अथैकादशं प्रकरणम् ।

अथाऽऽग्रहायणीकर्म ।

 कर्ता मार्गशीर्ष्यां पौर्णमास्यां देशकालौ संकीर्त्य नित्यविधिरूपमाग्रहायणाख्यं कर्म करिष्य इति संकल्प्य गणपतिं संपूज्य प्रथमप्रयोगश्चेत्प्रातः स्वस्तिवाचनं[१] मातृकापूजनं नान्दीश्राद्धं च विदध्यात् । बहिर्भूतं वा गणपतिपूजनस्वस्तिवाचनादि । अस्मिन्पक्षे रात्रावेव मुख्यः संकल्पः । ततो रात्रौ होमान्तेऽग्निमुपसमाधाय स्थालीपाकं कुर्यात् । स यथा--समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽऽग्रहाय[२]णस्थालीपाकहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे--जातवेदसं पाय[३]साहुत्या[४] रात्रिं द्वाभ्यां पायसाहुतिभ्यां यक्ष्ये, पौर्णमासीं पाय[५]साहुत्या यक्ष्ये, अग्निं ज्योतिष्मन्तं हुतशे[६]षाहुत्या यक्ष्ये । प्रायश्चित्तहोमे--अग्निं[७] तिसृभिरित्यादि । पात्रासादनकाले स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं[८] शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं[९] मेक्षणमिध्मं बर्हिः संमार्गदर्भा[१०]नवज्वलनदर्भानाज्यं तृणमिति पात्राण्यासा[११]दयति ।

 अत्र तृणं द्वंद्वतासिद्ध्यर्थमेव ।

 ततो ब्रह्मोपवेशनादि, स्थालीपाकविधिना चरुश्रपणं कृत्वा स्रुवदर्व्यौ संमृज्याऽऽज्यं संस्कृत्य चर्वभिघारणादि व्याहृतिहोमान्तं कृत्वा सर्वानमात्यान्संनिधावुपवेश्यावदानधर्मेण जुहोति--

"इडायै सृप्तं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ।
ये ग्राम्याः पशवो विश्वरूपास्तेषा सप्तानामिह रन्तिरस्तु पुष्टिः स्वाहा"

 जातवेदस इदं० ।

"यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवाऽऽयतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा" रात्र्या इदं० ।
"शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा" रात्र्या इदं० ।

"पौर्णमासी पूरयन्त्यायान्त्यपरापरान् ।
मासार्धमासान्विभजन्ती सा नः पूर्णाऽभिरक्षतु स्वाहा" पौर्णमास्या इदं० ।

 नात्र वारुण्यादिहोमः ।

 स्विष्टमग्न इत्यस्याग्निर्ज्योतिष्मांस्त्रिष्टुप् । स्विष्टकृद्धोमे विनियोगः-- 'स्विष्टमग्ने अभि० जरं न आयुः स्वाहा' इति स्विष्टकृद्धर्मेण जुहोति । अग्नये ज्योतिष्मत इदं० ।

 ततः शुल्बप्रहरणादिपूर्णपात्रदानान्तं कुर्यात् ।

 ततः पाणी प्रक्षाल्य प्रतिक्षत्र इत्यस्य विश्वे देवा भूमिर्यजुः । भूम्यालम्भने विनियोगः । 'प्रतिक्षत्रे प्रतितिष्ठा० प्रत्यङ्गेषु प्र० देवैरवन्तु मा' इति भूमिमालभते ।

 ततोऽपरेणाग्निं दक्षिणा गृहपतिरुपविशति । तदुत्तरतो भार्या तदुत्तरतो ज्येष्ठक्रमेण पुत्रपौत्रादयस्तद्भार्या अप्रत्तदुहितरश्च । स्योना पृथिवीत्यस्य[१२] स्वयंभूर्भूमिर्गायत्री । बडित्थेत्यस्य विश्वे देवा भूमिरनुष्टुप् । संवेशने विनियोगः । 'स्योना पृथि० सप्रथाः' 'वडित्था पर्वतानां० महिनि' इति द्वाभ्यां तत्र स्थिता एव गृहपतिप्रमुखाः सर्वे दक्षि[१३]णपा[१४]र्श्वे प्राक्शिरस उदङ्मुखाः [१५]संविशन्ति । उदायुपेत्यस्य सोमः सोमोऽनुष्टुप् । उत्थाने विनियोगः । 'उदायुषा० ममृता अनु' इत्युत्तिष्ठेयुः । उदस्थाममृता अभूमेत्युत्थाय जपेयुः ।

 तत आचम्य पुनःसंवेशनादि द्विवारं कुर्युः । अनुपनीतानां स्त्रीणां च तूष्णीमेव संवेशनादि । तेषां ये मन्त्रविद इति वचनात् । ततो भोजनार्थेनान्नेन त्रिवृदन्नहोमं कृत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहादि वाचयित्वा तस्मिन्नेव प्रदेश एतां रात्रिं वसन्ति ।

 ततो ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं स्मरेत् । इत्याग्रहायणीकर्म ।

 श्रवणाकर्माग्रहायणीकर्मणोरकरणे प्रायश्चित्तमाह प्रजापतिः--

"हविर्यज्ञेष्वशक्तस्य लुप्तमप्येकमादितः ॥
प्राजापत्येन शुध्येत पाकसंस्थासु चैव हि" इदं च मत्या लोपे ।

अमत्या तु--

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इतिवचनादुपवासः ।

 ([१६] श्रवणाकर्मादीनामभ्यासपक्षे द्वितीयादिप्रयोगः पत्न्यामृतुमत्यामपि भवत्येवेति प्रायश्चित्तप्रकाशे । )

इति संस्काररत्नमालायां पद्धतावाग्रहायणीप्रयोगः ॥ इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे एकादशं प्रकरणम् ॥ ११ ॥

  1. च. नं ना ।
  2. क. च. यणीस्था ।
  3. ङ. यप्तेन रात्रिं द्विवारं पायसेन यक्ष्ये ।
  4. च. स्या यक्ष्ये द्वा ।
  5. ङ. यसेन य ।
  6. ङ. शेषेण य ।
  7. ङ. र्मि द्विरित्या ।
  8. ङ. ली मेक्षणं शू ।
  9. ङ. षं समा ।
  10. ङ. र्भानिध्मं बर्हिरवज्व ।
  11. ङ. साद्य ग्र ।
  12. क. च. स्य याज्ञिक्यो देवता (?) उपनिषदो भूमि ।
  13. च. क्षिणा पा ।
  14. ङ. पार्श्वैः प्रा ।
  15. एतदुपरि क. पुस्तकटिप्पण्याम्--"शयनं कुर्युरित्यर्थः" इत्यस्ति ।
  16. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके