संस्काररत्नमाला (भागः २)/द्वादशं प्रकरणम्
अथ द्वादशं प्रकरणम्
अथोपाकरणम् ।
तत्र गृह्यम्--
"अथात उपाकरणोत्सर्जने व्याख्यास्यामः श्रवणापक्ष ओषधीषु |
अत्राथशब्दः पूर्वेण कर्मणा तुल्यत्वज्ञापनार्थः । यथाऽऽग्रहायणी नित्या तथैते नित्ये इति । तेन कदाचिद्वर्षर्तौ सर्वथौषधिजननाभावस्तदाऽपि कर्तव्यमिति सिद्धं भवति । 'एतद्वार्षिकमित्याचक्षते' इत्याश्वलायनसूत्रसंवादात् ।
- "ओषधीनां प्रादुर्भावे श्रावणस्य पौर्णमास्यां हस्तेन वाऽध्यायमुपाकुर्याद्यदि प्रादुर्भावः प्रोष्ठपदे तदा प्रौष्ठपद्यां तत्राप्रादुर्भावे प्रौष्ठपदीं नैवातीयाद्वर्षाकर्म ह्येतदित्याचक्षते"
इति खादिरादिसूत्रसंवादाचायमर्थो लभ्यते । खादिरसूत्रसंवादादाश्वलायनसूत्रे वर्षासु भवं वार्षिकमित्येव वार्षिकशब्दार्थो द्रष्टव्यः ।
अथशब्दस्याऽऽनन्तर्यार्थत्वे--आनन्तर्यस्य पाठादेव सिद्धत्वाद्वैयर्थ्यापत्तिरतोऽत्र सोऽर्थो न विवक्षितः ।
अतःशब्दो हेत्वर्थे, यत उपाकरणोत्सर्जने वेदशुद्धिसंपादके अकरणे दोषश्रवणान्नित्ये चात इत्यर्थः । अत्र प्रमाणमग्रे वक्ष्यते । अभ्यर्हितत्वादुपाकरणशब्दस्य पूर्वनिपातः । युगपत्प्रतिज्ञानमुभयोः संयुक्तत्वख्यापनार्थं, तेनासंभवादकृत उपाकरण उत्सर्गस्याप्यभावः । पारायण उत्सर्गस्य भावादुपाकरण मपि स्यादिति । केचिदपूर्वाध्ययनार्थे उपाकरणोत्सर्जने मन्यन्ते तेषां गृहीतस्यापि स्मरणार्थेऽभ्यासे न स्यातामिति । ओषधीषु जातास्विति वचनमोषधिप्रादुर्भाव एव श्रावणपक्ष उपाकर्मानुष्ठानं प्रोष्ठपद ओषधिप्रादुर्भावे प्रोष्ठपद्यां पौर्णमास्यां प्रोष्ठपदान्तर्गते हस्ते वेतिकालान्तरसंग्रहार्थम् । उक्तौ च प्रोष्ठपदीहस्तौ बौधायनेन--
"श्रावण्यां पौर्णमास्यां हस्ते वाऽध्यायोपाकर्म |
अत्र हस्तस्य द्विर्वचनं श्रावणप्रोष्ठपदहस्तग्रहणार्थम् । ओषधीषु जातासु श्रावणस्य हस्तेन पौर्णमास्यां वेत्यन्वयः । यथाश्रुतान्वये तु श्रावणपक्ष ओषधिजनने सत्येव श्रावणपक्षान्तर्गतयोर्हस्तपौर्णमास्योरुपाकर्म, आषाढ ओषधिजनन आषाढशुक्लपक्षान्तर्गतयोर्हस्तपौर्णमास्यो[१]रिति स्यात्, तच्छ्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेतिधर्मसूत्रे श्रावण्याः पौर्णमास्या एवानुवादान्मुख्यत्वप्रतीतेः सूत्रविहितकालपूर्वतनकालग्रहणस्यायुक्तत्वाच्चानिष्टम् । ओषधीषु जातासु प्ररूढासु । श्रावण्या पौर्णमास्या युक्तः पक्षः श्रवणापक्षः श्रावणपूर्वपक्ष इति यावत्[२] । "विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः" इति निपातनाच्छ्रवणाशब्दः साधुः । तदन्तर्गते हस्ते तदन्तर्गतायां पौर्णमास्यां वा, अधीयन्त इत्यध्याया वेदास्तेषामुपाकरणमारम्भः कर्तव्य इत्यर्थः । ओषधीषु जातास्विति हस्ते पौर्णमास्यां च संबध्यते । हस्तेनेति तृतीयाऽधिकरणे[३] मूलेनाऽऽवाहयेद्देवीमितिवत् । श्रावण ओषधिप्रादुर्भावाभावे प्रोष्ठपद्याम् । यथौषधिप्रादुर्भावाभावः श्रावणातिक्रमनिमित्तं तथाऽऽशौचादीन्यपि, तेन येन केनचिन्निमित्तेन श्रावणातिक्रमेऽपि, अपेक्षितविधिलाभादेवात्रापि प्रोष्ठपदीकालः । तत्राप्याशौचादिसत्त्व आशौचान्ते कर्तव्यमिति केचित् । लोप एवेत्यन्ये । प्रथमोपाकरणोत्सर्जनयोस्तु लोप एव । ([४]प्रथमोपाकरणं तु मुख्यकाल एव कार्यम् । एवमुत्सर्जनमपि । उत्सर्जन उपाकर्मदिनेऽथवेतिविशेषकालान्तरस्य विहितत्वात्तत्रापि प्रथमोत्सर्जनं भवत्येवेति केचित् ।) सूत्रे यद्यपि कालद्वयस्य साम्यं हस्तस्य प्रथमोपादानान्मुख्यत्वं वा प्रतीयते तथाऽपि--
"धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रर्क्षेण समन्वितम् । |
इति स्मृतितः श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेति धर्मसूत्राच्च पौर्णमास्या एव मुख्यत्वप्रतीतेः सैव मुख्यः कालः । तस्याः सदोषत्वे हस्त इति ज्ञेयम् । तत्र तैत्तिरीयैरियमौदयिकी ग्राह्या ।
"पर्वण्यौदयिके कुर्युः श्रावणं तैत्तिरीयकाः । |
धनिष्ठाप्रतिपद्युक्तमित्यनन्तरोदाहृतस्मृतितः,
"संप्राप्तवाश्रुतीर्ब्रह्मा पर्वण्यौदयिके यतः । |
इति कालिकापुराणाच्च ।
तत्रोपाकरणकालः पूर्वाह्ण एव दैवत्वात् ।
"भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्ण एव तु । |
इति ब्रार्हत्प्रचेतसाच्च ।
यत्तु--
"अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्णके । |
इति हेमाद्रौ गोभिलवच[५]नं तत्सामगविषयं नेषामपराह्ण एवोक्तेः, ([६]इति नवीनाः । उत्सर्जनं तु सर्वेषामपि पूर्वाह्ण एव । श्रौताग्निमता स्मार्ताग्निमता वोपाकर्मोत्स[७]र्जने वा कृत्वैवान्वाधानं कार्यं न तु पूर्वम् । अन्यथोपाकर्मोत्सर्जनयोः पौर्णमासेष्टिस्थालीपाकतन्त्रमध्येऽनुष्ठानापत्तेः । न चेष्टापत्तिः, न हि कर्मणि कर्मारम्भ इतिन्यायबाधापत्तेः । संध्यावन्दनादौ त्वनायत्या बाधः । न च प्रातरग्निहोत्रं हुत्वोदित आदित्ये गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधातीत्यग्निहोमान्वाधानयोरव्यवहितानन्तर्यस्य क्त्वाप्रत्ययेन बोधितत्वाद्वैपरीत्यमेवास्तु । तेन न हि कर्मणि कर्मारम्भ इति न्यायस्य संध्यावन्दनादिष्विवानायत्या बाध इति वाच्यम् । हुत्वेति क्त्वाप्रत्ययस्यैव केवलमानन्तर्यमात्रार्थकत्वस्य कल्पनेन बाधापत्त्यभावात् ।
एवं सद्यस्कालेष्टिरप्युपाकर्मोत्सर्जने कृत्वैव, प्रतिपद्येव तस्याः समापनीय त्वेन पूर्वाह्णकालस्यावरुद्धत्वेन तन्मध्यपातस्य तादवस्थ्यापाते प्रतिपत्सापेक्षेष्टेः पूर्वमेव पर्वमात्रसापेक्षोपाकरणोत्सर्जनानुष्ठानस्य युक्तत्वात् । ) तत्र यदा सूर्योदयमारभ्य पौर्णमासी प्रवृत्ता तदा संदेह एव नास्ति । यदा तु पूर्वदिने मुहूर्तत्रयानन्तरं प्रवृत्ता द्वितीयदिने संगवात्परतो न भवति तदा--
"श्रावणी पौर्णमासी तु संगवात्परतो यदि । |
इति वचनेन संगवात्परतो विद्यमानाया एवौदयिक्या ग्राह्यत्वोक्तेः प्रकृते तादृश्या अभावात्पूर्वैव । संप्राप्तवाञ्श्रुतीर्ब्रह्मेति निषेधस्तु परदिने संगवात्परतः सत्त्व एवेति द्रष्टव्यम् ॥
यदा तु पूर्वदिने मुहूर्त[८]त्रयानन्तरं प्रवृत्ता द्वितीयदिने संगवात्परतो[९] यदि भवति तदा 'पर्वण्यौदयिके कुर्युः' 'धनिष्ठाप्रतिपद्युक्तं' 'संप्राप्तवाञ्श्रुतीर्ब्रह्मा' इतिवाक्येभ्यः 'श्रावणी पौर्णमासी तु' इतिवाक्याच्च परैव ।
[१०]यत्तु--
"श्रवणः श्रावणं पर्व संगवस्पृग्यदा भवेत् । |
इति सिङ्गाभट्टीयं वचनं तदपि संगवं संगवकालं सर्वं स्पृशतीति संगवस्पृक्, संगवमभिव्याप्याग्रे विद्यमा[११]नमित्यनायत्या लक्षणाध्याहारनिष्पन्नमर्थं स्वीकृत्य 'श्रावणी पौर्णमासी तु' इत्येतत्समानार्थकं कार्यम् ।
पर्वनिर्णयवदेव हस्तनिर्णयोऽपि द्रष्टव्यः ।
पौर्णमास्यां संक्रान्तिग्रहणादिसत्त्वे तु--
"उपाकर्म प्रकुर्वन्ति क्रमात्सामर्ग्यजुर्विदः । |
अत्र विशेषो गार्ग्येणोक्तः--
"यद्यर्धरात्रादर्वाक्तु ग्रहः संक्रम एव वा । |
अत्र श्रावणीग्रहणं हस्ताप्रोष्ठपद्युपलक्षणम् ।
कात्यायनवृद्धमनू अपि--
"अर्धरात्रादधस्ताच्चेत्संक्रान्तिर्ग्रहणं तदा । |
अर्धरात्रादधः प्रतिपदि संक्रान्तिसत्त्वे तु नैवोपाकर्मनिषेधः ।
"ग्रहसंक्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु" इतिवचनात् । |
यदा तु श्रावणोऽधिको भवति तदा शुद्धे श्रावणमास एव कर्तव्यम् ।
तथा च कात्यायनः--
"उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि । |
ज्योतिष्पराशरोऽपि--
"उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः । |
यत्तु ऋष्यशृङ्गवचनम्
"दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु । |
तेषां सिंहार्क एवोक्तेः ।
"वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ । |
([१४] बृहस्पतिरपि--
"नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके । |
इति, सामगविषय एव व्यवस्थापके एते वचने । वार्त्रघ्नी पूर्णमासेऽनू च्ये(च्य)ते वृधन्वत्यमावास्यायामितिवत् । अन्यथा वाक्यभेदो दुष्परिहरः स्यात् । अतो नर्मदोत्तरभागे सामगैः सिंहस्थे रवौ कर्तव्यं नर्मदादक्षिणभागे सामगैः कर्कटस्थे रवौ कर्तव्यमितिव्यवस्थापरत्वमेवैतयोर्वचनयोर्युक्तमिति द्रष्टव्यम् । ) अत्र गुरुशुक्रास्तादि निषिद्धम् ।
तथा च मनुः--
"शुक्रे मूढेऽप्युपाकृत्य विद्यावित्तविनाशनम् । |
कश्यपोऽपि--
"गुरुशुक्रतिरोधाने वर्जयेच्छ्रुतिचोदनात् । |
तिरोधानमस्तम् । एतच्च मलमासाद्युपलक्षणम् ।
( [१६] महेशभट्टो--भद्राव्यतीपातावपि प्रथमे प्रयोगे निषेधति मलमासादिषु द्विजेत्यादिशब्देन भद्राव्यतीपातयोरपि ग्रहणात् ।
"अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्" |
इतिवचनेन सामान्यतस्तन्निषेधात् ।
"भद्रायां द्वे न कर्तव्ये श्रावणी चैव फाल्गुनी । |
इति विशेषतोऽपि श्रावणीविषये भद्रानिषेधाच्च ।
विष्ट्यादावित्यन्नत्यादिपदेन व्यतीपातस्य ग्रहणम् । श्रावणीशब्देन श्रावण्यां पौर्णमास्यां यद्यत्तद्दिवसविहितं कर्म तत्सर्वं न कर्तव्यमिति तदाशयः ।
श्रावणीशब्दस्य रक्षाबन्धनमात्रविषयत्वादुपाकर्मश्रवणाकर्मणोरसंग्रहस्यार्थतः प्रदर्शनादुपाकर्मश्रवणाकर्मणोर्भद्रानिषेधो नास्तीति धर्मशास्त्रनिबन्धकाराशयो गम्यते । दिनक्षयस्यापि ग्रहणमत्रेति केचित् ।)
अयं च निषेधः प्रथमोपाकरणविषयः--
"गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा । |
इति कश्यपोक्तेः । आदिशब्देन सिंहस्थगुरुवक्रातिचारग्रहणम् ।
"उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि" इति, |
सिंहकर्कटयोर्मध्ये नद्यां स्नाने दोषमाहात्रिः--
"सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः । |
महानदीषु भविष्य उक्तम्--
"आदौ तु कर्कटे देवि महानद्यो रजस्वलाः ।) |
जाह्नवी सर्वदा शुद्धेत्यर्थः ।
महानद्यस्तु ब्राह्मे--
"गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । |
मदनरत्ने पुराणान्तरे--
"महानद्यो देविका च कावेरी वञ्जुला तथा । |
कात्यापनः--
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम् । |
यत्तु--"प्रथमं कर्कटे देवि त्र्यहं गङ्गा रजस्वला"
इत्यादिवचनं [ तत्तु ] जाह्नवीभिन्नगोदावर्यादिगङ्गान्तरविषयमिति मदनरत्ने ।
सर्वथा वापीकूपतडागाद्यभावे सर्वनदीष्वपि रजोदोषो नास्ति ।
तदुक्तं व्याघ्रपादेन--
"अभावे कूपवापीनां तडागसरसां तथा । |
उपाकर्मादिष्वपि निषेधो नास्ति । तथा च कात्यायनः--
"उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च । |
अत्राऽऽदौ ब्रह्मकूर्चविधिना पञ्चगव्याशनमपि कार्यम् । तदुक्तं विधानमालायाम्--
"ब्रह्मशुद्धौ गृहारम्भे सूतके मृतके तथा । |
ब्रह्मशुद्धावित्यत्रोपाकर्मोत्सर्जनाभ्यां क्रियमाणायामिति शेषः ।
उपाकर्मोत्सर्जनाभ्यां ब्रह्मशब्दवाच्यस्य वेदस्य शुद्धिः कात्यायनेनोक्ता--
गृहार[२३]म्भनिमित्तमादावधिकारार्थत्वात् । ([२४] सूतके मृतके च सूतकमृतकनिमित्तं, तदपगमे, प्रातःसंध्योपासनानन्तरम् । यद्यप्यत्र संध्योपासनं पूर्वं पञ्च गव्याशनमनन्तरं पञ्चागव्याशनं पूर्वं संध्योपासनमनन्तरं वेत्यत्र विनिगमनाविरहादुभयमपि संभाव्यते तथाऽपि--
'संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' इति वचनेन संध्योपासनस्य सर्वाधिकारार्थत्वप्रतिपादनात्, संध्याया नित्यत्वाच्च, पूर्वं संध्योपासनमेव । ) यज्ञारम्भ इत्यत्राप्यादावधिकारार्थत्वात् । एवं धनप्राप्तावित्यत्रापि । प्रायश्चित्ते विशेषत इतिश्रवणात्तत्रैव ब्रह्मकूर्चस्याऽऽवश्यकत्वं नेतरत्र । रोगमुक्तौ सत्यां तदनन्तरम् । संपर्कोऽस्पृश्यस्पर्शस्त[२५]न्निमित्तं स्नानोत्तरम् । क्षुद्रपापापनुत्तिः क्षुद्रपापनाशस्तदर्थम् ।
स च विधिर्बौधायनसूत्रे--
"ब्रह्मकूर्चं प्रवक्ष्यामि कायशोधनमुत्तमम् । |
ब्रह्मणा निर्मितो ह्येष स[२७]त्यशौचात्मको विधिः । |
मासि मासि प्रयुञ्जानो विरजा भवत्यर्धमासेऽर्धमासे प्रयुञ्जान ऋषिलोकमवाप्नोति षड्रात्रे षड्रात्रे स्वर्गलोकमवाप्नोति संवत्सरमहरहः परं ब्रह्माधिगच्छति ।
त्वगस्थिगतैर्मलिनैर्देहैस्तिष्ठति मानवः । |
([२८] आपो हि ष्ठेतिमन्थेदित्यन्तं पालाशं पद्मपत्रं वेत्येतत्पूर्वं ज्ञेयं, पाठक्रमादर्थक्रमस्य बलीयस्त्वात् । प्रकरणात्प्राशनार्थपञ्चगव्य एव गायत्र्या गृह्य गोमूत्रमित्यादिविधिः स्यात्, प्रोक्षणार्थे पञ्चगव्ये न स्यात्तन्मा भूत् । तत्रापि मन्थेदित्यन्तो विधिर्यथा स्पादित्येतदर्थं क्रमपरित्याग इति द्रष्टव्यम् ।)
यद्यप्यमरेण--
"कृष्णे नीलासितश्यामकालश्यामलमेचकाः" इति कृष्णनीलयोरभेद उक्तस्तथाऽपि नीलशब्देन हरिद्वर्णमिश्रितः कृष्णवर्णो ग्राह्यः । सूत्रकृद्वचनलब्धभेदबलात् ।
"दशार्थगुञ्जं प्रवदन्ति माषं माषैस्तथा षोडशभिश्च कर्षम् । |
इति लीलावतीवाक्याच्चतुःषष्टिमाषात्मकं पलं ज्ञेयम् ।
कपिलास्वरूपं हेमाद्रौ--
"सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला । |
सुवर्णा सुवर्णवर्णा ।
स्मृत्यन्तरे--"एकवर्णा तु कपिला" इत्यपि कपिलालक्षणमुक्तम् । 'कांस्यपात्रस्थितविलीनघृतसमानवर्णा कपिला' इत्यपि कुत्रचित् । [२९] अक्षता अखण्डिताः संयुताः सम्यगेकीभूता मि[३०]लिता इति यावत्[३१] । त्वगस्थिगतैर्मलिनैर्देहैर्मलयुक्तैरिति शेषः(?) । उपाकर्म यदि सशिष्यः करोति तदा लौकिकाग्नौ । यद्यशिष्यस्तदौपासने । यद्यपि सूत्रेऽन्वारम्भविधानं स्पष्टं नास्ति तथाऽपि ज्ञापकसिद्धं विधानमस्त्येव । तच्च हुत्वेति वचनम् । तथा च मातृदत्तः-- "होमाधिकारे पुनर्हुत्वेति वचनमध्येतॄणां सर्वेषां होमेऽस्त्यधिकार इतिज्ञापनार्थं तेनोक्तमन्वारम्भणं सर्वेषां शिष्याणामिति । गृह्यसूत्रे--अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा[३२] काण्डर्षीञ्जुहोति काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेद, सामवेदमथर्ववेद सदसस्पतिमिति हुत्वा त्रीनादितोऽनुवाकानधीयन्ते (ते) काण्डादीन्वा सर्वाञ्जयादि प्रतिपद्यते स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति" इति ।
अग्निमुपसमाधाय शिष्यैरन्वारब्धो व्याहृतिपर्यन्तं कृत्वा नव षट्पञ्च चतुरो वा काण्डर्षीञ्जुहोति । व्याख्याताः काण्डर्षयः प्रजापतये काण्डर्षये स्वाहेत्यादि स्वयंभुवे काण्डर्षये स्वाहेति काण्डर्षय इत्यन्तं सूत्रं क्षेपकं ज्ञेयमसंगतत्वाद्भाष्यकृताऽधृतत्वाच्च । काण्डनामान्यपि नव षट्पञ्च चत्वारि वा प्राजापत्यं सौम्यमाग्नेयं वैश्वदेवमिति चत्वारि । पञ्चपक्षे स्वायंभुवं पञ्चमम् । षट्पक्ष आरुणं षष्ठम् । नवपक्षे सांहितीदेवतोपनिषदादित्रयं च । सावित्र्यादिपदैः सर्वैश्चतुर्थ्यन्तैर्होमः । सदसस्पतिमित्यत्रेतिकरणात्काण्डोपाकरणविसर्गयोश्च दर्शनात् । सदसस्पतिमद्भुतमित्येतस्य प्रतीकग्रहणं वा । सावित्रीमित्यत्राप्येकामृचं केचिन्मन्यन्ते । अधीयन्त(त) इति बहुवचनात्सर्वेषामध्ययनम् । आदित इत्यत्र वेदस्येति शेषः । काण्डानि नव षट्पञ्च चत्वारि वा काण्डानुक्रमणिकोक्तानि । तेषामादिभूताननुवाकान्मन्त्रान्वाऽधीयन्त(त) इत्यर्थः । जयादि प्रतिपद्यत इति वचनं जयाद्युपहो[३३]मा अत्र नित्या इतिबोधनार्थम् । जयो[३४] जयोपहोम आदिर्यस्य तज्जयादि । एतादृशं होमसंबन्धि यदुत्तरं तन्त्रं तत्प्रतिपद्यत इत्यर्थः । अस्मिन्व्याख्याने सन्त्येव वारुण्यादयः । जयादीन्प्रतिपद्यत इतिपाठे तु वारुण्यादिसत्त्वं सुगममेव । प्रतिपद्यत इत्युभयत्र संबध्यते । तथा च जयादि प्रतिपद्यते स्विष्ट कृत्प्रतिपद्यत इत्येवमर्थः संपन्नो भवति । अन्तं कृत्वेति भिन्नमेव सूत्रम् । अन्तं कर्मणोऽन्तं कृत्वा कर्मशेषं समाप्येत्यर्थः । स्विष्टकृदन्तं कृत्वेत्येकसूत्रकरण उत्तरकर्मलोपापत्तिः । यदि स्विष्टकृदुत्तरभाविकर्मानुष्ठानमावश्यकत्वात्प्रतिपत्तिरूपत्वाच्च कर्तव्यमित्युच्यते तदा स्विष्टकृदन्तं कृत्वेत्यस्यावधिप्रदर्शकसूत्रस्य वैयर्थ्यापत्तिः । न च भवतु स्विष्टकृदुत्तरभाविकर्मलोप इति वाच्यम् । अलोपानुगुण्येनैव सूत्रार्थनिर्वाहेऽन्यथावर्णनस्यानुचितत्वात् । जयादि प्रतिपद्यत इत्यनेनैव कृत्स्नोत्तरतन्त्रप्राप्तौ स्विष्टकृद्ग्रहणमाघारवत्त[३५]न्त्रे वारुण्यादिहोमाभावेऽपि स्विष्टकृद्धोमो भवत्येवेतिज्ञापनार्थम् । अन्तं कृत्वेति वचनमसति विशेषविधौ स्विष्टकृदनन्तरमेव कर्मसमाप्तिर्यथा स्यात्, न तु कृत्स्नसमाप्त्यनन्तरमितिज्ञापनार्थम् । उपनयने समिदभ्याधानानन्तरमुत्तरपरिषेकस्य विहितत्वाद्विशेषविधिसत्त्वमेवेति तत्रैवं न भवति । काण्डव्रतोपाकरणविसर्गादिषु तु विशेषविध्यभावात्स्विष्टकृदनन्तरमेव कर्मसमाप्तिरिति । क्षम्य, अध्ययनाद्विरम्येत्यर्थः । यथाध्यायमितिवचनं कृतान्तादारभ्यैवाध्येतव्यं न पुनरादितस्त्रीननुवाकानधीत्याध्येतव्यमित्येतदर्थम् । वदन्तीतिवचनं केषांचिदाचार्याणां मते त्रीननुवाकानधीत्यैवाध्ययनमस्तीतिपक्षान्तरसूचनार्थम् ।
ब्रह्मचारिविषये विशेष उक्तः कालादर्शे कार्ष्णाजिनिना[३६]--
"मौञ्जीं यज्ञोपवीतं च नवं दण्डं च धारयेत् । |
स्मृत्यन्तरेऽपि--
"दण्डाजिनोपवीतानि मेखलां कटिसूत्रकम् । |
स्मृतिभामत्यां व्यासोऽपि--
"उपवीतं नवं वस्त्रं कटिसूत्रं च मेखलाम् । |
यज्ञोपवीतस्य होमदानधारणान्याह गालवः--
"कृत्वा यज्ञोपवीतानि नवानि वसुधाधिप । |
सत्यव्रतोऽपि--"नूतनान्युपवीतानि हुत्वा दत्त्वा च धारयेत्" इति । एतच्च गृहस्थवानप्रस्थयोरपि--
"गृहस्थो ब्रह्मचारी वा वनस्थो वाऽपि सूत्रकम् । |
इति स्मृतिदर्पणे बैजवापोक्तेः ।
स्मृतौ--
"यज्ञोपवीतमन्त्रेण हुत्वाऽग्नावुपवीतकम् । |
नू[३८]त्नं नूतनम् । ([३९] हुत्वा दत्त्वा च धारयेदितिशास्त्रान्तराद्यज्ञोपवीतहोमस्यापि प्रधानत्वेन कर्तव्यत्वं कैश्चिदुक्तं तत्तुच्छं, हुत्वा दत्त्वा च धारयेदितिक्त्वाप्रत्ययाद्धोमदानयोरुपाकरणोत्सर्जनाङ्गभूतयज्ञोपवीतधारणाङ्ग[त्व]स्यैव प्रतीतेः प्रधानत्वाभावात् । होमदानधारणानि शास्त्रान्तरप्रोक्तत्वात्कृताकृतानि । करणेऽभ्युदयः, अकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । हुत्वेति क्त्वाप्रत्ययः पूर्वकालतामात्रं बोधयति न त्वङ्गत्वं तेन यज्ञोपवीतहोमस्य प्रधानत्वमेवेति यद्युच्यते तदा यज्ञोपवीतहोमाननुष्ठानमेव प्रधानोपसंहारस्यानिष्टत्वात् । अन्यथोपनयनादिष्वपि शास्त्रान्तरोक्तप्रधानहो[४०]मकरणापत्तेः । न चैवं हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तरोक्तस्य यज्ञोपवीतहोमस्य निरवकाशत्वापत्तिरिति वाच्यम् । यस्मिन्सूत्रे कारिकासु वा यज्ञोपवीतहोमो विहितो भवेत्तत्रैतस्य सावकाशत्वसंभवात् । अस्ति चायं होमो विहित आश्वलायनगृह्यकारिकासु । दानधारणयोस्तु प्रधानत्वाभावादुपसंहारः शक्तौ सत्यां न विरुद्धः ।)
दानफलमुक्तं वायुपुराणे--
"उपाकर्मणि चोत्सर्गे यो दद्यादुपवीतकम् । |
स्मृतिभामत्यां गोभिलः--
"उपाकर्मोत्सर्जनं च वनस्थानामपीष्यते । |
"अकृतोपाकृतिर्विप्रो दानहोमजपादिकम् । |
इति संस्कारमञ्जर्यां संग्रहवचनात् । आदिशब्देनार्चनादि ज्ञेयम् ।
विश्वप्रकाशे--
"उपाकर्मोत्सर्जनयोः श्रौतानां कर्मणां तथा । |
स्वस्तिवाचनग्रहणं मातृकापूजनवृद्धिश्राद्धयोरुपलक्षणम् ।
([४१] श्रावण्यामभ्यङ्गोऽप्युक्तो मानवसूत्रानुसारिपद्धतौ--
"श्रावण्यां बलिराज्ये च वसन्तदर्शने तथा । |
अथ ब्रह्मकूर्चहोमप्रयोगः ।
कर्ता नदीप्रस्रावो यस्मिन्देशे तत्र तीर्थे यज्ञागारे गवां गोष्ठे देवतायतने नि[४२]र्ज[४३]नेऽरण्ये देशे रहस्ये ग्रामेऽप्येका[४४]न्ते देशे वा स्नातः शुक्लवासा जितेन्द्रियः शुचिराचम्य प्राणानायम्य देशकालौ संकीर्त्योपाकर्म कर्तुमादौ शरीरशुद्ध्यर्थं ब्रह्मकूर्चहोमं पञ्चगव्याशनं च करिष्य इति संकल्पं कुर्यात् । उत्सर्जनस्याप्यस्मिन्दिने क्रियायाम्--उत्सर्जनोपाकर्मणी कर्तुमादाविति संकल्पवाक्य ऊहः कार्यः ।
ततः स्थण्डिलं कृत्वा तद्गोमयेनोपलिप्योद्धननादिसंस्कारं विधाय तत्र विण्नामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा, प्रधानहोमे--अग्निं पञ्च[४५]गव्याहुत्या यक्ष्ये । सोमं पञ्चगव्याहुत्या यक्ष्ये । विष्णुं ति[४६]सृभिः पञ्चगव्याहुतिभिर्यक्ष्ये । रुद्रं पञ्चगव्याहुत्या यक्ष्ये । अत्रोदकस्पर्शः । सवितारं पञ्च० । ब्रह्म पञ्च० । परमात्मानमग्निं वा प्रणवेन पञ्चगव्यचतुर्थभागेन[४७] यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणं[४८] द्वाभ्यामाज्याहुतिभ्यामित्यादि, अग्निं स्विष्टकृ[४९]तं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वा, समिदभ्याधानान्तं कृ[५०]त्वा, पात्रासादने दर्वीं सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धा[५१]न्दर्भानाज्यस्थालीं पञ्चगव्यार्थं पाद्मं पालाशमुदुम्बरवृक्षनिर्मितं बिल्ववृक्षनिर्मितं वा ताम्रमयं वा पात्रं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं पञ्चगव्यानि चाऽऽसाद्य ब्रह्मवरणादि, त[५२]त्र दर्वीसंमार्गानन्तरं होमार्थदर्भाणामपि दर्वीवत्संमार्गः । तत आज्यविलापात्पूर्वमेवापरेणाग्निं दर्भेषु पञ्चगव्यार्थमासादितं पात्रं निधाय तस्मिन्पवित्रे निधाय तत्सवितुरित्यस्य विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । पञ्चगव्यार्थं गोमूत्रादाने विनियोगः-- 'तत्सवितुर्व० यात्' इति नीलवर्णाया गोः पलपरिमितं मूत्रं पञ्चगव्यार्थ आसादिते पात्रे गृहीत्वा, गन्धद्वारामित्यस्य[५३] याज्ञिक्यो देवता उपनिषद ऋषिः श्रीर्देवता । अनुष्टुप्छन्दः । गोमयादाने विनियोगः-- 'गन्धद्वारां० श्रियम्' इति तस्मिन्गोमूत्रे कृष्णाया गोरङ्गुष्ठाप[५४]रिमितं शकृद्गृहीत्वा, आप्यायस्वेत्यस्य सोमोऽग्निर्वा ऋषिः सोमो देवता गायत्रीच्छन्दः क्षीरादाने विनियोगः-- 'आप्यायस्व स० संगथे' इति ताम्रवर्णाया गोः सप्तपलपरिमितं क्षीरं तस्मिन्नेव गृहीत्वा, दधिक्राव्ण इत्यस्य विश्वे देवा ऋषयः । दधिक्रावा देवताऽनुष्टुप्छन्दः, दध्यादाने विनियोगः--दधिक्राव्णो अ० तारिषत्" इति श्वेताया गोः पलत्रयपरिमितं दधि तस्मिन्नेव गृहीत्वा, शुक्रमसीत्यस्य प्रजापतिर्ऋषिः, आज्यं देवता, यजुः, आज्यादाने विनियोगः--'शुक्रमसि ज्योतिरसि तेजोऽसि' इति कपिलाया गोरेकपलमितमाज्यं तस्मिन्नेव गृहीत्वा, देवस्य त्वेत्यस्य प्रजाप[५५]तिरग्निः सोमो वा ऋषिः । उदकं देवता, यजुः । कुशोदकादाने विनियोगः-- 'देवस्य त्वा सवितुः० हस्ताभ्यां गृह्णामि' इत्येकपलपरिमितं सप्तभिः कुशैः स्रावितमुदकं तस्मिन्नेव गृह्णीयात् । देवस्य त्वेत्यस्मिन्मन्त्रेऽभिषिञ्चामीति वाक्यशेषं केचिदाहुः ।
तत आपो हि ष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा[५६] वा ऋषयः । आपो देवता, गायत्रीछन्दः । पञ्चगव्यमन्थने विनियोगः--'आपो हि ष्ठा० था च नः' इति[५७] तैरेव सप्तभिः कुशैरन्यैर्वा मन्थेत् ।
तत आज्यं विलाप्येत्यादि पर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणं, बर्हिष्याज्यासादनानन्तरमाज्यस्योत्तरतो बर्हिषि पञ्चगव्यपात्रासादनम् । आज्योत्पवनानन्तरं पञ्चगव्यस्याप्युत्पवनमिति केचित् ।
ततः पवित्रप्रहरणादि, अन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा पञ्चगव्यहोमं कुर्यात् ।
स यथा--आसादितान्सप्त दर्भान्गृहीत्वा तैरुद्धृत्योद्धृत्य जुहोति । ([५८] अशक्यत्वाद्दर्भेषु दर्वी सहायार्थं ग्राह्या । अग्नये स्वाहा सोमाय स्वाहेत्यनयोर्वामदेवो विश्वे देवा ऋषयः । अग्नीषोमौ क्रमेण देवते यजुः पञ्चगव्यहोमे विनियोगः ।) 'अग्नये स्वाहा' अग्नय इदं० । 'सोमाय स्वाहा' सोमायेदं० । इरावतीमितिमन्त्रस्य सोमो विष्णुस्त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः--'इरावती धेनु० मयूखैः स्वाहा' विष्णव इदं० । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । पञ्चगव्यहोमे विनियोगः-- इदं विष्णुर्विचक्रमे० पा सुरे स्वाहा' विष्णव इदं० । विष्णोर्नुकमित्यस्य सोमो विष्णुस्त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः-- 'विष्णोर्नुक० गायः स्वाहा' विष्णव इदं० । मा नस्तोक इत्यस्याग्नी रु[५९]द्रो जगती । पञ्चगव्यहोमे विनियोगः--'मा नस्तोके तनये० विधेम ते स्वाहा' रुद्रायेदं० । अप उपस्पृश्य, तत्सवितुरिति गायत्र्या विश्वामित्र ऋषिः । सविता देवता गायत्री छन्दः । पञ्चगव्यहोमे विनियोगः-- 'तत्सवितुर्वरेण्यं भर्गो० यात्स्वाहा'सवित्र इदं० । ब्रह्म जज्ञानमित्यस्याग्निर्ब्र[६०]ह्मा त्रिष्टुप् । पञ्चगव्यहोमे विनियोगः-- 'ब्रह्म जज्ञानं० विवः स्वाहा' ब्रह्मण इदं[६१]० अवशिष्टपञ्चगव्यस्य चतुर्थभागं पालाशपत्र उद्धृत्य, प्रणवस्य परब्रह्मर्षिः परमात्मा देवता गायत्री छन्दः । पञ्चगव्यचतुर्थभागहोमे विनियोगः । 'ॐ स्वाहा' इत्यावृत्तेन प्रणवमन्त्रेण यावतीभिराहुतीभिश्चतुर्थभागहोमो भवति तावतीराहुतीर्दर्भैरेव जुहुयात् । परमात्मन इदं० । अन्वाधाने यद्यग्नेरुत्कीर्तनं कृतं भवति तदा प्रणवस्य देवतोत्कीर्तनेऽग्निरुत्कीर्तनीयः । अस्मिन्कल्पेऽग्नय इदमिति त्यागः ।
ततोऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य तेनैवाभिमन्त्र्याऽऽसनाद्बहिरुपविश्य प्रणवेन[६२] हस्तेनाऽऽदौ किंचित्पीत्वाऽवशिष्टं सर्वं हस्तेन पात्रान्तरेण वा तूष्णीमेव पिबेत् । अत्रापि पूर्ववदृष्यादिस्मरणम् । पञ्चगव्यालोडने विनि योगः । पञ्चगव्याभिमन्त्रणे विनियोगः । पञ्चगव्यपाने विनियोगः । इति विनियोगवाक्येषु विशेषः ।
ततो ह[६३]स्तपादमुखप्रक्षालनं कृत्वा पवित्रे त्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा स्वासन उपवि[६४]श्य स्विष्टकृदाद्यङ्गहोमादि वा पूर्वान्तानुसारेण होमशेषं समापयेत् । अयं च सर्वैरपि पृथक्पृथगेव कार्यः । एतच्च कृताकृतम् ।
अथाऽऽपूर्विकतन्त्रेण प्रयोगः ।
कर्ताऽऽचमनाद्यन्वाधानाङ्गभूतप्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा[६५] इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा, प्रधानहोमे, अग्निं पञ्चगव्येन यक्ष्य इत्यादि पञ्चगव्यचतुर्थभागेन[६६] यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्य इत्यन्तमुक्त्वा समिधोऽग्नावाधायाग्निं परिस्तीर्य दर्वीं सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धान्दर्भानाज्यस्थालीं पञ्चगव्यार्थं पाद्माद्यन्यतमं पा[६७]त्रमुपवेषं संमार्गदर्भा[६८]निध्मं बर्हिरवज्वलनदर्भानाज्यं पञ्च गव्यानि समिधं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं दर्भांश्च संमृज्य पञ्चगव्यं निष्पाद्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् । पर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् ।
ततः--"अदितेऽनुमन्यस्व" इति परिषेकं कृत्वाऽऽसादितां समिधमाधाय पूर्ववत्प्रधानाहुतीर्हुत्वाऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य प्रणवेन सर्वं[६९] पूर्ववत्पिबेत् ।
ततो ह[७०]स्तपादमुखप्रक्षालनं कृत्वा पवित्रे त्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा व्यस्तसमस्तव्याहृतिभिश्चतस्र आहुतीर्जुहुयात् । एतद्धोमाकरणे नाऽऽज्यसंस्कारः । पञ्चगव्यस्य पर्यग्निकरणं भवत्येव । ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कुर्यात् । इति ब्रह्मकूर्चहोमप्रयोगः ।
अथोपाकरणप्रयोगः ।
इत्युक्त्वा सावित्रीमित्यादि वदेत् । तत्सवितुरित्यनेन होमपक्षे सावित्रीमित्येतस्य स्थाने सवितारमित्युत्कीर्तयेत् । काण्डनामभिर्होमपक्षे प्रधानहोमे प्राजापत्यं काण्डं सौम्यं काण्डमाग्नेयं काण्डं वैश्वदेवं काण्डं सावित्रीमृग्वेदमित्यादि । स्वायंभुवकाण्डस्यानन्तर्भावपक्षे वैश्वदेवं काण्डमित्येतदनन्तरं स्वायंभुवं काण्डमित्युक्त्वा सावित्रीमित्यादि समानम् । आरुणकाण्डस्याप्यनन्तर्भावपक्षे स्वायंभुवं काण्डमित्येतदनन्तरमरुणं काण्डमित्युक्त्वा सावित्रीमित्यादि । सांहितीदेवतोपनिषदादीनामप्यनन्तर्भावपक्ष आरुणं काण्डमित्येतदनन्तरं सांहितीदेवतोपनिषत्काण्डं वारुणीदेवतोपनिषत्काण्डं याज्ञिकीदेवतोपनिषत्काण्डमित्युक्त्वा सावित्रीमित्यादि समानम् । पात्रासादन आज्यासादनोत्तरमुपवीतासादनम् । व्याहृतिहोमान्ते 'प्रजापतये काण्डर्षये स्वाहा' प्रजापतये काण्डर्षय इदं न मम । 'सोमाय काण्डर्षये स्वाहा' सोमाय काण्डर्षय इदं न मम । 'अग्नये काण्डर्षये स्वाहा' अग्नये काण्डर्षय इदं न मम । 'विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा' विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं न मम । 'स्वयंभुवे काण्डर्षये स्वाहा' स्वयंभुवे काण्डर्षय इदं न मम इत्यन्वाधानोत्कीर्तनानुसारेण चतुरः पञ्च वा काण्डर्षीञ्जुहुयात् । अन्वाधाने षण्णामुत्कीर्तने--अरुणेभ्यः काण्डर्षिभ्यः स्वाहेति षष्ठीं जुहुयात् । नवानामुत्कीर्तने सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेति सप्तमीम्, वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेत्यष्टमीं, याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेति नवमीं जुहुयात् । यथालिङ्गं त्यागः । अन्वाधाने काण्डनामोत्कीर्तने 'प्राजापत्याय काण्डाय स्वाहा, प्राजापत्याय काण्डायेदं न मम । सौम्याय काण्डाय स्वाहा, सौम्याय काण्डायेदं न मम । आग्नेयाय काण्डाय स्वाहा । आग्नेयाय काण्डायेदं न मम । वैश्वदेवाय काण्डाय स्वाहा । वैश्वदेवाय काण्डायेदं न मम । स्वायंभुवाय काण्डाय स्वाहा । स्वायंभुवाय काण्डायेदं न मम' इत्यन्वाधानोत्कीर्तितपक्षानुसारेण चतुर्भिः पञ्चभिर्वा काण्डनामभिर्होमः । अन्वाधाने षण्णामुत्कीर्तने--आरुणाय काण्डाय स्वाहेति षष्ठ्याहुतिः । नवानामुत्कीर्तने सांहितीदेवतोपनिषत्काण्डाय स्वाहा । वारुणीदे० त्काण्डाय स्वाहा । याज्ञिकीदे० त्काण्डाय स्वाहेत्यारुणकाण्डाहुतेरनन्तरमेतास्तिस्रो होतव्याः । यथालिङ्गं त्यागः । ततः सावित्र्यै स्वाहा । सावित्र्या इदं० । अन्वाधाने सवितुरुत्कीर्तने तत्सवितुरिति गायत्र्या स्वाहान्तया होमः । एतस्या ऋष्यादि पूर्ववत् । उपाकर्मप्रधानाज्यहोमे विनियोग इति विनियोगे विशेषः । सवित्र इदमिति त्यागः । तत ऋग्वेदाय स्वाहा । ऋग्वेदायेदं न मम । यजुर्वेदाय स्वाहा । यजुर्वेदायेदं न मम । सामवेदाय स्वाहा । सामवेदायेदं न मम । अथर्ववेदाय स्वाहा । अथर्ववेदायेदं न मम । सदसस्पतये स्वाहा । सदसस्पतय इदं न मम । अथवा 'सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिष स्वाहा' इति मन्त्रेण होमः । एतस्यर्ष्यादिकाण्डव्रतप्रकरण उक्तम् । उपाकर्मप्रधानाज्यहोमे विनियोग इति विनियोगे विशेषः । त्यागस्तु स एव । ततो दर्व्यां यज्ञोपवीतं गृहीत्वा यज्ञोपवीतं परममित्यस्य पर[८२]ब्रह्म परमात्मा देवता त्रिष्टुप् । यज्ञोपवीतधारणाङ्गभूतहोमे विनियोगः । 'यज्ञोपवीतं० तेजः स्वाहा' इत्यग्नौ जुहोति । परमात्मन इदमिति त्यागः । अत्राऽऽचाराद्ब्रह्मचारिणे यज्ञोपवीतं मेखलामजिनं दण्डं च तत्तत्मन्त्रेण दत्त्वा जीर्णान्यप्सु प्रक्षिपेदिति शिष्टाः । सर्वैर्यथाचारं यज्ञोपवीतानि ब्राह्मणेभ्यो दत्त्वा विधिना धार्याणि । ([८३] दानधारणे शास्त्रान्तरोक्तत्वात्कृताकृते । एवं तदङ्गभूतहोमोऽपि ।) ततः सर्वे 'इमे त्वा यज्ञस्य शुन्धध्वम्' इति त्रीननुवाकानधीयते । अथवा--इषे त्वेत्यनुवाकः । आप उन्दन्त्वित्यनुवाकः । धर्मः शिरस्तदयमग्निरित्यनुवाकः । अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीति संहिताप्रथमकाण्डस्याष्टमप्रश्नाद्यानुवाकः । सह वै देवानामिति खण्डद्वयम् । भद्रं कर्णेभिरित्यनुवाको मन्त्रद्वयं वा । शीक्षां व्याख्यास्याम इत्यनुवाकः[८४] । भृगुर्वै वारुणिरित्यनुवाकः । अम्भस्य पारे भुवनस्य मध्य इत्यनुवाक ए[८५]कर्ग्वा । इत्येते काण्डादयस्तानधीयीरन् । खण्डद्वयाध्ययने पूर्वमुत्तरं च नमो ब्रह्मण इति शान्तिं पठेत् । भद्रपश्नाद्यध्ययने भद्रं कर्णेभिरिति पू[८६]र्वमुत्तरं च शान्तिः । शीक्षाप्रपाठका[८७]द्यध्ययने शं नो मित्र इति यथायथं पूर्वोत्तरे शान्ती । इतरप्रपाठका[८८]द्यध्ययने प्रतिप्रपाठकादि सह नाववत्विति पू[८९]र्वमुत्तरं च शान्तिः । होमानुसारेण काण्डा[९०]द्यध्ययनं कर्तव्यम् । एतदनुसारेणैव काण्डव्र[९१]तवेदपारायणोपाकरणोत्सर्जनयोरपि द्रष्टव्यम् । सर्व आरण्यकमन्त्रा उपांश्वेव वक्तव्याः । यद्यनारब्धवेदाः शिष्याः स्युस्तदाऽऽचार्यो वाचयेत् । उपाकरणात्पूर्वमेवेषेत्वेत्यनुवाकत्रयं काण्डादीन्वाऽध्यापयेदिति केचित् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य [९२]उपाकृता वै वेदाः । त्र्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्निं संपूज्य विभूतिं धृत्वा विष्णुं संस्मरेत् । नात्र त्रिवृदन्नहोमः । ततस्त्र्यहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादध्येतव्यम् । न वाऽनध्यायः । उपाकर्मदिनमारभ्य मासपर्यन्तं प्रदोषे नाध्येतव्यम् । 'श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत' इति धर्मसूत्रात् । व्याख्यातमेतदुज्ज्वलाकृता--
"मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते । |
तदेवं सिंहस्थे सवितरि या[९३] याऽमावास्या तदन्तचान्द्रमासे या मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा न वा । तस्यां श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य गृह्योक्तेन विधिनोपाकर्म कृत्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेकं प्रदोषे नाधीयीत प्रथमे रात्रिभागे नाधीयीत ग्रहणाध्ययनं धारणाध्ययनं च न कुर्यात् । प्रदोषग्रहणाद्रात्रावप्यूर्ध्वं न दोष इति । प्रदोषशब्देन पूर्वरात्रिर्विवक्षितेति माधवः ।
अस्मिन्दिने पतिमत्यो नार्यः सभादीपदानं कुर्वन्ति । एतच्चाऽऽचारप्राप्तम् । देशकालौ संकीर्त्य मम सौभाग्याद्यभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सभादीपदानं करिष्य इति संकल्प्य गणपतिपूजनं दीपपूजनं विप्रपूजनं च कृत्वा
"भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः । |
इति सदक्षिणं विप्राय दद्यात् । प्रतिगृह्णामीति विप्रः । एवं पञ्चवर्षपर्यन्तं श्रावण्यां पौर्णमास्यां दीपदानं कृत्वोद्यापनं कुर्यात् । पञ्चवर्षपर्यन्तं कृतस्य सभादीपप्रदानकर्मणः संपूर्णताया उद्यापनं करिष्य इति संकल्प्य गणपतिं संपूज्य पञ्चप्रस्थसंमितानि पञ्च धान्यानि पञ्चसु पात्रेषु भूमौ वा निधाय मध्यस्थधान्यराशौ प्रस्थपरिमिततण्डुलपूरितं पात्रं निधाय तत्र दीपं संस्थाप्य तत्समीपे यथासंभवसुवर्णनिर्मिते रजतनिर्मिते वा दीपपात्रे यथासंभवसुवर्णनिर्मितां वर्तिकां निधाय तत्समीपे कार्पासवर्तिकां घृताभ्यक्तां निधाय दीपद्वयं प्रज्वाल्य दीपपात्रद्वयं यज्ञोपवीतेन वेष्टयित्वा वस्त्रद्वयं समीपे संस्थाप्य दीपं विप्रं च संपूज्य सभादीपदानसंपूर्णताया इमं सोपस्करं सदक्षिणं सभादीपं संप्रददे न ममेति दद्यात् । इत्याचारप्राप्तं सभादीपप्रदानम् ।
अथोत्सर्जनम् ।
अथोत्सर्जनविधिः ।
तत्र सूत्रम्--
- "सगणः प्राचीनमुदीचीं वा दिशमुपनिष्क्रम्य यत्राऽऽपः सुखाः सुखावगाहास्तत्रावगाह्याऽऽधमर्षणेन त्रीप्राणायामान्कृत्वा सपवित्रैः पाणिभिरापो हि ष्ठेति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चैतेनानुवाकेन स्नात्वा" इति ।
सगणः सशिष्यगणः । सशिष्य इत्येव वक्तव्ये सगण इतिवचनं स्वसंनिधौ स्थितानामकृतविवाहानामेवात्र ग्रहणं नेतरेषामितिद्योतनार्थम् । तेन कस्यचित्कृतविवाहस्य गृहस्थाश्रमिणः शिष्यस्य पुनर्गुरुसंनिधानेऽपि पृथगेवोत्सर्जनं भवति । एवमुपाकर्मापि । प्राचीमित्यतः पूर्वं ग्रामादिति शेषः । गत्वेति परित्यज्योपनिष्क्रम्येति वचनादेवं ज्ञायते ग्रामान्निर्गमन एव प्राच्या उदीच्या वा दिशो नियमो न गमन इति । यत्र यस्मिन्देशे सुखा निर्मलाः सुखस्पर्शाश्च सुखावगाहा ग्राहादिरहितत्वेन सुखेनावगाह्यास्तत्रावगाह्य निमज्ज्य स्नात्वेतियावत् । अत्र पूर्वं भस्मगोमयमृत्तिकास्नानाख्यं कर्म, हिरण्यशृङ्गमिति तीर्थेशप्रार्थनं, नमोऽग्नयेऽप्सुमत इति देवतानमनं, सुमित्रा न इति मार्जनं, दुर्मित्रा इत्यादिभिस्त्रिभिर्मन्त्रैर्द्वेष्यदिशि जलक्षेपणं, यदपां क्रूरमिति जलदोषदूरीकरणम्, अत्याशनादित्येतन्मन्त्रपठनम्, इमं मे गङ्ग इति नदीप्रार्थनं च कार्यम् । ऋतं च सत्यं चेत्येतत्तृचात्मकं सूक्तमाघमर्पणं तेन त्रीन्प्राणायामान्कुर्यात् । निमज्ज्येत्यत्रत्यक्त्वाप्रत्ययेन निमग्नः सन्नेव प्राणायामान्कुर्यादिति बोध्यते । आघमर्षणसूक्तपाठप्राणायामयोः समानकालिकत्वमेवात्र न तु सूक्तान्ते प्राणायामः । निमग्नस्य प्रा[९४]णयमनं विना तत्पाठासंभवात् । अयं च सूक्तपाठो मनसैव न तूपांशु यजुर्वेदेन क्रियत इतिपरिभाषाप्राप्तमुपांशुत्वं संभवति । तत्राप्युच्चारणस्य सत्त्वेन तदसंभवात् । करणवदशब्दममनःप्रयोगमुपांश्विति ह्युपांशुलक्षणम् । अवगाह्याऽऽघमर्षणेन त्रीन्प्राणायामान्कृत्वेत्येतत्सूत्रम् ।
"अवगाह्य जले मग्नं ऋतं चेति तृचं पठन् । |
इति स्मृतिवचनानुरोधादित्थं व्याख्यातम् । अथवाऽऽघमर्षणं सूक्तं जले घ्राणं नियोज्य पठित्वा तदन्ते प्राणायाम इति यथाश्रुत एवार्थः । तथा च स्मृतिः--
"संयोज्य वारिणि घ्राणमृतं चेति तृचेन तु । |
अस्मिन्कल्प उपांशुधर्मेण ऋतमिति तृचं पठित्वा तदन्ते प्राणायामः कार्यः । एवमन्यौ द्वौ प्राणायामौ, इति प्रयोगः । पूर्वकल्पे तु निमग्नः सन्नेव मनसा ऋतमिति तृचं पठन्प्राणायामं कुर्यात् । एवमन्यौ द्वौ, इति प्रयोगः । उभयकल्पेऽपि अत्राऽऽतमितोरितिवचनाभावान्न यावद्बलत्वनियमः । त्रिः प्राणमायच्छेदित्येव वक्तव्ये त्रीन्प्राणायामानित्येवं वचनं त्रिष्वपि मन्त्रवत्ता, न तु सकृन्मन्त्रेण द्विस्तूष्णीमितिज्ञापनार्थम् । त्रीनितिवचनं चतुरादिसंख्यानिवृत्त्यर्थम् । स्मृतित एव सपवित्रपाणित्वे सिद्धेऽत्र वचनं पूर्वधृतपवित्रत्यागं द्योतयति । चकारः शास्त्रान्तरोक्तद्रुपदामन्त्रसमुच्चयार्थः । यत्पृथिव्या रजस्वे(जः स्वमि) त्यादिमन्त्रसाध्यानां मार्जनोत्तरकर्मणामप्यत्र संग्रहः । सपवित्रपाणय इत्येवं वक्तव्ये सपवित्रैः पाणिभिरित्येवं वचनं केवलं सोदकैः पाणिभिरेव मार्जनं न तु दर्भैरित्येवमर्थम् । स्नात्वेत्यस्य मार्जयित्वेत्यर्थः । तथा च स्मृतिः--"स्नात्वा त्रिः प्राणमायच्छेदब्लिङ्गैर्मार्जनं ततः" इति ।
एवं स्नानं कृत्वा देवर्षिपितृपूजनं कुर्यात् । तत्र सूत्रम्-- 'दर्भानन्योन्यस्मै संप्रयच्छन्तोऽदित्सन्त इवान्योन्यम्' इत्यादि 'अमुष्मै नमोऽमुष्मै नमः' इत्यन्तम् । दर्भानन्योन्यस्मै संप्रयच्छन्त इत्यस्याऽऽसनानि कल्पयन्तीत्यत्रान्वयः । तेनाऽऽसनार्थमिदं दर्भदानम् । संप्रयच्छन्त इति शतृप्रत्ययाद्दानासनकल्पनयोः समकालिकता । अन्योन्यस्मै परस्परमित्यर्थः । अदित्सन्त इवान्योन्यमिति दाने विशेषोऽयमदृष्टार्थं विधीयते । अन्योन्यं परस्परमदित्सन्त इव दातुमनिच्छन्त इव दर्भान्संप्रयच्छन्त इत्यर्थः । अथवा संप्रयच्छन्त आदित्सन्त इवान्योन्यमिति पाठः । अन्योन्यं प्रत्यादित्सन्तो मुष्णन्त इव दर्भान्संप्रयच्छन्त इत्यर्थः । दर्भदानासनकल्पनयोर्मध्ये दर्भदानं सव्यहस्तेन तस्यामुख्यत्वात् । आसनकल्पनं तु मुख्यं कार्यं मुख्येन दक्षिणहस्तेन । एवं चोभयोर्न समानकालिकत्वासंभवः । दर्भदानस्य प्रयोजनाकाङ्क्षायामनन्तरविहितासनकल्पनार्थत्वे सामर्थ्यादवगते सति अर्थादासनकल्पनस्य मुख्यत्वं सिध्यति । दक्षिणहस्तस्य मुख्यत्वं तु--
"यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । |
इति च्छन्दोगपरिशिष्टात्, 'एकाङ्गवचने दक्षिणं प्रतीयादनादेशे' इत्याश्वलायनसूत्राच्च ज्ञेयम् । तत इत्यस्य तस्मिन्नित्यर्थः । समीपसप्तमीयम् । तच्च सामीप्यं पूर्वं स्नानोपक्रमाज्जलस्य ज्ञेयम् । स्मृतित एव शुचिदेशस्य प्राप्तावत्र विधानं शुद्धस्यापि देशस्य गोमयोपलेपनेनापि शुद्धिरस्मिन्नवसरेऽवश्यं कार्येतिज्ञापनार्थम् । प्राचीनप्रवण इतिवचनं समत्वोदक्प्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । प्राचीनप्रवणः प्राच्यां दिशि निम्न इत्यर्थः । उदगग्रताया अपि पक्षे प्राप्तत्वात्तद्बाधनार्थं प्रागग्रैरिति दर्भविशेषणम् । दर्भैरितिबहुवचनात्त्रयस्त्रयो दर्भा ज्ञेयाः ।
"ऋषीणामासनं दर्भैः सप्तभिः सप्तभिः स्मृतम्" |
इति स्मृतितः सप्त सप्त वाऽऽसने दर्भाः । एतस्यां स्मृतावृषिग्रहणं देवपित्रुपलक्षणम् । तेन देवपित्रासनदर्भाणामपि सप्तसंख्या ज्ञेया । उदगपवर्गाणीतिवचनं पक्षे प्राप्तायाः प्रागपवर्गताया बाधनार्थम् । कल्पयन्तीतिबहुवचनाच्छिष्यैरपि पृथक्पृथगासनकल्पनं कार्यं न त्वन्वारम्भमात्रेण सिद्धिः । एवमितरोपचारसमर्पणमपि । तत्र बहुवचनान्तस्यैव क्रियापदस्यानुषङ्गात् । न चाऽऽसनकल्पनमात्रं पृथक्पृथगस्तु, इतरोपचारसमर्पणं त्वाचार्येणैव कार्यमिति वाच्यम् । पूज्यै(जै)कदेशस्याऽऽसनकल्पनस्य बहुवचनेन सर्वकर्तृकत्वे सिद्ध इतरोपचारसमर्पणेऽपि सर्वकर्तृ[क]त्वस्यैव युक्तत्वात् । ब्रह्मादिभ्योऽङ्गिरोन्तेभ्यः । ब्रह्मण आसनं कल्पयामि, प्रजापतय आसनं कल्पयामीत्येवं ब्रह्मणे कल्पयामि, प्रजापतये कल्पयामीत्येवं वा तत्तन्नामभिस्तस्मै तस्मा आसनं कल्पयेयुरित्यर्थः । देवगणानामितिवचनं दैवेन तीर्थेन तर्पणार्थम् । देवानामित्येव सिद्धे ग[९५]णानामिति ग्रहणं त्रयोविंशतिसंख्याकेषु[९६] देवेषु मध्ये ब्रह्मादिनक्षत्रान्त एको गणः, इन्द्रराजादिवैश्रवणराजान्तो द्वितीयः पञ्चानां गणः, वस्वाद्यङ्गिरोन्तस्तृतीयो गण इति गणत्रित्वं ज्ञापयितुम् । ब्रह्मादिनक्षत्रान्तानां संलग्नान्यासनानि किंचिद्व्यवधानेन द्वितीयगणस्य तथैवाऽऽसनानि तथैव तृतीयस्येत्येवमनुष्ठानं गणत्रित्वस्य फलम् । इन्द्रराजादिवैश्रवणराजान्तानां राजत्वादिसमानधर्मत्वादेकगणत्वे सिद्धे ब्रह्मादिनक्षत्रान्तानामेको गणः, वस्वाद्यङ्गिरोन्तानामेको गण इत्यर्थात्सिध्यति । पञ्चसु राजत्वं तु "इन्द्रो राजा जगतश्चर्षणीनाम् । इन्द्रो राजा जगतो य ईशे । यमो राजा प्रसृणाभिः पुनातु मा । यमाय मधुमत्तम राज्ञे हव्यं जुहोतन । आपो दीक्षा, तया वरुणो राजा दीक्षया दीक्षितः । ओषधयो दीक्षा, तया सोमो राजा दीक्षया दीक्षितः । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे" इत्यादिमन्त्रसिद्धमपि । विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षय इत्येतत्सूत्रं यत्र यत्र सप्तर्षिग्रहणं सप्तर्षीनुपस्थायेत्यादौ तत्रतेषामेव संप्रत्यय इत्येतदर्थम् । अत्र निवीतिवचनात्पूर्वत्र यज्ञोपवीतिता ग[९७]म्यते । उत्तरत इत्यत्र देवानामिति शेषः । तेषामेव पू[९८]र्वं क्लृप्तत्वात् । उदीचीनप्रवण इति वचनं पक्षे प्राप्तानां समत्वप्राक्प्रवणत्वप्रागुदक्प्रवणत्वानां बाधनार्थम् । अत्रापि शुचौ देश इत्यनुवर्तते । उदगग्रैरितिवचनं पक्षे प्राप्तायाः प्रागग्रताया बाधनार्थम् । प्रागपवर्गाणीतिवचनं पक्षे प्राप्ताया उदगपवर्गताया बाधनार्थम् । एतयोरन्तरालेऽरुन्धत्या इत्येतावतैव सिद्धे वसिष्ठकश्यपयोरन्तरालेऽरुन्धत्या इति गुरुसूत्रकरणमन्यत्रापि सप्तर्षयोऽरुन्धतीसहिता एव प्रत्येतव्या इत्येतदर्थम्, वसिष्ठकश्यपान्तराल एवारुन्धतीत्येवंभावनार्थं वा । यथोपस्थानादौ । अरुन्धत्या इत्यनन्तरं पुनः कल्पयन्तीतिवचनं विश्वामित्राद्यरुन्धत्यन्तानामेकगणत्वज्ञापनार्थम् । तेनैतेषां संलग्ना[९९]न्यासनानि । दक्षिणत इत्यत्र देवानामिति शेषः । प्राचीनप्रवणपदसाहचर्यात् । प्राचीनप्रवण इति वचनं समत्वोदकप्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । ततोऽगस्त्यासनात्परिभाषयो[१००]त्तरतः पुरतो वा । एकेतिवचनं कृष्णद्वैपायनादीनामेकैव वेदिः, देवानां वेदिरेका, सप्तर्षीणामरुन्धत्याश्चैका, अगस्त्यस्यैका, पितॄणामेकेति, सर्वेषामेतेषां पृथक्पृथगेव वेद्य इत्येतदर्थम् । अथवा--एकवेद्याम्, एका केवला या वेदिस्तस्यामित्यर्थः । एकेतिवचनं तत एकवेद्यां तेभ्य इत्यत्र प्राचीनप्रव[१०१]णे देश इत्यस्याप्यनुवृत्तिः स्यात्, अनुवृत्तौ च सत्यां प्राचीनप्रवणरूप एव देशे वेदिः कर्तव्येति नियमः स्यात्स मा भूदित्येतदर्थम् । अस्मिन्कल्प इत्तरेषां वेदिरेव नास्ति । तेभ्य इतिवचनमेकगणत्वज्ञापनार्थम् । तेन संलग्नान्येवैतेषामासनानि । तेभ्यो वक्ष्यमाणेभ्यः प्रसिद्धेभ्यः कृष्णद्वैपायनादीतिहासपुराणान्तेभ्यः । वरूथिन इत्यनन्तरं वाजिन इति केषुचित्सूत्रपुस्तकेषु पाठः । वसिष्ठायेन्द्रायेति नामद्वयमेव प्रयोगवैजयन्तीकारोक्तेः । दक्षिणतः प्राचीनावीतिन इत्यत्र कृष्णद्वैपायनादीनामेव ग्रहणं संनिहितत्वात् । प्राचीनावीतविधानं यज्ञोपवीतनिवीतयोर्बाधनार्थम् । दक्षिणाप्रवणवचनं समत्वप्राक्प्रवणत्वोदक्प्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । दक्षिणाग्रैरितिवचनमुदगग्रन्वप्रागग्रत्वयोर्बाधनार्थम् । प्रत्यगपवर्गाणीतिवचनं प्रागपवर्गत्वोदगपवर्गत्वयोर्बाधनार्थम् । आत्रेयाय पदकारायेत्येकमेव नाम । एवं कौण्डिन्याय वृत्तिकारायेतीदमपि । यथास्वं यथायथं यथाधिकारमिति यावत् । पितृभ्य इत्यत्र पितरश्च मातरश्चेत्येकशेषः । एवं मातामहाश्च मातामह्यश्चेति । अत्र पितृमातृमातामहमातामहीशब्दैस्तत्तद्वर्गा उच्यन्ते । अत्र मातृशब्देन सपत्नमाताऽपि संग्राह्या । चकारेण स्त्र्यादिसमस्तपितृसमुच्चयः । अन्यथा नित्यतर्पणे पार्वणचतुष्टयस्यैवातिदेशः स्यात्, अन्येषां न स्यात्, अतः समुच्चय आवश्यकः । ( [१०२] अथवाऽद्भिर्देवानृषीन्पितॄंश्च तर्पयन्तीत्यत्रैवमित्यतिदेशात्तत्तद्धर्मे तत्रत्यदेवर्षिपितृप्राप्तिः, अनुक्तानां स्त्र्यादीनां त्वत्रत्यचकारेणेति । अस्मिन्कल्पे नात्र स्त्र्यादिसमुच्चयः । इदानीमाचार एवमेवास्ति । ) अमुष्मै कल्पयामीत्यादिसूत्रं तत्तन्मन्त्रपाठप्रदर्शनार्थं न तूपचारान्तरनिवृत्त्यर्थम् ।
तेन--
"ऋषीणामर्चनं सर्वं कर्तव्यं च निवीतिना । |
इतिव्यासस्मृत्युक्ता अप्युपचाराः शक्तौ सत्यां देयाः । अस्यां स्मृतावृषिग्रहणं देवपित्रुपलक्षणम् । पितृभ्योऽपि स्वाहाशब्देनैवान्नसमर्पणं न स्वधाशब्देन । वीप्सास्वरसात् । केवलपितृकर्मत्वात्स्वधाशब्दप्राप्तिर्न भवति किंतु स्पष्टवचनेनैव स(वे)त्येतादृशार्थस्य मासिश्राद्धस्थेन 'अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः' इति मन्त्रग्रहणेन ज्ञापितत्वाच्च । फलोदकेनेत्यत्र फलयुक्तमुदकं फलस्योदकमिति वाऽर्थः । अपरेण वेदिं वेद्या अदूर एव, अग्निमुपसमाधाय प्रज्वलयित्वे(ज्वाल्ये)त्यर्थः । सदसस्पतिमित्यनन्तरमुक्तस्य हुत्वेतिवचनस्य शिष्याणामन्वारम्भसिद्ध्यर्थं(र्थत्वम्) प्रथमोऽनुवाक इषे त्वेत्यनुवाकः । अत्र तृतीया द्वितीयार्थे । तेन प्रथममनुवाकमधीयन्त(त) इत्यर्थः । त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्तीति सूत्रे ब्राह्म[१०३]णांस्तर्पयन्तीत्यनन्तरं कर्तव्ये मध्ये वचनमुत्सर्जन एवानध्याय आवश्यको नोपाकर्मणीतिज्ञापनार्थम् । तेनोपाकर्मण्यनध्यायाभावोऽपि पक्षे सिद्धो भवति । काण्डात्काण्डाद्या शतेनेतिमन्त्रद्वयान्त उदकान्त उदकमध्य उदकप्रान्ते वा दूर्वा रोपयन्ति । रोपयन्तीतिबहुवचनात्सर्वेषां कर्तृत्वम् । दूर्वा इति बहुवचनं बहुकर्त्रभिप्रायेण । तेनैकैकैव दूर्वा बह्व्यो वा दूर्वाः । उदधिं जलाशयं विलोडनादूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशं बहिर्जलाशयादातमितोर्यावद्बलमाजिं शीघ्रं धावन्ति । अत्रापि बहु वचनात्सर्वेषां कर्तृत्वम् । प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणा स्तर्पयन्ति । उत्सर्गदेशात्प्रत्येत्याकृत्वैवान्नहोमं ग्रामं प्रविश्यापूपादिभिर्ब्राह्मणांस्तर्पयन्तीत्यर्थः । अपूपैः सक्तुभिरोदनेनेति ब्राह्मणा स्तर्पयन्तीतिगुरुसूत्रकरणादेवं ज्ञायते नास्त्यत्रान्नहोम इति । यद्यत्रान्नहोम इष्टः स्याद्ब्राह्मणानन्नेन परिविष्येत्येव लाघवाद्ब्रूयात् । वृत्तिकृताऽपि तत आजिसरणात्प्रत्येत्यान्नहोमान्हुत्वाऽपूपादिभिर्ब्राह्मणांस्तर्पयन्तीत्येतस्मिन्व्याख्याने गुरुसूत्रकरणवैयर्थ्यापरिहाररूपापरितोषादेव 'अथवोत्सर्गदेशात्प्रत्येत्याकृत्वैवान्नहोमं ग्रामं प्रविश्यापूपादिभिर्ब्राह्मणांस्तर्पयन्ति' इत्येवं द्वितीयं व्याख्यानं कृतम् । ब्राह्मणा श्च तर्पयन्तीतिपाठे तु चकारः पूजनसमुच्चयार्थो ज्ञेयः । अत्रापूपादिग्रहणं परिवेषणक्रमार्थम् । अत्र भस्मगोमयमृत्तिकास्नानान्यपि सति संभवे कार्याणि ।
"संप्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये । |
इति भविष्यवचनस्य श्रुतिस्मृतिविधानत इति भस्मगोमयमृत्तिकास्नानप्राप्त्यर्थमिति पृथ्वीचन्द्रोदयेन व्याख्यानादाचाराच्च । यद्यप्येतस्माद्वचनादुपाकर्मार्थत्वमेतेषां प्रतीयते तथाऽपि सूत्र उत्सर्जन एव स्नानविधानात्तदर्थकत्वमेव । श्रावणस्यान्त इति तु, उपाकर्मदिनानुष्ठानाभिप्रायेण आचारश्चैवमेव । उपाकर्मदिन उत्सर्जनक्रिया तु हेमाद्रौ खादिरगृह्य उक्ता--
"पुष्ये तूत्सर्जनं कुर्यादुपाकर्मदिनेऽथ वा" इति । |
अथ प्रयोगः ।
कर्ता कृतनित्यक्रियः पूर्ववद्धोमपूर्वकं पञ्चगव्याशनं कृत्वाऽकृत्वा वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यस्मिन्देशे निर्मलाः सुखस्पर्शा ग्राहादिरहिताश्चाऽऽपो भवन्ति तासां समीप आसन उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्याधीतानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासेनाऽऽप्यायन[१०५]वेदोत्सर्गसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदोत्सर्जनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । यदा तु स्वस्य ब्रह्मचारिणः शिष्याः स्युस्तदा तैः सहापां समीपं गत्वा, एभिः शिष्यैः सह वेदोत्सर्जनाख्यं कर्म करिष्य इत्येवमूहेन संकल्पः कार्यः । होमपूर्वकपञ्चगव्याशनानुष्ठानपक्षे शिष्यैरपि तत्कार्यं शुद्ध्यर्थत्वात् । उत्सर्जनसंकल्पोऽपि तैः कार्य इति शिष्टाः । तत्रैभिः शिष्यैः सहेत्येतस्य लोपः । कृतविवाहैः शिष्यैस्तु केनचिन्निमित्तेन गुरुसांनिध्येऽपि पृथगेवोत्सर्जनं कार्यम्[१०६] । उत्सर्जनप्रथमप्रयोगाङ्गभूतं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च प्रधानसंकल्पोत्तरं तत्पूर्वं वा तत्पि[१०७]ता तदभावे तत्पितामहादिर्वा कुर्यात् । सर्वेषामप्यभाव आचार्य एव कुर्यात् । तत्र संस्कार्यस्य पितॄणामुत्कीर्तनम्[१०८] । यदि पितैवाऽऽचार्यस्तदा प्रथमोत्सर्जनप्रयुक्तं गणपतिपूजनादि स एव कुर्यात् । प्रथमोत्सर्जनं भद्राव्यतीपाताधिमासास्तादिषु न भवति । अत्रोक्तं संभवद्दिनं ग्राह्यम् । द्वितीयादिष्वपि शुद्धकालसंभवे भद्राव्यतीपाताधिमासास्तादिनिषेधोऽस्त्येवेति केचित् । ततो जलप्रान्त उपविश्य तीरे स्थापितं भस्माऽऽदाय, ईशान इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वेशानो यजुः । तत्पुरुषायेत्यस्या याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा तत्पुरुषो गायत्री । अघोरेभ्य इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वाऽघोरोऽनुष्टुप् । वामदेवायेत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा वामदेवो यजुः । सद्योजातमित्यस्य याज्ञिक्यो देवता उपनिपदः स्वयंभूर्वा सद्योजातो बृहती । क्रमेण शिरोमुखहृदयगुह्यपादेषु भस्मलिम्पने(लेपने) विनियोगः । 'ईशानः सर्व सदाशिवोम्' इति शिरसि भस्म विलिप्य, 'तत्पुरुषाय० प्रचोदयात्' इति मुखे । ' अघोरेभ्योऽथ घोरेभ्यो० रुद्ररूपेभ्यः' इति हृदये । 'वामदेवाय नमो० मनोन्मनाय नमः' इति गुह्ये । 'सद्योजातं प्रप० भवोद्भवाय नमः' इति पादयोः । अथवा--ईशानाय नम इति शिरसि । तत्पुरुषाय नम इति मुखे । अघोराय नम इति हृदये । वामदेवाय नम इति गुह्ये । सद्योजाताय नम इति पादयोः, इत्येवंप्रकारेण भस्मलेपनम् । ततोऽग्निरिति भस्म । वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्व ह वा इदं भस्म । मा नस्तोक इत्यस्याग्नी रुद्रो जगती । सर्वाङ्गे भस्मलेपने विनियोगः । 'मा नस्तोके तनये विधेम ते' इति शिरःप्रभृत्यङ्गानि भस्मना विलिप्य स्नात्वाऽऽचामेत् । पुनर्जलप्रान्त उपविश्य, गायत्र्या विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । गोमयादाने विनियोगः । 'तत्सवितु० यात्' इति तीरे स्थापितं गोमयमादाय, गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा श्रीरनुष्टुप् । अङ्गेषु गोमयलिम्प(लेप)ने विनियोगः । 'गन्धद्वारां दुराधर्षां श्रियम्' इति शिरःप्रभृत्यङ्गानि विलिप्य, 'अग्रमग्रं च० सर्वदा' इति पुनस्तथैव विलिप्य स्नात्वाऽऽचामेत् । पुनर्जलप्रान्त उपविश्य, अश्वक्रान्त इत्यस्य याज्ञि० भूर्वा भूमिरनुष्टुप् । भूमिर्धेनुरित्यस्य याज्ञि० भूर्वा भूमिरेकपदा जगती । भूम्यभिमन्त्रणे विनियोगः । 'अश्वक्रान्ते० लोकधारिणी' इति द्वाभ्यां भूमिमभिमन्त्र्य, सहस्रपरमेत्यस्य याज्ञि० भूर्वा दूर्वाऽनुष्टुप् । दूर्वाभिमन्त्रणे विनियोगः ।'सहस्रपर० शिनी' इति दूर्वामभिमन्त्र्य, उद्धृताऽसीत्यस्य याज्ञि० भूर्वा मृत्तिकाऽनुष्टुप् । मृत्तिकाग्रहणे विनियोगः । 'उद्धृताऽसि० हुता' [इति] अभिमन्त्रितप्रदेशान्मृत्तिकां गृहीत्वा, काण्डात्काण्डादिति द्वयोर्याज्ञि० भूर्वा दूर्वाऽनुष्टुप् । दूर्वादाने विनियोगः । 'काण्डात्काण्डात्प्ररोहन्ती० पा वयम्' इति द्वाभ्यां दूर्वामादाय, मृत्तिके हनेत्यस्य याज्ञि० भूर्वा मृत्तिकाऽनुष्टुप् । मृत्तिकायां दूर्वाप्रतिष्ठापने विनियोगः । 'मृत्तिके हन मे० परमां गतिम्' इति दूर्वा मृत्तिकायां प्रतिष्ठाप्य, यत इन्द्रेत्यस्य याज्ञि० भूर्वेन्द्रो बृहती । स्वस्तिदेत्यस्य याज्ञिक्यो० भूर्वेन्द्रोऽनुष्टुप् । स्वस्ति न इत्यस्य याज्ञिक्यो० भूर्वेन्द्रस्त्रिष्टुप् । त्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । परं मृत्यो, इत्यस्य विश्वे देवा मृत्युस्त्रिष्टुप् । स्योना पृथिवीत्यत्य याज्ञिक्यो० भूर्वा पृथिवी गायत्री । प्राच्यादिचतुर्दिक्षूर्ध्वमधश्च क्रमेण मृत्तिकाप्रक्षेपणे विनियोगः । यत इन्द्र० इति प्राच्यां मृत्तिकां प्रक्षिपति । स्वस्तिदा इति दक्षिणस्याम् । स्वस्ति न इन्द्रो० इति प्रतीच्याम् । त्रातारमि० इत्युत्तरस्याम् । परं मृत्यो० इत्यूर्ध्वम् । स्योना पृथि० इत्यधः । गन्धद्वारामित्यस्य याज्ञिक्यो० भूर्वा श्रीरनुष्टुप् । मृत्तिकाग्रहणे विनियोगः । 'गन्धद्वारां० श्रियम्' इत्यभिमन्त्रितप्रदेशादन्यां मृत्तिकां गृहीत्वा, उदु त्यमित्यस्य सोमः सूर्यो गायत्री । सूर्याय मृत्तिकाप्रदर्शने विनियोगः । 'उदु त्यं जा० सूर्यम्' इति सूर्याय गृहीतां मृत्तिकां प्रदर्शयित्वा(र्श्य), श्रीर्मे भजत्वित्यस्य याज्ञिक्यो० भूर्वा श्रीर्यजुः । शिरसि प्रदक्षिणं मृत्तिकालेपने विनियोगः । 'श्रीर्मे भजतु | अलक्ष्मीर्मे नश्यतु' इति शिरसि प्रदक्षिणं मृत्तिकां विलिप्य, सहस्रशीर्षेत्यस्य प्रजापतिः स्वयंभूर्वा पुरुषो नारायणोऽनुष्टुप् । विष्णुमुखा इत्यस्य याज्ञिक्यो० भूर्वा देवा यजुः । महा इन्द्र इत्यस्य याज्ञिक्यो० भूर्वेन्द्रो बृहती । सोमानमित्यस्य याज्ञिक्यो० भूर्वा ब्रह्मणस्पतिर्गायत्री । शरीरमित्यस्य याज्ञिक्यो० भूर्वाऽऽत्मा यजुः । नाभिर्म इत्यस्य विश्वे देवा नाभिर्द्विपदा गायत्री । क्रमेण शिरोमुखबाहुकुक्षिहृदयनाभिषु मृत्तिकालेपने विनियोगः । आपान्तमन्युरित्यस्य याज्ञिक्यो० भूर्वा सोमस्त्रिष्टुप् । ब्रह्म जज्ञानमित्यस्य याज्ञिक्यो० भूर्वा ब्रह्म त्रिष्टुप् । कट्योर्मृत्तिकालेपने विनियोगः । विष्णो रराटमित्यस्य सोमो रराटी यजुः । वरुणस्य स्कम्भनमसीत्यस्य सोमो वरुणो यजुः । आनन्दनन्दावित्यस्य विश्वे देवा आत्मा द्विपदा गायत्री । ऊरुवोरोज इत्यस्याग्निरात्मा यजुः । जङ्घाभ्यामित्यस्य विश्वे देवा आत्मा द्विपदा गायत्री । चरणं पवित्रमित्यस्य याज्ञिक्यो० भूर्वा चरणात्मा त्रिष्टुप् । क्रमेण पृष्ठमेढ्राण्डोरुजङ्घाचरणेषु मृत्तिकालेपने विनियोगः । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । त्रीणि पदेत्यस्य विश्वे देवा विष्णुर्गायत्री । पादतलयोर्मृत्तिकालेपने विनियोगः । सहस्रशीर्षा० [इति] शिरसि । विष्णुमुखा० [इति] मुखे । महा इन्द्रो० इति बाह्वोर्मन्त्रावृत्त्या । सोमान० इति कुक्ष्योर्मन्त्रावृत्त्या । शरीरं य० इति शरीरे, हृदय इत्यर्थः । नाभिर्मे० सत्, इति नाभ्याम् । आपान्तमन्यु० ब्रह्म जज्ञानं० इति[१०९] द्वाभ्यां कट्योः । द्वयोरावृत्तिः । विष्णो रराटमसीति पृष्ठे । वरुणस्य स्कम्भनमसीति मेढ्रे । आनन्दनन्दावा० पस इत्याण्डयोः । ऊरुवोरोज इत्यूर्वोः । 'जङ्घाभ्यां प० ष्ठितः । [इति] जङ्घयोः । एतेषु सकृदेव मन्त्रः । द्विवचनलिङ्गात् । चरणं पवित्रमिति चरणयोर्मन्त्रावृत्त्या । इदं विष्णुस्त्रीणि पदेति द्वाभ्यां पादतलयोः । द्वयोरावृत्तिः । सजोषा इत्यस्य स्वयंभूरिन्द्रस्त्रिष्टुप् । दूर्वासहितस्य शेषस्य शिरसि निधाने विनियोगः । सजोषा इन्द्र० इति दूर्वासहितं शेषं शिरसि निदध्यात् । ([११०] बौधायनोक्तरीत्या कर्तुमसंभवे--अश्वकान्त इति भूमिमभिमन्त्र्य भूमिर्धेनुरिति लोष्टमादाय सहस्रपरमेति दूर्वामभिमन्त्र्य काण्डात्काण्डादिति दूर्वामादाय या शतेनेति दूर्वां मृदि प्रतिष्ठाप्य मृत्तिके हन मे पापमिति मृदमभिमन्त्र्य यत इन्द्र भयामहे० १ स्वस्तिदा वि०२ स्वस्ति न इन्द्रो० ३ आपान्तमन्यु० ४ ब्रह्म जज्ञानं० ५ स्योना पृथिवि भवा० ६ इति प्राच्यादिदिक्चतुष्टय ऊर्ध्वमधश्चेति तत्तन्मन्त्रेण लोष्टमुत्क्षिप्य गन्धद्वारामित्यादित्याय दर्शयित्वा श्रीर्मे भजत्विति ललाटमालिप्यालक्ष्मीर्मे नश्यत्विति प्रदक्षिणं शिरो विलिप्य विष्णुमुखा इति मुखं महा इन्द्र इति बाहू सोमानमिति कुक्षी शरीरं यज्ञशमलमिति शरीरं चरणं पवित्रमिति चरणौ विलिप्य सजोषा इन्द्रेति मृच्छेषं शिरसि निधाय सुमित्रा न इत्यद्भिरात्मानमासिच्य दुर्मित्रा इत्यादिभिर्द्वेष्यं ध्यायन्भूमौ[१११] क्षिपेदिति प्रयोगो द्रष्टव्यः ।) भस्मगोमयमृत्तिकास्नानानि कृताकृतानि । ततः--हिरण्यशृङ्गमिति मन्त्र[११२]स्य याज्ञिक्यो० भूर्वा तीर्थाधिपतिर्वरुणो बृहती । तीर्थाधिपतिप्रार्थने विनियोगः । हिरण्यशृङ्गं वरु० इति तीर्थाधिपतिं वरुणं संप्रार्थ्य[११३], यन्मे मनसेत्यस्य याज्ञिक्यो० भूर्वा, इन्द्रो वरुणो बृहस्पतिः सविता च स्वराड्बृहती । इन्द्रादिप्रार्थने विनियोगः । 'यन्मे मनसा० पुनः पुनः' इतीन्द्रादिदेवताः स्वस्य पावित्र्यार्थं संप्रार्थ्य, नमोऽग्नयेऽप्सुमत इत्यत्य[११४] याज्ञिक्यो० उपनिषदोऽग्निरप्सुमानिन्द्रो वरुणो वारुण्यापश्च यजुः । नमस्कारे विनियोगः । 'नमोऽग्नयेऽप्सुमते० नमोऽद्भ्यः' इति मन्त्रोक्तदेवता नमस्कृत्य, सुमित्रा न इत्यस्य[११५] याज्ञिक्यो० भूर्वाऽऽपो यजुः । मार्जने विनियोगः । 'सुमित्रा० सन्तु' इत्यात्मानमद्भिर्मार्जयित्वा तूष्णीमञ्जलिनोदकमादाय, दुर्मित्रा योऽस्मान्द्वेष्टि यं चेति मन्त्रत्रयस्य[११६] याज्ञिक्यो० भूर्वाऽऽपो यजुः । द्वेष्यनाशार्थं जलक्षेपणे विनियोगः । 'दुर्मित्रास्त० भूयासुः' [इति] यस्यां दिशि द्वेष्यो भवति तस्यां दिशि क्षिपति । 'योऽस्मान्द्वेष्टि' इति द्वितीयम् । 'यं च वयं द्विष्मः' इति तृतीयम् । द्वेष्याभावे पाप्मानं मनसा ध्यायन्प्राच्यामेव दिशि क्षिपेत् । अथवा सुमित्रा न इत्यारभ्य वयं द्विष्म इत्यन्त एक एव मन्त्रस्तेन जलाभिमन्त्रणं कार्यम्[११७] । अस्मिन्पक्षे जलाभिमन्त्रणे विनियोग इति विनियोगवाक्ये विशेषः । ततः--यदपां क्रूरमित्यस्[११८]य याज्ञिक्यो० भूर्वाऽऽपो द्विपदा त्रिष्टुप् । निमज्जनार्थं जलदोषदूरीकरणे विनियोगः । 'यदपां क्रूरं य० तात्' इति निमज्जनं यत्र कर्तव्यं भवति तत्रत्यजलदोषं हस्ताभ्यामवलोडनेन दूरीकृत्य, 'सागरस्य तु निश्वासो० रेश्वर' इति नमस्कृत्य, अत्याशनादितिमन्त्रद्वयस्य[११९] याज्ञिक्यो० भूर्वा वरुणोऽनुष्टुप् । पठने विनियोगः। 'अत्याशनाद० लोकताम्' इति मन्त्रद्वयं पठित्वा शिखां विस्रस्य[१२०] पुरतः कृत्वा प्रवहज्जले प्रवाहाभिमुखः स्नानं कुर्यात् । नद्यभावेन जलाशयादौ स्नाने तु अर्काभिमुखः स्नायात् । सर्वत्राप्यर्काभिमुखमेव वा स्नानम् । एतत्त्रिरिति स्मृतिकाराः । यदि तु क्षुद्रनदीजलाशयादौ स्नानं तदा 'गङ्गे च यमुने चैव० संनिधिं कुरु । पुष्कराद्यानि० सदा मम' इति तीर्थान्यावाह्यानन्तरमत्याशनादिति मन्त्रद्वयं पठित्वा स्नानं कार्यमिति विशेषः । तत इमं मे गङ्ग इत्यस्य[१२१] याज्ञिक्यो० भूर्वा गङ्गादिनद्यो जगती । गङ्गादिनदीप्रार्थने विनियोगः । 'इमं मे गङ्गे य० सुपोमया' इति गङ्गादिनदीः संप्रार्थ्य, ऋतं चेति तृचस्य[१२२] याज्ञिक्यो० भूर्वाऽघमर्षणो वरुणोऽनुष्टुप् । प्राणायामे विनियोगः । 'ऋतं च स० सुवः' इत्युपांशु पठित्वा तदन्ते प्राणमायच्छेत् । एवमन्यौ द्वौ प्राणायामौ । अथवा निमग्नः सन्नेव मनसा सूक्तं पठन्प्राणायामं कुर्यात् । एवमन्यौ द्वौ प्राणायामौ । इत्यन्यतरकल्पेन प्राणायामं विधाय द्विराचम्य कर्मारम्भधृते पवित्रे त्यक्त्वाऽन्ये पवित्रे धृत्वाऽऽपो हि ष्ठेति मन्त्रत्रयस्य[१२३] याज्ञिक्यो० भूर्वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानः(न)सुवर्जनादयो देवताः । गायत्र्यनुष्टुप्त्रिष्टुबिति च्छन्दांसि । मार्जने विनियोगः । 'आपो हि ष्ठा० च नः । हिरण्यवर्णाः शुच० धत्त । पवमानः सुवर्ज० पुनातु' इति जलस्थः सपवित्रेण पाणिनैव तत्तन्मन्त्रसमुदायान्ते सर्वान्ते वा मार्जनं कुर्यात् । प्रतिमन्त्रं मार्जनमिति केचित् । ततो द्विराचम्य, यत्पृथिव्यामिति मन्त्रचतुष्टयस्य[१२४] याज्ञिक्यो० भूर्वा, ऋषिः । वरुणो देवता प्रथमस्यानुष्टुप् । द्वितीयस्य यजुः । तृतीयस्य द्विपदा गायत्री । चतुर्थस्य गायत्री । स्नाने विनियोगः । 'यत्पृथिव्या० मर्पणः १ पुनन्तु वसवो० गोप्ता २ एष पुण्य० रण्मयम् ३ द्यावापृथिव्यो० शिशाधि ४ इति सर्वमन्त्रान्ते स्नात्वा पुनर्द्विवारं तूष्णीं स्नात्वा, आर्द्रं ज्वलतीत्यस्य[१२५] याज्ञिक्यो० भूर्वा ज्योतिर्यजुः । आचमने विनियोगः । 'आर्द्रं ज्वलति० होमि स्वाहा' इतिमन्त्रावृत्त्या द्विराचम्य, अकार्यकारीत्यस्[१२६]य याज्ञिक्यो० भूर्वा वरुणोऽनुष्टुप् । रजो भूमिरित्यस्य[१२७] याज्ञिक्यो० भूर्वा वरुणो यजुः । स्नाने विनियोगः । 'अकार्यका० रजो भूमि०' इति द्वाभ्यां स्नानं कृत्वा तूष्णीं द्विराचामेत् । द्वाभ्यां मन्त्राभ्यां स्नानद्वयं वा । आक्रानित्यस्य[१२८] याज्ञिक्यो० भूर्वा परमात्मा त्रिष्टुप् । जपे विनियोगः । 'आक्रान्समुद्रः० इन्दुः' इति जपेत् । एतावत्कर्तुमशक्तौ तीर्थे शप्रार्थनदेवताप्रार्थन[१२९]मार्जनजलावलोडनपूर्वकं स्नानं कृत्वाऽऽघमर्षणेन प्राणायामानापो हि ष्ठादिभिर्मार्जनं च कृत्वा यत्पृथिव्यामित्यादीन्मन्त्रान्पठेत् । ततः शिखां बद्ध्वा ( [१३०]द्विराचम्य 'ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । अङ्गिरसस्तर्पयामि' इति देवतीर्थेन प्राङ्मुखो यज्ञोपवीती-- एकैकाञ्जलिना देवान्संतर्पयेत् । अशक्तौ) 'ब्रह्मादयो ये देवास्तान्देवांस्तर्पयामि । भूर्देवांस्तर्पयामि । भु[१३१]वो देवांस्तर्पयामि । सुवर्देवांस्तर्पयामि । भूर्भुवः सुवर्देवांस्तर्पयामि । इ[१३२]त्येवं तर्पयेत् । ततः--'विश्वामित्रं तर्पयामि । जमदग्निं तर्पयामि । इतिहासपुराणं तर्पयामि' इति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषींस्तर्पयेत् । अशक्तौ 'विश्वामित्रादयो य ऋषयस्तानृषींस्तर्पयामि । भूर्ऋषींस्तर्पयामि । भुव[१३३]र्ऋषींस्तर्पयामि । सुवर्ऋषींस्तर्पयामि । भूर्भुवः सुवर्ऋषींस्तर्पयामि' इ[१३४]त्येवं तर्पयेत् । ततः 'वैशम्पायनं तर्पयामि । पलिङ्गुं तर्पयामि । एकपत्नींस्तर्पयामि' इति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितॄंस्तर्पयेत् । अशक्तौ 'वैशम्पायनादयो ये पितरस्तान्पितॄंस्तर्पयामि । भूः पितॄंस्तर्पयामि । भुवः पितॄंस्तर्पयामि । सुवः पितॄंस्तर्पयामि । भूर्भुवः स्वः पितॄंस्तर्पयामि' इ[१३५]त्येवं तर्पयेत् । ततः 'ये के चास्मत्कुले० द्धनोदकम्' इति परिधानीय[१३६] वस्त्रं निष्पीड्य, यज्ञोपवीती-- 'यन्मया दूषितं० तर्पयाम्यहम्' इति यक्ष्मतर्पणं कृत्वा[१३७],
"ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् । |
इति नदीं क्षमाप्य स्वयमेव देहे शुष्के सति केशजले च स्रुते शु[१३८]ष्कं वस्त्रं त्रिरवधूयोदक्प्राग्वा विस्तार्य परिदध्यात् । परिहितमार्द्रं वस्त्रं नाभेरूर्ध्वमेवोत्तारयेत् । दक्षिणतः प्रत्यग्वा विस्तारणे तद्वस्त्रं न परिधेयम् । यदि परिधेयं प्रक्षाल्यैव परिधेयम् । ततस्तादृगेवोत्तरीयं शुष्काभाव आर्द्रमेव सप्तवारमवधूय परिधेयम् । ([१३९] उत्तरीयवस्त्रालाभे तृतीयमुपवीतं धार्यम् । तस्यापि सर्वथाऽभावेऽधरीयवस्त्रोत्त[१४०]रवर्ग एवोत्तरीयं वस्त्रं भवति । स्नानोत्तरं यावद्भोजनं शूर्पशय्यामार्जन्यादिस्पर्शे पुनः स्नानम् । पूजान्तर्गतोपचारभूतदीपप्रज्वालनव्यतिरिक्तकाले दीपस्पर्शेऽपि पुनः स्नानम् । ततो भस्मधारणम् । तद्विधिर्यथा--कपिलाया गोमयं गगने पतद्गृहीत्वा धरामसंस्पृशन्नेव सद्योजातमित्यानीय वामदेवाय नमो ज्येष्ठायेति मन्त्रेण धरायामसंस्थापयन्नेव पात्रे संशोष्याघोरेभ्योऽथ घोरेभ्य इति विनिर्दह्य तत्पुरुषायेति तद्भस्म समुद्धृत्य, ईशानः सर्वविद्यानामिति विशोध्य त्र्यम्बकं यजामह इत्यादायाऽऽपो हि ष्ठेतित्रिभिर्जलं तत्राऽऽनीय 'अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म, सर्व ह वा इदं भस्म, तस्माद्ब्रह्म, तदेतत्पाशुपतं पशुपाशविमोक्षायोम्' इत्येतैरेकादशवारमभिमन्त्र्य, 'ॐ सद्योजाताय नमः, नम्' इति भाले तर्जनीमध्यमानामाभिर्मध्यमानामाकनिष्ठाभिर्वा भाले भ्रूप्रान्तपर्यन्तं विलिप्य, 'ॐ वामदेवाय नमः, मम्' इति दक्षिणांसे विलिप्य 'ॐ अघोराय नमः, शिम्' इति वामस्कन्धे । 'ॐ तत्पुरुषाय नमः, वाम्' इत्युदरे । 'ॐ ईशानाय नमः, यम्' इति हृदये । 'ॐ नमः शिवाय' इति मन्त्रेण मूर्ध्नि विलिप्य हस्तौ प्रक्षालयेत् । पञ्चाक्षरेण मन्त्रेणैव वा सर्वत्र ललाटहृदयनाभिकण्ठांसद्वयबाहुद्वयकूर्परद्वयप्रकोष्ठद्वयपृष्ठशिरःसु भस्म लेपयेत् । कपिलाया गोमयं यदि तेन प्रकारेण ग्रहीतुं तस्य च समन्त्रकप्रकारेणाऽऽनयनादि च कर्तुं न शक्यते तदा सद्योजातादिपञ्चभिर्मन्त्रैरभिमन्त्रणमात्रं कार्यम् । श्रौताग्निमानौपासनाग्निमांश्च वा भवति चेत्तदा तदग्निजमेव भस्म गृहीत्वा सद्योजाताभिमन्त्रणादिविधिना धार्यम् ।) त[१४१]तो देवर्षिपितृपूजनं कुर्युः । तद्यथा--जलसमीप एव यज्ञोपवीतिनः प्राचीनप्रवणं देशं गोमयेनोपलिप्य परस्परं दातुमि(मनि)च्छन्त इव दर्भान्सव्यहस्तेन संप्रयच्छन्त उपलिप्ते प्राक्प्रवणे देशे दक्षिणहस्तेन सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मण आसनं कल्पयामि । प्र० नक्षत्रेभ्य आसनं कल्पयामि । एतदन्तेभ्यः संलग्नान्येवाऽऽसनानि कल्पयेयुः । सर्वत्राऽऽसनशब्दस्याप्रयोगो वा । ततः किंचिद्व्यवधानेनेन्द्राय राज्ञ आसनं कल्पयामि० वैश्रवणाय राज्ञ आसनं कल्पयामि, इत्यन्तेभ्यः संलग्नान्येवाऽऽसनानि कल्पयेयुः । अयं द्वितीयो गणः । ततः किंचिद्व्यवधानेन वसुभ्य आसनं कल्पयामि, रुद्रेभ्य आसनं कल्पयामीति द्वयोः संलग्ने एवाऽऽसने कल्पयित्वाऽप उपस्पृश्य, आदित्येभ्य आसनं कल्पयामीत्यादित्येभ्यो रुद्रासनसंलग्नमेवाऽऽसनं कल्पयित्वा विश्वेभ्यो देवेभ्य आसनं कल्पयामि० अङ्गिरोभ्य आसनं कल्पयामीत्यन्तेभ्यः परस्परसंलग्नान्येवाऽऽसनानि कल्पयेयुः । विश्वे(श्व)देवासनमादित्यासनसंलग्नमेव । ततो निवीतिनो देवानामुत्तरत उदीचीनप्रवणं देशं गोमयेनोपलिप्योदगग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति 'विश्वामित्रायाऽऽसनं कल्पयामि० वसिष्ठायाऽऽसनं कल्पयामि' इति । ततोऽरुन्धत्यर्थं स्थलमवशि(शे)ष्य कश्यपायाऽऽसनं कल्पयामीति--कश्यपायाऽऽसनं कल्पयित्वाऽवशेषिते स्थलेऽरुन्धत्या आसनं कल्पयामीत्यरुन्धत्यै वसिष्ठकश्यपासनसंलग्नमेवाऽऽसनं कल्पयित्वा देवेभ्यो दक्षिणत उपलिप्ते प्राचीनप्रवणे देशेऽगस्त्यायाऽऽसनं कल्पयामीति प्रागग्रमासनं कल्पयेयुः । ततोऽगस्त्यस्य दक्षिणतः प्राचीनप्रवणाद्यन्यतमे देशे चतुरश्रायामर्थपरिमाणायां वेद्यां प्रागग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । कृष्णद्वैपायनायाऽऽसनं कल्पयामि० इतिहासपुराणायाऽऽसनं कल्पयामीति संलग्नान्येवाऽऽसनानि कल्पयन्ति । केषुचित्सूत्रपुस्तकेषु वरूथिन इत्यनन्तरं वाजिन इत्यपि पाठः । अस्मिन्पाठे द्विपञ्चाशदृषयो ज्ञेयाः । रुद्रासनकल्पनोत्तरमुदकस्पर्शः । ततः प्राचीनावीतिनः कृष्णद्वैपायनादीनां दक्षिणतो दक्षिणाप्रवणं देशं गोमयेनोपलिप्य तत्र दक्षिणाग्रैः सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनायाऽऽसनं कल्पयामि० एकपत्नीभ्य आसनं कल्पयामीति संलग्नान्येवाऽऽसनानि कल्पयन्ति । अथाजीवपितृकाः-- अमुकशर्मणे पित्र आसनं कल्पयामि । अमुकशर्मणे पितामहायाऽऽसनं कल्पयामि । अमुकशर्मणे प्रपितामहायाऽऽसनं कल्पयामि । अमुकदायै मात्र आसनं कल्पयामि । अमुकदायै पितामह्या आसनं कल्पयामि । अमुकदायै प्रपितामह्या आसनं कल्पयामि । अमुकदायै सापत्नमात्र आसनं कल्पयामि । अमुकशर्मणे मातामहायाऽऽसनं कल्पयामि । अमुकशर्मणे मातुःपितामहायाऽऽसनं कल्पयामि । अमुकशर्मणे मातुःप्रपितामहायाऽऽसनं कल्पयामि । अमुकदायै मातामह्या आसनं कल्पयामि । अमुकदायै मातुःपितामह्या आसनं कल्पयामि । अमुकदायै मातुःप्रपितामह्या आसनं कल्पयामि । अमुकदायै स्त्रिया आसनं कल्पयामि । सापत्यत्वेऽमुकदायै सापत्यायै स्त्रिया आसनं कल्पयामि, इत्यूहः । अमुकशर्मणे पुत्रायाऽऽसनं कल्पयामि । अमुकशर्मणे पौत्रायाऽऽसनं कल्पयामि । अमुकशर्मणे पितृव्यायाऽऽसनं कल्पयामि । अमुकदायै पितृव्यपत्न्या आसनं कल्पयामि । अमुकशर्मणे पितृव्याय सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अस्मिन्कल्पे पृथक्पितृव्यपत्न्या आसनकल्पनं न । सापत्यत्वे सापत्यायेत्यपि । एवमग्रेऽपि । अमुकशर्मणे मातुलायाऽऽसनं कल्पयामि । अमुकदायै मातुलपत्न्या आसनं कल्पयामि । अमुकशर्मणे मातुलाय सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अमुकशर्मणे भ्रात्र आसनं कल्पयामि । अमुकदायै भ्रातृपत्न्या आसनं कल्पयामि । अमुकशर्मणे भ्रात्रे सपत्नीकायाऽऽसनं कल्पयामीत्येवं वा । अमुकदायै पितृष्वस्रे सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकदायै मातृष्वस्रे सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकदाया आत्मभगिन्यै सभर्तृकायै सापत्याया आसनं कल्पयामि । अमुकशर्मणे श्वशुराय सपत्नीकाय सापत्यायाऽऽसनं कल्पयामि । अमुकशर्मणे गुरवे सपत्नीकाय सापत्यायाऽऽसनं कल्पयामि, इति यथाधिकारं किंचिद्व्यवधानेन संलग्नान्येवाऽऽसनानि कल्पयेयुः[१४२] । शिष्याप्तसत्त्वेऽमुकशर्मणे शिष्यायाऽऽसनं कल्पयामि । अमुकशर्मण आप्तायाऽऽसनं कल्पयामीत्येवमेतयोरप्यासने कल्पयेयुः[१४३] । न वा स्त्र्यादयोऽत्र । ततः सर्वे--ब्रह्मणे नमः, ब्रह्माणमावाहयामीत्येवं तत्तन्नाममन्त्रैर्देव[१४४]र्षिपितॄनावाहयेयुः । आसनकल्पनाद्युपस्थानान्तेषु पदार्थेषूपवीतं देवानां निवीतमृषीणां प्राचीनावीतं पितॄणां ज्ञेयम् । ततो ब्रह्माणं तर्पयामीत्येवमूहितैस्तत्तन्नामम[१४५]न्त्रैरासनं समर्पयामीत्येवं कल्पितान्यासनानि समर्पयेयुः । अथ वाऽऽसनकल्पनमेव [१४६] वा समर्पणम् । अस्मिन्कल्प आसनकल्पनात्पूर्वमेवाऽऽवाहनं ज्ञेयम् । ततो ब्रह्मणे स्वाहेत्याद्यूहेनान्नेनार्चनम् । पितृष्वपि स्वाहाशब्द एव न स्वधाशब्दः । ततः पूर्वतर्पणवत्फलोदकेन तर्पणं कृत्वा ब्रह्मणे नमः प्रजापतये नम इत्याद्यूहेन ब्रह्मादीनेकपत्न्यन्तानुपस्थाय, अमुकशर्मणे पित्रे नम इत्याद्यूहेन तत्तन्नाम्ना सर्वान्पितॄनुपस्थाय सर्वान्विसर्जयेयुः । सर्वत्र रुद्रश[१४७]ब्द उदकस्पर्शः । सर्वोपचारसमर्पणाशक्तौ केवलसूत्रोक्ता एवोपचाराः समर्पणीयाः । ततोऽपरेण वेदिमुत्सर्जनाङ्गभूतहोमार्थं स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धननादिना संस्कृत्य सशिष्यत्वे श्रोत्रियागारादाहृतमग्निं बलवर्धननामानमग्निं प्रतिष्ठापयामीत्युक्तरीत्या प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । अशिष्यत्वे गृह्याग्निं गमनवेलायामेवारण्योः समारोपितं मथित्वा स्थण्डिले निधाय प्रज्वाल्य ध्यायेत् । समित्समारोपे तु श्रोत्रियागारादाहृतं लौकिकाग्निं स्थण्डिले निधाय प्रज्वाल्य ध्यायेत् पत्न्या सहैव गच्छेत् । ततः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादियज्ञोपवीतधारणान्तमुपाकरणवत्सर्वं कुर्यात् । तत्रोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः । ततः सर्व इषे त्वेत्यनुवाकमधीयन्ते(ते) काण्डादीन्वा पूर्ववत् । यद्यनारब्धवेदाः शिष्याः स्युस्तदा तान्वाचयेत् । उत्सर्जनात्पूर्वमेवेषे त्वेत्यनुवाकं काण्डादीन्वाऽध्यापयेदिति केचित् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य [१४८]उत्सृष्टा वै वेदाः । त्र्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्निं संपूज्य विभूतिं धारयेत् । ततः सर्वे जलसमीपं गत्वा, काण्डात्काण्डादितिद्वयोर[१४९]ग्निर्याज्ञिक्यो० यंभूर्वा दूर्वाऽनुष्टुप् । दूर्वारोपणे विनियोगः । 'काण्डात्काण्डात्प्र० वयम् । इति मन्त्रद्वयान्त एकैकां दूर्वां बह्व्यो वा(ह्वीर्वा) दूर्वा रोपयन्ति । ततो जलाशयं विलोडनेनोर्मिमन्तं कृत्वा जलाशयाद्बहिः प्राचीमुदीचीं वा दिशं यावद्बलं शीघ्रं धावनं कृत्वा गृहमागच्छेयुः । ततः सर्वेऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनै पूजनपूर्वकं ब्राह्मणान्भोजयेयुः । तत्रापूपाः प्रथमं परिवेषणीयाः । ततः सक्तवः । तत ओदनः । ततोऽन्यानि व्यञ्जनानि, इति परिवेषणे क्रमः । नैवात्र त्रिवृदन्नहोमः । ततः शिष्या आचार्याय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णुं स्मरेयुः । आचार्योऽपि यस्मै कस्मैचिद्ब्राह्मणाय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णुं स्मरेत् । आचारात्सर्वे सुवृष्ट्यर्थं पर्जन्यसूक्तानि पठेयुः । उत्सर्जनोत्तरं यावदुपाकर्म शुक्लपक्षेषु धारणाध्ययनं कृष्णपक्षेषु व्याकरणाद्यङ्गाध्ययनं च कुर्यान्न त्वपूर्ववेदाध्ययनम् । अथवा त्र्यहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादपूर्ववेदाध्ययनं कर्तव्यम् । उत्सर्जनस्योपाकरणदिवसेऽनुष्ठानेऽपि तन्त्रं नैव भवति । तयोर्ग्रहणत्यागरूपयोः स्वरूपविरोधात् । इत्युत्सर्जनप्रयोगः ।
अथ वेदपारायणोपाकर[१५०]णोत्सर्जने ।
तत्र सूत्रम्--"एवं पारायणसमाप्तौ दूर्वारोपणोदधिधावनवर्जम्" इति ।
एवमित्यतिदेशादविकृता वेदोपाकरणोत्सर्जनोक्ता धर्मा वेदपारायणोपाकरणे तत्समाप्तौ च कर्तव्याः । यद्यप्युत्सर्जनमेव संनिहितं तथाऽपि[१५१] ग्रहणं विना त्यागायोगात् 'उपाकरणोत्सर्जने व्याख्यास्यामः' इति सूत्रेणैतयोः संयुक्तत्व ख्यापनाच्चोपाकरणमप्यतिदिश्यते । तथा सति वेदोपाकरणरीत्या वेदपारायणोपाकरणं वेदोत्सर्जनरीत्या वेदपारायणसमाप्तिरिति । [१५२]नन्वेवं पारायण इति वक्तव्ये समाप्तावितिवचनं प्रक्रान्तपारायणस्य जननमरणकृताशौचेन प्रतिबन्धेऽनध्यायदिवसे च प्राप्तेऽप्यन्वहं पाठेन समाप्तेरावश्यकत्वबोधनार्थम् । तथा च बौधायनो वेदपारायणं प्रकृत्य 'नास्यान्तराऽनध्यायो नास्यान्तरा जननमरणे अशुची' इति ।
अस्य पारायणकर्मणो मध्येऽनध्यायो न । न चास्य मध्ये जन्ममरणे अशुचित्वहेतुभूते भवत इत्यर्थः । हस्तरोहिणीपौर्णमास्यात्मकः कालो नात्रातिदिश्यते । पारायणस्य काम्यत्वात् । त्र्यहमेकाहं वा क्षम्येत्येतदप्यत्र न प्रवर्तते । तस्य[१५३] क्षम्येत्यत्रत्यसमानकर्तृकक्रियार्थकक्त्वाप्रत्ययेन[१५४] यथाध्यायमध्येतव्यमित्युत्तरवाक्यविहिताङ्गत्वमेवावगम्यते । न तूपाकरणोत्सर्जनाङ्गत्वम् । उत्सर्जने तु दूर्वारोपणमुदधावूर्मिनिष्पाद[१५५]नं च साक्षान्निषेधादेवात्र न भवति[१५६] । उदधावूर्मिनिष्पादनसंबन्धधावनमपि न । स च संबन्धः क्त्वाप्रत्ययात् । इदं पारायणं काम्यम् । पापक्षयपुत्रधनधान्यस्वर्गाद्यैहिकामुष्मिकफलार्थतया बौधायनेन विहितत्वादकरणे प्रत्यवायाश्रवणाच्च । पारायणं नामाध्ययनधर्मपूर्वकं मन्त्रब्राह्मणयोरन्वहमविच्छिन्नपाठेन पारगमनम् । आरण्यकं तु ब्राह्मणमेव । आरण्यकसंज्ञा तु अरण्येऽध्येतव्यत्वाद्द्रष्टव्या । अत्र पुराणे कलशस्थापनं तत्र सविशेषं ब्रह्मपूजनं चोक्तम्--
"तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते । |
स्रग्धूपदीपताम्बूलैरक्षतैश्च पितामहम् । |
सुनिर्णिक्तः सुप्रक्षालितः । वाग्युतो वाचा सरस्वत्या युतः । ब्रह्मोपधाने ब्रह्मणः शिरस उपधानार्थं दत्त्वोपधानस्थाने स्थापयित्वेति यावत् । स्वस्त्ययनं ततः पठेत् । स्वस्तिशब्दमयतीतिव्युत्पत्त्या स्वस्तिशब्दघटितो मन्त्रः स्वस्त्ययनशब्देनोच्यते । तं मन्त्रं पठेदित्यर्थः[१५७] । अन्यत्स्पष्टम् । बौधायनसूत्रे दक्षिणादानश्रवणादृत्विग्द्वाराऽपि पारायणं भवति । पारायणस्य केनचिदन्येन कर्मणा वाग्जल्पेन वा पाठविच्छेदश्चेत्तदा प्राणायामाचमने कृत्वा प्रणवेन प्रतिसंधाय पठनीयम् । अनुवाकान्ते विरमणम् । पुनर्दिनान्तरे कृतनित्यक्रियः प्रणवेन प्रतिसंधाय पठेत् । तदुक्तं बौधायनेन--'नान्तरा व्याहरेन्नान्तरा विरमेद्यावदन्तमधीयीत यदन्तरा विरमेत्त्रीन्प्राणायामान्कृत्वाऽऽचम्य प्रणवेन प्रतिसंधाय यावत्कालमधीयीत' इति ।
उपक्रान्तवेदपारायणमध्ये न व्याहरेत् । नाध्यापयेत्तथा लौकिकवचनमपि न ब्रूयात् । विहितनित्यनैमित्तिककर्मानुपयुक्तामुक्तिं न कुर्यात् । नान्तरा प्रश्नमध्येऽनुवाकमध्ये वा विरमणं कुर्यात् । यद्यन्तरा कुर्यात्तदा त्रीन्प्राणायामान्कृत्वाऽऽचम्य प्रणवमुच्चार्य यत्र विरमणं कृतं तत आरभ्य पठेदिति सूत्रार्थः । अत्र पदच्छेदं कृत्वैव पठेत् । ।
'माधुर्यमक्षरव्यक्तिः परच्छेदस्तु सुस्वरः । |
इति पाणिनीयशिक्षावचनात् ।
अथ संहितायामेकप्राणभाव इतिप्रातिशाख्यसूत्रे[१५८]--एकप्राणेन भाव्यत उच्चार्यत इत्येकप्राणभावः । एकेनोच्छ्वासेन यावानुच्चार्यते वेदभागस्तावानेकप्राणभाव इत्यर्थः । अत एवावसाने पदविधि[१५९]रिति तद्भाष्यकृतोक्तत्वाच्च । एतच्च ग्रहणाध्ययनधारणाध्ययनब्रह्मयज्ञेष्वपि ज्ञेयम् । संकल्पमारभ्योत्सर्जनसमाप्त्यन्तं पारायणम् । तत्र संकल्पोत्तरं कर्तुर्वरणोत्तरमृत्विजश्चास्मिन्कर्मण्याशौचादि नास्तीत्युक्तमेव । ऋत्विक्कर्तृके पारायणे सुवर्णं गां वा दक्षिणां दद्यात् । स्वकर्तृकेऽपि यथाशक्ति ब्राह्मणेभ्यो दक्षिणा देयैव । ऋत्विक्कर्तृके पारायणे होमोऽपि तत्कर्तृक एव । तस्य पारायणाङ्गत्वात् । भिन्नकर्तृकेषु बहुषु पारायणेषु होमास्तत्कर्तृका भिन्ना एव । बहूनामेकं पारायणं न भवति । कृत्स्नपारायणस्य पुरुषं प्रत्युपदेशात् । एक एव यदा फलार्थतया बहूनि करोति तदा तानि मनसाऽवधार्य पारायणोपाकरणानि तन्त्रेण करिष्य इति संकल्पं कुर्यात् । एवं वेदपारायणोत्सर्जनानि तन्त्रेण करिष्य इत्युत्सर्जनसंकल्पोऽपि । उभयोर्होमोऽपि सकृदेव नाऽऽवृत्तिः । संप्रतिपन्नदेवताकत्वात् । कामनाभेदे सत्येककर्तृकाणामपि तन्त्रं[१६०] न भवति । तत्फलार्थं साङ्गस्यैव विधानात् ।
अथ प्रयोगः ।
कर्ता कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वशाखात्मकवेद[१६१]पाराय[णोपाकर]णं करिष्य इति संकल्पं कुर्यात् । पुत्रादिकामनायां तु पुत्रकामनासिद्धिद्वारा धनकामनासिद्धिद्वारा धान्यकामनासिद्धिद्वारा स्वर्गकामनासिद्धिद्वारेत्यादि यथायथमूहः । वेदान्तरपारायणेऽपि स्वीयमेव तन्त्रम् । वेदान्तरपारायणं तु स्ववेदपारायणं विना न भवति । ततस्तदङ्गं गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च कुर्यात् । ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहममुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणं वेदपाराय[णोपाकर]णार्थमृत्विजं त्वां वृण इत्यृत्विग्वरणं मधुपर्कं च कुर्यात् । ततः पारायणकर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा वृतोऽहमृत्विक्कर्म करिष्य इति संकल्प्य स्थण्डिलकरणादि बलवर्धननामानमग्निं प्रतिष्ठापयामीति लौकिकाग्निस्थापनं कुर्यात् । यजमानकर्तृके पारायणे तु गृह्याग्निमेव बलवर्धननामाऽयमग्निरिति ध्यायन्प्रज्वालयेत् । ततोऽग्निं ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वेदपारायणोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्हुत्वा जयोपहोमादि सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः । ततो मही द्यौरित्यादिविधिना सुदृढं कलशं सुप्रक्षालितं पुष्पपल्लवमालाचन्दनकुङ्कुमादिभूषितं चतुरश्रायां हस्तायामविस्तारायां हस्तोच्छ्रायायां मध्यस्थितयवसंमिश्रमृत्तिकायां वेद्यां संस्थाप्योत्तराग्रकुशकृतं वत्सजान्वाकृतिवेदं ब्रह्मणः शिरउपधानत्वेन कलशे परिकल्प्य, स्वस्ति न इन्द्र इत्यस्य[१६२] याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वेन्द्रादयस्त्रिष्टुप् । पठने विनियोगः । 'स्वस्ति न इन्द्रो० तिर्दधातु' इति पठेत् । तत ऊर्ध्वाग्रपञ्चाशत्कुशनिर्मितं कूर्चं प्रत्यगग्रं निधाय तत्र ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने विनियोगः 'ब्रह्म जज्ञानं प्रथ० विवः' इति सरस्वतीयुतब्रह्मावाहनं कुर्यात् । वेदात्मनायेति ब्रह्मगायत्र्या वा । अ[१६३]स्या याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा ऋषिः । ब्रह्मा देवता । गायत्री छन्दः । इत्यृष्यादिविनियोगवाक्यं प्राग्वत् । ततो नर्य प्रजामिति प्रतिष्ठाप्याऽऽसनपाद्यार्घ्याचमनीयस्नानवस्त्रद्वययज्ञोपवीतद्वयचन्दनकुङ्कुमाक्षतालंकारपुष्पपुष्पमालाधूपदीपनैवेद्य[१६४]फलताम्बूलदक्षिणाप्रदक्षिणानमस्कारात्मकैरुपचारैः समभ्यर्च्य गुरुं संपूज्य ब्राह्मणान्संपूज्य विष्णुं स्मरेत् । अत्र वा ब्रह्मपूजनम् । गुरोरसांनिध्ये तमुद्दिश्य प्रणामः कार्यः । ततो दर्भासनोपविष्टो दर्भपाणिः प्राड्मुख उपविश्याऽऽचम्य प्राणानायम्य प्रणवमुच्चार्य वाग्यत इषे त्वेत्यादिकं यथापाठं साङ्गं वेदपारायणमारभेत्(त) । प्रश्नान्तेऽनुवाकान्ते वा विरमेत् । प्रत्यहं प्रहरद्वयपर्यन्तं यावत्पारायणं भवति तावत्कर्तव्यम् । अतित्वरायां सार्धप्रहरद्वयपर्यन्तम् । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कुर्यात् । द्वितीयदिने पूर्वीं शान्तिं कृत्वा कृतान्तादारभेत्(त) । कर्मसमाप्त्यन्तं ब्रह्मचर्यमधःशयनं स्वल्पं हविष्याशनं च कार्यम् । शक्तौ सत्यामुपोषणं ब्रह्मपूजनं च प्रत्यहम् । कर्मसमाप्त्यन्तं पतितरजस्वलादिसंभाषणं तत्समक्षमध्ययनं च न कुर्यात् । 'आ समाप्तेर्नाश्नीयाद्यथाशक्ति वाऽपः[१६५] पयः फलान्योदनं हविष्यमात्रमल्पं भुञ्जीत नोपरि शयीत न मैथुनं चरेत्पतिताद्यैर्न संभाषेत नैतत्समीपेऽधीयीत' इतिबौधायनोक्तेः[१६६] । ऋत्विक्कर्तृके पारायणे पारायणकारयित्राऽपि नियमाः कार्या एव । इति वेदपारायणोपाकरणप्रयोगः ।
अथ वेदपारायणोत्सर्जनप्रयोगः ।
पारायणकर्ता समाप्ते पारायणे प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यापां समीपे शुचौ देश उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मया कृतस्य वेदपारायणस्य साङ्गतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदपारायणोत्सर्जनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । यदा तु स्वकर्तृकमेव पारायणं तदा गृह्याग्नौ होमस्य कर्तव्यत्वात्तदर्थं गमनवेलायामेव पूर्ववदग्निं समारोप्य तेन सहैव गच्छेत् । ततस्तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं[१६७] च कुर्यात् । तत ऋत्विक्पूर्वोक्तरीत्या स्नानविधिं देवर्षिपितृपूजनं च कुर्यात् । अत्र परस्परं दर्भप्रदानं नास्त्यन्यस्यैवाभावात् । बहुषु पारायणेषु यदि बहवः कर्तारस्तदाऽपि न दर्भदानम् । भिन्नकर्मसंबद्धेष्वृत्विक्षु संप्रदानत्वायोगात् । ततोऽपरेण वेदिमग्निमुपसमाधायेत्यादि प्राणायामान्तं कृत्वा वेदपारायणोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्हुत्वा जयोपहोमादि सर्वं होमशेषं समापयेत् । नैवात्र त्रिवृदन्नहोमः । दूर्वारोपणमुदधावूर्मिष्पादनमाजिधावनं च नास्ति । ततो ब्रह्माणं संपूज्य विसर्जयेत् । ततो यजमान ऋत्विग्द्वारा पारायण ऋत्विजे सुवर्णगोदानवस्त्ररथाद्यन्यतमां यथाविभवं दक्षिणां दत्त्वाऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनैर्ब्राह्मणान्पूजनपूर्वकं भोजयित्वा भूयसीं दक्षिणां दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा लौकिकाग्नौ होमश्चेत्तमग्निं गच्छ गच्छेति विसृज्य प्रमादादिति विष्णुं स्मरेत् । इति वेदपारायणोत्सर्जनप्रयोगः ।
अथ नित्यस्नानतर्पणे ।
तत्र सूत्रम्--"नित्यमेवं स्नात्वाऽद्भिर्देवानृषीन्पितॄंश्च तर्पयन्ति तर्पयन्ति" इति ।
नित्यं सदा, एवमुत्सर्जनोक्तस्नानविधिना स्नात्वाऽद्भिस्तत्तत्तीर्थैर्यज्ञोपवीतित्वादिभिस्तत्तद्धर्मैर्देवानृषीन्पितॄंश्च प्रातःस्नानोत्तरं मध्याह्नस्नानोत्तरं च तर्पयन्तीत्यर्थः । एवं ब्रह्मयज्ञादनन्तरं तत्राकृतं चेन्मध्याह्नसंध्योत्तरं वा । तर्पयन्तीतिद्विरुक्तिः प्रश्नसमाप्तिद्योतनाय ।
अथ तर्पणीयपितरः ।
"ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं |
तातत्रितयं कर्तुः पितृपितामहप्रपितामहाः । अम्बात्रितयं मातृपितामहीप्रपितामह्यः[१६८] । सपत्नजननी सपत्नमाता । मातामहादित्रयं स्पष्टम् । सस्त्रि मातामहीमातुःपितामहीमातुःप्रपितामहीसहितम् । तेनात्र मातामहं सपत्नीकं स्वधा नमस्तर्पयामीत्यादिप्रयोगो द्रष्टव्यः । तत्स्त्रीतिपाठे पृथगेव मातामह्या दीनां तर्पणम् । स्त्री भार्या । तनयादीत्यादिपदेन पौत्रादिग्रहणम् । भ्रातृशब्दस्य तातजननीशब्दयोरप्यन्वयः । तेन तातभ्रातरो जननीभ्रातरः स्वभ्रातर इत्यर्थो भवति । तत्स्त्रियस्तेषां तातभ्रातृजननीभ्रातृस्वभ्रातॄणां स्त्रिय इत्यर्थः । सस्त्रिय इतिपाठे स्त्रीसहिता इत्यर्थः । स्त्री[१६९]ति स्त्र्यपत्ययोरुपलक्षणम् । तेन पितृव्यं सपत्नीकं सापत्यं स्वधा नमस्तर्पयामीति प्रयोगः । एवं मातुलभ्रात्रोरपि । ताताम्बात्मभगिनी(नि) तातभगिनी, अम्बाभगिनी, आत्मभगिनी, तद्भर्तारस्तदपत्यानि च । तातभगिनीं सभर्तृकां सापत्यां स्वधा नमस्तर्पयामीति प्रयोगः । एवं मातृभगिन्यात्मभगिन्योरपि । जायापिता श्वशुरः । अन्यत्स्पष्टम् ।
अथ तर्पणविधिः ।
तत्र वसिष्ठः--
"ऋक्सामाथर्ववेदोक्ताञ्जप्यान्मन्त्रान्यजूंषि च । |
बृहस्पतिरपि--
"ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्यां चाऽऽध्यात्मिकीं जपेत् । |
विष्णुपुराणेऽपि--
"शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ॥ |
स्नातः शुचिवस्त्रधरः इत्यन्वयः
व्यासः--
"एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः । |
सनकादय इति स्वस्वशाखोक्तर्ष्युषलक्षणम् । स्त्रीष्वपि विशेषः स्मृत्यन्तरे--
"मातृमुख्याश्च यास्तिस्रस्तासामप्यञ्जलित्रयम् । |
मातामह्यादीनामप्यञ्जलित्रयं देयम् । तथा च स्मृतिः--
"मातृमुख्याश्च यास्तिस्रो मातामह्यादयश्च याः । |
आग्नेयपुराणे--
"प्रागग्रेषु सुरांस्तर्पेन्मनुष्यांश्चैव मध्यतः ॥ |
अत्राञ्जलिसंख्या यथाशाखं व्यवतिष्ठते । यत्र संख्यानियमो न श्रूयते तत्र विकल्पः । उशना--
"द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् । |
ब्रह्मपुराणे--
"कुशाग्रेषु सुरांस्तर्पेन्मनुष्यांश्चैव मध्यतः । |
आग्नेयपुराणे--
"सव्येन देवकार्याणि वामेन पितृतर्पणम् । |
सव्येनोपवीतेन । वामेन प्राचीनावीतेन । तथा च शङ्खलिखितौ--
"उभाभ्यामपि हस्ताभ्यां प्राङ्मुखो यज्ञोपवीती |
विष्णुरपि--
"ततः कृत्वा निवीतं तु यज्ञसत्रमुदङ्मुखः । |
मनुष्यानृषीन् । ([१७०]कनिष्ठाङ्गुलेर्मूलप्रदेशः प्राजापत्यं तीर्थम् । अञ्जलेस्तर्पणकरणत्वकल्पे कनिष्ठाद्वयमूलप्रदेशः प्राजापत्यं तीर्थम् । स्वल्पाङ्गुल्योर्मूले कार्यमिति कोशे द्विवचननिर्देशात् ।
पुलस्त्यः--
"अन्वाच्य दक्षिणं जानुं प्रागग्रैस्तु कुशैर्द्विजः । |
गोभिलः--
"देवान्संतर्पयन्प्राज्ञो दक्षिणं जानु भूतले । |
- बौधायनः--
"अथ दक्षिणामुखः प्राचीनावीती |
य[१७१]स्तु--
"उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छति । |
इति व्याघ्र[१७२]पादुक्तो निषेधः [स] श्राद्धसमयार्घ्यादिविषयः ।
अत एव कार्ष्णाजिनिः--
"श्राद्धे विवाहकाले च पाणिनैकेन दीयते । |
"अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । |
इति सव्यपाण्यन्वारब्धदक्षिणपाणिना तर्पणमुक्तम् । तेन विकल्पः ।
तथा च वसिष्ठः--
"एकेन वाऽथ हस्तेन देवर्षिपितृतर्पणम् । |
न क्रुद्धो नैकपाणिना' इति गोभिलोक्तनिषेधस्त्वनन्वारब्धपाणिविषयः । एकहस्तेन तर्पणमाश्वलायनविषयम् । 'अनादेशे दक्षिणं प्रतीयात्' इति परिभाषासूत्रात् । अञ्जलिस्त्वन्यविषय इति केचित् । अन्ये तु--अनादेशे दक्षिणं प्रतीयादिति सूत्रोक्तकर्मसु हस्तकरणेषु हस्तानादेशे दक्षिणहस्तः करणत्वेन ज्ञेयः । तेन तर्पणे फलार्थविहितसुवर्णखड्गपात्रादिकरणत्वे हस्तस्याकरणा(णत्वा)न्न दक्षिणहस्तनियम इति तद्विषयकोऽप्यञ्जलिविधिः । एवं स्नानाङ्गश्राद्धाङ्गतर्पणविषयोऽपि । हस्तकरणकः(क) ब्रह्मयज्ञोत्तरतर्पणं तु सव्यान्वारब्धदक्षिणहस्तेनैवेत्याहुः ।) एतच्च तर्पणं स्थलस्थो न जले कुर्यात् ।
तथा च गोभिलः--
"नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । |
अतः स्थलस्थो भूमावेव तर्पणं कुर्यान्न जलादौ ।
तथा च विष्णुः--
"स्थले स्थितो जले यस्तु प्रयच्छेदुदकं नरः । |
स्मृत्यन्तरे--
"आर्द्रवासा देवर्षिपितृतर्पणमम्भस्येव |
अत्र विशेषमाह हारीतः--
"वसित्वा वसनं शुष्कं स्थले विस्तीर्णबर्हिषि । |
यत्तु कार्ष्णाजिनिनोक्तम् 'देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम्' इति, तदशुचिस्थलविषयम् । तदाह विष्णुः--
"यत्राशुचि स्थलं चेत्स्यादुदके देवताः पितॄन् । |
पात्रे विशेषमाह पितामहः--
"हेमरूप्यमयं पात्रं ताम्रकांस्यसमुद्भवम् । |
मरीचिः--
"सौवर्णेन च पात्रेण ताम्ररौप्यमयेन(ण) वा । |
( [१७५] अत्र तृतीयानिर्देशात्करणपात्राणि, पितामहवाक्ये त्वधिकरणपात्राणीति जीर्णाः । पितामहवाक्यस्य मरीचिवाक्येनोपसंहारादेतेषां करणत्वमेव । अधिकरणपात्रस्य निषेधः । अत्र स्वर्णादिपात्राणां निरपेक्षकरणत्वात् । इति नवीनाः । ब्राह्मादितीर्थबाध इति मैथिलाः । समुच्चय इति केचित् ।)
रिक्तहस्तेन न कुर्यादित्याह स एव--
"विना रौप्यसुवर्णेन विना ताम्रतिलैस्तथा । |
अन्यच्च स एव हेमाद्रौ--
"हिमेन सह यद्दत्तं क्षीरेण मधुनाऽथवा । |
निहितं(हिमं) कर्पूरं चन्दनं वेति हेमाद्रिः ।
स्मृत्यन्तरे--
"खड्गमौक्तिकहस्तेन कर्तव्यं पितृतर्पणम् । |
([१७६] मणिः सौवर्णो न तु नीलादिः ।
"नीलगोमेदवज्रादिहस्तो नैव तु तर्पणम् । |
"तर्पणादीनि कार्याणि पितॄणां यानि कानिचित् । |
अत्र तर्पणाङ्गत्वेन विधानाद्धारणदर्भापेक्षात एतेषां भेदः । तेन खड्गपात्रादिभिस्तर्पणे तन्मध्ये प्रागग्रादिदर्भान्तरनिधानं तिलप्रक्षेपश्चेति संप्रदायविदः । नवीनास्तु मरीचिवाक्ये दर्भादिपदोत्तरतृतीयाया उपपदविभक्तितया कारकविभक्तित्वाभावान्न दर्भाणां तर्पणाङ्गत्वं किंतु सामान्यतःप्राप्तसर्वाङ्गत्वानामशुद्धस्थलसंस्कारकत्वेन वा प्राप्तानां दर्भाणां विन्यासविशेषविधानार्थोऽयमनुवादः । तेन धारणदर्भापेक्षया दर्भान्तरग्रहणमित्याहुः । न चात्र समुच्चयः, नापि समविकल्प इत्यभिप्रेत्याऽऽह मरीचिः--
"तिलानामप्यभावे तु सुवर्णरजतान्वितम् । |
([१७७] अनेन मन्त्रावश्यकत्वमुक्तं भवति । अत एव जाबालिः--
"सुवर्णं रजतं दर्भान्यथालाभं प्रयोजयेत् । |
गौतमः--
"कुशानामप्यलाभे तु काशा दूर्वा अथापि वा । |
अत्र विशेषमाह प्रजापतिः--
"तर्पणादीनि कार्याणि पितॄणां यानि कानिचित् । |
भृगुः--
"प्रागग्रैस्तर्पयेद्देवानुदगग्रैस्तु मानुषान् । |
तानेवेति देवतर्पणविनियुक्तानामपि तेषां पितृतर्पणयोग्यतेत्युक्तमिति हेमाद्रिः ।) तिलग्रहणे विशेषमाह योगयाज्ञवल्क्यः--
"यद्युद्धृतं निषिञ्चेत्तु शिलान्संमिश्रयेज्जले । |
अन्यथाऽनुद्धृतेन तर्पणे । सव्येन तिला ग्राह्या इत्येतदलोमकप्रदेशाभिप्रायम् । तथा च देवलः--
"रोमसंस्थं तिलान्कृत्वा यस्तु तर्पयते पितॄन् । |
"शुक्लैस्तु तर्पयेद्देवान्मनुष्याञ्छबलैस्तिलः । |
शबलः कर्बुरवर्णश्चित्रवर्ण इति यावत् । 'चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे' इत्यमरात् । तेन शुक्लान्कृष्णान्धूसरांश्च तिलान्मिश्रयित्वा तैर्मनुष्यांस्तर्पयेदित्यर्थः । कूर्मपुराणे--
"देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः । |
स्मृत्यन्तरे--
"अद्भिस्तण्डुलमिश्राभिर्देवानां तर्पणं चरेत् । |
पितृतर्पणप्रकारमाह पैठीनसिः--
"स्वनामगोत्रग्रहणं पुरुषं पुरुषं प्रति । |
([१७८] ब्रह्माण्डपुराणे--
"अञ्जलिद्वितयं दद्याद्देवान्संतर्पयन्बुधः । |
बौधायनः--
"जलाञ्जलित्रयं दद्याद्ये चान्ये संस्कृता भुवि । |
अत्र यथास्वशाखं व्यवस्था वेदितव्या । येषां तु शाखिनामेवाऽऽम्नानं तेषां विकल्प इति हेमाद्रिः । ) योगयाज्ञवल्क्योऽपि--
"सवर्णेभ्यो जलं देयं नासवर्णेभ्य एव च । |
अनुपूर्वशः पित्रादिक्रमेण । अत्र मदनपारिजातः--यद्यप्यसवर्णेभ्य इत्यविशेषेणोपादानं कृतं तथाऽप्युत्तमवर्णेन हीनवर्णोद्देशेन न कार्यम् । होनवर्णेनोत्तमवर्णोद्देशेन कृते न दोषः । यतस्तद्वर्णतापत्तिर्दोषत्वेनाभिहिता स्मृतिषु । हीनस्योत्कृष्टत्वं न दुष्टम् । उत्कृष्टस्य हीनत्वं तु दुष्टमेव । सवर्णशब्दो मूर्धा भिषिक्तादिजातीनामुपलक्षणार्थः । यद्यप्यसवर्णसापत्नमातृभ्रात्रादयोऽप्यसवर्णास्तथाऽपि तर्पणं कार्यमेव ।
"पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तद्दु- |
यत्र च समत्वापादनं तत्र मुख्यापेक्षया किंचिन्न्यूनता भवतीति नात्र तत्प्राधान्यम् । अपि तु स्वसंनिहितसवर्णतर्पणानन्तरमेव तत्तर्पणमिति विवेकः । ननु सुमन्तुवचनेऽपि सवर्णानामेव मात्रादिसाम्यं भवतु मा नाम भूदसवर्णानामिति चेन्न । तथा सति पितृपत्न्यः सर्वा मातर इति न ब्रूयात् । उपात्तश्च सर्वशब्दो न तु पितृपत्न्य एव । अतः सर्वशब्दासंकोचाय पूर्वोक्त एक युक्तः पक्षः । एतेन भीष्मतर्पणमपि ब्राह्मणस्य निषिद्धमित्युक्तं भवतीत्याह । ([१७९] एतस्मादेव मदनपारिजातग्रन्थात्सपत्नभ्रातृमातुलमातृष्वसॄणामपि तर्पणोद्देश्यतायामवगतायामुपलक्षणतया सपत्नपितृव्यादीनामप्युद्देश्यता द्रष्टव्येति केचित् । सापत्नपितामह्यादीनां पितामहीत्वादिना न तर्पणम् । बन्धुत्वेन तर्पणे न दोष इति गागाभट्टाः ।) नामग्रहणे विशेषमाह बौधायनः--
"शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्त्रियस्य तु । |
गोत्रे विशेषमाह स एव--
"चतुर्णामपि वर्णानां पितॄणां पितृगोत्रतः । |
जीवत्पितृकस्य नित्यतर्पणनिषेधमाह कार्ष्णाजिनिः--
"न जीवत्पितृकः कुर्यान्मात्रादीनां तु तर्पणम् । |
जीवत्पितृककर्तृकतर्पणे विशेषमाह योगयाज्ञवल्क्यः--
"कव्यवाडनलः सोमो यमश्चैवार्यमा तथा । |
"अपसख्यं द्विजाग्ज्याणां पित्र्ये सर्वत्र कीर्तितम् । |
तिथ्यादिविशेषेण तिलतर्पणं निषेधति मरीचिः--
"सप्तम्यां रविवारे च गृहे जन्मदिने तथा । |
अत्राधिकारिविशेषश्रवणाद्भृत्यपुत्रकलत्रकामस्यैवायं निषेधः, न तु विधुरापुत्रादेरिति नवीनाः ।
ब्रह्मपुराणेऽपि--"संध्ययोर्निशि सप्तम्यां न कुर्यात्तिलतर्पणम्" इति ॥
बौधायनोऽपि--
"सप्तम्यां रविवारे च जन्मर्क्षदिवसेषु च । |
तथैव मासपर्यन्तमित्यर्थः ।
स्मृत्यन्तरे--
"नन्दायां भार्गवदिने कृत्तिकासु मघासु च । |
भविष्ये--
"भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च । |
स्मृत्य[१८५]न्तरे--
"सप्तम्यां रविवारे च मातापित्रोः क्षयेऽहनि । |
"द्वादश्यां निशि सप्तम्यां रविशुक्रदिने तथा । |
सर्वेऽपि निषेधास्तिलमात्रपरा न तु नित्यतर्पणपरा अन्यथा तिलपदवैयर्थ्यापत्तेः । ([१८७] अत्र[१८८] होम(महे)शादयः--सर्वे तिलतर्पणनिषेधा गृहविषयाः ।
"सप्तम्यां रविवारे च जन्मर्क्षदिवसोत्सवे । |
इति सत्यव्रतेन निषिद्धदिनेषु बहिस्तिलतर्पणविधानादित्याहुः । अन्ये तु--गृहस्य पृथगेव तिलतर्पणनिषेधनिमित्ततेति सर्वदैव सतिलं तर्पणं गृहे निषिद्धमिति व्याचक्षते । अपरे तु गृहेऽपि तिलोदकेन शिष्टानां तर्पणाचारदर्शनात्सत्यव्रतोक्तः सप्तम्यादिकालत्रय एव गृहे सतिलतर्पणनिषेधः स्वारसिको नतु सर्वदा नापि निषिद्धकालान्तरे । उपलक्ष[ण]त्वे प्रमाणाभावात् । अन्यथा प्रतिप्रसववाक्यानां गृह एव तर्पणविधानेना(ता)त्पर्यं वक्तव्यमिति महदनिष्टम् ।
तथा हि--
"अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च । |
तथा--
"उपरागे पितुः श्राद्धे पातेऽमायां च संक्रमे । |
इत्यादिवचनैर्भवन्मते गृहे निषिद्धतर्पणस्य पुनः प्रापणेन संनिहितेऽपि महातीर्थे गृह एव तर्पणं स्यात् । किंच जाह्नव्या[१८९]दौ निषेधस्याप्राप्तत्वात्
"विशेषतस्तु जाह्नव्यां सर्वदा तर्पयेत्पितॄन् । |
इति स्कान्दाद्युक्ता(क्त)प्रतिप्रसवोऽप्यनुपपन्नः स्यादित्याहुः ।)
तर्पणनिषेधप्रतिप्रसवमाह गोभिलः--
"संक्रान्त्यादिनिमित्तेषु स्नानाङ्के तर्पणे तथा । |
मरीचिः--
"तिथितीर्थविशेषेषु ग[१९१]ङ्गायां प्रेतपक्षके । |
बौधायनोऽपि--"तिथितीर्थविशेषेषु कार्यं प्रेते च सर्वदा" इति ।
तिथिविशेषोऽष्टकाकपिलषष्ठ्यादिः । तीर्थविशेषशब्देन यस्य तीर्थस्य समीपे निवसति तद्व्यतिरिक्तं तीर्थं ग्राह्यम् । अन्यथा तीर्थ इत्येतावतैव सिद्धौ विशेषपदवैयर्थ्यापत्तेः । एतच्च गङ्गातिरिक्तपरम् । तस्याः पुनर्ग्रहणात् । गयायामितिपाठाङ्गीकारे तु गङ्गासमीपवासिनामपि निषेधोऽस्त्येव ।
जीवत्पितृकस्य कृष्णतिलतर्पणं निषेधति व्यासः--
"मुण्डनं पिण्डदानं च प्रेतकर्म च नित्यशः ॥ |
पिण्डदाने प्रेतकर्मविषये च प्रतिप्रसवः श्राद्धप्रकरणे द्रष्टव्यः । सति संभवे काण्डर्षितर्पणमपि कार्यम् । उक्तं च काण्डानुक्रमणिकायाम्--
"अथ काण्डऋषीनेतानुदकाञ्जलिभिः शुचिः । |
अवसानाञ्जलिमाह कात्यायनः[१९२]--
"ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत्त |
आदित्यपुराणे[१९३]ऽपि-
"यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् । |
मत्स्यपुराणेऽपि--
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः । |
विस्तरेण कर्तुमसमर्थस्य संक्षेपेण तर्पणमुक्तं स्मृत्यन्तरे--
"आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । |
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । |
प्रकारान्तरमुक्तं विष्णुपुराणे--
"आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् । |
यमतर्पणं तु[१९५] वृद्धमनुनोक्तम्--
"दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम् । |
एतत्प्रकारस्तु स्कन्दपुराणे निरूपितः--
"दीपोत्सवचतुर्दश्यां सव्येन यमतर्पणम् । |
सव्यपक्षे प्राङ्मुखता देवतीर्थं तण्डुला यवा वा । अपसव्यपक्षे दक्षिणाभिमुखता पितृतीर्थं तिला इति द्रष्टव्यम् । एवं कुर्वतः फलमाह यमः--
"यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम् । |
कृष्णचतुर्दशीमित्यनन्तरं प्राप्येति शेषः । माघशुक्लाष्टम्यां भीष्मतर्पणम् । तदुक्तं व्यासेन--
"शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम् । |
मन्त्रस्तु प्रयोगे वक्ष्यते । एतच्च ब्राह्मणस्य न भवतीति मदनपारिजाते । तर्पणप्रशंसा पुराणे दर्शिता--
"एवं यः सर्वभूतानि तर्पयेदन्वहं द्विजः । |
"देवताश्च पितॄंश्चैव मुनीन्वा यो न तर्पयेत् । |
योगयाज्ञवल्क्योऽपि--
"नास्तिक्याद्यो नरस्तांस्तु न तर्पयति वै पितॄन् । |
हारीतोऽपि--
"देवाश्च पितरश्चैव काङ्क्षन्ति सरितां जलम् । |
कात्यायनोऽपि--
"छायां यथेच्छेच्छरदातपार्तः पयः पिपासुः क्षुधितोऽलमन्नम् । |
अत्र पितृगाथा--
"अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् । |
यद्यप्येतस्माद्वचनादुदके तर्पणं प्रतीयते तथाऽपि पूर्वोदाहृतगोभिलादिवचनानुरोधादशुचिस्थलविषयं द्रष्टव्यम् । यत्तु वृत्तिकृता जले तर्पणमुक्तं तदप्येतद्विषयमेव । तर्पणानन्तरं वस्त्रनिष्पीडनं कर्तव्यम् । तदाह योगयाज्ञवल्क्यः--
"यावद्देवानृषींश्चैव पितॄंश्चापि न तर्पयेत् । |
बृहत्पराशरोऽपि--
"निष्पीडयेत्स्नानवस्त्रं तिलदर्भसमन्वितम् । |
निष्पीडनं स्थले कार्यम् । तदुक्तं स्मृत्यन्तरे--
"वस्त्रनिष्पीडितं तोयं श्राद्धे चोच्छिष्टभोजिनाम् । |
स्मृतिमञ्जर्याम्--
"जलमध्ये यदा कश्चिद्ब्राह्मणो ज्ञानदुर्बलः । |
"द्वादश्यां पञ्चदश्यां च संक्रान्तौ श्राद्धवासरे । |
भृगुः--
"एकादश्याममायां च मातापित्रोः क्षयेऽहनि । |
तथा--
"धौतवस्त्रं प्रपीड्येत ऊर्ध्वपल्लवसंयुतम् । |
विष्णुपुराणे--"आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम्" इति ।
एतन्मन्त्रस्तु प्रयोगे वक्ष्यते ।
अथ प्रयोगः ।
कर्ता प्रातरुत्थानादिदन्तधावनान्तं नित्यविधिं कृत्वा स्नानसामग्रीं गृहीत्वा जलसमीपं गत्वोद्धृतजलेन मुखं पाणी पादौ च प्रक्षाल्योदकं स्पृष्ट्वा मलापकर्षस्नानं कृत्वा बद्धशिखो दर्भपाणिः प्राङ्मुख आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयपूर्वककर्माधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातःस्नानमहं करिष्य इति संकल्प्योत्सर्जनोक्तरीत्या तीर्थप्रार्थनादिवस्त्रपरिधानान्तं कृत्वा संध्यावन्दनं विधाय ब्रह्मयज्ञं कुर्यात् । ततो निष्पीडितं वस्त्रं स्कन्धेऽनभिप्रक्षिपन्नेव गृहमागच्छेत् । गृहे स्नानं तु गृहद्वाराभिमुखम् । गृहे स्नान आदावेव संकल्पं कृत्वा शीतासूष्णा आनीय मलापकर्षस्नानादि । मांसोच्चारवर्जं संक[१९७]ल्पोऽत्रेति केचित् । नाघमर्षणम् । मार्जने विकल्पः । न तर्पणम् । स्नानान्त एवाऽऽचमनम् । ([१९८] नाभेरूर्ध्वमार्द्रवस्त्रं न । रात्रौ स्नाने तु समीपेऽग्निं प्रज्वाल्य स्नानादिति स्मृत्यर्थसारे । रात्रिस्नाने संकल्पाघमर्षणमार्जनसूक्तजपजलतर्पणगोपीचन्दनधारणानि वर्जयेदित्युक्तं स्मृतिमञ्जर्याम् ।) पुत्रजनननिमित्तकस्नानमप्येवम् । आद्यान्त्ययामयोस्तु नद्यादावेव[१९९] ।
अथ ब्रह्मयज्ञप्रयोगः ।
कर्तोदिते सूर्ये प्रातर्होमोत्तरमकृतप्रातराशो ग्रामात्प्राच्यामुदीच्यामैशान्यां वा दिशि यावति देशे स्वग्रामच्छदींषि स्वगृहच्छदींषि वा न दृश्यन्ते तावति दूरे नदीतीरे देवखातादितीर्थेऽन्यस्मिन्नपि शुद्धे जलदेशे वा गत्वा हस्तौ पादौ च प्रक्षाल्याऽऽचम्य प्रदक्षिणमावृत्त्योपवीती भूत्वा जलं नमस्कृत्य प्रयतः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्यापः स्पृष्ट्वा देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्य इति संकल्प्य हस्तौ जलेन प्रक्षाल्य त्रिराचम्य सोदकेनाङ्गुष्ठमूलेन द्विरोष्ठौ संमृज्याऽऽर्द्राङ्गुलिभिरोष्ठौ सदुपस्पृश्य दक्षिणहस्तेन सव्यं पाणिं पादौ च प्रोक्ष्याऽऽर्द्राङ्गुलिभिः शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमपः संस्पृश्येत्येतत्कर्माङ्गमाचमनं कृत्वा प्रभूतान्प्रागग्रान्दर्भानास्तीर्य पाण्योः पवित्रे धृत्वा दक्षिणोत्तरौ पाणी पादौ च कृत्वैवंभूतस्तेषु दर्भेषु प्राङ्मुख एवाऽऽसीनः प्रणवमुच्चार्य भूर्भुवः स्व(सुव(?)रिति तिस्रो व्याहृतीः पठित्वा 'भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवि० महि धियो० यात्' इत्येवं व्याहृतिवर्जितां वा पच्छोऽर्धर्चशोऽनवानं गायत्रीमधीत्य द्यावापृथिव्योः संधिमीक्षमाणः संमील्य वा यथा युक्तमात्मानं मन्येत तथा युक्त इषे त्वेति काण्डं प्रपाठकमात्रमनुवाकमात्रं वा[२००] मनसा यथाशक्त्यधीत्य प्रज्ञातं निधाय नमो ब्रह्मण इति परिधानीयामृचं त्रिः पठित्वा प्रणवमुच्चारयेत् । अत्र ब्रह्म भूर्भुवः सुवः, ॐ शान्तिः शान्तिः शान्तिरिति पठन्ति केचित् ।
ततोऽप उपस्पृश्य पूर्वोक्तं कर्माङ्गमाचमनं कृत्वा प्रमादादिति विष्णुं स्मरेत् । ततो गृहमागत्य मुष्टिमात्रमन्नमपि कस्मैचिद्ब्राह्मणाय दक्षिणां दद्यात् । एवमेव दिनान्तरे विरामोत्तरवेदमारभ्य पठेत् । एवं रीत्या संहितां ब्राह्मणमारण्यकं च पठेत् । शिक्षा कल्पो व्याकरणं ज्यौतिषं छन्दो निरुक्तमित्यङ्गानि तत्तद्दिने वेदाध्ययनोत्तरमेव क्रमेण प्रज्ञातदेशादारभ्याध्येतव्यानि । पुराणेतिहासादीनां वेदार्थोपबृंहकत्वादङ्गेष्वेवान्तर्भावादेतत्पाठोऽपि प्रज्ञातप्रदेशादारभ्यैव दिनान्तरे कार्यः । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कृत्वाऽनन्तरं नमो ब्रह्मण इति परिदध्यात् । द्वितीयदिने गायत्रीपाठानन्तरं तत्तत्प्रपाठकस्य पूर्वां शान्तिं कृत्वा कृतान्तादारभेत्(त) । इत्यारण्यकाध्ययने विशेषः । अनध्याये स्वल्पो ब्रह्मयज्ञः कार्यः । वेदान्तराध्ययनसत्त्वे तमपि वेदं साङ्गस्ववेदसमाप्तौ पठेत् । तत्तदङ्गानि च । व्याकरणादिकमपि तत्तद्वेदसमाप्त्युत्तरं पुनः पठेत् । एकस्मिन्नेव दिने वा स्ववेदक्रमेण प्रज्ञातप्रदेशमारभ्य पठेत् । सर्वा विकृतीरपि ब्रह्मयज्ञे पठितव्या इति केचित् । नात्र पठितव्या इत्यन्ये । पूर्वं संहितां पठित्वा तस्मिन्नेव दिनेऽधीतसंहिताविकृतिं पठेदि[२०१]ति परे । ([२०२] मध्यंदिन उच्चैरध्ययनं ग्रामे मनसा स्वाध्यायमधीयीतेतिविधिबलाद्ग्रामेऽप्यध्ययनमसंभवे, तच्च मनसेति । ) इति ब्रह्मयज्ञप्रयोगः ।
एवं रीत्या ब्रह्मयज्ञं विधाय देवर्षिपितृतर्पणं कुर्यात् । मध्याह्नसंध्योत्तरं वा तर्पणम् । अकृतब्रह्मयज्ञस्तु मध्याह्नसंध्योत्तरं ब्रह्मयज्ञं कृत्वा तर्पणं कुर्यात् । तद्यथा--शुचौ देशे प्राङ्मुख उपविश्य देशकालौ संकीर्त्य देवर्षिपितृतृप्त्यर्थं तर्पणं करिष्य इति संकल्प्य शुद्धदेशे प्रागग्रान्दर्भानास्तीर्य ताम्रपात्रमक्षतसंयुक्तं जलेन पूरयित्वाऽजलौ प्रागग्रान्दर्भान्गृहीत्वा यज्ञोपवीती देवतीर्थेनाऽऽस्तृतेषु प्रागग्रेषु कुशेष्वग्रभागे[२०३] व्रीहितण्डुलसंयुक्तेन जलेनैकैकाञ्जलिं ब्रह्माद्यङ्गिरोन्तेभ्यो देवेभ्यो दद्यात् । ताम्रादिभाजनान्तरे जले वा तर्पयेत् ।
तत उदङ्मुखो निवी[२०४]ती कनिष्ठाङ्गुलिद्वयमूलप्रदेशात्मकेन प्राजापत्येन तीर्थेनोदगग्रेष्वास्तृतेषु कुशेषु मध्यभागे यवमिश्रितजलेन विश्वामित्रादीतिहासपुराणान्तेभ्यो द्वौ द्वावञ्जली दद्यात् । प्रत्यञ्जलि नाममन्त्रावृत्तिः । सकृन्नाम्नाऽपरस्तूष्णीमित्येवं वा । अ[२०५]थ काण्डर्षितर्पणमपि सति संभवे कार्यम् । तद्यथा--प्रजापतिं काण्डर्षिं तर्पयामि । सोमं काण्डर्षिं त० । अग्निं काण्डर्षिं त० । विश्वान्देवान्काण्डर्षींस्तर्पयामि । स्वयंभुवं काण्डर्षिं तर्पयामि । अरुणान्काण्डर्षींस्तर्पयामि । सांहितीर्देवता उपनिषदस्तर्पयामि । वारुणीर्देवता उपनिषदस्तर्पयामि । याज्ञिकीर्देवता उपनिषदस्तर्पयामि । सदसस्पतिं तर्पयामीति ।
ततो न्यञ्चितसव्यजानुर्दक्षिणामुखः प्राचीनावीती पितृतीर्थेन दक्षिणाग्रेष्वास्तृतेषु कुशेषु मूलभागे कृष्णतिलमिश्रितं कृष्णतिलाभावे श्वेततिलमिश्रितं जलमादाय तेन वैशम्पायनाद्येकपत्न्यन्तेभ्यस्त्रींस्त्रीनञ्जलीन्दद्यात् । प्रत्यञ्जल्यावृत्तिः । सकृन्नाम्ना द्विस्तूष्णीमित्येवं वा ।
ततः पित्रादीन्सर्वान्पितॄंस्तर्पयेत् । तत्र सापत्नमातृव्यतिरिक्तैकोद्दिष्टस्त्रीभ्य एकैक उदकाञ्जलिर्देयः । असंभवे स[२०६]र्वत्र सव्यान्वारब्धदक्षिणहस्ते[२०७]नैव वा तर्पणम् । शुचिभूमिपात्रालाभे जलतीर उपविश्योक्तप्रकारेण जल एव तर्पयेत् । तत्र दक्षिणहस्तेन प्रतितर्पणमक्षतानां तण्डुलानां यवानां च ग्रहणम् । सव्यहस्तेन तिलानाम् । जीवत्पितृकेण तु एकपत्न्यन्तानामेव तर्पणं कार्यम् । तर्पणे श्वेता एव तिला ग्राह्याः । प्रकोष्ठपर्यन्तमेव तस्य प्राचीनावीतम् । ततो ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत्त उदकमर्हन्ति तांस्तर्पयामीति प्रथममवसानाञ्जलिं दत्त्वा,
"यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् । |
इति तृतीयमञ्जलिं दद्यात् । विस्तरेण तर्पणं कर्तुमसमर्थः प्रपितामहीपर्यन्तं तर्पयित्वा ये पितृवंश्या इत्यनेन यत्र क्वचन संस्थानामित्यनेन येऽबान्धवा इत्यनेन च तर्पयेत् । एतावदपि कर्तुमसमर्थः--
"आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । |
अथवा--आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्वित्यञ्जलित्रयं दद्यात् । जीवत्पितृकस्य नैतत् ।
ततो द्विराचम्य सूर्यायोदकाञ्जलिं दद्यात् । तत्र मन्त्रः--
"नमो विवस्वते ब्रह्मन्भास्वते विष्णुतेज[२०९]से । |
दीपोत्सवचतुर्दश्यां दैवधर्मेण पित्र्यधर्मेण वाऽवसानाञ्जल्यन्ते यमतर्पणं कुर्यात् । त[२१०]द्यथा-- 'यमं तर्पयामि । धर्मराजं तर्पयामि । मृत्युं तर्पयामि । अन्तकं तर्पयामि । वैवस्वतं तर्पयामि । कालं तर्पयामि । सर्वभूतक्षयं तर्पयामि । औदुम्बरं तर्पयामि । दध्नं तर्पयामि । नीलं तर्पयामि । परमेष्ठिनं तर्पयामि । वृकोदरं तर्पयामि । चित्रं तर्पयामि । चित्रगुप्तं तर्पयामि' इति तर्पणं कृत्वा,
"यमाय धर्मराजाय मृत्यवे चान्तकाय च । |
वृकोदराय चित्राय चित्रगुप्ताय वै[२११] नमः" इति नमस्कुर्यात् ।
माघशुक्लाष्टम्यां भीष्मतर्पणम् । अवसानाञ्जल्यन्ते प्राचीनावीती--
"वैयाघ्रपादगोत्राय सांकृत्यप्रवराय च । |
इतिमन्त्रेण भीष्मतर्पणं कुर्यात् । एतच्च ब्राह्मणस्य न भवतीति मदनपारिजातः । तिलतर्पणे निषिद्धकालास्तत्प्रतिप्रसवाय पूर्वोदाहृतस्मृतिभ्यो द्रष्टव्या इति सर्वं शिवम् ।
इति संस्काररत्नमालायामुपाकर्मोत्सर्जनवेदपारायणनित्यस्नानब्रह्मय-
ज्ञतर्पणप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे द्वादशं प्रकरणम् ॥ १२ ॥
- ↑ क. स्योरेव सिद्धवदनुवादान्मुख्यत्वप्रतीतेः, एतद्वार्षिकमित्याचक्षत इति वर्षाकर्म ह्येतदाचक्षत इत्याश्वलायनखादिरादिसूत्रविरोधात्सूत्र ।
- ↑ ङ. त् । त ।
- ↑ ङ. णे मैत्रेणाऽवा ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ क. चस्तत्सा ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ च. जर्न कृ ।
- ↑ ङ. र्तद्वया ।
- ↑ च. तो भा ।
- ↑ एतदुपरि क. पुस्तकटिप्पण्याम्--"पूर्वरार्योदयानन्तरं मुहूर्तादूर्ध्वं प्रवृत्ता पौर्णमासी द्वितीयोदयानन्तरं मुहूर्तद्वयादिपरिमिता भवति तत्र तैत्तिरीयैरुत्तरा, तैत्तिरीयान्ययाजुषैः पूर्वा ग्राह्येति सिद्धमिति पुरुषार्थचिन्तामणौ निर्गलितार्थः" इति ग्रन्थो वर्तते ।
- ↑ ङ. मानेत्येतादृशार्थकरणेन श्रा ।
- ↑ क. शोकभय ।
- ↑ ङ. ति । यदा ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"एतच्च वचनं देशान्तरविषयम् । नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे । इति बृहस्पतिवचनादि प्रयोगपारिजाते पराशरमाधवीये च । सामगानां सिंहस्थरवावुक्तेस्तद्विषयमिदमिति केचित्" इति ।
- ↑ क. स्मात्कर्म विव ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ च. व्यता नास्ती ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--" एतच्च संग्रहवचनमनाकरम् । अतद्गुणसंविज्ञानो बहुव्रीहिर्वाऽत्र द्रष्टव्यः । तेन द्वितीयाद्युपाकर्मण्यपि सति संभवे निषेधोऽस्त्येवेति केचित्" इति ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. च. पुस्तकयोः ।
- ↑ धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
- ↑ च. च्छेदौ घो ।
- ↑ ङ. सः । प्र ।
- ↑ ङ. रम्भ आदा ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"सूतकमृतकयोरन्ते, शुद्ध्यर्थत्वात्" इति ।
- ↑ ङ. स्तदनन्तरम् ।
- ↑ ङ. द्दध्नास्रप ।
- ↑ ग. सत्यः शौ ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।
- ↑ इदं पदद्वयं नास्ति ङ. पुस्तके ।
- ↑ क. ङ. मीलिता ।
- ↑ ङ. त् । उ ।
- ↑ च. त्वा पञ्च का ।
- ↑ ङ. होमप्रापणार्थं ।
- ↑ ङ. च. योप ।
- ↑ ङ. तन्त्रेऽविहितत्वेन वा ।
- ↑ ङ. ना ब्रह्मचारिणं प्रकृत्य--मी ।
- ↑ क. च. नूनं ।
- ↑ क. च. नूनं ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ च. होमाक
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ ङ. निर्जने देशे रहस्ये दे ।
- ↑ च. र्जन भार ।
- ↑ ब. कान्तदे ।
- ↑ ङ. पुस्तक आहुतिशब्दरहितः पञ्चगव्येनेतिपाठः । एवमग्रेऽपि ।
- ↑ ङ. त्रिवारं । च. त्रिः ।
- ↑ ङ. न यक्ष्ये ।
- ↑ ङ. णं द्विरित्यादि ।
- ↑ ङ. कृतमाज्येन यक्ष्य ।
- ↑ ङ. कुर्यात् ।
- ↑ क. द्धाना ।
- ↑ क. च. तत्राऽऽज्य ।
- ↑ ङ. स्य स्वयंभूर्ऋषिः श्रीर्दे ।
- ↑ क. च. तं तद्गृ ।
- ↑ क. पतिः सो ।
- ↑ क. वा ऋ ।
- ↑ ङ. ति सप्तभिर्दर्भैर्मन्ये ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ ङ. रुद्रस्त्रिष्टुप् । प ।
- ↑ ङ. र्ब्रह्म त्रि ।
- ↑ ङ. दं । प्र ।
- ↑ ङ. न सर्वं पिबेत् ।
- ↑ ङ. हस्तं मुखं च प्रक्षाल्य पवि ।
- ↑ ङ. विश्वाद्द्होमादि स्विष्टकृदादि वा होमशेषं ।
- ↑ ङ. णा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्नि ।
- ↑ ङ. न यक्ष्य ।
- ↑ ङ. पात्रं प्रोक्षणीपात्रमु ।
- ↑ ङ. भानवज्व ।
- ↑ ङ. पिबे ।
- ↑ ङ. हस्तं सुखं च प्रक्षाल्य पवि ।
- ↑ ङ. रासेनाऽऽप्या ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ च. यं च स ।
- ↑ च. दार ।
- ↑ ङ. दा, एभिः ।
- ↑ ङ. ति शिष्टाः । तत्रैभिः शिष्यैः सहेत्यस्य लोपः । कृ ।
- ↑ ङ. म् । कस्यचिच्छिष्यस्य यदि प्रथमोपा ।
- ↑ ङ. भावे स्वयमेव कु ।
- ↑ ङ. म् । पुत्रस्य चेत्प्रथममुपा ।
- ↑ ङ. पि म ।
- ↑ क. मार्थं स्थ ।
- ↑ च. स्मा ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यो ग्रन्थः स यथा--"हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तराद्यज्ञोपवीतहोमस्यापि प्रधानत्वेन कर्तव्यत्वं कैश्चिदुक्तं तत्तुच्छम् । हुत्वा दत्त्वा च धारयेदिति क्त्वाप्रत्ययाद्धोमदानयोरुपाकरणोत्सर्जनाङ्गभृतयज्ञोपवीतधारणाङ्गत्वस्यैव प्रतीतिः प्रधानत्वाभावात् । होमदानधारणानि शास्त्रान्तरप्रोक्तत्वात्कृताकृतानि । करणेऽभ्युदयेऽकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । हुत्वेति क्त्वाप्रत्ययः पूर्वकालत्वमात्रं बोधयति न त्वङ्गत्वं, तेन यज्ञोपवीतहोमस्य प्रधानत्वमेवेति यद्युच्यते तदाऽपि यज्ञोपवीतहोमा[न]नुष्ठानमेव । प्रधानोपसंहारस्यानिष्टत्वात् । अन्यथोपनयनादिष्वपि शास्त्रान्तरोक्तप्रधानहोमातिप्रसङगापत्तेः । न चैव हुत्वा दत्त्वा च धारयेदिति शास्त्रान्तरोक्तस्य यज्ञोपवीतहोमस्य निरवकाशत्वापत्तिरिति वाच्यम् । यस्मिन्सूत्रे कारिकासु वा यज्ञोपवीतहोमो विहितो भवेत्तत्रैतस्य सावकाशत्वसंभवात् । अस्ति चायं होमो विहित आश्वलायनगृह्यकारिकासु । दानधारणयोस्तु प्रधानत्वाभावादुपसंहारः शक्तौ सत्यां न विरुद्धः" इति ।
- ↑ ङ. कः । ब्रह्मविदित्यनुवाकः । भृ ।
- ↑ क. इर्कावरा । च एकार्वरा ।
- ↑ ङ. पूर्वोत्तरे शान्ती । शी ।
- ↑ क. काध्य ।
- ↑ क. काध्य ।
- ↑ ङ. पूर्वोतरे शान्ती । हो ।
- ↑ क. ण्डाध्य ।
- ↑ क. व्रतं वे ।
- ↑ क. पुस्तकटिप्पण्याम्--'अत्र उपाकृतानि काण्डानीत्येव वक्तव्यमिति युक्त प्रतिभाति' इति वर्तते ।
- ↑ क. ङ. याऽमा ।
- ↑ च. प्राणायामं ।
- ↑ ङ. गणग्र ।
- ↑ क. च. पु. म
- ↑ क. नियम्यते ।
- ↑ च. पूर्वक्लृ ।
- ↑ ङ. च. ग्नान्येवाऽऽम ।
- ↑ क. च. योरुत्त ।
- ↑ क.च. वणदे ।
- ↑ धनुश्चिह्नान्तर्गत ङ. पुस्तके नास्ति
- ↑ च. ह्मणा श्च तमे ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ ङ नसि ।
- ↑ ङ. म् । यदि तु कस्यचिच्छिष्यस्य प्रथमोत्सर्जनमस्ति तदोत्स ।
- ↑ ङ त्पित्रा कारयेत् । तदभावे तत्पितामहादिभिस्तेषामप्यभावे स्वयमेव कुर्यात् । तत्र ।
- ↑ ङ. म् । पुत्रस्य चेत्प्रथमोत्सर्जनं तदा स्वयमेव गणपतिपूजनादि कर्तव्यम् । प्रथमोत्सर्जनं ।
- ↑ क. ति क ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ च. मौ निक्षि ।
- ↑ ङ. न्त्रद्वयस्य ।
- ↑ ङ. र्थ्य, नमोऽ ।
- ↑ ङ. स्य स्वयंभूरग्न्यप्सुमदादयो यजुः । मन्त्रोक्ता देवताः । न ।
- ↑ ङ. स्य स्वयंभूरापो ।
- ↑ ङ. स्य स्वयंभूरापो ।
- ↑ ङ म् । त ।
- ↑ ङ. स्य स्वयंभुरापो ।
- ↑ ङ. स्य वरुणः स्वयंभूरनु ।
- ↑ ङ. स्य केशान्पुर ।
- ↑ ङ. स्य स्वयंभूर्गङ्गा ।
- ↑ ङ. स्य स्वयंभूरघ ।
- ↑ ङ. स्य स्वयंभूरापो ।
- ↑ ङ. स्य स्वयंभूर्ऋषिः ।
- ↑ ङ. स्य ज्यो ।
- ↑ ङ. स्य स्वयभूर्वरु ।
- ↑ ङ. स्य स्वयंभूर्वरु ।
- ↑ ङ स्य स्वयंभूः प ।
- ↑ ङ. नज ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ च. भुवर्देवा ।
- ↑ ङ. इति देवतीर्थेन प्राङ्मुखो यज्ञोपवीती--एकैकाङ्गलिना देवान्संतर्प्य विश्वामित्रा ।
- ↑ ङ. व ऋषीं ।
- ↑ ङ. इति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषीन्संतर्प्य, वैशम्पायनादयो ।
- ↑ ङ. इति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितॄंस्तर्प ।
- ↑ ङ. च. य नि ।
- ↑ ङ. त्वा, स्व ।
- ↑ ङ. शुद्धं शुष्कं ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'आर्द्रवस्त्रं चतुर्गुणमुपरिदशं स्थले निष्पीड्य द्विराचम्य तिलकं कुर्यात् । अयं च स्नानविधिः सर्वेषाम्' इति वर्तते ।
- ↑ च. त्तरीयव ।
- ↑ ततः सर्वे दे ।
- ↑ क. युः । न ।
- ↑ ङ. युः । त ।
- ↑ ङ. च. वपि ।
- ↑ ङ. च. मन्त्रान्त आस ।
- ↑ अयं वाशब्दोऽधिकः ।
- ↑ क. शब्देनोद ।
- ↑ क. पुस्तकटिप्पण्याम् 'अत्राप्युत्सृष्टानि काण्डानीति युक्तम्' इति वर्तते ।
- ↑ ङ. रग्निः स्वयं ।
- ↑ ङ. रणप्रयोगः । त ।
- ↑ ङ. पि संग्र ।
- ↑ नन्वित्यसंबद्धम् ।
- ↑ ङ. स्य यथाध्यायमध्येतव्यमित्युत्तरवाक्ये कर्तव्यत्वेन विहितस्य प्रहणधारणात्मकाध्ययनस्य क्ष ।
- ↑ ङ. येनाङ्ग ।
- ↑ ङ. दनमाजिधावनं ।
- ↑ ङ.ति । इ ।
- ↑ ङ. र्थः । बौ ।
- ↑ ङ. त्रे संहिताग्रहणमवसा ।
- ↑ ङ. भिर्भवतीत्येतदर्थमिति त ।
- ↑ क. च. न्प्रं भ ।
- ↑ क. दस्य पा ।
- ↑ ङ. स्य स्वयंभूरिन्द्रा ।
- ↑ ङ. अस्याः स्वयंभूर्ऋषिः ।
- ↑ क. च. द्यता ।
- ↑ क. च. पः फ ।
- ↑ ङ. क्तेः । इ ।
- ↑ ङ. द्धं यजमान एव कु ।
- ↑ क. च. ह्यः । माताम ।
- ↑ ङ. स्त्रीत्यपत्योप ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ ङ. यत्तु ।
- ↑ ङ. घ्रवचनं तच्छ्राद्धादिविषयम् । अ ।
- ↑ धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
- ↑ ङ. ति । अ ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके--'अत्र मणिः सौवर्ण एव ग्राह्यः । वज्रादिमणीनां तर्पणे निषिद्धत्वात् । तथा च स्मृतिमञ्जर्यां सत्यव्रतः- खड्गमौक्तिकसौवर्णमणिकाञ्चनदर्भकाः । हस्ते धार्यास्तर्पणे तु हीरकादि न धारयेत् । हीरकादियुतो यस्तु कुर्वीत यदि तर्पणम् । क्रुद्धाः स्युः पितरस्तस्य शापं दत्त्वा व्रजन्ति हि' इति । तर्पणे कण्ठे मालाधारणनिषेध उक्तो भरद्वाजेन 'कण्ठे माला यस्तु धृत्वा कुर्वीत यदि तर्पणम् । निराशाः पितरो यान्ति शापदास्तस्य सर्वदा' इति' इति ग्रन्थो वर्तते ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ च. न्विद्याच्च ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ च. स्मृत्यन्तरे ।
- ↑ ङ. च. न्विसर्ज ।
- ↑ ङ. ति । स्मृ ।
- ↑ ङ. त्यर्थसारे ।
- ↑ ङ. ति । सर्वे ।
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
- ↑ च. त्र. लोमशा ।
- ↑ च. न्यादिनि ।
- ↑ क. ङ. यनभि ।
- ↑ च. गयायां ।
- ↑ ङ. च. नः-पि ।
- ↑ च. णे--य ।
- ↑ क. खिलां या ।
- ↑ च. तु. म ।
- ↑ क. च. ते ।
- ↑ क. कल्पसत्रे ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'नाभेरूर्ध्वमार्द्रवस्त्रमुत्तारयेदिति विशेषः । रात्रेर्द्वितीयतृतीययामयोर्मरणव्यतिरिक्तनिमित्तस्नानं चेत्पतेत्तदा गृह एव सुवर्णाङ्गुलिकरो वह्नि पश्यञ्शीतोदकेनैव कुर्यात् । वह्न्यभावे तेन विनाऽपि' इति ग्रन्थो वर्तते ।
- ↑ ङ. च. व । तस्य प्र ।
- ↑ ङ. वा य ।
- ↑ ङ. दित्यपु ।
- ↑ धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
- ↑ ङ. गेऽक्षतव्री । च. गे यवमिश्रितत ।
- ↑ ङ. वीत्यञ्जलिवामभागोपलक्षितेन ।
- ↑ ङ. च. अत्र ।
- ↑ क. सव्या ।
- ↑ क. स्तेन वा ।
- ↑ क. खिलां या ।
- ↑ ङ. जसा । ज ।
- ↑ ङ. तत्रैतानि नामानि--य ।
- ↑ च. ते