्निराबाधेति वाच्यम्[५] । प्रकृतिविकृतिभावसत्त्व एव बाध्यबाधकभावस्य सर्वमतसिद्धत्वात् । अन्यथाऽतिप्रसङ्गापत्तेः । न हि प्रोष्ठपदीश्राद्धं मासिकश्राद्धविकृतिभूतं येन तदीयदेवतानिर्बाधो भवेत् ।

 न च [दर्श?]श्राद्धविकृतित्वं प्रोष्ठपदीश्राद्धस्य सर्वस्मृतिसिद्धम् । दर्शश्राद्धमेव मासिकश्राद्धं तथा च प्रकृतिविकृतिभावोऽस्त्येवेति वाच्यम् । तस्य पूर्वमेव खण्डितत्वात् । तथा च माध्यावर्षश्राद्धं भिन्नमेव । वर्षस्य मध्यं मध्यावर्षं तत्र भवं माध्यावर्षमितिव्युत्पत्तौ माध्यावर्षशब्दस्य पृषोदरादित्वकल्पनया साधुत्वम् ।

 [तच्च] मासिकश्राद्धवत्कर्तव्यम् । ) अत्र मातामहपार्वणमपि । अपां प्रसेकोदपात्रोपप्रवर्तने न स्त इति मातृदत्तवैजयन्तीकारौ । माध्यावर्ष इमामूर्जमित्यूहितेनाऽऽपो देवीः प्रहिणुतेतिमन्त्रेणापां प्रसेकम्, अथ माध्यावर्षे पुनरायातेत्यूहितेन परा यात पितर इत्यनेन मन्त्रेणोदपात्रोपप्रवर्तनं च कर्तव्यमेवेति युक्तं प्रतिभाति ।

 अस्मिञ्श्राद्धे मांसं नियतं तदभावे प्रतिनिधित्वेन शाकमावश्यकमिति मासिश्राद्धतो विशेषः । एतेन ज्ञायते मासिकश्राद्धे मांसस्यानियतता । कलौ मांसाशित्वस्य निषिद्धत्वाच्छाकदानमेव । अ[६]त्र मासिकश्रा[७]द्धवत्पूर्वमेव तर्पणम् ।

इति माध्यावर्षश्राद्धम् ।

अथाष्टकाश्राद्धाङ्गभूतं पूर्वेद्युःश्राद्धम् ।

 तस्य कालो गृह्ये--'ततः पूर्वेद्युरनूराधेष्वपराह्णे' इति । तत एकाष्टकातः । तस्या एव पूर्वसूत्र उपक्रान्तत्वात् । एकाष्टकायाः पूर्वेद्युः पूर्वस्मिन्नहन्यपराह्णे पूर्वेद्युःश्राद्धं कर्तव्यमित्यर्थः । अनूराधेष्विति वचनं माससंदेहनिवृत्त्यर्थमेव न तु नक्षत्रान्तरनिवृत्त्यर्थं, तेन विशाखयोर्ज्येष्ठायामपि पूर्वेद्युःश्राद्धं भवत्येव । एकाष्टकास्वरूपं चाष्टकाश्राद्धनिरूपणे वक्ष्यते ।

 कर्ता प्राणानायम्य श्वोऽष्टकाश्राद्धं करिष्यमाणः पूर्वेद्युःश्राद्धं करिष्य इति संक[८]ल्पं कुर्यात् । मातामहपार्वणमप्यत्र[९] । यथा मासिक इत्यनेन तल्लाभात् । 'पितरो यत्र पूज्यन्ते' इतिवचनात् ।

"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च ।
नवदैवतत्रेष्टं शेषं षाट्पौरुषं विदुः" इति विष्णुधर्मोक्तेश्च ।

 निमन्त्रणादि मासि[१०]कश्राद्धवत् ।

 अन्वाधाने पूर्वेद्युःश्राद्धहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्राचीनावीती--पितॄ[११]स्तिसृभिरपूपैकदेशाहुतिभिर्यक्ष्ये पितॄंस्तिसृभिरन्नाहुतिभिर्यक्ष्य इत्युक्त्वा सोमं पितृमन्तमाज्याहुत्या यक्ष्य इत्यादि मातुःप्रपितामहानन्नाहुत्या यक्ष्य इत्यन्तं मातामहपार्वणार्थमुक्त्वाऽग्निं कव्यवाहनं स्विष्टकृतं सर्पिर्मिश्रितापूपान्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीती प्रायश्चित्त[१२]देवता इत्यादि । न च होममन्त्रे सामान्यतः पितृशब्दसत्त्वात्तेनैव मातामहादीनामपि होमसिद्धिः । न तु प्राकृतस्तदर्थं होम इति वाच्यम्[१३] । पितृपितामहप्रपितामहोद्देशेनैव निर्वापस्य विहितत्वेन तदनुरोधेन होमेऽपि पितृशब्दस्य पित्रादित्रयार्थपरत्वस्यैव क्लृप्तत्वेन मातामहादीनां होमासिद्धेस्तदर्थं प्राकृतस्य पृथग्घोमस्याऽऽवश्यकत्वात् । स च ब्राह्मणभोजनार्थात्पाकादुद्धृतेनान्नेन ।

 पात्रासादने--औदुम्बरीं दर्वीमौदुम्बरं स्रुवमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं चत्वारि कपालानि शरावं शूर्पं कृष्णाजिनं शम्यामुलूखलं मुसलं दृषदमुपलां पात्रीं[१४] मदन्तीपात्रं वेदं[१५] तैजसं मृन्मयं वाऽर्घ्यपात्रद्व[१६]यं मेक्षणं तिलान्यवान्ब्राह्मणभोजनपात्राण्यौदुम्बरमिध्मं बर्हिः संमार्गदर्भानवज्वलनद र्भानाज्यं चेत्यासाद्य देवार्घ्यपात्रार्थं दर्भद्वयात्मकं[१७] पवित्रं कृत्वा पित्रर्घ्यपात्रार्थमेकदर्भमयं पवित्रं कृत्वा द्वयं प्रज्ञातं निधायान्यदेकदर्भमयं पवित्रं कृत्वा तेनैव पवित्रेण प्रणीताः संस्कृत्योत्तरेणाग्निं प्रणीतापात्रं संस्थाप्य दर्भेषु सादयित्वा दर्भैरपिधाय प्रणीतापात्रस्थं पवित्रं शरावे निधाय तेन सह शरावमादाय व्रीहिभिस्तं पूरयित्वा 'इममपूपं चतुःशरावं निर्वपामि क्लेशावहं पितॄणा सांपराये देवेन सवित्रा प्रसूतो देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो वो जुष्टं निर्वपामि' इति शूर्पे निर्वपति त्रिर्मन्त्रेण तूष्णीं चतुर्थम् ।

 केचित्तु[१८] चतुःशरावपरिमितानां व्रीहीणामनेन मन्त्रेण सकृन्निर्वपणमिच्छन्ति ।

 ततः शरावस्थं पवित्रं प्रोक्षणीपात्रे निधाय तत्रोदकमानीय तेन पवित्रेणोत्पूय व्रीहीन्प्रोक्ष्य पात्राणि प्रोक्षति ।

 ततः कृष्णाजिनमादायोर्ध्वग्रीवं बहि[१९]र्विशसनमुत्तरतस्त्रिरवधूनोति ।

 ततस्तत्प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य पुरस्तात्प्रतीचीं तस्य भसदमुपसमस्य कृष्णाजिन उलूखलमधिवर्त्यानुत्सृजन्नुलूखले व्रीहीनावपति ।

 ततो मुसलमादायावहत्य शम्यया द्विर्दृषदं सकृदुपलां समाहन्ति । एवं पुनर्द्विषदुपलयोः समाहननम् ।

 तत उलूखलस्य पुरस्ताच्छूर्पमुपोह्य व्रीहीनभिमृश्य शूर्प उद्वपति । ततस्त्रिर्निष्पूय तुषान्प्रध्व[२०] सयित्वाऽऽसादितकपालेभ्य एकं कपालमादाय तुषैः पूरयित्वोत्तरापरमधस्तात्कृष्णाजिनस्योपवपति नान्वीक्षते ।

 तत उप्तांस्तुषानवबाधतेऽप उपस्पृश्याभ्युक्ष्य कपालं प्रज्ञातं निधाय तण्डुलान्विविच्य पात्र्यां तण्डुलान्प्रस्कन्दयित्वा[२१] प्रस्कन्नांस्तण्डुलानादाय पुनरुलूखले निक्षिप्य त्रिष्फलीकृत्य तण्डुलान्प्रक्षाल्य क्षालनोदकमपरेणाग्निं निनीय पूर्ववत्कृष्णाजिनमास्तीर्य तस्मिञ्शम्यामुदीचीनकुम्बां निधाय तस्यां दृषदं निधाय दृषद्युपलां संस्थाप्य तण्डुलानवेक्ष्य दृषदि चतुर्वारमधिवपति ।

 ततः प्राचीं प्रतीचीं[२२] वोपलां प्रोह्य मध्यदेशे व्यवधार्य प्राचीं नीत्वा यथासुखमत ऊर्ध्वं संततं पिनष्टि ।  ततः कृष्णाजिने पिष्टानि [२३]प्रस्कन्दयित्वाऽवेक्ष्य स्वयमेवाणूनि पिष्टानि कृत्वा मदन्तीरग्नावधिश्रित्यापरेणाग्निमुप[२४]विश्योपवेषमादाय तेन प्रत्यञ्चावङ्गारौ निर्वर्त्य तयोरेकमुत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य द्वितीयमग्न्यायतने पश्चार्धेऽवस्थाप्य तस्मिन्येन कपालेन तुषोपवापः कृतस्तदुपधाय तस्मिन्महान्तमेकमङ्गारमधिवर्त्य तस्य पुरतो द्वे कपाले दक्षिणतश्चतुर्थं चोपदध्यात् ।

 ततः कपालेष्वङ्गारान्वेदेनाध्यू(ध्यु)ह्य पात्रीं निष्टप्योपवातायां तस्यां तिरःपवित्रं कृष्णाजिनात्पिष्टानि चतुर्वारं समोष्य तानि त्रिरुत्पूय पवित्रं प्रज्ञातं निदध्यात् । अत्र प्रायौगिकाः पिष्टभर्जनं कुर्वन्ति ।

 ततः स्रुवेण प्रणीताना[मुदक(?)]मादाय वेदेनोपयम्य पिष्टेष्वानीय मदन्तीरानीय प्रदक्षिणमनुपरिप्लाव्य मेक्षणेन पिष्टानि सं[२५]युत्य कूर्माकारं पिण्डं कृत्वा वेदेन कपालयोगादङ्गारानपोह्य पिण्डं कपालेष्वधिश्रित्य प्रथयित्वा पात्रीगतलेपोदकेन परिमृज्य पर्यग्नि कृत्वा दर्भैरभिज्व[२६]लयित्वोल्मुकैः परित(ता)प्य वेदेन साङ्गारं भस्माध्यू(ध्यु)ह्य विदाहमकुर्वञ्श्रपयति ।

 ततः पात्रीनिर्णेजनोदकमपरेणाग्निं निनीय स्रुवं दर्वीं च संमृज्याऽऽज्यं विलाप्येत्यादि पवित्रेण पुनराहारमाज्यं त्रिरुत्पूयेत्यन्तं कृत्वा पवित्रमग्नावाधाय वेदेन पुरोडाशादङ्गारानपोह्यावेक्ष्य पात्र्यामुपस्तीर्य पुरोडाशमभिघार्याभिन्दन्नपर्यावर्तयन्पुरोडाशं दक्षिणहस्तेनाऽऽदाय सव्यहस्ते गृहीत्वाऽभिन्दन्नपर्यावर्तयन्वेदेन भस्म प्रमृज्य पात्र्यामुपस्तीर्णे देशे निधाय कपालान्यभिघार्य संख्यायोद्वास्य पुरोडाशं स्रुवेणोपरिष्टादभ्यज्य दक्षिणेन हस्तेनाघस्तादुपाभ्यज्यापरेणाग्निं बर्हिषि सादयति । एतदन्तं सर्वं तूष्णीमेव ।

 ततो ब्राह्मणोपवेशनादि उद्धरिष्यामीत्यन्तं मासिकवत् ।

 ततः परिधिपरिधानाधाज्यभागान्तं, मासिकवत्पित्राद्यावाहनम् । नास्त्यपां प्रसेक इति मातृदत्तजयन्तीकारौ । पूर्वेद्युःश्राद्ध इमामूर्जमित्यूहेन कर्तव्य एवेति युक्तं प्रतिभाति ।

 ततो यज्ञोपवीती युक्तो वहेत्यादि व्याहृतिहोमान्तं कृत्वा प्राचीनावीती दर्व्यामुपस्तीर्य मध्यादारभ्यापूपस्य दक्षिणाप्रागपवर्गाण्यवदानानि यथा भवेयुस्तथा पूर्वेण पूर्वेणावदानद्वयेन संततं परं परमवदानद्वयमवदायाभिघार्याग्नौ प्रत्यगुदगारभ्य दक्षिणाप्रागपवर्गाणि यथा भवन्ति तथा पूर्वेण पूर्वेण संततं जुहोति-- "उलूखला ग्रावाणो घोषमकत हविः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वय स्याम पतयो रयीणा स्वधा नमः" पितृभ्य इदं न मम ।

 पुनरवदाय--"अपूपं देव घृतवन्तमग्ने स्वधावन्तं पितॄणां तर्पणाय । यथातथं वह हव्यमग्ने पुत्रः पितृभ्य आहुतिं जुहोमि स्वधा नमः" पितृभ्य इदं न मम ।

 पुनरवदाय--"अयं चतुःशरावो घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमा श्च । प्रतिनन्दन्तु पितरः संविदानाः स्विष्टोऽय सुहुतो ममास्तु स्वधा नमः" पितृभ्य इदं न मम ।

 अथान्नात्पूर्ववदवदाय--"इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एतां महिमानः सचन्ते स्वधा नमः" पितृभ्य इदं न मम ।

 पुनस्तथैवावदाय--"एकाष्टका तपसा तप्यमान जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः स्वधा नमः"पितृभ्य इदं० ।

 पुनस्तथैवावदाय--"या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तरा समा स्वधा नमः" पितृभ्य इदं०।

 इति प्रधानाहुतीर्जुहोति । अत्र यद्यपि सूत्र इयमेवेत्यादिषु स्वधाकारस्यापठितत्वान्मन्त्रान्ते नित्यः स्वाहाकार इतिपरिभाषाप्राप्तिस्तथाऽप्यथान्नस्य जुहोतीयमेव सा येत्यत्रत्येनाथशब्देनावदानादिधर्माणामिव स्वधा नमस्कारप्रदानरूपधर्मस्यापि प्रापणात् ।

 ([२७] तत:--'सोमाय पितृमते स्वधा नमः' इत्याद्याः षोडशाऽऽज्याहुतीः षोडश तिस्रो वाऽन्नाहुतीरन्वाधानोत्कीर्तनानुसारेण मातामहपार्वणार्थं जुहुयात् । न वा प्राकृताहुतयः ।) ततोऽपूपमन्नं च लौकिकेनाऽऽज्येन सं[२८]युत्य दर्व्यामुपस्तीर्य तस्मादपूपादन्नाच्च सकृत्सत्कृत्समवदायाभिघार्य-- 'अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः' इतीशान्यां प्राचीनावीत्येव जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं० ।

 अत्राथशब्दानुवर्तनाद्वारुण्यादीनामभावः । समवदायेतिशब्दात्पूर्ववत्सहैव दर्व्यां निधानम् ।  ततो यज्ञोपवीती शुल्बप्रहरणादिपूर्णपात्रदानान्तं समाप्य हुतशिष्टमपूपमन्नमाज्यं च मधुना मिश्रयित्वा पृथिवी ते पात्रमित्येतैस्तदभिमृश्य पिण्डार्थमवच्छिद्योदकुम्भं दर्भमुष्टिं चाऽऽदायेत्याद्युपस्थानान्तं पिण्डदानं मासिकवत्कुर्यात् ।

 ततः परिविष्टेषु चान्नेषु हुतशिष्टं परिवि[२९]ष्य पृथिवी त इत्याद्यन्नाभिमर्शनादि मासिकवत् । दक्षिणाकाले--अन्नमामं पक्वं वा ददाति यथासंभवं हिरण्यादि च ।

 ततः शेषमनुज्ञाप्योदकदेशं गत्वोदकाञ्जलीन्निनीय प्रत्येत्योदपात्रं प्रवर्तयति ।

 अथ पूर्वेद्युःश्राद्धे पुनरायातेति मन्त्र ऊहः । नोदपात्रोपप्रवर्तनमिति मातृदत्तवैजयन्तीकारौ । पिण्डप्रतिपत्तिर्मासिकवत् । सर्वतः समवदायाशनमन्ते तर्पणम् । इति पूर्वेद्युःश्राद्धम् ।

अथैतदुपयोगिप्रायश्चित्तानि ।

 तत्र कपालभेदनप्रायश्चित्तम् । उपधानात्प्राग्यदि कपालं भिद्यते 'गायत्र्या त्वा शताक्षरया संदधामि' इति तत्संधाय 'अभिन्नो धर्मो जीर० संचरन्ति' [इति]तदभिमन्त्र्य 'भूमिर्भूमिमगात्' इति[३०] ब्रह्मणाऽभिमन्त्रणे कृते ब्रह्माभावे स्वयमेवाभिमन्त्र्य तूष्णीमप्सु प्रक्षिप्यान्यत्कपालमानीय तस्य सादनप्रोक्षणे कृत्वा 'धर्मो देवा अप्येतु' इति कपालेष्वपिसृजति ।

 यद्युपधानोत्तरं भिद्येत संघानाद्यप्सु प्रक्षेपान्तं कृत्वाऽन्यदाहृत्य तस्य प्रोक्षणं कृत्वा 'धर्मो देवा अप्येतु' इति मन्त्रेण स्वस्थान उपदध्यात् ।

 उपधानादूर्ध्वं पुरोडाशाधिश्रयणात्पूर्वं यदि कपालं नश्येत्तदाऽऽश्वि[३१]नद्यावापृथिव्यचरू कर्तव्यौ । अशक्तौ पूर्णाहुती वा तदैव जुहुयात् । तत एकहायनं वत्सं ब्राह्मणाय दक्षिणां दद्यात् । चरुपूर्णाहुतिकरणाशक्तौ[३२] 'या वां कशाम मिक्षत स्वाहा' अश्विभ्यामिदं० । 'मही द्यौः पृथि० मभिः स्वाहा' द्यावापृथिवीभ्यामिदं० । इति द्वे स्रुवाहुती मही द्यौरित्येकामाहुतिं वा स्रुवेण दर्व्या वा हुत्वाऽन्यत्कपालमुपधाय कर्म समापयेत् । पुरोडा[३३]शाधिश्रयणानन्तरं भेदने नाशे वा सर्वप्रायश्चित्तमेव न स्थालीपाकादि[३४] । नाशशब्देनापहारोऽदर्शनं च । इति कपालभेदनप्रायश्चित्तम् ।

अथ पुरोडाशभेदन[३५]पतनप्रायश्चित्तम् ।

"किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽमहि ।
अघोरो यज्ञियो भूत्वाऽऽसीद सदन स्वमासीद सदन स्वम्" ॥

 इति तमन्तर्वेदि बर्हिषि निधाय--

"मा हि सीर्देवप्रेरित आज्येन तेजसाऽज्यस्व मा नः किंचन रीरिषः ।
योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषि"

 इति तमभिमन्त्रयतेऽभिधारयेद्वा । ततस्तं स्वस्थाने निधाय सर्वप्रायश्चित्तं जु[३६]हुयात् । इति पुरोडाशभेदनप्रायश्चित्तम् ।

 ([३७] कम्पनखण्डनसर्पणोद्वर्तनेष्वप्येतदेव प्रायश्चित्तम् । भेदनसर्पणयोरायुष्मतीष्टिः । वेपने सुरभिमतीतन्तुमत्यौ । उद्वर्तने सुरभिमत्येवेति बोधायनोक्तमपि शक्तौ सत्यां समुच्चेतव्यम् । गृह्ये तु इष्टिस्थाने तत्तद्दैवतश्चरुः कार्यः । प्रधानहोमोत्तरं हविष्पतनादौ प्रणवेन व्याहृतिभिश्च स्रुवेण जुहुयादिति प्रायश्चित्तग्रन्थे ।)

 पुरोडाशाधिश्रयणात्पूर्वं कपालाङ्गारनाशे मनस्वती सर्वप्रायश्चित्तं च । वेदविनाशे सर्वप्रायश्चित्तं हुत्वाऽन्यं कुर्यात् । इति प्रायश्चित्तानि ।

अथाष्टकाश्राद्धम् ।

तत्राष्टकास्वरूपं गृ[३८]ह्य उक्तम्--

"अष्टकां व्याख्यास्यामो माध्याः पौर्णमास्या
योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षते" इति ।

 अष्टका नाम नित्यः पितृकर्मसमुदायः । मघाभिः प्रायेण युक्ता भवति या पौर्णमासी सा माघी माघपौर्णमासीत्यर्थः । तस्या योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षतेऽभियुक्ता इत्यर्थः । एका प्रधाना मुख्या, [ अष्टका, ] एकाष्टका । यथैकपुरुष इति प्रधानपुरुष उच्यते । किमपेक्षं प्राधान्यम् । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणां याश्चतस्रोऽष्टम्यस्ताः सर्वा अष्टकास्ता अपेक्ष्य । किमर्थमेतद्वचनम् । तस्याः पूर्वेद्युरुत्तरेद्युश्च कर्मविधानार्थम् । यद्येवं, तस्य सप्तम्यामनूराधैरित्येव वक्तव्यम् । एवं तर्हि कालसंयोगादष्टकाशब्दः कर्मणीदं चाष्टकादीनां प्राधान्यमितिज्ञापनार्थम् । किमेतस्य ज्ञापने प्रयोजनं समाख्यासामर्थ्यात्सर्वासामष्टकानामिच्छातः क्रिया स्यात् । अस्यास्तु प्राधान्यान्नियततेति । एकाष्टकायां दीक्षेरन् । एकाष्टकायां क्रयः संपद्यत इत्यत्राप्यस्याः संप्रत्ययश्च । माघ्याः पौर्णमास्या उभावपि पक्षौ तयोर्मध्ये कस्यात्र ग्रहणमिति संदेहे प्राप्ते ततः पूर्वेद्युरनूराधेष्वपराह्ण इत्यनन्तरोदाहृतसूत्रगतानूराधशब्दादनन्तरस्यैव ग्रहणम् । अस्मिञ्श्राद्धे गोपशुराम्नातः, स चास्मिन्युगे निषिद्धः, तन्निषेधादेव सदाश्रितमनुष्ठानमपि लुप्यते । न च सूत्रकृता मांसाभावे शाकमितिवत्प्रतिनिधिरत्राऽऽम्नातोऽतस्तद्व्यतिरिक्त एव प्रयोग उच्यते । कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मासिकवद्देवता उत्कीर्त्य नित्यविधिरूपमष्टकाश्राद्धं करिष्य इति संकल्प्य निमन्त्रणादि मासिकवत्कुर्यात् । अन्वाधाने--अष्टकाश्राद्धहोमे या यक्ष्यमाणा देवता इत्यादि व्याहृत्यन्तमुक्त्वा प्राचीनावीती पितॄंस्त्रिभिरन्नाहुतिभिर्यक्ष्य इत्युक्त्वा सोमं पितृमन्तमा[३९]ज्याहुत्येत्यादि मातुःप्रपितामहान[४०]न्नाहुत्येत्यन्तं वदेत् । न वा प्राकृताहुतयः ।

 ततोऽग्निं कव्यवाहनं स्विष्टकृतं सर्पिर्[४१]मिश्रान्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपपीती प्रायश्चित्तहोमेऽग्निं[४२] तिसृभिरित्याद्याज्यभागान्तं मासिकवत्कृत्वा प्राचीनावीती पितॄनावाहयेत् 'आयात पितरः' इति । 'आपो देवीः० अष्टकायामिमामूर्जमूर्तये' इत्यपां प्रसेकं कुर्यात् । नास्त्यपां प्रसेक इति मातृदत्तवैजयन्तीकारौ ।

 ततो यज्ञोपवीती 'युक्तो वह' इत्यादि व्याहृतिहोमान्तं कृत्वा प्राचीनावीती देवपवित्रसंस्कृतादन्नादवदानथर्मेणावदायावदाय जुहोति--

"एकाष्टकां पश्यति दोहमानामन्नं मा सवद्घृतवत्स्वधावत् । तद्ब्राह्मणैरतिपूतमन्नं तमक्षितं तन्मे अस्तु स्वधा नमः" पितृभ्य इदं० ।

 कलौ मा सवदित्येतस्य पदस्य लोपः ।

 "एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तं दोहमुपजीवाथ पितरः संविदानाः स्विष्टोऽय सुहुतो ममास्तु स्वधा नमः" पितृभ्य इदं० ।

 "संवत्सरस्य प्रतिमां० व्यश्नवत्स्वधा नमः" पितृभ्य इदं० ।

 इत्याहु[४३]तीर्जुहुयात्[४४] । मातामहपार्वणार्थं सोमाय पितृमत इत्याद्याः षोडशाऽऽज्याहुतीः षोडश तिस्रो वाऽन्नाहुतीश्च जुहुयात् । अथवा मन्त्रगतपितृशब्दस्य सपिण्डीकरणश्राद्ध[४५]जन्यपितृत्वपरतया मातामहादिसाधारण्येन पित्रादित्रयस्य होमदेवतात्ववत्तेनैव पितृशब्देन मातामहत्रयस्यापि होमदेवतात्वसिद्धेर्न मातामहपार्वणार्थं पृथग्घोमः ।  ततः--"अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः" इति सर्पिर्मिश्रेणान्नेन स्विष्टकृद्धर्मेण जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं० ।

 ततो यज्ञोपवीती शुल्बप्रहरणादि पूर्णपात्रदानान्तं कृत्वा हुतशेषं परिविष्यान्नाभिमर्शनादि कुर्यात् ।

 दक्षिणाकालेऽन्नं धनं वा दद्यात् । अन्नधनदाने त्वत्रानियते इति वचनान्नात्रान्नधनदानयोरेव दानमिति नियमः । तेन वस्त्रादिदानमप्यत्रानुमतं भवति । अष्टकायां पुनरायात नो गृहानित्यूहेनोदपात्रोपप्रवर्तनं नेति मातृदत्तवैजयन्तीकारौ । शेषं मासिक[४६]श्राद्धवत् । अन्ते तर्पणम् । अत्र कामकालौ विश्वे देवाः । 'इष्टिश्राद्धे क्रतुर्द(द?)क्षावष्टम्यां कामकालकौ' इति प्रयोगपारिजातेशङ्कोक्तेः ।

 द्वितीयादिषु तिसृष्वष्टकामु द्रव्यविधिर्हेमाद्रौ वायुपुराणे--

"आद्याऽपूपैः सदा कार्या मांसैरन्या भवेत्सदा ।
शाकैरन्या तृतीया स्यादेष द्रव्यगतो विधिः" इति ॥

 तत्रैव ब्राह्मे तु--शाकमांसापूपात्मकानि द्रव्याणि तिसृष्वेतासु विधाय भाद्रगतायामष्टकायां शाकविधिरुक्तः ।

अत्र हेमाद्रिः--

"शाकादिशब्दाः सर्वस्यापि भोज्यस्य तत्तद्द्रव्यप्रधानत्वप्रतिपादनपराः, न तु द्रव्यान्तरनिवृत्तिपराः" इति ॥

 अतश्च तीर्थयात्राङ्गश्राद्ध इदं घृतं सोपस्करमितिवदिमेऽपूपाः सोपस्करा इदं शाकं सोपस्करमित्येवं त्यागवच्च ऊह्यम् । श्राद्धे मांसस्य कलिवर्ज्यत्वात्तत्स्थाने माषान्नं देयम् । इदं माषान्नं सोपस्करमित्येवं संकल्प इति द्रष्टव्यम् । 'पितरो यत्र पूज्यन्ते' इति वचनात् 'शेषं षाट्पौरुषं विदुः' इतिविष्णुधर्माच्च मातामहपार्वणप्राप्तिः । न चैवं सांवत्सरिकादावपि मातामहपार्वणप्राप्तिरास्तामिति वाच्यम् ।

"कर्षूसमन्वितं मुक्त्वा तथा श्राद्धानि षोडश ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः"

 इति वचनेन तन्निवारणात् । इत्यष्टकाश्राद्धम् ।

अथान्वष्टकाश्राद्धम् ।

"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च ।
नवदैवतमत्रेष्टम्"

 इतिवचनान्मातृपार्वणमप्यत्र । कर्ता पितृपितामहप्रपितामहानाममुशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणाम् , मातृपितामहीप्रपितामहीनाममुकदानाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणाम्, मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थमन्नेन हविषाऽन्वष्टकाश्राद्धं करिष्य इति संकल्पः । निमन्त्रणादि सर्वं मासिकवत् । अन्वाधानेऽन्वष्टकाश्राद्धहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्राचीनावीती प्रधानहोमे-- पितॄ[४७]न्द्वाभ्यामन्नाहुतिभ्यां यक्ष्ये । अग्निं कव्यवाहनं स्विष्टकृतम[४८]न्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीती प्रायश्चितहोमे--अग्निं[४९] तिसृभिराज्याहुतिभिरित्याद्याज्यभागान्तं कुर्यात् ।

 ततः पित्रादीनावाह्यान्वष्टकायामिमामूर्जमित्यूहेनापां प्रसेकः कार्य एव । नेति मातृदत्तवैजयन्तीकारौ ।

 व्याहृतिहोमान्ते प्राचीनावीती देवपवित्रसंस्कृतादन्नादवदानधर्मेणावदा[५०]यावदाय जुहोति 'त्वमग्ने अया० भेषज स्वधा नमः' पितृभ्य इदं० । 'प्रजापते न त्वदेता० रयीणा स्वधा नमः' पितृभ्य इदं० । इत्याहुतिद्वयं जुहुयात् ।

 अत्रैन्द्रीन्यायेन पितॄणां देवतात्वं द्रष्टव्यम् ।

 स्वाहाकारेण दानपक्षे न प्राचीनावीतं नापि च पितॄणां देवतात्वमिति ज्ञेयम् । आन्वष्टक्ये स्वधानमस्कारप्रदानतान्नधनदानयोरनियतत्वं सिद्धं भवतीति भाष्यग्रन्थादिदं लभ्यते ।

 प्राकृताहुतीनां पूर्ववद्विकल्पः । करणपक्ष आवृत्तिद्वयम्[५१] । यन्मे मातेत्यादिमन्त्रत्रय[५२]स्य मातृपार्वणपरत्वासंभवान्नैतन्मन्त्रत्रयेण होमः किंतु नामभिरेव । 'अमन्त्रास्वमुष्मै स्वाहा' इतिवचनात् । यन्मे मातेत्यादिमन्त्रत्रयस्यात्रासंभवेनामन्त्रत्व आहुतित्रयस्य सिद्धे 'अमन्त्रास्वमुष्मै स्वाहा' इति परिभाषायाः प्रवृत्तिः ।

 ततः 'अग्नये क० कृते स्वधा नमः' इत्यन्नेनैव स्विष्टकृद्धर्मेण स्विष्टकृतं जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं० ।

 प्रधानहोमे स्वाहाकारपक्षे यज्ञोपवीती-- 'अग्नये स्विष्टकृते स्वाहा' इत्येवं स्विष्टकृद्धोमः कार्यः ।  ततो यज्ञोपवीती--शुल्बप्रहरणादि पूर्णपात्रदानान्तं कुर्यात् ।

 ततो हुतशेषं परिविष्यान्नाभिमर्शनादि । मातृपार्वणे मातॄणां क्षेष्ठाः पितामहीनां क्षेष्ठाः प्रपितामहीनां क्षेष्ठा इति यथायथमूहः । अञ्जलिदाने 'एष ते मातर्मधुमा ऊ० तावत्यस्या मात्रा तावानस्या महिमा तावतीमेनां भूतां द[५३]दामि० मह्यं मात्रेऽक्षितोऽनुपदस्तः स्वधा भवतां ता स्वधामक्षितां तैः सहोपजीवामुकद ऋचस्ते महिमा' 'एष ते पितामहि म० तावत्यस्या मात्रा तावानस्या महिमा तावतीमेनां भूतां ददा० मह्यं पितामह्या अक्षि० भवतां ता स्वधामक्षितां० जीवामुकदे यजू षि ते महिमा' 'एष ते प्रपितामहि म० तावत्यस्या मात्रा तावानस्या महिमा तावतीमेनां भूतां ददा० मह्यं प्रपितामह्या अक्षि० भवतां ता स्वधा मक्षिता० वामुकदे सामानि ते महिमा' इत्यूहेनाञ्जलिदानम् । 'परा यात पितरः०' 'अथान्वष्टकायां(?) पुनरायात० सुवीराः' इत्युदपात्रमुपप्रवर्तयति । नैतदिति मातृदत्तवैजयन्तीकारौ । अन्यत्सर्वं मासिकवत् । अत्रान्त एव तर्पणं पार्वणत्रयस्य । अत्राष्टम्यनुरोधेन नवमी ग्राह्या । जीवन्मातृकस्य मातृपार्वणलोपः । जीवन्मातामहस्य मातामहपार्वणलोपः । जीवत्पितृकस्य त्वनारम्भ एव । इत्यन्वष्टकाश्राद्धम् ।

 श्राद्धत्रयाशक्तावष्टम्यामेव का[५४]र्यम् । अस्याप्यसंभव उदकुम्भदानं हिरण्यदानं च । अस्याप्यसंभवेऽनडुहे यवसं देयम्, लौकिकाग्निना कक्षं दहेद्वा । प्रत्याम्नायान्तरमप्याश्वलायनसूत्रवृत्तिकृतोपन्यस्तम्-- "अपि वा श्राद्धमन्त्रानधीयीत" इति । बुद्ध्यैतस्याप्यकरणे प्राजापत्यम्, अमत्या तूपवासः प्रायश्चित्तम् । दशवारं गायत्र्या जलमभिमन्त्र्य तज्जलं गायत्रीमन्त्रेण दशवारं पिबेत् । अन्ते सर्वस्य पानम् । प्रतिपानं गायत्र्या आवृत्तिः, इति पूर्वेद्युरष्टकान्वष्टकाश्राद्धभोक्तुः प्रायश्चित्तम् । इति सूत्रोक्तानि श्राद्धानि ।

अथ श्रवणाकर्म ।

 तच्च श्रावण्यां पौर्णमास्यां कर्तव्यम् । सर्वाधानी सायमग्निहोत्रानन्तरं दक्षिणाग्निं कर्मार्थमुपसमादधाति । अर्धाधानी सायमग्निहो[५५]त्रमौपासनहोमकर्तव्यतापक्षे सायमौपासनहोममपि कृत्वा दक्षिणाग्निमुपसमादधाति । अनाहिताग्निः सायमौपासनहोमानन्तरमौपासनाग्निमुपसमादधाति । तत्र पौर्णमास्यस्त[५६]मयप्रभृति प्रकृतकर्मकालव्यापिनी पूर्वैव चेत्सैव ग्राह्या । "कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः" इति वचनात् । दिनद्वयेऽपि तत्संबन्धे सत्यसति वा परैव । "श्रवणाकर्मणि ग्राह्या पौर्णमासी परैव तु" इति निगमोक्तेः ।

 कर्ता[५७] श्रावण्यां पौर्णमास्यां प्रातः कृतनित्यक्रियो देशकालौ संकीर्त्य नित्यविधिरूपं श्रवणाकर्म करिष्य इति संकल्प्य गणपतिं संपूज्य, प्रथमप्रयोगश्चेत्प्रातः स्वस्तिवाचनं मातृकापूजनं वृद्धिश्राद्धं च वि[५८]दध्यात् । बहिर्भूतं वा गणपतिपूजनस्वस्तिवाचनादि । अस्मिन्पक्षे रात्रावेव मुख्यसंकल्पः । प्रथमप्रयोगे गुरुशुक्रास्तादि वर्जयेत् ।

 ततो यथाविहितमग्निमुपसमा[५९]धाय--अक्षता [६०]धाना अक्षताल्लाँजान्सक्तून्किंशुकान्याञ्जनाभ्यञ्जने आज्यमिति सिद्धान्यादद्यात् । भर्जिता यवा धानाः, लाजा व्रीहिमय्यः, भर्जितयवपिष्टानि सक्तवः । किंशुकानि पलाशपुष्पाणि । आञ्जनाभ्यञ्जने प्रसिद्धे । एतान्युपकल्पयति । ततो दक्षिणाग्निं परिस्तृणाति । अनाहिताग्निरौपासनम् । यदि पूर्वेद्युरन्वाधानं कृतं भवति तदोपासनाग्नेः परिस्तृतत्वान्न परिस्तरणम्[६१] । सायंहोमात्प्राक्परिस्तरणाक्रियायां कर्मार्थं परिस्तरणं कर्तव्यमेव । दक्षिणाग्नेस्तु सायमग्निहोत्रहोमानन्तरमे[६२]वैतस्य कर्तव्यत्वविधाने[६३]नैतत्कर्मोत्तरमेवेष्ट्यर्थपरिस्तरणप्राप्तेरपरिस्तृतत्वात्परिस्तरणं भवत्येव[६४] । पार्वणस्थालीपाके सायमौपासनहोमोत्तरं परिस्तरणक्रियापक्षे औपासनाग्नेरप्यनेनैव न्यायेन परिस्तरणं कार्यमेव । तत औपासनाग्नौ होमे तं समन्त्रं परिषिञ्चेत् । दक्षिणाग्नौ होमे तं तूष्णीम् । तत उत्तरतोऽग्नेर्दर्भानास्तीर्य तेषु स्रुवं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमाज्यासादनार्थं दर्भा[६५]न्धानादिद्रव्याणि समिधं संमार्गदर्भानवज्वलनदर्भानाज्यं चाऽऽसाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कुर्यात् । तत्र पर्यग्निकरणमाज्यस्य धानादिभिः सहैवेति विशेषः ।

 ततः पात्रान्तरे धाना लाजान्सक्तूंश्च प्रोक्षप्यासंस्कृतेनाऽऽज्येन मिश्रयित्वा तूष्णीं समिध[६६]मभ्याधाय संस्कृतेनाऽऽज्ये[६७]न स्रुवेण दर्व्यामुपस्तीर्य द्विरवदायाभिघार्य-- 'नमोऽग्नये पार्थिवाय पार्थिवानामधिपतये स्वाहा' अग्नये पार्थिवाय पार्थि वानामधिपतय इदं० । पूर्ववदुपस्तीर्यावदायाभिघार्य-- 'नमो वायवे वि[६८]भूमत आन्तरि[६९]क्ष्याणामधिपतये स्वाहा' वायवे विभूमत आन्तरि[७०]क्ष्याणामधिपतय इदं० । पूर्ववदुपस्तीर्यावदायाभिधार्य-- 'नमः सूर्याय रोहिताय दिव्यानामधिपतये स्वाहा' सूर्याय रोहिताय दिव्यानामधिपतय इदं० । पूर्ववदुपस्तीर्यावदायाभिघार्य-- 'नमो विष्णवे गौराय दिश्यानामधिपतये स्वाहा' विष्णवे गौराय दिश्यानामधिपतय इदं० । इत्याहुतिचतुष्टयं हुत्वा पलाशपुष्पाण्यसंस्कृताज्येन सं[७१]युत्य--'जग्धो मशको जग्धा विचष्टिर्जग्धो व्यध्वरः स्वाहा' अग्नय इदं० । 'जग्धो व्यध्वरो जग्धा विचष्टिर्जग्धो मशकः स्वाहा' अग्नय इदं० । 'जग्धा विचष्टिर्जग्धो मशको जग्धो व्यध्वरः स्वाहा' अग्नय इदं० । इत्याहुतित्रयं जुहुयात् । सर्पा अत्र देवतेति केचित् । इन्द्र इत्यन्ये । प्रजापतिरित्यपरे । अग्नय इदमित्येव युक्तम् ।

 ततः परिस्तरणानि विसृजेत् । यद्येतदर्थमेव परिस्तरणं भवेत् । तत उत्तरपरिषेकं कृत्वा हुतशेषं धानादिकमुदकुम्भं दर्भमुष्टिं चाऽऽदाय होमदेशात्प्राचीं दिशमुपनिष्क्रम्य गृह एव शुद्धे देशे बलिदानपर्याप्तं स्थलं संमृज्याभ्युक्ष्य प्रागग्रान्दर्भांस्तत्राऽऽस्तीर्य तेषु धानाद्यन्नत्रयं लौकिकाज्यमिश्रितं कृत्वा ते[७२]न सर्पेभ्यश्चतुरो बलीन्हरति । 'ये पार्थिवाः सर्पास्तेभ्य इमं बलि हरामि' इति प्रथमः । 'य आन्तरि[७३]क्ष्याः सर्पास्तेभ्य इमं बलि हरामि' इति द्वितीयः । ये दिव्याः सर्पास्तेभ्य इमं बलि हरामि' इति तृतीयः । 'ये दिश्याः सर्पास्तेभ्य इमं बलि हरामि' इति चतुर्थः । इति बलीन्दत्त्वा सकृदन्ते परिषेकं कुर्यात् ।

 ततो बलिष्वाञ्जनाभ्यञ्जने दत्त्वा--नमो अस्तु सर्पेभ्य इति त्रयाणामग्निः सर्पा अनुष्टुप्, बल्युपस्थाने विनियोगः । 'नमो अस्तु सर्पेभ्यो० येऽदो रोचने० या इषवो०' इति सर्वान्बलीनुपतिष्ठते । तत उदकुम्भमादाय-- 'अपश्वेतपदा ज[७४]हि पूर्वेण चापरेण च सप्त च मानुषीरिमास्तिस्रश्च राज[७५]बान्धवैर्न वै श्वेतस्याभ्याचारेणाहिर्जघान कंचन श्वेताय वै द[७६]र्वाय नमो नमः श्वेताय वै द[७७]र्वाय' इति सकृन्मन्त्रमुक्त्वा त्रिः प्रदक्षिणं स्वगृहं परिषिञ्चन्परिक्रामेत् ।

 स्वसमीप एतावन्तं देशं सर्पा ना[७८]पक्रामेयुरिति यः कामयेत स तावन्तं देशमपि परिक्रामेत् ।  अथ दिश उपतिष्ठते । सर्पबलिस्थानस्य पुरस्तात्प्रत्यङ्मुखः स्थित्वा समीचीनामासीत्यादिषण्मन्त्राणामग्निर्दिशो यजुः । दिगुपस्थाने विनियोगः । 'समीची नामासि० ते वां जम्भे दधामि' इति प्राचीं दिशमुपतिष्ठते ॥

 ततो दक्षिणत उदङ्मुखः स्थित्वा--'ओजस्विनी नामासि० दाकू र०' इति दक्षिणां दिशमुपतिष्ठते ।

 ततः पश्चात्प्राङ्मुखः स्थित्वा--'प्राची नामा० स्वजो र०' इति प्र[७९]तीचीं दिशमुपतिष्ठते ।

 तत उत्तरतो दक्षिणामुखः स्थित्वा--'अवस्थावा ना० श्च राजी र०' इत्युत्तरां दिशमुपतिष्ठते ।

 ततः प्रतिनिवृत्य पश्चादूर्ध्वमुखः स्थित्वा--'अधिपत्नी ना० श्वित्रो र०' इत्यूर्ध्वां दिशमुपतिष्ठते । तत्रैवाधोमुखः स्थित्वा-- 'वशिनी ना०' इत्यधरां दिशमुपतिष्ठते ।

 अत ऊर्ध्वं प्रत्यहमेतेनैव विधिनैतान्बलीन्हरति । अस्मिन्द्वितीयादिबलिहरणे नाऽऽज्यहोमकिंशुकहोमौ, न च परिषेचनम् । मार्गशीर्ष्यां चतुर्दश्यामन्तिमं बलिहरणम् ।

 अथवा यस्मिन्नह्नि प्रत्यवरोहणं तस्मादर्वाचीनानि दिनानि वारगणनया गणयित्वा तावतस्तन्त्रेण श्रवणाकर्मदिन एव बलीन्हरेत् ।

 उभयकल्पेऽप्यन्तिमे बलिहरणे 'ये पार्थिवाः' इत्यादिषु चतुर्षु मन्त्रेषु हरामीत्येतस्य स्थाने निरवदास्यन्नित्यूहः ।

 निरवदास्यन्नित्येतावानेव मन्त्र इति केचित् । अस्मिन्मते चतुर्वारं मन्त्रस्याऽऽवृत्तिर्द्रष्टव्या ।

 बलेर्बलिदातुश्चान्तरा केनापि व्यवधानं न कार्यमोपस्थानात् । ततः प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्य ब्राह्मणान्संभोज्य विष्णुं स्मरेत् ।

 अत्र प्रमादादिनैकस्मिन्दिने बलिदानाकरणे प्रातर्होमोत्तरं बलिदानाकरणजन्यदोषपरिहारार्थं सर्वप्रायश्चित्तहोमपूर्वकं [८०]पादकृच्छ्रप्रत्याम्नायभूतं यथाशक्ति द्रव्यदानं करिष्य इति संकल्प्य लौकिकाग्नावापूर्विकतन्त्रेण 'त्वं नः' 'स त्वं नः' इत्याद्याः सप्ताऽऽहुतीः समस्तव्याहृतिभिरेका[८१]माज्याहुतिं च जुहुयात्[८२] । ततः पादकृच्छ्रं चरेत् । अशक्तौ तत्प्रत्याम्नायत्वेन यथाशक्ति द्रव्यं द[८३]द्यात् । तत आतमितोः प्राणायामं कृत्वा प्रा[८४]प्तकालबलिदानं कुर्यात् । एतच्चोपोषितेनैव कार्यम् । श्रवणाकर्मणो मुख्यकाले दैवादकरणे लोपः ।

 मुख्यका[८५]लेऽपि सकृदेव करणं न प्रतिवर्षमिति केचित् । यथोक्तमेतत्तुल्यन्यायाष्टकाप्रकरणे कर्केण-- "सकृत्करणं चाभ्यासाश्रवणात्" इति ।

 अन्ये त्वीदृशपाकयज्ञानां प्रत्यब्दमावृत्तिमाहुः ।

 उक्तं हि रेणुकारिकायाम्--

"अथातः श्रवणाकर्म शास्त्रदृष्ट्या मयोच्यते ।
श्रावण्यामेव तत्कार्यमभावाद्गौणकालतः ॥
वचनात्सूत्रकारस्य सकृदस्य क्रिया भवेत् ।
एवमेवेतरेषां स्यादावृत्तिर्वा स्मृतेर्बलात् ॥
सकृत्करणमिच्छन्ति पाकयज्ञेषु केचन ।
आवृत्तिं केचिदिच्छन्ति तत्राऽऽवृत्तिः सतां मता" इति ॥

 प्रतिसंवत्सरं[८६] श्रवणाकर्मावृत्तिपक्ष एकस्मिन्वत्सरे तल्लोपे प्रायश्चित्तमात्रमनुष्ठेयम् । तत्र प्रयोगः--

 मार्गशीर्षपौर्णमास्यां प्रातरौपासनहोमोत्तरं देशकालौ संकीर्त्य[८७] श्रवणाकर्मलोपजनितप्रत्यवायपरिहारार्थं प्रायश्चित्तहोमपूर्वकं प्राजापत्यमेकमहमाचरिष्य इति संकल्प्य लौकिकाग्नावाघारवत्तन्त्रेणाऽऽपूर्विकतन्त्रेण वा 'त्वं नः' 'स त्वं नः' इत्याद्याः पूर्ववत्सप्ताऽऽहुतीः समस्तव्याहृतिभिरेकाज्याहुतिं च हुत्वा प्राजापत्यं चरेत् ।

इति संस्काररत्नमालायां पद्धतौ श्रवणाकर्मप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे दशमं प्रकरणम् ॥ १० ॥

  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके विद्यमानो ग्रन्थो यथा--"तन्माध्यावर्षे श्राद्धं तन्मासिकश्राद्धवत्कर्तव्यम्" इति ।
  2. क. माध्यव ।
  3. च. श्राद्धादिदि ।
  4. च. द्धमध्या ।
  5. च. म् । तस्य ।
  6. ङ. अत्रान्त एव त ।
  7. च. श्राद्धात्पू ।
  8. ङ. कल्पः । मा ।
  9. ङ. त्र पि ।
  10. ङ. सिश्रा ।
  11. ङ. तॄंस्त्रिरपूपावदानेन पितॄंस्त्रिरन्नेन यक्ष्य इत्युक्त्वा सोमं पितृमन्तमाज्येन यक्ष्य इत्यादि मातुःप्रपितामहानन्नेन यक्ष्य इत्यादि मातामहपार्वणार्थमुक्त्वाऽग्निं कव्यवाहनं स्विष्टकृतं सर्पिर्मिश्रेणापूपान्नेनान्नेन च यक्ष्य इत्युक्त्वा यज्ञो ।
  12. ङ. त्त । इ ।
  13. ङ. म् । निर्वापे पि ।
  14. ङ. त्री मेक्षणं म ।
  15. ङ. दं ब्राह्मणभोजनपात्राणि तिलान्यवास्तैज ।
  16. ङ. द्वयमौदु ।
  17. ङ. क पि ।
  18. च. त्तु श ।
  19. ङ. बर्हिषि ।
  20. ध्वंसयित्वेत्येतावदेव पठितुं युक्तम् ।
  21. प्रस्कन्द्येति युक्तः पाठः ।
  22. ङ. चीं चोप ।
  23. अत्रापि पूर्ववत्प्रस्कन्धेति युक्तः पाठः ।
  24. ङ. पवेदयो ।
  25. च. संयुज्य ।
  26. अभिज्वल्येति पठितुं युक्तम् ।
  27. धनुश्चिह्नान्तर्गतं त्रुटितं ङ. पुस्तके ।
  28. च. संयुज्य ।
  29. ङ. विष्याम्ना ।
  30. क. च. ति ब्राह्म ।
  31. ङ. श्चिनं चरुं पूर्णाहुतिं वा तदैव कुर्यात् । त ।
  32. ङ. क्तौ मही द्यौरित्येकामा ।
  33. ङ. डाशोद्वासनान ।
  34. ङ. दि । इ ।
  35. ङ. नप्रा ।
  36. ङ. कुर्यात् ।
  37. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  38. क. गृह्ये--अ ।
  39. ङ. माज्येनेत्या ।
  40. ङ. च. नन्नेन यक्ष्य इत्य ।
  41. ङ. मिश्रेणान्नेन य ।
  42. ङ. ग्निं द्विरित्या ।
  43. ङ. हुतित्रयं जुहु ।
  44. ङ .त् । अथ ।
  45. ङ. द्धतुल्यपि ।
  46. ङ. च. कव ।
  47. ङ. तॄन्द्विरन्नेन य । च. तॄनन्नाहु ।
  48. ङ. मन्नेन य ।
  49. ङ. ग्निं त्रिरि ।
  50. ङ. दाय ।
  51. च. म् । तन्मे ।
  52. च. यस्यान्नासंभवेन ।
  53. ङ. ददाति ।
  54. ङ. च. कर्तव्यम् ।
  55. ङ. होत्रं सायमौपासनं च हुत्वा दक्षि ।
  56. च. स्तसम ।
  57. ङ. तौ दे ।
  58. च विधाय ।
  59. क. च. मादधाति । अक्षता धाना लाजा व्रीहि ।
  60. अत्राक्षताशब्दरहितः "धाना लाजान्सक्तून्" इत्यादिरेव पाठो युक्त इति भाति, उत्तरग्रन्थानुरोधात् ।
  61. ङ. म् । द ।
  62. च. मेव त ।
  63. च. नेन त ।
  64. ङ. व । तत ।
  65. क. च. र्भानुपवेषमक्षता धाना लाजाः सक्तवः पलाशपुष्पाण्याञ्जनाभ्यञ्जने समि ।
  66. ङ. धमाधा ।
  67. ङ. ज्येनोप ।
  68. ङ. विभुम ।
  69. ङ. रिक्षाणा ।
  70. ङ. च. रिक्षाणा ।
  71. च. संयुज्य ।
  72. च. तेभ्यः ।
  73. ङ. च. रिक्षाः स ।
  74. क. जहिः पू ।
  75. ङ. जबन्धनैर्न ।
  76. च. दर्भाय ।
  77. च. दर्भाय ।
  78. ङ. नाऽऽक्रा ।
  79. ङ. प्राची ।
  80. पादकृच्छ्रं करिष्य इत्येवात्र पठितुं युक्तम् । उत्तरत्र ततः पादकृच्छ्रमित्यादिग्रन्थानुरोधात् । ङ. पुस्तकस्थपाठानुरोधेन तु यथाश्रुतमेव युक्तम् ।
  81. क. ङ. काहु ।
  82. ङ. त् । पादकृच्छ्रप्रत्या ।
  83. ङ. दत्त्वा--आतमि ।
  84. च. प्राप्ते काले ब ।
  85. च. काले स ।
  86. ङ. र. सर्पबल्यावृ ।
  87. ङ. र्त्य सर्पवलिलो ।