अथ पञ्चमं प्रकरणम् ।

अथ[१] मासिश्राद्धं वक्तुमादौ[२] वैश्वदेवपिण्डपितृयज्ञावभिधीयेते ।

"पक्षान्ते कर्म निर्व[३]र्त्य वैश्वदेवं च[४] साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्थक बुधः"

 इति लौगा[५]क्षि[६]णाऽन्वाधानोत्तरं मासिश्राद्धात्पूर्वं च वैश्वदेवपिण्डपितृयज्ञयोः कर्तव्यताविधाना[७]त् । न च पार्वणस्थालीपाकान्वाधानाव्यवहितोत्तरमेव कुतो नाभिहिताविति वाच्यम् । तत्रानयोरभिधाने स्थालीपाकप्रयोग[८]सौकर्यव्याघा तापत्तेरतोऽत्रैवाभिधीयेते । तत्र वैश्वदेवस्य देवयज्ञादिरूपत्वात्तदर्थं पञ्च यज्ञा उच्यन्ते ।

 तत्र यमः--

"ब्रह्मयज्ञो देवयज्ञः पितृयज्ञस्तथैव च ।
भूतयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः" इति ॥

 एतत्स्वरूपं श्रुतावप्युक्तम्--

"पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति
सं० तद्ब्रह्म यज्ञः संतिष्ठते" इति ।

 [९]नुः--

"अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्" इति ॥

 ([१०]अयं कर्ममात्रविधिर्न क्रमस्य । एतद्यज्ञचतुष्टयं वैश्वदेवपदवाच्यामिति केचित् । देवयज्ञभूतयज्ञपितृयज्ञानां त्रयाणां तद्वाच्यत्वमिति माधवः ।

"पौरुषेण च सूक्तेन ततो विष्णुं समर्चयेत् ।
वैश्वदेवं ततः कुर्याद्बलिकर्म तथैव च" इति नारसिंहात् ॥
"सभार्यस्तु ततः स्नातो विधिनाऽऽचम्य वाग्यतः ।
प्रविश्य सुसमिद्धेऽग्नौ वैश्वदेवं समाचरेत्"

 इति ब्राह्मोक्तेश्च वैश्वदेवयज्ञमात्रं वैश्वदेवपदवाच्यमित्यन्ये । विश्वे(श्व)देवदेवताकत्यागघटितसमुदायसंबन्धेन वैश्वदेवस्य देवयज्ञभूतयज्ञयोः सत्त्वाद्द्वावेव वाच्यावित्यपि परे । ) अध्यायनमध्ययनं छान्दसो दीर्घः । तर्पणं पितृतर्पणम् । पितृश्राद्धमिति यावत् ।

 यतः स एवाऽऽह--

"स्वाध्यायेनार्चयीतर्पीन्होमैर्देवान्यथाविधि ।
पितॄञ्श्राद्धेन नॄनन्नैर्भूतानि बलिकर्मणा" इति ॥

 पितृयज्ञे विकल्पमाह कात्यायनः--

"पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वा" इति ।

 नित्यश्राद्धं पितृयज्ञः । अथवा वैश्वदेवमध्ये स्वधा पितृभ्य इति यो बलिर्दीयते स पितृयज्ञ इत्यर्थः । बौधायनोऽपि--

"पितॄनुद्दिश्यैकं ब्राह्मणं भोजयेदपि वा दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु पिण्डं ददाति पितृभ्यः स्वधाऽस्त्वित्यपि वाऽपस्तत्पितृयज्ञः संतिष्ठते" इति ।

 एतन्मते देवेभ्यः स्वाहेत्यादिमन्त्रत्रयसाध्याः क्रमेण देवयज्ञपितृयज्ञभूतयज्ञा वैश्वदेवतो भिन्नाः[११] । तत्रोपयुज्यते पितृभ्यः स्वधाऽस्त्वित्ययं मन्त्रः । सूत्रकृता तु देवयज्ञादित्रयस्य भिन्नतयाऽनुक्तत्वाद्वैश्वदेव एव यज्ञत्रयमन्तर्भवति । तत्र स्वधा पितृभ्य इति मन्त्रस्यैव पितृयज्ञसाधनत्वं द्रष्टव्यम् । न चैवं सति देवेभ्यः स्वाहेत्यादिमन्त्रत्रयस्य कुत्र विनियोग इति वाच्यम् । षडाहुत्यादिरौद्रबल्यन्तकर्मण्यशक्तौ मन्त्रत्रयेण यज्ञत्रयं कर्तव्यमित्येवंरीत्या विनियोगसंभवात् । न च शब्दस्य[१२] न प्रतिनिधिर्विद्यत इत्यनेन विरोधः, मन्त्रस्यापि शब्दरूपत्वादिति वाच्यम् । यथारूपमितर इत्यनेन विनियोगस्याऽऽवश्यकत्वे सिद्धेऽन्यत्र विनियोगासंभवेनानायत्या प्रतिनिधित्वेन विनियोगस्वीकारात् । न चैतन्मन्त्रविनियोगबलाद्देवयज्ञभूतयज्ञपितृयज्ञानामेव वैश्वदेवाद्भिन्नत्वं स्वीकार्यम्, किमिति प्रतिनिधित्वेन सूत्रविरुद्धो विनियोगस्वीकार इति वाच्यम् । देवेभ्यः स्वाहाकार इ[१३]त्यस्मिन्सूत्र उज्ज्वलाकारेणाभेदस्यैव प्रदर्शित[१४]त्वात्, रौद्रान्तताया एव सूत्रकृता स्पष्टतयोक्तत्वाच्च[१५] देवयज्ञपितृयज्ञभूतयज्ञानां वैश्वदेवभिन्नत्वस्य वक्तुमशक्यत्वात् । तत्राभेदप्रदर्शको ग्रन्थ इत्थम्--वैश्वदेवेन यक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहर्बलिर्देय एष भूतयज्ञः । मनुष्येभ्यश्च यथाशक्ति दानं कर्तव्यमेष मनुष्ययज्ञः । देवेभ्यः स्वाहाकारेण प्रदानमा काष्ठात् । अशनीयाभावे काष्ठमपि तावद्देयं वैश्वदेवोक्तप्रकारेण । एष देवयज्ञः । केचिद्वैश्वदेवाहुतिभ्यः पृथक्भूतामिमां मन्यन्ते । देवेभ्यः स्वाहेति मन्त्रमिच्छन्ति । देवयज्ञेन यक्ष्य इति संकल्पमिच्छन्ति । वयं तु न तथेति गृह्य एवावोचाम । केचिदाहुः-- आ काष्ठादितिवचनाददनीयाभावे भोजनलोपे यथाकथंचिद्वैश्वदेवं कर्म कर्तव्यं पुरुषसंस्कारत्वादिति । अपरे त्वशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं न कर्तव्यमिति स्थितास्तच्चिन्त्यम् । पितृभ्यः स्वधाकारेण प्रदानमोदपात्रात् । अन्नाद्यभाव उदपात्रमपि तावद्देयं, पात्रग्रहणात्सहपात्रेण देयमेष पितृयज्ञः । 'स्वाध्यायस्तस्य विधिः' इत्यारभ्योक्तो नित्यः स्वाध्याय एष ऋषियज्ञः । इतिशब्दः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदेशक्रमोऽनुष्ठान उपयुज्यते । अनुष्ठानं तु ब्रह्मयज्ञो देवयज्ञो भूतयज्ञः पितृयज्ञो मनुष्ययज्ञ इ[१६]त्युज्ज्वलाकृदाह । वस्तुतस्तु--अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे स्वाध्यायमधीयीतेति ब्रह्मयज्ञसूत्रस्वरसादिदमेव सिध्यति । सूर्योदयप्रभृति भोजनात्प्राग्यावान्कालस्तन्मध्ये ब्रह्मयज्ञः कर्तव्यो न तु प्रातरेवेति नियमः । तथा च मातरेव ब्रह्मयज्ञानुष्ठानेऽयं क्रमो नोपयुज्यत इति ज्ञेयम् ।

 अग्रं च देयमित्येतत्सूत्रस्थं देवपितृभूतमनुष्येभ्यः । चकारादेते मन्त्राः । देवेभ्यः स्वाहा पितृभ्यः स्वधाऽस्तु भूतेभ्यो नमो मनुष्येभ्यो हन्तेति मनुष्ययज्ञव्यतिरिक्तं व्याख्यानं विरुद्धं केनचित्प्रक्षिप्तमित्युपेक्षणीयम् । मतान्तराभिप्रायेण वा नेयम् । आस्तां वा मतान्तराभिप्रायेण । अग्रं च देयमित्यत्रत्यचकारेण संग्रहो देवेभ्यः स्वाहेत्यादियज्ञत्रयस्य । अवाप्यग्निः स एव द्रव्यं च तदेव प्रकरणाद्बौधायनोक्तेश्चेति द्रष्टव्यम् । देवेभ्यः स्वाहेत्येतस्या एवाऽऽहुतेः पृथक्त्वनिराकरणं पितृभ्यः स्वधाऽस्तु भूतेभ्यो नम इत्युभयोरुपलक्षणम् । एवं संकल्पप्रदर्शनमपि पितृयज्ञेन यक्ष्ये भूतयज्ञेन यक्ष्य इत्यनयोः संकल्पयोः[१७]

 ([१८] अथ पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वेति कात्यायनेन नित्यश्राद्धेनापि पक्षे पितृय[१९]ज्ञसिद्धेर्दर्शितत्वात्तदर्थं नित्यश्राद्धविधिरभिधीयते ।

 तत्र मार्कण्डेयपुराणम्--

"कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पितॄनुद्दिश्य विप्रांस्तु भोजयेद्विप्रमेव वा" इति ॥

 अत्र विशेषमाह प्रचेताः--

"नाऽऽमन्त्रणं न होमश्च(मं च) नाऽऽवाहनविसर्जने ।
न पिण्डदानं न सुरान्नित्ये कुर्याद्द्विजोत्तमः ॥
उपवेश्याऽऽसनं दद्यात्संपूज्य कुसुमादिभिः ।
निर्दिश्य भोजयित्वा तु किंचिद्दत्त्वा विसर्जयत्" [ इति ] ॥

 न सुरान्विश्वे(श्व)देवान् । किंचिद्दत्त्वेति दक्षिणार्थम् ।

"नाऽऽवाहनं स्वधाकारः पिण्डाग्नौकरणादिकम् ।
ब्रह्मचर्यादिनियमो विश्वे देवास्तथैव च ॥
तत्षाट्पौरुषिकं ज्ञेयं दक्षिणापिण्डवर्जितम्" इति ।

 दक्षिणादानस्य विहितप्रतिषिद्धत्वाद्विकल्पः ।

 मत्स्यपुराणे--"अप्येकं भोजयेद्विप्रं त्रीनुद्दिश्य पितॄंस्तथा" इति ।

 त्रीनिति मातामहादीनामपि प्रदर्शनार्थम् ।

 स्मृत्यन्तरे--

"नि[२०]त्यश्राद्धं प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ।
अदैवं तद्विजानीयाद्दक्षिणादानवर्जितम्" इति ॥

 स्मृतिसंग्रहे--

"नित्यश्राद्धे त्यजेद्देवान्भोज्यमन्नं प्रकल्पयेत् ।
दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥
एकमप्याशयेद्विप्रं षण्णामप्यन्वहं गृही" इति ।

 भोज्यमन्नं स्वस्येति शेषः ।

"नित्यश्राद्धे ततो दद्याद्भुङ्क्ते यत्स्वयमेव हि"

 इतिब्रह्माण्डपुराणात् । अनेन तैलाद्यनुज्ञाऽपि कृता भवति ।

 देवलः--

"अघृतं भोजयन्विप्रं स्वगृहे सति सर्पिषि ।
परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥
मिष्टमन्नं तु यो भुक्त्वा पश्चात्कदशनं लघु ।
ब्राहाणं भोजयन्विप्रो निरये चिरमावसेत्" इति ॥

 अत्र कात्यायनोऽनुकल्पमाह--

"एकमप्याशयेद्विप्रं पितृयज्ञार्थसिद्धये ।
अदैवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥
अप्युद्धृत्य यथाशक्ति किंचिदन्नं यथाविधि ।
पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरेत्" इति ॥

 एतदुद्धृतान्नं ब्राह्मणायैव दद्यात् । तदभावे गोभ्यः ।

 तथा च कूर्मपुराणे--

"उद्धृत्य वा यथाशक्ति किंचिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत्" इति ॥

 तथा--"सर्वेषामप्यभावे तु दत्तं गोभ्यो निवेदयेत्" इति ।  यदा गवामप्यलाभस्तदा विष्णूक्तम्--

"भिक्षुकाभावे गोभ्योऽन्नं दद्यादग्नौ वा प्रक्षिपेत्" इति ।

 मनुष्ययज्ञेऽप्येवमेव प्रतिपत्तिकर्मेति मदनपारिजाते ।

 अत्राप्यशक्तौ मनूक्तम्--

"दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन्" इति ॥

 पयः क्षीरम् । एतच्च नित्यश्राद्धं श्राद्धान्तरे कृते न नियतम् ।

 तथा च मार्कण्डेयः--

"नित्यक्रिया पितॄणां तु केचिदिच्छन्ति मानवाः ।
न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत्" इति ॥

 नित्यक्रिया नित्यश्राद्धम् । पितॄणां तथैव तस्मिन्दिने श्राद्धान्तरं चेत्तदा नैतच्छ्राद्धं कार्यमि[२१]त्यन्य आहुः । शेषं वैश्वदेवादिकम् । अत्रैवं व्यवस्था--यत्रामावास्यानान्दीमुखश्राद्धादिषु नित्यश्राद्धदेवता इष्टा भवन्ति न तत्र नित्यश्रादं, यत्र च सांवत्सरिकादिषु नेष्टा नित्यश्राद्धदेवतास्तत्र कर्तव्यमिति ।

 तथा च चमत्कारखण्डे--

"नित्यश्राद्धं प्रकुर्वीत प्रसङ्गाद्यत्र(न्न) सिध्यति ।
श्राद्धान्तरे कृतेऽन्यत्र नित्यत्त्वात्तन्न हापयेत्" इति ॥

इति प्रसङ्गान्नित्यश्राद्धविधिरुक्तः ।)

([२२]पितॄनुद्दिश्यैकं ब्राह्मणं भोजये[२३]दपि वा दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु पिण्डं ददाति पितृभ्यः स्वधाऽस्तु" इति बौधायनोक्तेः,

"पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वा"

 [२४]ति कात्यायनोक्तेश्च श्राद्धबलिदानयोर्विकल्प इति केचित् । अन्ये तु स्वधा पितृभ्य इत्यत्र देवपितॄणामेव देवतात्वं न मनुष्यपितॄणाम् । तेन श्राद्धे मनुष्यपितॄणामेव देवतात्वाच्छ्राद्धबलिदानसमुच्चयसिद्धिरित्याहुः । बौधायनकात्यायनवचनयोः पितृशब्दोऽग्निष्वात्तादिपितृपर एव वक्तव्यः । अन्यथा विषयस्य भिन्नत्वेन विकल्पानुपपत्तेः । पित्राद्युद्देश्यकं नित्यश्राद्धं भिन्नमेव । यद्यपि श्राद्धशब्दस्य मृतपित्रुद्देश्यकत्वसत्त्व एव मुख्या प्रवृत्तिस्तथाऽपि जीव च्छ्राद्धविष्णुश्राद्धयोस्तदभावेऽपि श्राद्धशब्दप्रवृत्तिदर्शना[२५]दत्रापि स्वी क्रियते गौण्येव । स्वधा पितृभ्यः[२६] पितृभ्यः स्वधाऽस्त्वित्येतस्यैव स्वपित्राद्युद्देश्य[२७]ताविकल्पान्यथाऽनुपपत्त्या स्वीकार्येत्येवं रीत्यैव समुच्चयवादिमतनिर्वाहः । श्राद्धस्याग्निष्वात्ताद्युद्देश्यत्वे पित्राद्युद्देश्यकश्राद्धं स्मृतिविहितमपि मृतपितृकेण भिन्नमेव कार्यम् । तदपि येषां सूत्रे नोक्तं भवति तैरपि कृतं चेद्वैशिष्ट्यम् । अकरणे प्रत्यवायाभावः । बलिदानस्य पित्राद्युद्देश्यकत्वे जीवत्पितृकस्य बलिदानलोप एव । तत्र देवयज्ञभूतयज्ञाभ्यामेव तत्सिद्धिः ।

अथवा "येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः"

 इति वचनात्पितामहादीनुद्दिश्य वा पितृयज्ञः कार्यः । पित्रादित्रयाणामपि सत्त्वे तदा लोप एवेति तन्मते द्रष्टव्यः ।) वैश्वदेवस्त्वात्मसंस्कारार्थ एव । न च 'गृहमेधिनो यदशनीयस्य होमा बलयश्च" इतिवचनादुभयार्थत्वं शङ्कनीयम् । परस्परविरोधात् । अन्नसंस्कारत्वे ह्यन्नस्य प्राधान्यं वैश्वदेवस्य गुणत्वं पुरुषार्थत्वे तु तद्विपर्ययः । तथा च सति--एकस्यैव युगपत्प्राधान्यं गुणत्वं च विरुध्यते । तर्ह्यन्नसंस्कारार्थत्वमेवास्तु मा भूदात्मसंस्कारार्थत्वमिति चेन्न ।

"महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः"

 इति मनुवचसाऽऽकाष्ठादिति विशेषवचसा चाऽऽत्मसंस्कारार्थत्वस्यैवावगतेः । यत्, 'यदशनीयस्य होमा बलयश्च' इत्युदाहृतं तदन्यथाऽप्युपपद्यते । तत्र होमा बलयश्चेत्युत्पत्तिविधिः । यदशनीयस्येति विनियोगः । अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्तिदानं देवेभ्यः स्वाहाकार आ काष्ठापितृभ्यः स्वधाकार ओदपात्रादृषिभ्यः स्वाध्याय इत्यधिकारः । गृहमेधिनो ये होमा बलयश्च तेऽशनीयस्यान्नस्येति योजना । सुपां सुलुगिति यच्छब्दोत्तरस्य जसो लुक् । किंचान्नसंस्का[२८]रपक्षे प्रतिपाकमावृत्तिः प्रसज्येत । प्रतिप्रधानं गुणावृत्तिरिति न्यायात् । तस्मा[२९]त्पुरुषार्थत्वमेव न्याय्यम् ।

 अत एव गृह्यपरिशिष्टेऽभिहितम्--

"प्रोषितोऽप्यात्मसंस्कारं कुर्यादेवाविचारयन्" इति ।
" ( [३०]सायं प्रातर्वैश्वदेवः कर्तव्यो बलिकर्म च ।
अनश्नताऽपि सततमन्यथा किल्बिषी भवेत्" ॥

 इति कात्यायनवचनेनाशनाभावेऽपि कर्तव्यतोक्ता ।

"महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ।

 इति मनुनाऽप्यात्मसंस्कारार्थत्वमेव प्रतिपादितम् ।)

 गोभिलोऽपि--

"यद्येकस्मिन्काले व्रीहियवौ पच्येयातामन्यतरस्य जुहुयात्कृतं मन्येताथ यद्येकस्मिन्काले पुनः पुनरन्नं पच्यते सकृदेव बलिं कुर्वीत यद्येकस्मिन्काले बहुधान्यं(ऽन्नं) पच्येत गृहपतिर्म(म)हानसादेव बलिं कुर्वीत" इति ।

 अयमर्थः--नानाद्रव्यपाके पुनःपाके बहूनामविभक्तभ्रात्रादीनां पृथक्पाकेऽपि चैकस्मादेव द्रव्यात्सकृदेव गृहपतिपाकादेव होतव्यमिति । गृहपतिर्मुख्योऽधिकारी ।

 मनुरपि--

"वैश्वदेवे निवृत्ते तु यद्यन्योऽतिथिराव्रजेत् ।
तस्मा अन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत्" इति ॥

 निवृत्ते भोजनानन्तरमित्यर्थः । माधवोऽप्येवम् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयं भवतीति विज्ञानेश्वरोऽपि ।

 उज्ज्वलाकृताऽपि-- आकाष्ठादिति विशेषवचनादशनीयाभावेन भोजनलोपेऽपि यथाकथंचिद्वैश्वदेवं कर्म कर्तव्यमेव पुरुषसंस्कारत्वादिति केचिदाहुः, अपरे त्वशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं कर्म न कर्तव्यमिति स्थिता इति मतद्वयं प्रदर्श्य द्वितीयमते चिन्त्यत्वोक्त्या स्वस्याभिमतमात्मसंस्कारार्थत्वमेवेति दर्शितम् ।

 एवं चोदाहृतस्मृतीनां निबन्धानां चाऽऽत्मसंस्कारार्थत्वमेव मुख्यमन्नसंस्कारार्थत्वं त्वानुषङ्गिकमित्यत्र तात्पर्यं न त्वन्नसंस्कारार्थता नास्त्येवेत्यत्र तात्पर्यम् । यथा फलेच्छयाऽऽरोपितादात्मवृक्षाच्छायागन्धावानुषङ्गिकौ तद्वदत्रेति द्रष्टव्यम् । पञ्चसूनादोषपरिहारोऽपि देवयज्ञाद्यनुष्ठानेन भवति ।

 तथा च कूर्मपुराणम्--

"वैश्वदेवः प्रकर्तव्यः पञ्चसूनापनुत्तये" इति ॥

 यमोऽपि--

"पञ्च सूता गृहस्थस्य वर्तन्तेऽहरहः सदा ।
कण्डनी पेषणी चुल्ली जलकुम्भ उपस्करः ॥
एतानि वाहयन्विप्रो बाध्यते वै मुहुर्मुहुः ।
एतासां पावनार्थाय[३१] पञ्च यज्ञाः प्रकीर्तिताः" इति ॥

 सूना हिंसास्थानानि । कण्डन्युलूखलादि । पेषणी दृषदुपलादि । चुल्ली पाकस्थानम् । जलकुम्भ उद[३२]ककलशः । उपस्करः शूर्पादि । अवस्कर इतिपाठे मार्जन्यादि द्रष्टव्यम् । एताः सूनाः स्वस्वकार्ये प्रापयन्बाध्यते पापेन युज्यत इत्यर्थः । न च कण्डन्यादिनिमित्तश्रवणान्नैमित्तिकत्वं महायज्ञानामिति वाच्यम् । अहरहरिति वीप्सयाऽऽकाष्ठादितिवचनेन भोजनलोपेऽपि कर्तव्यताप्रतिपादनेन च सूत्रकृता नित्यत्वस्यैव प्रतिपादनात् ।

"पञ्चयज्ञविधानं तु गृही नित्यं न हापयेत्" इति शङ्खेन,[३३]
"ततः पञ्च महायज्ञान्कुर्यादहरहर्गृही"

 इति संवर्तेन च स्पष्टतयाऽभिधानाच्च[३४] । ततःपदेन विवाहोत्तरत्वमुच्यते । अत्र गृहीतिश्रवणाद्गृहस्थानामेव ब्राह्मणादीनामधिकारः । अत आत्मसंस्कारार्थमनुष्ठिते सति तेनैव पञ्चसूनादोषपरिहारोऽन्नसंस्कारश्च सिध्यति । ([३५]तेनैकादश्यादावुपवासेऽपि वैश्वदेवानुष्ठानमत एव सिध्यति । यानि त्वेकादश्यादावन्नस्य दोषप्रतिपादकवचनानि तान्युपवासविधिस्तावकफलत्वेन चरितार्थानि न वैश्वदेवनिवृत्तिपराणि । तत्त्वेऽपि पुष्पफलजपजलकाष्ठादीनामनिषिद्धत्वं स्वीकृत्य पुष्पादिभिः श्रीशमाराधयतस्तेनैव वैश्वदेवकरणे न क्वापि हानिः । एवं चैकादश्यादौ वैश्वदेवादिनित्यकर्महानौ मनूक्तस्य सामान्यप्रायश्चित्तस्योपवासरूपस्याऽऽचरणेन नित्यनैमित्तिकसंनिपाते प्रसङ्गसिद्धिं मन्वानाः क्रियमाणोपवासं प्रायश्चित्तार्थमेवाऽऽचरन्तः प्रायो भवन्ति मुख्यस्य प्रायश्चित्तान्तरस्याविधानादिति द्रष्टव्यमिति सुस्थम् ।)

 अत्र केचिदात्मसंस्कारार्थं वैश्वदेवं करिष्य इति संकल्पं कुर्वन्ति । केचित्तु[३६]--पञ्चसूनादोषपरिहारार्थमन्नसंस्कारार्थमात्मसंस्कारार्थं च वैश्वदेवं[३७] कर्म करिष्य इति संकल्पं वदन्ति । अन्ये तु--श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवं कर्म करिष्य इत्येव[३८] संक[३९]ल्पो न त्वात्मसंस्कारसिद्ध्यर्थमित्येवं संकल्प इत्याहुः ।

अथ देशः ।

स च स्मृतिमञ्जर्याम्--

"गृहस्य मध्यदिग्भागे वैश्वदेवं समाचरेत् ।
ततस्तत्पुरतोऽगारद्वारे वैहायसं त्यजेत्" इति ॥

 एतच्च होम एव, बलिहरणे सूत्रकृता देशविशेषाभिधानात् । एतच्च पचनाग्नौ होम एव नौपासनाग्नौ होमे, तस्य नियतस्थानत्वात् ।

अथ कालः ।

तत्राऽऽश्वलायनः--"अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्" इति ।

 सूत्रकृताऽपि नक्तमेवोत्तमेन वैहायस इत्यनेन सूत्रेण सा[४०]यं प्रातः कर्तव्यतोक्ता भवति ।

 स्मृतिमञ्जर्यां नृसिंहपुराणे--

"दिवा यामद्वयेऽतीते स्त्रानं माध्याह्निकं चरेत् ।
पौरुषेण च सूक्तेन ततो विष्णुं समर्चयेत् ॥
वैश्वदेवं ततः कुर्याद्बलिकर्म तथैव च ।
भोजयेदतिथिं पश्चाद्भोजनं स्वयमाचरेत्" इति ॥

 ([४१] अत्र तत इतिपञ्चमीश्रुत्या वैश्वदेवस्यैव देवपूजानन्तर्यं प्रतिपाद्यते । आतिथ्यस्य वैश्वदेवानन्तर्यं तु स्पष्टमेवोक्तम् । देवपूजानन्तरमातिथ्यं ततो वैश्वदेव इति पराशरोक्तक्रमस्तु दुर्बलः पाठक्रमापेक्षयाऽर्थक्रमस्य बलीयस्त्वात् । एतच्च श्रुतिलिङ्गसूत्रव्यवस्थापितम् । तस्माद्वैश्वदेव एव प्रथमं कर्तव्यः पश्चादातिथ्यम् । आतिथ्यशब्देन मनुष्ययज्ञ उच्यते । अनया रीत्या वेदपाठोऽप्यनुगृहीतो भवति--देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । स्मार्ताच्च पाठो बलीयानिति विरोधाधिकरणन्यायेनावगम्यते । तस्मादपि मनुष्ययज्ञाद्वैश्वदेवस्य प्राथम्यम् । देवपूजोत्तरं वैश्वदेव[४२] इति सर्वनिबन्धा अपि ।

" [४३]विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते" इति पद्मपुराणवचनात्
"पितृशेषं तु यो दद्याद्भूतशेषं तु विष्णवे ।
रेतोदाः पितरस्तस्य भवन्ति क्लेशभागिनः" ॥

 इति पञ्चरात्राच्च पूर्वं नैवेद्यसमर्पणं ततो वैश्वदेव इति केचित् ।

 अन्ये तु--"वैश्वदेवविधिं कृत्वा विष्णोर्नैवेद्यमर्पयेत्" इति व्यासोक्तेः,

"वैश्वदेवविशुद्धोऽसौ विष्णवेऽन्नं निवेदयेत्" इति मनूक्तेः,
"तमेवं(नं) वैश्वदेवशेषेण कुर्यान्नास्य शेषेण वैश्वदेवं कुर्यात्"

 इति बह्वृचपरिशिष्टोक्तेः,

"वैश्वदेवं पुरा कृत्वा[४४] नैवेद्यं विनिवेदयेत् ।
अकृत्वा वैश्वदेवं यो नैवेद्यं विनिवेदयेत् ॥
तदन्नं वै न गृह्णन्ति देवा विष्ण्वादयो ध्रुवम्"

 इति स्मृतेश्चाऽऽदौ वैश्वदेवस्ततो नैवेद्यनिवेदनमित्येव क्रम इत्याहुः ।

 अत्र यथासंप्रदायं व्यवस्था । प्रथमः क्रमो रामार्चनचन्द्रिकाकारादिभिर्निष्ठावैष्णवैरादृतत्वात्तत्परः । द्वितीयस्तु स्मार्तपरः । प्रयोगपारिजातादिभिस्तदनुरोधेनैव प्रयोगस्य प्रदर्शनाद्व्यवस्थितो वा संप्रदायः ।

 नैवेद्यसमर्पणात्पूर्वं वैश्वदेवकरणे विशेष उक्तः प्रयोगसारे स्मृत्यन्तरे--

"देवार्थमन्नमृद्धृत्य वैश्वदेवं समाचरेत् ।
नैवेद्यमर्पयेत्पश्चान्नृयज्ञं तु ततश्चरेत्" इति ॥

 नैवेद्यसमर्पणात्पूर्वं वैश्वदेवकरण इदमपि साधन(क)म् । )

 रा[४५]त्रिविषयेऽपि तत्रैव--

"रात्रौ तु देवं नीराज्य वैश्वदेवं समाचरेत्" इति ।

 उभय[४६]त्र वैश्वदेवानुष्ठानासंभवे प्रातरेव द्विरावृत्त्या सह वा कार्यः ।

 यथोक्तमाश्वलायनेन--

"प्रातरेव द्विरावृत्त्या कुर्याद्वा स[४७]ह तौ द्विजः" इति ।

 ([४८] अत्र प्रातःकालः पूर्व एव ग्राह्यः, सर्वेषां कल्प(ल्पा)नां प्रथमप्रयोगमारभ्यैव प्रवृत्तेः सर्वत्र दर्शनात् । एवं चात्रापकर्ष एव सायंवैश्वदेवस्य भवति । उत्तरः(र)प्रातःकालेऽनुष्ठानस्य तु सामान्यशास्त्रादेव सिद्धेर्न विध्यपेक्षेति द्रष्टव्यम् ।) प्रातरेव द्विरावृत्तिपक्षे प्रातर्वैश्वदेवं कृत्म्नं कृत्वा पश्चात्संकल्पप्रभृतिविधिना सायं वैश्वदेवं कुर्यात् । ततो मनुष्ययज्ञादिसहत्वपक्षेऽपि संप्रतिपन्नदेवताकत्वात्सकृदेव कार्यः । तत्र प्रातःसायंवैश्वदेवाख्यं कर्मद्वयं तन्त्रेण करिष्य इति संकल्पवाक्ये विशेषः । वैहायसबलिस्तु तन्त्रपक्षेऽपि सायंवैश्वदेवान्त एव यथावस्थितपाठेन देयः । भोजनाभावेऽपि प्रातर्वैश्वदेवस्यालोपव त्सायंभोजनाभावेऽपि सायंवैश्वदेवस्य न लोपः । अत्र केचित्प्रातरेव वैश्वदेवद्वये तन्त्रेण कृतेऽपि सायं भोजनकर्तव्यतायां पुनरपि सायंवैश्वदेवः कर्तव्यः ।

 उदाहरन्ति च वचनम्--

"प्रातरेव कृतेऽपि स्याद्वैश्वदेवद्वये बुधैः ।
सायं सत्यां बुभुक्षायां वैश्वदेवं पुनश्चरेत्" इति ॥

 तन्निर्मूलं विरुद्धत्वान्निबन्धेष्वदर्शनाच्चेति नवीनाः । वैश्वदेवस्यान्नसंस्कारकत्वमात्रमिति पक्षे सायंभोजनाभावनिश्चयदशायां सायंवैश्वदेवस्यैवाभावात्पुनरिति विरुद्धम् । आत्मसंस्कारकत्वमात्रमिति[४९]मतेऽशक्तिवशेन प्रातरनुष्ठितेन सायंवैश्वदेवेनैवाऽऽत्मसंस्कारस्य सिद्धत्वात्पुनर्विधानमेव विरुद्धम् । उभयसंस्कारकच[५०]त्वं वैश्वदेवस्येतिमतेऽप्येकेनैव सायंतनवैश्वदेवेनोभयसंस्कारकत्वसिद्धेस्तद्दोषतादवस्थ्यमित्येवं वचनस्य विरुद्धत्वं द्रष्टव्यम् ।

 प्रातर्वैश्वदेवकर्म दैवाद्विस्मृतमपि अस्तोत्तरं सा[५१]यमग्निहोत्रहोमादौपासनहोमाद्वा पूर्वं स्मृतं चेत्तदा वैश्वदेवमादौ झटिति कृत्वा सा[५२]यमाग्निहोत्रहोममौपासनहोमं वा कुर्यात् ।

तथा च यज्ञपार्श्वे--

"अकृते वैश्वदेवे चेदस्तमेति गभस्तिमान् ।
वैश्वदेवं ततः कृत्वा सायंहोमं समाचरेत्" इति ॥

 यदा तु होमोत्तरं स्मरणं तदाऽपि सायंवैश्वदेवात्प्राक्पृथगेव प्रातर्वैश्वदेवः कर्तव्यः । न तु तन्त्रम् ।

 तथा च स्मृतिभास्करे--

"अकृतो वैश्वदेवश्चेद्दिवा रात्रौ तमाचरेत् ।
पृथगेव प्रकुर्वीत न तु तन्त्रमिहेष्यते" इति ॥

 दिवा वैश्वदेवो न कृतश्चेत्तदा तमन्तरितं रात्रौ पृथगेव कुर्यात् । इति पूर्वार्धार्थो द्रष्टव्यः । यदि तु सायंवैश्वदेवोत्तरं स्मरणं तदा द्वितीयदिने प्रायश्चित्तमात्रम् । [५३]सायंवैश्वदेवस्याप्यग्रिमवैश्वदेवात्प्राक्स्मरणं चेत्तदा पृथगेव कर्तव्यता । अकृतो वैश्वदेवश्चेदित्युदाहृतवाक्यात् । रात्रौ वैश्वदेवो न कृतश्चेत्तदा तमन्तरितं दिवा पृथगेव कुर्यादित्यत्र योजनाऽस्मिन्विषये द्रष्टव्या । यदि त्वग्रिमवैश्वदेवोत्तरं स्मरणं तदा तदग्रिमदिने प्रायश्चित्तमात्रं [५४]कार्यम् ।  ([५५] तच्चोपवासात्मकं कार्यम् ।

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इतिवचनात् ॥

 सर्वथोपवासं कर्तुमसमर्थस्य मनस्वत्येकाऽऽहुतिर्भवति ।

तदुक्तं प्रायश्चित्तप्रकाशे--

"एतेभ्यः पञ्चयज्ञेभ्यो यद्येकोऽपि च लुप्यते ।
मनस्वत्याहुतिस्तत्र प्रायश्चित्तं विधीयते" इति ॥)

 यदा सायं समन्त्र[५६]ककर्मकर्तॄणामभावस्तदा पत्नी सायममन्त्रकं बलिं हरेत् ।

तथा च मनुः--

"सायमन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते" इति ॥

 अत्र वैश्वदेवं हि नामैतदित्येतत्पर्यन्तमेकं वाक्यम् । सायं प्रातर्विधीयत इत्यपरं वैश्वदेवस्य कालद्वयेऽपि कर्तव्यताविधायकम् । अतः सायमेव पत्न्या बलिहरणरूपवैश्वदेवाधिकारः[५७] । बलिहरणं[५८] कृत्स्नवैश्वदेवकर्मोपलक्षणमिति केचिद्वर्णयन्ति । [ तन्न? ] न स्त्री जुहुयादित्यनेन वैश्वदेव[५९]होमस्य स्त्रीकर्तृकत्वनिषेधाद्धोमलोपेन बलिहर[६०]णस्यापि लोपे केवलबलिहर[६१]णस्य परम्परयाऽपि विश्वे(श्व)देवाख्यदेवतासंबन्धासंभवेन वैश्वदे[६२]वं हि नामैतदितिवचनबोधितवैश्वदेव[शब्द]वाच्यत्वा[६३]संभवात् । अतः पत्नीव्यतिरिक्तवक्ष्यमाणकभावे लोप एव । वैश्वदेवसिद्धिस्तु[६४] पत्नीकर्तृकप्रायश्चित्तेनैव । संबन्धोपलक्षितत्वविवक्षायां तु बलिहरणादिकं भवत्येव । केचित्तु बलिं हरेदित्येकवचनाद्वैहायसबलिदानमात्रं स्त्रिया कार्यं नान्यदिति तन्न । स्मृत्यन्तरे 'रात्रौ पत्नी बलीन्हरेत्' इति बहुवचनेन सर्वेषामपि बलीनां रात्रौ विहितत्वेनात्रापि तथैव वक्तुमुचितत्वात् । एकवच[६५]नस्य जात्यभिप्रायेणैव स्मृत्यन्तरानुरोधेन नेतुमुचितत्वात् । यत्तु नक्तमेवोत्तमेन वैहायस इत्येतस्मिन्सूत्रे नक्तं वैहायस एवेत्येवकारं योजयित्वा पुरुषेणापि नक्तं वैहायसबलिमात्रमेव कर्तव्यमिति कैश्चिदुक्तं तदप्याश्वलायनादिसूत्रविरोधादेवकारस्य व्यवहितान्वयकल्पने प्रमाणाभावाच्चोपेक्ष्यम् । तेन कृत्स्नमपि बलिहरणं पुरुषेण स्त्रिया वाऽपि रात्रौ कर्तव्यमेवेति सिद्धम् । एतच्च वैश्वदेवाख्यं कर्म दिवा द्विस्तथा रात्रावपि द्विर्न कर्तव्यम् ।

"धर्मविन्नाऽऽचरेत्स्नानमाह्निकं च पुनः पुनः ।
तर्पणं ब्रह्मयज्ञं च वैश्वदेवं च नाऽऽचरेत्" इति विष्णुस्मरणात्[६६]

 ([६७]रागतः प्राप्तस्यात्र निषेधः । )

 वैश्वदेवबलिहृती सायं प्रातः, पञ्चयज्ञां(ज्ञा)स्तु दिवैव ।

 यथाऽऽह जमदग्निः--

"वैश्वदेवं दिवा रात्रौ कुर्याद्बलित्दृर्ति तथा ।
महतः पञ्च यज्ञांस्तु दिवैवेत्याह धर्मवित्" इति ॥

 येषां शाखिनां ब्रह्मयज्ञव्यतिरिक्तानां महायज्ञानां वैश्वदेवे बलिहृतौ चान्तर्भावः, तेषां दिवैव वैश्वदेवाख्यं कर्म न रात्रौ । यदि स्वशाखायां कालद्वयकर्तव्यतायां विधानं लिङ्गं[६८] वा नास्ति । अस्ति च स्वशाखायां सू[६९]त्रे नक्तमेवोत्तमेन वैहायस इति रात्रावपि वैश्वदेवकर्तव्यतायां विधानम्[७०] । ये भूताः प्रचरन्ति दिवा नक्तं बलिमितिमन्त्रे लिङ्गे च । अतो[७१] रात्रावपि भवतीति बोध्यम् । देवेभ्यः स्वाहेत्यादय एव देवयज्ञाः, वैश्वदेवस्तु भिन्न एवेति मते वैश्वदेव एव सायं भवति न तु देवेभ्यः स्वाहेत्यादियज्ञत्रयमिति ज्ञेयम् ।

अथाधिकारिनिर्णयः ।

 तत्र नारदः--

"भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेत्तेषां पृथक्पृथक्" इति ॥

 व्यासः--

होमाग्रदानरहितं न भोक्तव्यं कदाचन ।
अविभक्तेषु संसृष्टेष्वेकेनापि कृतं कृतम्" इति ॥

 एकेन मुख्येन ज्येष्ठेनेति यावत् । कृतमित्यनन्तरं भवेदिति शेषः ।

स्मृत्यन्तरेऽपि--

"सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु तत्कृतम् ।
द्रव्येण[७२] चाविभक्तेन सर्वैरेव कृतं भवेत्" इति ॥

 शाकलः--

"एकपाकेन वसतामेकं देवार्चनं गृहे ।
वैश्वदेवं तथैवैकं विभक्तानां गृहे गृहे" इति ॥

 एकपाकेन वसतामविभक्तानामित्यर्थ इति कश्चित् । तन्न । अस्य[७३] वक्ष्यमा णाश्वलायनवचनानुरोधेन [विभक्ता] विभक्तसाधार[७४]ण्यस्यैव वक्तुमुचितत्वात् । विभक्तानामित्यस्यानुवादकत्वेन संकोचकत्वायोगात् । "अविभक्तेषु संसृष्टेष्वेकेनापि कृतं भवेत्" इति व्यासोक्तेश्च । अतः पाकैक्य ए[७५]वाविभक्तानां यज्ञैक्यम् । न चैवं कदाचित्पाकभेदे भेदापत्तिः । वसतामित्यनेन बहुकालिकपाकैक्योक्तेः । "यद्येकस्मिन्काले बहुधाऽन्नं पच्येत गृहपतिर्म(म)हानसादेव बलिं हरेत् (कुर्वीत)" इति पूर्वोदाहृतगोभिलवचनाच्च ।

आश्वलायनः--

"वसतामेकपाकेन विभक्तानामपि प्रभुः ।
एकस्तु चतुरो यज्ञान्कुर्याद्वाग्यज्ञपूर्वकान्" इति ॥

 वाग्यज्ञो ब्रह्मयज्ञः, तत्पूर्वकानित्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन देवयज्ञादीनामेवैककर्तृकता न ब्रह्मयज्ञस्य । स तु पृथगेव का[७६]र्यः । एतत्सर्वमेक[७७]ग्रा[७८]मवासविषयम् ।

 ग्रा[७९]मान्तरे तु स एव विशेषमाह--

"अविभक्ता विभक्ता वा पृथक्पाका द्विजातयः ।
कुर्युः पृथक्पृथग्यज्ञान्भोजनात्प्राग्दिने दिने" इति ॥

 ([८०] न चैतदप्येकगृहविषयमस्त्विति वाच्यम् । 'यद्येकस्मिन्काले बहुधाऽन्नं पच्येत गृहपतिर्म(म)हानसादेव बलिं हरेत् (कुर्वीत)' इति गोभिलवचनेन विरोधापत्तेः ।

आश्वलायनस्मृतिः--

"एकपाकाशिनः पुत्राः संसृष्टा भ्रातरोऽपि च ।
वैश्वदेवं न ते कुर्युरेकः कुर्यात्पितैव हि ॥
वैश्वदेवं क्वचित्कर्तुं न शक्नोति पितैव हि ।
पितुरेवाऽऽज्ञया कुर्यात्पुत्रो भ्राता परोऽपि हि ॥
एकान्नाशिषु पुत्रेषु भ्रातृष्वेकत्र सत्सु च ।
तत्रैको वैश्वदेवः स्यात्" इति । )

स्मृतिसमुच्चये--

"वैश्वदेवः क्षयाहश्च महालयविधिस्तथा ।
देशान्तरे पृथक्कार्यो दर्शश्राद्धं तथैव च" इति ॥

 ( [८१]एतच्च ज्येष्ठकनिष्ठभ्रातृसाधारणं द्रष्टव्यम् । पुत्रेणापि ग्रामे ग्रामान्तरे वा पाके सति पृथक्कार्य एव ।

"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च ।
वेश्वदेवं पृथक्कुर्यात्पितर्यपि च जीवति" इति शाकलोक्तेः ॥)

 यस्य तु ज्येष्ठेनाकृते वैश्वदेवेऽन्नं सिध्येत्तेन तूष्णीमग्नौ किंचित्क्षिप्त्वा भोक्तव्यम् । तथा च पृथ्वीचन्द्रोदये गोभिलः--

 "यस्य त्वेषामग्रतोऽन्नं सिध्येत्स नियुक्तं वह्नौ किंचिद्धुत्वाऽश्नीयात्" इति ।

 ग्रासमात्रमिति व्याख्यातारः । ( [८२] इदं च कनिष्ठभ्रातुः कदाचित्पाकभेदे ज्ञेयमिति पृथ्वीचन्द्रः । नियुक्तं भोज्यम् । किंचिद्ग्रासमात्रम् ।

 तथा च[८३]) संग्रहेऽपि--

"वैश्वदेवा[८४]संभ[८५]वे तु कुक्कुटाण्डप्रमाणं(णकम् ।)
संप्रहृत्य ग्रासमग्नौ किल्बिषात्तु विमुच्यते" इति ।

 ([८६] एतदपि (?) प्रथममन्नसिद्धौ ज्येष्ठेन कृते वैश्वदेवे पश्चात्कनिष्ठस्य पाकभेदे[८७] तेनाहुत्वैव भोक्तव्यम् । अयं चान्नप्रक्षेपस्तूष्णीमेवेति निबन्धकाराः । पाकासाध्ये जपोपवासादावविभक्तानामप्यधिकारः ।

"पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ।
अग्निहोत्रं सुरार्चा च संध्या नित्यं पृथग्भवेत्"

 इतिप्रयोगपारिजात आश्वलायनोक्तेः । अत्र सुरार्चायाः पार्थक्यविधानं कुलागतप्रतिमातिरिक्तप्रतिमापरम्, तेन न शाकलवचनविरोधः । पाकभेदे तु सोऽपि प्रतिमा पृथक्पृथगेवेत्यर्थसिद्धम् ।) स्त्रीणामप्येवम् ।

"स्त्रियो ग्रासमात्रमन्नं धृतप्लुतमग्नौ प्रास्य भुञ्जीयुः" इति स्मृत्यन्तरोक्तेः[८८]

 ([८९] यतः(त्तु) "स्त्री बालांश्च कारयेत्" इति तद्विधवापरम् । "विधवा कारयेच्छ्राद्धम्" इतिस्मृतिरत्नावल्याद्युदाहृतश्राद्धवदिहापि तस्याः प्रयोजकत्वात् । तथा--एते यज्ञा जीवत्पितृकस्याप्यावश्यकाः ।) मृतपितृकस्यैवेतिविशेषानुपलम्भात् ।

"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च ।
वैश्वदेवं पृथक्कुर्यात्पितर्यपि च जीवति" इति शाकलोक्तेश्च ।

 तत्र पित्र्यबलिर्वर्ज्य इत्येके ।

 केचित्तु--"येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" ।

 इति वचनात्पितृयज्ञोऽपि कर्तव्यः[९०] पितामहादीनुद्दिश्येत्येके(त्याहुः) । अन्ये तु--अग्निष्वात्तादीनुद्दिश्यैव पित्र्यबलिः कर्तव्य इति वदन्ति ।

 आश्वलायनः--

"पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ।
सूतकाद्यैस्त्वशुद्धात्मा न कुर्यान्न च कारयेत्" इति ॥

यतु हरदत्त:--

"सूतकमध्येऽपि ब्रह्मयज्ञभिन्नाश्चत्वारो न त्याज्याः । 'तानेतान्यज्ञानहरहः कुर्वीत' इति । 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इत्यादिना बाधितानां प्रतिप्रसवेनैव सार्थक्यम् । ब्रह्मयज्ञस्तु न भवति । 'तस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः' इति श्रुतेः" इत्याह,

 तन्न । "पञ्चयज्ञविधानं तु न कुर्यान्मृतिजन्मनोः" इति देव[९१]ले तन्निषेधात् । "अहरहः कुर्वीत" इति तु संध्यावन्दनादिवन्नित्यतामात्रबोधकमिति ।

 मुख्यस्य करणाशक्तावाहात्रिः--

"पुत्रो भ्राताऽथवा ऋत्विक्शिष्यश्वशुरमातुलाः ।
पत्नी श्रोत्रिययाज्याश्च दृष्टास्तु बलिकर्मणि" इति ।

 ([९२]दृ[९३]ष्टा इत्यत्र प्रतिनिधित्वेनेति शेषः । बलिकर्मणीतिवचनाद्बलावेव प्रतिनिधिरिति मदनरत्ने । बलिपदं वैश्वदेवोपलक्षणमिति पृथ्वीचन्द्रः । "न स्त्री जुहुयात्" इति निषेधाद्बलिमात्रं पत्नीकर्तृकं न होम इति सत्याषाढादिसूत्रानुसारिणाम्(णः) । आश्वलायनानां तु पत्नीकर्तृको होमोऽप्यस्ति । औपासनहोमस्याऽऽश्वलायनेन विहितत्वात् । ऋत्विक्साहचर्यात्साग्निकपरमित्याचारादर्शः । एते प्रतिनिधयः प्रवासादिविषय इति चन्द्रिका ।

 वस्तुतस्तु सदा गृहेऽपि स्वयंकर्तृत्वविकल्पः । "स्वयं त्वेवैतान्यावगृहे वस न्बलिं ह(लीन्ह)रेदपि वाऽन्यो ब्राह्मणः" इति गोभिलोक्तेः । अपि वाऽन्यो ब्राह्मण इति, अशक्तिकार्यव्यासक्तिविषये द्रष्टव्यम् । अन्यो[९४] ब्राह्मण इत्यत्रर्त्विक्त्वेन वृतः शिष्यादिर्वेति द्रष्टव्यम् । निरग्नेस्तु स्वकर्तृकत्वमेवेत्याचारादर्शः । पुत्रादयोऽपि मुख्यानुज्ञयैव कुर्युः । ) पत्नीकर्तृको होमस्तु शाखान्तरविषयः । न स्त्री जुहुयादिति निषेधात् । एतेऽपि मुख्यानुज्ञयैव कुर्युः ।

तथा च कश्यपः--

"पुत्रो भ्राताऽथवा शिष्यः कुर्याज्ज्येष्ठाभ्यनुज्ञया ।
श्वशुरो मातुलो वाऽपि वैश्वदेवहुतिं सदा" इति ॥

 ([९५]वैश्वदेवहुतिर्वैश्वदेवहोमः । ऋत्विक्कर्तृकत्वे तु तस्याऽऽदौ वरणं कृत्वा तेनर्त्विजा वैश्वदेवः कारणीयः 'नावृता याजयेयुः' इति निषेधात् । कर्मसमाप्तौ तस्मै हिरण्यं गौर्वा दक्षिणा देया । वरणभरणाधीनं हि ऋत्विक्त्वमित्यृत्विगधिकरणे मीमांसकोक्तेः । भरणं दक्षिणादानम् । असंभवे पूर्णपात्रं वा देयम् । 'पाकयज्ञेषु पूर्णपात्रं दक्षिणां दद्यात्' इति च्छन्दोगसूत्रात् । )

 प्रवासविषये बौधायनः--

"प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते ।
पञ्चानां महतामेषां सह यज्ञैः स गच्छति" इति ॥

 प्रवासं गच्छतो यस्य गृहे पञ्चानां[९६] महतां यज्ञानां मध्य एषां बुद्धिस्थानां देवयज्ञादिमनुष्ययज्ञा[९७]न्तानां[९८] चतुर्णां कर्ता यदि विद्यते तदा मुख्यः कर्ता[९९], यज्ञैर्देवयज्ञभूतयज्ञपितृयज्ञमनुष्ययज्ञैः सह न गच्छतीत्यर्थः । न च यथाश्रुतं विद्यत इत्यनेन नञोऽन्वयं परित्यज्य किमर्थं गच्छतीत्यनेन दूरस्थेनान्वयः क्रियत इति वाच्यम् । गृहे कर्त्रभावे यज्ञैः सह गमनस्यार्थत एव सिद्धत्वेन विधिवैयर्थ्यात्तेः । ( [१००]अथवा कर्तृशब्देन मुख्यः कर्ता ग्राह्यः । प्रवासं गच्छतो यस्य भ्रातुर्गृहे मुख्यः कर्ता न विद्यते तदा देवयज्ञादिभिः सह गच्छति । प्रवासे पृथग्वैश्वदेवः कर्तव्य इत्यर्थः । ) पञ्चानां महतामेषामित्यत्रत्यैतच्छब्दस्य विभिन्नार्थकत्वकल्पनं तु पञ्चानां महतां मध्ये ब्रह्मयज्ञस्यापि प्राप्तत्वेन तत्र चान्यकर्तृकताया एवाभावेन पञ्चानामेषां महतां यज्ञानां गृहे कर्ता यदि विद्यते तदा पञ्चभिर्यज्ञैः सह न गच्छतीत्ये([१०१]तादृशो[१०२]ऽर्थो निष्पद्येत, स चासंगतो भवेदिति कृतमिति ज्ञेयम् । पूर्वव्याख्याने यक्षसहितगमनाभावप्रयोजिका सत्ता तु भ्रात्रतिरिक्तस्य कर्तुर्द्रष्टव्या । वैश्वदेवः क्षयाहश्चेतिस्मृतिसमुच्चयवाक्यानुरोधात् । एतद्वाक्यं चेत्समूलं तदै[१०३]वैतन्नान्यदिति द्रष्टव्यम् ।

 बौधायनः--

"प्रवासं कुरुते चैतद्यदन्नमुपप[१०४]द्यते ।
न चेदुत्पद्यतेऽन्नं तु अद्भिरेतान्समापयेत्" इति ॥)

अथाग्निनिर्णयः ।

 तत्रेदं धर्मसूत्रम्--

"औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेनैता आहुतीर्जुहुयात्" इति ।

 अत्रोज्ज्वलाकृत्--यत्र पच्यते स पचनाग्निः । औपासनव्रतामौपासने विधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु तुल्यविकल्पं मन्यन्त इत्याह । सर्वाधानिनोऽपि पचन एवैत्य[१०५]ण्विलायाम् । सर्वाधानिनो देवयज्ञो लुप्यत इति तु रामाण्डारः । सुदर्शनस्तु वैश्वदेवार्थं धर्मशास्त्रोक्तविधिनाऽग्निरुपसमाधातव्य इत्याह ।

 यत्तु माधवीयेऽङ्गिराः--

"शालाग्नौ तु पचेदन्नं लौकिके वाऽपि नित्यशः ।
यस्मिन्नग्नौ पचेदन्नं तस्मिन्होमो विधीयते" इति ॥

यच्च कर्मप्रदीपे--

"प्रातर्होमं तु निर्वर्त्य समुद्धृत्य हुताशनात् (नम्?) ।
शेषं महानसे कृत्वा तत्र पाकं समाचरेत् ॥
पाकान्तेऽग्निं समाहृत्य गृह्याग्नौ तु पुनः क्षिपेत् ।
ततोऽस्मिन्वैश्वदेवादि कर्म कुर्यादतन्द्रितः" ॥

 इति तत्कात्यायनपरम् । ([१०६] [१०७]अन्याग्निपक्वं नाश्नीयादिति तद्गृह्याम्नातनिषेधात् । एवं च कातीयानां शालाग्नौ पाकस्तत्रैव होमः । अन्याग्निपक्वं नाश्नीया दिति निषेधोऽपि दर्शप्रकरणे पाठात्पर्वपर एव । अन्याग्निपदमपि तत्पुरुषरूपमन्यस्वामिकाग्निपाकनिषेधपरं, न तु कर्मधारयरूपं शालाग्निभिन्नाग्निपक्वनिषेधपरम् । तेन न लौकिकाग्निपक्वाशने निषेध इति । ) "औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेनैता आहुतीर्जुहोति" इत्यस्मिन्सूत्र औपासनेन स[१०८]ह पचनस्य विकल्पकरणमेव ज्ञापकम्, औपासने पचन[१०९]त्वधर्मो नास्तीति । यद्यौपासने( [११०]ऽपि पचन[१११]त्वधर्म इष्टो भवेत्तदा पचन इत्येवाविशेषाद्ब्रूयात् ।) [११२] एतावतैवौपासनलौकिकरूपपचनयोः प्राप्तौ विकल्पो व्यर्थः स्यादत औपासने पचनत्वं नास्तीत्येव सूत्रस्वरसात्सिद्धं भवति । पचनग्रहणात्केवललौकिकाग्निव्यावृत्तिः । एतच्च पाकाग्निसत्त्वे, तदभावे तु लौकिकाग्नौ भवत्येव । सुदर्शनेन स्वीकृतस्य गृह्याग्निप्रतिनिधित्वस्येव लौकिकाग्निप्रतिनिधित्वस्यापि स्वीकारे बाधकाभावात् । रामाण्डारमते तु नैतत् । शाकपत्रतण्डुलफलहोमे तु विधानबलादेव लौकिकाग्निप्राप्तिर्न तु प्रतिनिधित्वेनेति ।

अथाऽऽरम्भकालः ।

 ([११३]चन्द्रिकायां संवर्तः--

"ततः पञ्च महायज्ञान्कुर्यादहरहर्द्विजः" इति ।

 ततो विवाहानन्तरमित्यर्थः ।) स च विवाहात्पूर्वं दायविभागे जाते सति चतुर्थीहोमानन्तरमेव नान्यथा । विवाहव्रतमध्ये तदारम्भस्यायुक्तत्वात् । [११४]पाणिग्रहणादधि गृहमेधिनोर्व्रतमिति सूत्रे पाणिर्गृह्यते यस्मिन्कर्मणि तत्पाणिग्रहणं चतुर्थीकर्मान्तो विवाह इत्यर्थः । तदादि[:] पूर्वोऽवधिर्यस्यां क्रियायां सा तथा । क्रियाविशेषणत्वान्नपुंसक[त्व]म् । तत्प्रभृति तदुपलक्षितकाल[११५]मारभ्य तस्मादूर्ध्वं गृहमेधिनोर्गृहस्थाश्रमवतोर्यन्नियतं कर्तव्यम् । जातावेकवचनम् । तदुच्यत इति, उज्ज्वलाकृद्व्याख्यानाच्च ।

 केचित्तु गृहप्रवेशस्थालीपाकोत्तरमेव वैश्वदेवारम्भमिच्छन्ति । तन्न । उदा हृतसूत्रव्याख्यानविरोधात् । पार्वणौपासनहोमयोरस्तु--"अत ऊर्ध्वम्" इति वचनाद्गृहप्रवेशस्थालीपाकोत्तरभावित्वम् ।

 शुभे दिने चन्द्राद्यानुकूल्येऽयमारम्भः कार्यः ।

"प्रशस्तेऽहनि कर्तव्यं शुभं कर्म सदा बुधैः ।
अनुकूले तथा चन्द्र इति गर्गादिभाषितम्"

 इति ज्योतिर्निबन्धवाक्यात् ।

 तत्र प्रातरे[११६]व प्रथमोपक्रमः, सूत्रकृता रौद्रबल्यन्तं वैश्वदेवं विधायानन्तरं "नक्तमेवोत्तमेन वैहायसः" इति विधानेन प्रातरुपक्रमस्यैव दर्शितत्वात् ।

"ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तः" इतिमन्त्रे प्रातःसायंवाचकयोर्दिवानक्तपदयोर्मध्ये पूर्वं दिवाग्रहणा[११७]त् ।

"वैश्वदेवं द्विजः कुर्यात्सदा कालद्वयेऽपि च ।
आरम्भो वैश्वदेवस्य दिवा चैव विधीयते" इत्याश्वलायनस्मृतेश्च ।

 आश्वलायनसूत्रवृत्तिकृद्देवत्राताभ्यामपि-- "अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्" इत्यस्मिन्सूत्रे दिवाचारिभ्य इति [११८]दिवा नक्तंचारिभ्य इति [दिवा] नक्तमितिमन्त्रलिङ्गक्रमानुसारेण प्रातरुपक्रम एव साधितोऽस्ति । ([११९]अत्र शूद्रस्याप्यधिकारो मन्त्रविशेषश्च "नमस्कारेण मन्त्रेण पञ्च यज्ञान्समाचरेत्" इति शूद्रं प्रकृत्य याज्ञवल्क्येनोक्तः । स्त्रीणां नास्त्यधिकारः "न स्त्रीणां पृथग्यज्ञः" इति याज्ञवल्क्योक्तेः "न स्त्री जुहुयान्नानुपेतः" इति धर्मसूत्राच्च । )

अथ पाककर्तारः ।

तत्रेदं धर्मसूत्रम्--

"आर्याः प्रयता वैश्वदेवेऽन्न स स्कर्तारः स्युर्भाषां कासं क्षवयुमित्यभिमुखोऽन्नं वर्जयेत्केशानङ्गवासश्चाऽऽलभ्याप उपस्पृशेदार्याधिष्ठिता वा शूद्राः स स्कर्तारः स्युस्तेषा स एवाऽऽचमनकल्पोऽधिकमहरहः केशश्मश्रुलोमनखवापनमुदकोपस्पर्शनं च सह वाससाऽपि वाऽष्टमीष्वेव पर्वसु वा वपेरन्" इति ।

 आर्यास्त्रैवर्णिकाः । प्रयताः शुद्धाः । अन्नं भक्ष्यं भोज्यं पेयादिकं संस्कुर्युः । न स्वयं नापि स्त्रियः । भाषा शब्दोच्चारणम्, कासः कण्ठे घुरुघुराशब्दः, क्षवथुः क्षुतमित्यन्नाभिमुखो न कुर्यात् । संस्कर्तारः स्युरितिबहुवचनोपक्रमाद त्रैकवचनं प्रत्येककर्त्रभिप्रायेण । केशादीनात्मीयानन्यदीयान्वाऽऽलभ्य स्पृष्ट्वाऽप उपस्पृशेत् । नेदं स्नानं किं तर्हि स्पर्शनम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहितम् । इदं तु वचनं तत्रोक्तं वैकल्पिकं सकृदाद्युपस्पर्शनं मा भूदिति । आर्यास्त्रैवर्णिकास्तैरधिष्ठिताः शूद्रा वा संस्कर्तारः स्युः प्रकृतत्वादन्नस्येति गम्यते । तेषां शूद्राणामन्नसंस्कारेऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः । यस्यान्नं पचति, यदि ब्राह्मणस्य हृदयंगमाभिरद्भिः । यदि क्षत्रियस्य कण्ठगताभिरद्भिः, यदि वैश्यस्य तालुगताभिरद्भिः । इन्द्रियोपस्पर्शनं च भवति । शूद्राः पचन्तः प्रत्यहं केशादि वपेयुः । इदमेषामधिकमार्येभ्यः सहैव वाससा स्नानं कर्तव्यम् । आर्याणां तु परिहितं वासो निधाय कौपीनाच्छादनमात्रेणापि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । अपि वाऽष्टमीष्येव वपेरन्केशादीन्पर्वस्वेव वा प्रत्यहं वा वपेरन् । अन्तर्भावितण्यर्थाद्वापयेदित्यर्थ इति व्याख्यातमुज्ज्वलाकृता । आर्याभावे स्वयं स्त्रिया चाऽपि पाकः कार्यः ।

 तदुक्तं स्मृतिसारे--

"आर्याः स्युः पाककर्तारः स्वयं पत्न्यथ वा पचेत्" इति ।

 ([१२०] स्वयंपाकशब्दस्य पारिभाषिकत्वं स्मृतिरत्नाकरे--

"स्वहस्तेन स्वयंपाकः पत्न्या वा पच्यते यदि ।
पुत्रेण पच्यते वाऽपि स्वयंपाकः प्रकीर्तितः ॥
परपाकनिवृत्तोऽपि गुरुश्वशुरमातुलाः ।
पितृव्यः श्रोत्रियो भ्राता एषामन्नं न हि त्यजेत् ॥
उपाध्यायस्यर्त्विजश्च आचार्यस्य गुरोस्तथा ।
शिष्यस्य चैव यच्चान्नमपरान्नं प्रकीर्तितम्" इति ॥

 नापि स्त्रिय इतीयमुज्ज्वलाकृदुक्तिस्त्वार्यसंभवे ज्ञेया । अन्यथा रेखालेखनसूत्रे पाके तु स्त्रिया न भवतीतिपूर्वोक्तविरोधपरिहारो न स्यात् )।

 अयं च शूद्रकर्तृकः पाको युगान्तरविष[१२१]यो द्रष्टव्यः ।

"ब्राह्मणादिषु शूद्रस्य पचनादिक्रियाऽपि च" ।

 इति कलिवर्ज्यपाठात् ।  भग्न्यायतनं स्मृतिसंग्रहे--

"वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ।
अरत्निमात्रं तत्कार्यं विंशत्यङ्गुलमेव वा ॥
प्रादेशमात्रमथवा चतुरश्रं समन्ततः" इति ॥

स्मृतिसारे--

"वैश्वदेवे प्रकुर्वीत कुण्डमष्टादशाङ्गुलम् ।
मेखलात्रयसंयुक्तं द्विमेखलमथापि वा ॥
स्यादेकमेखलं वाऽपि चतुरश्रं समन्ततः ।
अपि ताम्रमयं प्रोक्तं कुण्डमत्र मनीषिभिः" इति[१२२]

 तत्रैव--

"न चुल्ल्यां नाऽऽयसे पात्रे न भूमौ न च खर्परे ।
वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा" इति ॥

 अपि वेत्यनन्तरं[१२३] कुर्यादिति शेषः । कुर्यात्स्थण्डिलकुण्डयोरित्यपि पाठः कुत्रचित् । चुल्ल्यामायसे पात्रे भूमौ खर्परे वा न वैश्वदेवं प्रकुर्वीत किंतु कुण्डे वा स्थण्डिले वा कुर्यादित्यर्थः । अत्र चुल्ल्यायसपात्रखर्परनिषेधात्कुण्डस्थण्डिलासंभवेऽपक्वमृन्मयपात्रकुण्डाकृतिरहितताम्रादिपात्रपक्वमृन्मयपात्राणामभ्यनुज्ञा गम्यते ।

"( [१२४]वैश्वदेवं प्रकुर्वीत स्वशाखाविहितं ततः ।
संस्कृतान्नैश्च विविधैर्हविष्यव्यञ्जनान्वितैः ॥
तैरेवाम्नैर्बलिं दद्याच्छेषमाप्लाव्य वारिणा ।
कृतापसव्यः स्वधया सर्वं दक्षिणतो हरेत्"

 इति व्यासोक्तेश्च । संस्कृतानि पक्वानि । चस्त्वर्थे । हविष्यव्यञ्जनान्वितः । हविष्यरूपाणि व्यञ्जनानि तैरित्यर्थः । वैश्वदेवं प्रकुर्वीतेत्यनेन होमात्मकं कर्मोच्यते । तैरेवान्नैर्बलिं दद्यादिति पृथुमुपादानात् । हविष्यव्यञ्जनान्वितैरित्युभयत्रान्वेति । तेन हविष्यरूप[१२५]पत्राद्यन्वितेनान्नेन होमः सिध्यति । यत्तु बलावेव सूपसंसर्जनविधानं तदहविष्यव्यञ्जनाभिप्रायम् । तस्यापि हविष्यत्वे होमो[१२६] भवति तेनेति द्रष्टव्यम् । अथवा बलावेव सूपसंसर्जनविधानान्नैव होमे हविष्यस्यापि सूपस्य संसर्ग इति द्रष्टव्यम् । सूपग्रहणं पत्रशाखा(का)द्युपलक्षणम् । बौधायनेन तेषामपि संसर्गविधानात् । पत्रादीनामपि हविष्यत्वे तेषामपि होमे विनियोगो बलावेव विनियोगो वेति विकल्पः सूपन्यायेन पत्रादिष्वपि द्रष्टव्यः । अत एवाऽऽश्वलायनेन मुख्यव्यञ्जनसाधारण्येन सिद्धशब्दः प्रयुक्तः । अत एव मुख्यान्नाभावे हविष्यरूपव्यञ्जनहोमः स्मृत्युक्तः संगच्छते । यदि हविष्यरूपव्यञ्जनस[१२७]त्त्वे तस्य होमो न स्यात्स्मृत्युक्तः । मुख्यान्नाभावे केवलहविष्यरूपव्यञ्जनहोमो विप्लवेन । हविष्यव्यञ्जनान्वितैरिति विशेषणं सपत्नीकत्वविशेषणवत्सद्भावाभिप्रायं ज्ञेयम् । तेन हविष्यव्यञ्जनान्वितताया न नियमः । यदि तु पत्रशाकादेर्व्यञ्जनस्यैव लाभो न त्वन्नस्य तत्र नागृहीतविशेषणन्यायेन स्मृतिभिश्च विशेष्यस्यालाभवशेन बाधेऽपि विशेषणीभूतकेवलव्यञ्जनेनैव होमः । एवमेकादश्यादावपि द्रष्टव्यम् ।)

 यत्तु वैश्वदेवं प्रकृत्य--

"उपरिष्टात्स्थिते पात्रे क्रिया चुल्ल्यामपि स्मृता" ।

 इति संग्रहनाम्ना पठन्ति केचिद्वचनं तन्निर्मूलमापद्विषयं वा बोध्यम् । वैश्वदेवः शृतान्नेन हविष्येणैव कार्यः ।

"अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्"

 [१२८] इत्याश्वलायनोक्तेः। ([१२९] आश्वलायनसूत्रे सिद्धशब्दः पक्वतापरः । तेन दध्यादिव्यावृत्तिः । व्यासवचने 'हविष्यव्यञ्जनान्वितैः । इत्यनेन सामुद्रसैन्धवलवणान्वितेन होमः प्राप्नोति । न क्षारलवणहोमो विद्यते तथा वरान्नसंसृष्टस्य' इति सत्याषाढापस्तम्बोक्ती अपि निरपेक्षलवणनिषेधेन यद्यपि व्याख्यातुं शक्येते तथाऽपि--

"जुहुयात्सर्पिषाऽभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं पयसाऽभ्यक्तं तदभावेऽम्भसाऽपि वा"

 इति व्यासोक्तो लवणसंसृष्टस्यापि निषेधः प्राप्नोत्येव ।

"जुहुयाद्व्यञ्जनक्षारवर्जमन्नं हुताशने"

 इति तु केवलव्यञ्जनपरमिति केचित् । तन्न । व्यञ्जनशब्दस्य क्षारपदसाहचर्यादहविष्यव्यञ्जनपरतासंभवेन केवलव्यञ्जनपरत्वोपवर्णनस्य स्मृत्यसिद्धस्यानुचितत्वात् । अथवा मुख्यान्नसत्त्वे केवलव्यञ्जनहोमनिषेधपरमिदं वचनं द्रष्टव्यम् ।

हविष्याणि स्मृतौ--

"हैमन्तिकं सितास्विन्नं धान्यं मुद्गा यवास्तिलाः ।
कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥
षष्टिकाः कालशाकं च मूलकं केमुकेतरत् ।
कन्दः सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥
पयोऽनुद्धृतसारं च पनसाम्रौ हरीतकी ।
पिप्पली जीरकं चैव नागरं चैव तिन्त्रिणी ॥
कदली लवली धात्री फलान्यगुडमैक्षवम् ।
अतैलपक्वं मुनयो हविष्याणि प्रचक्षते" इति ॥

 'हैमन्तिकमित्यनेन वार्षिकव्यावृत्तिः । सितमित्यनेन श्यामव्यावृत्तिः । अस्विन्नमित्यनेन स्विन्नव्यावृत्तिः,' इत्याचाररत्ने । 'सितास्विन्नं गौडेषु प्रसिद्धो धान्यविशेषः । स च हेमन्तोत्पन्न एव हविष्यः' इति स्मृतिकौस्तुभे । 'हैमन्तिकं धान्यं कलमास्तदपि सितं श्वेतमस्विन्नं हविष्यम्' इति व्रतार्के । 'अहविष्यमपि सितास्विन्नं सद्धविष्यं भवति' इति भोजनकुतूहले । धान्यं व्रीहयः । कलायाः सतीनापरपर्यायाः, मठर, इति प्रसिद्धाः । कुलित्था इति केचित् । कङ्गुः 'काङ्ग' इति भाषया प्रसिद्धः । नीवारा देवधान्यम् । वास्तूकम्, 'चाकवत' इति प्रसिद्धः पत्रशाकः । हिलमोचिका गौडेषु 'हिलासा' इति प्रसिद्ध: पत्रशाकः । षष्टिकाः षष्टिदिनैर्यदुत्पद्यते धान्यं तत् । [१३०]कालशाकः ([१३१]पर्वतदेशे प्रसिद्धः शाकः ।) केमुकं गौडेषु 'केम्बु' इति प्रसिद्धम् । मूलकं [प्रसिद्धम्] । कन्दः सूरणः । नागरं शुण्ठी । नागरङ्गं च तिन्तिणीत्ययमपि पाठः । अस्मिन्पाठे नागरङ्गशब्देन नारिङ्गं ज्ञेयम् । तिन्तिणी चिञ्चा । लवली 'राय आवळी' इति महाराष्ट्रे प्रसिद्धा । 'हरफारेवडी' इति मध्यदेशे प्रसिद्धा । अतैलपक्वमित्युक्तानां हविष्याणां विशेषणम् । हविष्यमपि तैलपक्वं चेदहविष्यं भवतीत्यर्थः ।)  सूत्रकृताऽपि शृतान्नेन होम उक्तो धर्मसूत्रे--

"गृहमेधिनो यदशनीयस्य होमा वलयश्च" इति ।

 गृहमेधिनो यदशनीयं पक्वमपक्वं वोपस्थितं तस्यैकदेशेन होमा वलयश्च वक्ष्यमाणाः कर्तव्याः, स्वर्गः पुष्टिश्च तेषां फलमिति व्याख्यातमुज्ज्वलाकृता । पक्वमग्निसंयोगाज्जातपाकमोदनादि । एतद्भिन्नमपक्वं फलादीति द्रष्टव्यम् । तच्च शृता[शृता]न्नं हविष्यमेव होमसाधनमित्यपि दर्शितं सूत्रकृता निषेधमुखेन 'न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्य' इति ।

 यद्युपवासवशेन[१३२] शाकपत्रमूलफलाहारस्तदा तेनैव वैश्वदेवः कार्यः--

"शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
संकल्पयेद्यदाहारस्तेनैव जुहुयादपि" इति गृह्यपरिशिष्टात् ॥

विश्वप्रकाशे--

"अन्नेन तण्डुलैर्वाऽपि फलेनाद्भिरथापि वा ।
वैश्वदेवं प्रकुर्वीत जपेन्मन्त्रानथापि वा" इति ॥

 मन्त्रान्वैश्वदेवमन्त्रान् । ([१३३] अत्रैवं व्यवस्था । शाकाद्याहारे शाकादिभिः । भोजनेऽन्नेन शृतेन । भर्जितान्नभक्षणे तण्डुलैरपक्वैरेव । सर्वथाऽशनाकरणेऽद्भिः । अतिसंकटेन जलस्याप्यभावे वैश्वदेवमन्त्रजप इति । उदकेन वैश्वदेवक्रियायामुदक एव कार्यो नाग्नौ ।

"अन्नेन तण्डुलैर्वाऽग्नौ जलेनाप्स्वपि वा चरेत् ।
वैश्वदेवं फलेर्वाऽपि मन्त्रा जप्या असंभवे" इतिसंग्रहवचनात् ॥

 "अद्भिरञ्जलिना जले" इतिवक्ष्यमाणचतुर्विंशतिमताच्च । पक्वान्नप्रतिग्रहेऽपि तेनैव वैश्वदेवस्तस्य पाकप्रयोजकत्वात् । शूद्रलब्धेन वैश्वदेवादि न कार्यम् ।

"आमं शूद्रस्य यत्किंचिच्छ्राद्धिकं प्रतिगृह्य च ।
तत्सर्वं भोजनायालं नित्ये नैमित्तिके न च" इतिषट्त्रिंशन्मतात् ॥)

 स्मृत्यन्तरे हविष्याण्युक्तानि--

"गोधूमा व्रीहयश्चैव तिला मुद्गा यवास्तथा ।
हविष्या इति विज्ञेया वैश्वदेवादिकर्मसु" इति ॥

 एवमन्यान्यपि स्मृतिभ्यो ज्ञेयानि । अ[१३४]हविष्याणि स्मृत्यन्तरे--

"कोद्रवं चणकं माषं मसूरं च कुलित्थकम् ।
क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत्" इति ॥

 ([१३५] "कन्दः सैन्धवसामुद्रे" इत्यनेन सैन्धवसामुद्रयोर्हविष्यत्वेन प्राप्तिर्यद्यपि तथाऽपि 'न क्षारलवणहोमो विद्यते' इति धर्मसूत्रे 'क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत्' इति स्मृत्यन्तरे च तयोर्निषेधान्निवृत्तिरेव । अत एव सर्वग्रहणं स्मृत्यन्तरे कृतमिति द्रष्टव्यम् । ) एवमन्यान्य[१३६]प्यहविष्याणि स्मृतिभ्योऽवगन्तव्यानि । विस्तरभयान्नोच्यते(न्ते)। ([१३७] निषिद्धं वर्जयित्वा हविष्याभावे यावनालादयो ग्राह्याः । 'यदन्नः पुरुषो लोके तदन्नास्तस्य देवताः' इतिवचनात् । इत्याचारप्रदीपे । ) अहविष्यद्रव्येण तत्संसृष्टेन वा होमो न कार्यः, किंतु तूष्णीं भस्माग्न्यायतनादुत्तरतोऽपोह्य त[१३८]स्मिन्होतव्यम् । तदुक्तं धर्मसूत्रे--

"न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्याहविष्यस्य होम उदीचीनं भस्मापोह्य तस्मिञ्जहुयात्तद्भुतमहृतं चाग्नौ भवति" इति ।

 यद्भक्ष्यमाणं पश्यतो लालोत्पद्यते तत्क्षारं गुडादि । लवणं प्रसिद्धम् । तत्संसृष्टं न होतव्यम् । तथा--अयज्ञं कुलित्थमाषाद्यन्नं तत्संसृष्टस्यान्नस्य होमो न विद्यते । वरान्नमित्यापस्तम्बः । अथ यस्यैवंविधमेव भोजनमुपस्थितं तस्य कथं भोजनं तत्राऽऽह--अहविष्यस्य होम उदीचीनमित्यादि । औषासात्पचनाद्वाऽग्नेरुदीचीनं भस्मापोह्योष्णं तस्मिन्भस्मनि जुहुयाद्वैश्वदेवहोममन्त्रमिति व्याख्यातमुज्ज्वलाकृता । ( [१३९] एकामाहुतिं तूष्णीं जुहुयादित्यन्ये निबन्धकाराः ।) उष्णं भस्मेत्यस्याङ्गारमिश्रितमुष्णं भस्मेत्यर्थः ।

तथा च बौधायनः--

"अङ्गारान्भस्ममिश्रांस्तु उद्धृत्योत्तरतोऽनलात् ।
जुहुयाद्वैश्वदेवं तु यदि क्षारादिमिश्रितम्" इति ॥

 ([१४०]यत्तु-- 'हविष्याणामभावे तु क्षारादिभिरपीष्यते' इत्याचारप्रदीपे स्मृत्यन्तरवचनं तदपि शब्दस्वरसात्क्षारादिभिरपीष्यते किमु वक्तव्यं कन्दमूलादिभिरित्यन्नाभावे मूलादिहोमकर्तव्यताबोधकम् । उदीचीनमुष्णं भस्मापोह्येत्येतेन विधिना क्षारादिभिरपि होमः कर्तव्यः । तेनैव वैश्वदेवसिद्धिरित्येवंपरं वा ।)  क्षार[१४१]गण उक्तः संग्रहे--

"तिलमुद्गादृते शैब्यं सस्ये गोधूमकोद्रवौ ।
शू(शु)क्तं च देवधान्यं चेत्येष क्षार[१४२]गणः स्मृतः" इति ॥

 यद्भक्ष्यमाणं पश्यतो लालोत्पद्यते तत्क्षारं गुडादीत्युज्ज्वलाकृत् । अयं च क्षारहोमनिषे[१४३]धो गोधूमव्यतिरिक्तपरः । गोधूमा ब्रीहयश्चेति पूर्वोदाहृतस्मृत्यन्तरवाक्ये तेषां वैश्वदेवे होमसाधनत्वेन ग्रहणात् । शू(शु)क्तं पर्युषितम् ।

([१४४]अग्निपुरा[१४५]णेऽपि--

"तिलमुद्गादृते शैव्यं सस्ये गोधूमकोद्रवौ ।
चीनकं देवधान्यं च शमीधान्यं तथै[१४६]क्षव[म्] ।
स्विन्नधान्यं तथोखर्यं मूलं क्षारगणः स्मृतः ।
जुहुयाद्व्यञ्जनक्षारवर्जमन्नं हुताशने" इति ॥

 चीनकाः कलायाः । उखर्यमुखरभूमिभवं मूलम् ।

 वैश्वदेवे निषिद्धद्रव्याण्युक्तानि काशीखण्डे--

"निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् ।
तैलपक्वं च पक्वान्नं सर्वं लवणयुक्त्यजेत् ॥
आढकीश्च मसूराश्च वर्तुलान्वरटांस्तथा
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत्" इति ॥

 निष्पावा वल्लाः । कलाया: 'मठर' इति प्रसिद्धाः । आढक्यस्तुवर्यः । वरटा धान्यविशेषः )। हविष्याहविष्यसत्त्वे तु--एकद्रव्यकृतेन वैश्वदेवेनेतरहविष्यान्नसंस्कारसिद्धिवदहविष्यान्नस्यापि संस्कारसिद्धेर्नैतत् । किं तु सर्वमप्यन्नमहविष्यं तदेति द्रष्टव्यम् । ([१४७] एतेन फलादिना वैश्वदेवं कृत्वाऽन्न[१४८]मसंस्कृतमेव तद्भोज्यमिति, गृहमेधिनो यदशनीयस्य होमा बलयश्चेत्यापस्तम्बेनोक्तेस्तेनैव कार्य इति मतद्वयं निरस्तं द्रष्टव्यम् ।) अत एव प्रकरणं परित्यज्य पृथगुक्तं सूत्रकृता । अत्र व्रतविशेष उक्तो धर्मसूत्रे--

"तेषामुपयो[१४९]गे द्वादशाहं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं चोत्तमस्यैकरात्रमुपवासः" इति ।

 तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे नियमपूर्वके ग्रहणे द्वादशाहं ब्रह्मचर्यं मैथुनवर्जनमधःशय्या स्थण्डिलशायित्वं क्षारलवणादिवर्जनं च भवति । उपयोक्तुरेव व्रतम् । अन्ये तु पत्न्या अपीच्छन्ति, उपयोगः प्रथमप्रयोगस्तत्र च पत्न्या अपि सहाधिकार इति वदन्तः । उत्तमस्योत्तमेन वैहायसमिति वक्ष्यमाणस्य ये भूताः प्रचरन्तीत्यस्यैकरात्रमुपवासः कर्तव्य इति व्याख्यातमुज्ज्वलाकृता । नियमपूर्वकं ग्रहणं गुरोः सकाशाद्विद्याग्रहणं तदर्थमित्यर्थः ।

 तथा च बौधायनः--

"तेषां ग्रहणे द्वादशरात्रं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं त्रयोदशेऽहन्युत्तमस्यैकाहमुपवासः" इति ।

 उज्ज्वलाकृन्मते त्वध्ययनाङ्गता । अन्येषां मते कर्माङ्गतेति मतद्वयं ज्ञेयम् । नियमं विनाऽधीतवैश्वदेवमन्त्रस्य वैश्वदेवानुष्ठानकाले वैश्वदेवमन्त्राध्ययनाङ्गभूतव्रतानाचरणनिमित्तप्रायश्चित्तानुष्ठानपूर्वकं वैश्वदेवा[१५०]रम्भः ।

प्रायश्चित्तं तु--

"प्रत्येकं कृच्छ्रमेकैकं चरित्वाऽऽज्याहुतीः शतम् ।
हुत्वा चैव तु गायत्र्या स्नायादित्याह शौनकः"

 इति स्मृत्युक्तं वेदव्रतलोपप्रायश्चित्तमेवात्र स[१५१]मानन्यायात् । स्नानपदं तु तत्तन्मन्त्रसाध्यकर्मोपलक्षणमिति । एवं चाग्नये स्वाहेत्यादिमन्त्राध्ययनार्थं व्रतमेकं ये भूता इतिमन्त्राध्ययनार्थमपरमिति व्रतद्वयलोपनिमित्तं प्राजापत्यद्वयं गायत्र्याऽऽज्येन शतद्वयहोमश्चेति प्रायश्चित्तं चरित्वा दायविभागे जाते सति प्रशस्तेऽहनि वैश्वदेवं समारभेत्[त]।

 व्रतस्य कर्माङ्गत्वपक्षेऽधीतमन्त्रोऽपि वैश्वदेवारम्भकाले व्रतद्वयं कुर्यादेवेति ।

धर्मसूत्रे--"सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात्तत्सुभूतमिति प्रतिवचनः" इति ।

 सिद्धे पक्वेऽन्ने तिष्ठन्पाचको भूतमिति प्रब्रूयात् । कस्मै यस्य तदन्नं तस्मै स्वामिने । भूतमिति निष्पन्नमित्यर्थः । तत्सुभूतमित्यादि[:] प्रतिवचनो मन्त्रः । तदन्नं सुभूतं सुष्ठु निष्पन्नमिति व्याख्यातमुज्ज्वलाकृता । तत्सुभूतमित्यादिपदोपादानात्तत्सुभूतं विराडन्नमित्येतस्य मन्त्रस्य प्रतीकग्रहणमेतदिति केचित् । स्वयंकर्तृके पाके प्रश्नप्रतिवचनयोर्लोपः ।

 ([१५२]पत्न्याः पाककरणोत्तरं भूतप्रतिवचनात्पूर्वं रजोदोषे विशेषश्छन्दोगपरिशिष्टे--

"भूतप्रवाचने पत्नी सद्यः संनिहिता भवेत् ।
रजोरा(रो)गादिना तत्र कथं कुर्वन्ति याज्ञिकाः ॥

महानसेऽन्नमाकुर्यात्सवर्णा(?) तत्र वाचयेत् ।
प्रणवाद्यपि वा कुर्यात्कात्यायनवचो यथा" इति ॥

 आकुर्यात्स्थापयीतेत्यर्थः । प्रणवाद्यपि वा कुर्यात् । प्रणवं प्रतिवचनसिद्ध्यर्थं पठेत् । आदिशब्देन व्याहृत्यादि ।)

 हौ(हो)म्पद्रव्यस्याधिश्रयणादिकमुक्तं धर्मसूत्रे--

"परोक्षमन्त्र स स्कृतमग्नावधिश्रित्या[१५३]द्भिः प्रोक्षेत्तद्देवपवित्रमित्याचक्षते" इति ।

 यदि शूद्राः परोक्षमन्नं संस्कुर्युः, तदा तत्परोक्षमन्नं संस्कृतमाहृतं स्वयमग्नावधिश्रयेत् । अधिश्रित्याद्भिः प्रोक्षेत् । प्रोक्षितमन्नं देवपवित्रमित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति व्याख्यातमुज्ज्वलाकृता । शृतमन्नमग्नौ स्वयमधिश्रयेत् । अधिश्रय[१५४]णं पुनरग्नेरुपरि स्थापनमात्रमन्नसहितस्य पात्रस्य । अधिश्रित्येत्येतदनन्तरं संस्कृतमित्येतत्पदमनुषज्यते । अग्नावधिश्रित्य संस्कृतं तत्प्रोक्षेदित्यन्वयः । संस्कृतमित्यत्राभिघारेणेति शेषः ।

तथा च कात्यायनः--

"उद्धृत्य हविरासिच्य हविष्येण घृतादिना ।
स्वशाखाविधिना हुत्वा तच्छेषेण बलिं हरेत्" इति ।

 हविष्येण घृतादिना घृताद्यन्यतमद्रव्येणोद्धृतं हविरासिच्याभिघार्य तेन हविषा जुहुयादित्यर्थः । आदिशब्दग्राह्यद्रव्याण्याह व्यासः--

"जुहुयात्सर्पिषाऽभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं पयसाऽभ्यक्तं तदभावेऽम्भसाऽपि वा" इति ॥

 ([१५५]यस्तु--

"जुहुयात्सर्पिषाऽभ्यक्तं गव्येन पयसाऽपि वा ।
क्रीतेन गोविकारेण तिलतैलेन वा पुनः ॥
संप्रोक्ष्य पयसा वाऽपि नानक्तं जुहुयादपि ।
अस्नेहा यवगोधूमशालयो हवनीयकाः" ॥

 इति बृहत्पराशरोक्तस्तैलविधिः स आज्यप्रतिनिधित्वेन तैलोपादानपरः । तच्च तिलतैलमेव । तेन सर्पिरभावे तिलतैलमात्रस्य ग्राह्यता नान्यस्येति द्रष्टव्यम् ।) अयं च देवपवित्रसंस्कारो यदि शूद्रा इत्युक्त्या शूद्रकर्तृकपाकपक्ष एवेत्युज्ज्वलाकृन्मतं गम्यते । परोक्षसंस्कृतत्वेनाग्नावन्नत्रयमधिश्रित्येति त्रिवृदन्नहोमे[१५६] केवलं परोक्षसंस्कृतत्व[१५७]स्यैव देवपवित्रसंस्कारहेतुत्वदर्शनादशूद्रपक्वेऽ प्यन्नेऽयं संस्कारो भवतीति मातृदत्तमतं गम्यते । तत्र युक्तं ग्राह्यम् । ([१५८]परोक्षमित्यत्र स्वस्येति शेषः । स्वस्य परोक्षमप्रत्यक्षं संस्कृतम् । अन्यैः संस्कृतमिति यावत् । तथा च स्वव्यतिरिक्तैः संस्कृतमन्नमग्नावधिश्रित्येत्यर्थो निष्पन्नो भवति । स्वयमेव संस्कृतं चेत्तदा नायं संस्कार इत्यर्थत एव सिद्धम् । न च स्वस्य पश्यत एव यदि पाककर्त्रा संस्कृतं तदा नायं संस्कारः कर्तव्यो भवेत्, संस्कारस्य तदा प्रत्यक्षत्वादिति वाच्यम् । इष्टापत्तेरिति मातृदत्तमतानुगुणोऽर्थः । यदि शूद्राः परोक्षमन्नं संस्कुर्युरित्युज्ज्वलाकृद्ग्रन्थस्वरसतस्तु शूद्रकर्तृकपाको देवपवित्रसंस्कारे न केवलं निमित्तं किं तु शूद्रकर्तृकपाकेऽपि यदि तेन पाककर्त्रा शुद्रेणापश्यता पाचितं चेत्तदैव पवित्रसंस्कारो नान्यथा । स चापश्यता पाचितस्यान्नस्यैवेति विशेषोऽवगम्यते । पाकेऽपश्यत्तायां हेतुर्व्यग्रचित्तत्वादिर्ज्ञेयः । यदि शूद्रा इत्यनन्तरं स्वस्येति पदं यदि योज्यते तदाऽयमर्थो भवति । यदि शूद्राः स्वस्याप्रत्यक्षमन्नं संस्कुर्युस्तदाऽयं संस्कार इति । एवं च स्वस्य प्रत्यक्षं शूद्रैः कृतेऽपि पाके नायं संस्कार इत्यर्थात्सिध्यति । उज्ज्वलाकृन्मते यथा पाककर्त्राऽपश्यता पाककरणेऽयं देवपवित्रसंस्कारस्तथा परोक्षमित्यत्र स्वस्येत्यस्यान्वयवत्स्वेनेत्यस्याप्यन्वयसंभवात्स्वकर्तृके पाकेऽपि स्वेनापश्यता पाचितान्नस्यैव संस्कारो न सामान्यतः सर्वस्यान्नस्येति । एवमार्यकर्तृकेऽपि पाके । अपश्यत्कर्तृक इति यद्युच्यते तदा तु स्वकर्तृकेऽपि पाक एतादृशेऽपि विषये देवपवित्रसंस्कार इति परोक्षमित्येतत्क्रियायामेवान्वेति न त्वन्ने तस्य प्रत्यक्षत्वेन तत्रान्वयासंभवात् । अत एव मातृदत्तेन परोक्षसंस्कृतत्वेनाग्नावन्नवयमधिश्रित्येति संस्कार एव परोक्षशब्दस्यान्वयः कृतः । एतेष्वर्थेषु युक्तायुक्तत्वं सद्भिर्विचार्य यद्युक्तं तद्ग्राह्यम् ।) देवपवित्रसंस्काराभावेऽपि घृतसंस्कारार्थं हविष्यान्नेन सह तत्संसर्गस्याऽऽवश्यकत्वाद्घृताभ्यक्तताऽन्नस्याऽऽवश्यकी यदशनीयस्येत्यनेनैतल्लभ्यते ।

 होमप्रकारो धर्मसूत्रे--

"औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्र हस्तेनैता आहुतीर्जुहुयात्" इति ।

 षड्भिराद्यैः, ॐ अग्नये स्वाहा, ॐ विश्वेभ्यो देवेभ्यः स्वाहा "ॐ ध्रुवाय भूमाय स्वाहा, ॐ ध्रुवक्षितये स्वाहा, ॐ अच्युतक्षितये स्वाहा, ॐ अग्नये स्विष्टकृते स्वाहा, इत्येतैः । एते मन्त्रा उपनिषद्भागे पठिताः ।

 यद्यपि सोमाय स्वाहेति पाठे न पठितं तथाऽपि हविष्केषु सर्वत्र तस्य प्रवृत्तिरिति वदन्तः सोमाय स्वाहेति द्वितीयां जुह्वति । स्विष्टकृत्त्वात्तमपि सप्तमं जुह्वति, अग्नये स्विष्टकृते स्वाहेति । आचार्यस्तु-- अग्नये स्वाहेत्यादिस्विष्टकृदन्ताः षडाहुतीर्मन्यते । हस्तग्रहणं दर्व्यादिनिवृत्त्यर्थम् । केचित्तु--सूर्याय स्वाहा प्रजापतये स्वाहेति द्वे आहुती जुह्वति । औपासनदेवताभ्यश्चेत्याश्वलायनस्मरणादिति व्याख्यातमुज्ज्वलाकृता ।

 वदन्त इत्यत्र केचिदाचार्या इति शेषः । षड्भिराद्यैरित्यनेन पठितमन्त्रातिरिक्तमन्त्रसाध्याऽन्याहुतिर्नास्तीति स्वमतं प्रदर्शितं भवतीत्याचार्यस्तु[१५९] षडाहुतीर्मन्यत इत्यस्य व्याख्यान[१६०]स्य तात्पर्यार्थः । षड्भिराद्यैरिति संख्यया प्रधानतुल्यत्वं स्विष्टकृतोऽवगम्यते । तेन स्विष्टकृदाहुतिविस्मरणेऽपि तदुत्तरं भोजनात्प्राक्स्मरणे सर्वप्रायश्चि[१६१]त्तं हुत्वाऽग्न्युपसमाधानादिविधिना विस्मृता स्विष्टकृदाहुतिर्होतव्येति सिद्धं भव[१६२]ति । भोजनानन्तरं स्मरणे परेद्युः सर्वप्रायश्चित्तं हुत्वोपोषणं कुर्यात्[१६३] । उपोषणाशक्तो मनस्वत्याहुतिः । एवं बलिविस्मरणेऽपि[१६४]

 एवं पञ्चमहायज्ञलोपेऽपि ।

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इति वचनात् ॥

 सूर्याय स्वाहा प्रजापतये स्वाहेति केचिज्जुह्वतीत्यत्र सूत्रविरोधोऽस्वरसो द्रष्टव्यः । धर्मसूत्रे-- 'उभयतः परिषेचनम्' इति, यथापुरस्तादन्वम स्थाः प्रासावीरिति मन्त्रान्तान्संनमतीतिगृह्योक्तविधिना, अत्रानुक्तत्वादिति व्याख्यातमुज्ज्वलाकृता । सर्वदर्विहोमाणामेष कल्प इतिप्राप्तस्य कृत्स्नतन्त्रस्य परिसंख्यार्थमिदं वचनम् । उभयतःपरिषेकमात्रं कर्तव्यं नेतरद्गृह्योक्तोद्धननादिकं तन्त्रमिति[१६५] । एतच्च दर्विहोमशब्दस्य रूढत्वपक्षे । अन्यथा त्वपूर्वविधिरिति द्रष्टव्यम् । रेखालेखनावोक्षणोत्सेचनविधानान्यप्यत्र न भवन्ति यथोपदेशं कुरुत इति वक्ष्यमाणविशेषवचनेन[१६६] तेषां बाधात्[१६७]  चतुर्विंशतिमते हविषोऽभावे द्रव्याणि, अवदानसाधनानि चोक्तानि--

"अलाभे येन केनापि फलशाकोदकादिभिः ।
पयोदधिघृतैः कुर्याद्वैश्वदेवं स्रुवेण तु ॥
हस्तेनान्नादिभिः कुर्यादद्भिरञ्जलिना जले" इति ।

 हस्तेन होमे विशेषः परिशिष्टे--

"उत्तानेन तु हस्तेन अङ्गु[१६८]ल्यग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्धविः" इति ॥

 [१६९] होमकाले सव्यपाणेर्हृदि निधानमुक्तं स्मृतिमञ्जर्याम्--

"संकल्पयेद्यदाहारस्तेनैव जुहुयादपि !
पाणिना जुहुयाद्धोम्यं हृदि सव्यं निधाय वै" इति ॥

गोभिलीये--

"न मुक्तकेशो जुहुयान्नानिपातितजानुकः ।
अनिपातितजानोस्तु राक्षसैर्ह्रियते हविः" इति ॥

अथ बलिहरणम् ।

 तत्र विशेषो धर्मसूत्रे--

"बलीनां तस्य तस्य देशसंस्कारो हस्तेन
परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम्" इति ।

 बलीनां तस्य तस्य बलेर्देशस्य संस्कारः कर्तव्यः । कः पुनरसौ । हस्तेन परिमार्जनमवोक्षणं च । तत्कृत्वा बलीनां निवपनं न्युप्य पश्चात्परिषेचनं कर्तव्यम् । उपदेशादेव सिद्धे पश्चाद्ग्रहणं मध्ये गन्धमाल्यादिदानार्थमित्याहुः । तस्य तस्येति वचनं सत्यपि संभवे सकृदेव परिमार्जनमवोक्षणं च मा भूत्, एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यच्च धर्मसूत्रे--

"एवं बलीनां देशे देशे समवेताना सकृत्सकृदन्ते परिषेचनम्" इति ।

 यथा षण्णामाहुतीनां[१७०] परिषेचनं तन्त्रविभवात्, एवं बलयोऽप्येकदेशसमवेता उत्तरैर्ब्रह्मसदन इत्यादयस्तेषां त[१७१]दन्ते परिषेचनं प्राप्तं पश्चात्परिषेचनमित्यनेन विहितं सकृत्सर्वान्ते सकृत्सकृत्कर्तव्यं न प्रत्येकं पृथगिति । असत्यस्मिन्सूत्रे पूर्वस्य तस्येतिवचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येकं पृथग्भवति तथा परि षेचनमिति स्यात् । अत्र वोपदेशवशादेव य एकदेशबलयस्तेषामेव सकृदन्ते परिषेचनं न यादृच्छिक्य(क)समवाये, तेन यद्यपीच्छयाऽगारस्योत्तरदेशः शय्यादेशः कृतस्तथाऽपि कामलिङ्गस्य पृथक्परिषेचनं भवत्येवेति व्याख्यातमुज्ज्वलाकृता । शय्यादेशस्तु गृहस्य दक्षिणतो नियतः ।

 तथाऽऽह ज्योतिर्निबन्धे लल्लः--

"स्नानं च पाकः शयनं च भोज्यं गजालयो वाजिगृहं धनस्य ।
दे[१७२]वस्य पूर्वादिदिशि क्रमेण मध्ये सभा भूषनिवेशनाय" इति ॥

 अन्यत्रापि--

"विक्रमस्थानं पचनं शयनं सूतिकागृहम् ।
भोजनं पशुभाण्डारमीशान्यां देवतागृहम्" इति ॥

ज्योतिर्वसिष्ठोऽपि--

"ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः ।
याम्यां तु शयनस्थानं नैर्ऋत्यां सूतिकागृहम् ॥
वारुण्यां भोजनगृहं वायव्यां पशुमन्दिरम् ।
कौबेर्यां तु धनस्थानमीशान्यां देवतागृहम्" इति ॥

 शिल्पशास्त्रे चैवम् ।

 अवदानबल्योः प्रमाणं स्मृत्यर्थसारे--

"अङ्गुष्ठपर्वमात्रं स्यादवदानं ततोऽपि च ।
ज्यायः स्विष्टकृदाज्यं तु चतुरङ्गुलसंमितम् ॥
कुक्कुटाण्डकमात्रं तु बलिरित्यभिधीयते" इति ।

 बलीनामार्द्रामलकप्रमाणत्वमुक्तं छन्दोगपरिशिष्टटीकायाम्--

"प्राणाहुतिं बलिं चैव आर्द्रामलकमानतः" इति ।

 कुर्यादिति शेषः ।

 बलयः सति सूपे तत्संसृष्टेनान्नेन कार्याः ।

 तदुक्तं धर्मसूत्रे--'सति सूप(पे)संसृष्टेन कार्याः' इति । सति सूपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्यैरपि व्यञ्जनैः संसर्गमिच्छन्ति ।

 तथा च बौधायनः--'काममितरेषु' इति । एष एव व्यञ्जनसंस्कारः । व्यञ्जनसंसृष्टेनान्नेन बलयः कार्याः सति संभव इत्थमिति व्याख्यातमुज्ज्वलाकृता ।

 [१७३]लिदानप्रकारो धर्मसूत्रे--

"अपरेणाग्नि सप्तमाष्टमाभ्यामुदगपवर्गमुदधानसंनिधौ नवमेन मध्येऽगा रस्य दशमैकादशाभ्यां प्रागपवर्गमुत्तरपूर्वार्धेऽगारस्योत्तरैश्चतुर्भिः शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेनोत्तरेणापिधान्यामुत्तरैर्ब्रह्मसदने दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिर्दद्याद्रौद्र उत्तरो यथादेवतं तयोर्नाना परिषेचनं धर्मभेदान्नक्तमेवोत्तमेन वैहायसः" इति ।

 अपरेणाग्निमग्नेः पश्चात्सप्तमाष्टमाभ्यां धर्माय स्वाहाऽधर्माय स्वाहेत्येताभ्यां बलिहरणं कर्तव्यम् । उदगपवर्गं न प्रागपवर्गम् । उदकं यत्र धीयते तदुदधानं मणिकाख्यं तस्य संनिधौ नवमेनाद्भ्यः स्वाहेत्यनेन मध्येऽगारस्य[१७४] । दशमैकादशाभ्यामोषधिवनस्पतिभ्यः स्वाहा रक्षोदेवजनेभ्यः स्वाहेत्येताभ्यां प्रागपवर्गम् । अगारस्योत्तरपूर्वार्धे गृह्याभ्यः स्वाहाऽवसानेभ्यः स्वाहाऽवसानपतिभ्यः स्वाहा सर्वभूतेभ्यः स्वाहेत्येतैः, प्रागपवर्गमित्येव । कामाय स्वाहेति शय्यादेशे । देहली द्वारस्याधस्तात् । तस्याधोवेदिकेत्येके । अन्ये त्वन्तर्द्वारस्य ग्रहणमिति । तत्रान्तरिक्षाय स्वाहेति । येना(ययाऽ)पिधीयते द्वारं साऽपिधानी कपाटं तदर्गलमित्यन्ये । तत्र-- यदेजति जगति यच्च० यन्नाम्ने स्वाहेति । उत्तरैर्ब्रह्मसदने । अगारस्येत्यनुवृत्तेस्तस्य यो ब्रह्मसदनाख्यो देशो वास्तुविद्याप्रसिद्धः, अगारस्य मध्ये(ध्यं), तत्रोत्तरैः पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहेन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहेत्येतैः, प्रागपवर्गमेव ।

 अपर आह-- मध्येऽगारस्येत्यत्र देशस्योपयुक्तत्वाद्ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्देक्षिणतः स ब्रह्मसदनस्तत्रेति ।

 अनन्तराणां बलीनां दक्षिणतः स्वधा पितृभ्य इत्यनेन बलिं कुर्यात् । प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणपाणिमुत्तानं कृत्वाऽङ्गुष्ठतर्जन्योरन्तरालेन पितृबलेरुत्तरतो रौद्रो बलिः । यथादेवतं प्राचीनावीत्यर्वाचीनपाणिरिति नानुवर्तत इत्यर्थः । नमो रुद्राय पशुपतये स्वाहेति मन्त्रः ।

 अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति तथाऽपि रुद्रस्यैव विशेषणमिति रौद्र इति व्यपदेश्यत्वेनोपप[१७५]न्नं देवतास्मरण[१७६]मपि रुद्रायेत्येव कुर्वन्ति । रुदाय पशुपतय इत्येके । केचित्तूत्तरो मन्त्रो रौद्रः स पशुपतिदेवत्य इति व्याचक्षते । तेषां देयः प्राग्वोदग्वा पित्र्यात् । तयोरनन्तरयोरन्त्ययोरेकस्मिन्देशे समवेतयोरपि नाना पृथक्परिषेचनं कर्तव्यं कुतो धर्मभेदात् । पित्र्यं स्यादप्रदक्षिणं परिषेचनमितरस्य दैवत्वात्प्रदक्षिणमिति । उत्तमेन 'ये भूताः प्रचरन्ति नक्तं बलिमि च्छन्तो०र्दधातु स्वाहा" इत्यनेन नक्तम् । 'ये भूताः प्रचरन्ति दिवा बलिम्' इति दिवा । एवं पदत्यागेन मन्त्रपाठः । आश्वलायनोऽपि-- 'दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तम्' इति ।

 ([१७७] बलिहरणे त्यागो न, हरणमात्रोक्तेः । यजतिजुहोतिचोदितत्वाभावाच्च । अन्यथा तर्पणेऽपि त्यागापत्तेरिति केचिदाहुः। अन्ये तु सूक्तवाककरणत्वान्यथानुपपत्त्या प्रहरतेर्यागकल्पकत्ववदत्रापि चतुर्थीनिर्देशान्यथानुपपत्त्या हरतेर्यागार्थत्वौचित्यादिति प्राहुः । अपर आहुः-- एवकारो भिन्नक्रमः । नक्तमुत्तमेन बलिरि(रेवे)ति तदन्यतराणां रात्रौ निवृत्तिरिति व्याख्यातमुज्ज्वलाकृता । अदित इत्यादिमन्त्रसाध्यपरिषेकत्वरूपधर्मस्य गार्ह्यकर्मस्वेव सत्त्वोक्तिरेतच्चोभयतः परिषेचनमित्यस्यापूर्वविधित्वकल्पे । परिसंख्याकल्पे तु गार्ह्यकर्मणामेवैतत्कर्मप्रकृतित्वाद्गार्ह्यकर्मस्वित्युक्तिरिति द्रष्टव्यम् । शय्यादेश उत्तरेण देहल्या उत्तरेणोत्तरेणापिधान्यामित्येवं वक्तव्ये कामलिङ्गेनान्तरिक्षलिङ्गेनेत्येवं वचनं ज्ञापयति स्वाहान्तेन चतुर्थ्यन्तेन कामपर्यायशब्देन तथाभूतेनान्तरिक्षशब्देनापि पक्षे दानमस्तीति । स्मराय स्वाहाऽनङ्गाय स्वाहेति । आकाशाय स्वाहा नभसे स्वाहेति । स्वधा पितृभ्य इत्येतावानेव मन्त्रः । न तु स्वाहान्तः । उज्ज्वलाकृताऽपि स्वधा पितृभ्य इत्येतावानेव मन्त्रः प्रदर्शितोऽस्ति । एतेन ज्ञायते स्वाहाकारपाठो नास्तीति । यद्यस्ति तदा पितृभ्यः स्वाहेतिमन्त्रान्तराभिप्रायेणैव स योज्यः । अस्मिन्कल्पे यज्ञोपवीतिताऽपि द्रष्टव्या । अयं च कल्पो जीवत्पितृकविषयकः । स्वधा पितृभ्य इतिमन्त्रान्त एव पित्र्यबलिर्देयः, न तु स्वधाशब्दान्ते । अन्यथा मन्त्रस्य करणत्वव्याघातापत्तेः । ननु स्वधाशब्दस्य दानार्थत्वात्तदन्त एव बलिदानमस्त्विति चेत्सत्यम् । मन्त्रान्त्या(न्त)स्थस्वधाशब्दान्त एव दानं न मध्यस्थान्त इत्यनायत्या(पत्त्या?) स्वीकारात्, स्वधाशब्दोच्चारणोत्तरत्वमादायापि दानार्थकत्वस्य यथाकथंचिन्निर्वाहसंभवाच्च । स्वधाशब्दान्ते दाने तु करणत्वं नैव निर्वहति । अ[१७८]तो मन्त्रान्त एव दानमिति सिद्धम् । द्वितीयवैश्वदेवे पुनस्तस्य तस्यैव देशस्य बल्यधिकरणत्वात्तस्य पूर्वकृतवैश्वदेवबलिव्यापृतत्वेन तत्र द्वितीयवैश्वदेवसंबन्धिपरिमार्जनादिधर्मविशिष्टबलिदानासंभवात्पूर्वबलिनिष्काशनमर्थसिद्धम् । देवयज्ञादिषु यज्ञशब्दप्रयोगे[१७९]ऽपि विद्युद्वृष्टी नैव भवतः । तयोः श्रौतयज्ञविषयत्वात् । शेषाद्भूतबलिं हरेदिति मनुवचने शेषाद्भूतबलिहरणविधानाच्छेषनाशे लोप इति न भ्रमितव्यं, प्रतिनिधित्वेन द्रव्यान्तरोपादानसिद्धेः । आश्रयिकर्मणः स्विष्टकृत आज्ये[१८०]नेव । अन्यथा शेषस्य द्रव्यत्वसिद्धये देवयज्ञावृत्तिप्रसङ्गादिति उच्छृङ्खलाः । शेषं दक्षिणा निनयेदित्याश्वलायनसूत्रे द्वितीयाशेषपदश्रुतिभ्यां भूतयज्ञशेषप्रतिपत्तितया भूतयज्ञाङ्गत्वप्रतीतेः शेषनाशे लोप एवेति यद्यपि प्रतीयते तथाऽपि पितृयज्ञसिद्ध्यर्थं प्रतिनिधिमुपादाय पितृयज्ञः कर्तव्य एव सत्याषाढसत्रानुसारिभिः सूत्रकृता प्रतिपत्तित्वस्यानुक्तेः । ब्राह्मणभोजनं वा पितृयज्ञत्वेन कर्तव्यम् ) । नक्तमेव वैहायसः । रात्रावेव वैहायसः कर्तव्यः । रात्रावाकाश एव देयः । दिवा भूमौ ।

 तथा च बौधायनः-- "अथाऽऽकाश उत्क्षिपन्ति ये भूताः प्रचरन्ति नक्तम्"

 ([१८१] स्मृतिरत्नाकरे जातकर्ण्यस्तु--

"वायसेभ्यो बलिं रात्रौ नैव दद्यान्महीतले ।
ये भूताः प्रचरन्तीति पात्रे दद्याद्बलिं सुधीः" ॥

 इति पात्रे बलिदानमाह ।

 स्मृत्यन्तरे--

"द्विजो गृहबलीन्दत्त्वा नैव पश्येत्कदाचन ।
स्वयं नैवोद्धरेन्मोहादुद्धारे श्रीर्विनश्यति" इति ॥

पृथ्वीचन्द्रोदये--

"अनुद्धृत्य बलीनश्नन्प्राणायामान्षडाचरेत् ।
स्वयमुद्धरणे चैव प्राजापत्यं समाचरेत् ॥

बलीन्वैश्वदेवबलीन् । दर्शने तु प्रायश्चि[१८२]त्तानुक्तेः

गायत्र्यष्टशतं चैव प्राणायामत्रयं तथा ।
प्रायश्चित्तमिदं प्रोक्तं नियमातिक्रमे सति" ॥

 इति सामान्यप्रायश्चित्तमेव ।

"विष्णुस्मरणमेव स्यात्सर्वदोषनिबर्हकम्" ।

 इति वचनाद्विष्णुस्मरणमात्रं वा ।)

 धर्मसूत्रे--"एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च" इति ।  य एताननन्तरोक्तान्होमान्बलींश्चाव्यग्रः समाहितमना भूत्वा यथोपदे[शमुपदे]शानतिक्रमेण कुरुते तस्य नित्यः स्वर्गः पुष्टिश्च । नित्याः स्वर्गपुष्टिसंयुक्ता इति यत्पूर्वमुक्तं तस्यार्थवादता मा भूदिति पुनर्वचनम् । पुष्टिस्वर्गौ नित्यावेव भवतः, न प्रबलैरपि कर्मान्तरैर्बाधनमिति व्याख्यातमुज्ज्वलाकृता । एतानव्यग्रः कुरुते नित्यः स्वर्गः पुष्टिश्चेत्येतावतैव सूत्रोक्तकर्मानतिक्रमेणानुष्ठानकर्तुरेव नित्यस्वर्गपुष्टिसिद्धिरित्येतादृशार्थसिद्धौ यथोपदेशवचनं यावदत्र विहितं तावदेव कर्तव्यम्, नान्यत्परिस्तरणादि, नाप्यन्यच्छास्त्रान्तरोक्तमाकाङ्क्षितमविरुद्धमपि ध्यानसमिदभ्याधानादीतिज्ञापनार्थम् । एतेन ज्ञायते सति संभवेऽन्यत्र शास्त्रान्तरप्रोक्तमाकाङ्क्षितमविरुद्धं चेत्तदपि कदाचिदुपसंहर्तव्यमिति । ( [१८३]एतदन्तो वैश्वदेवः । अयं च जीवत्पितृकस्याप्यावश्यकः । मृतपितृकस्यैवेतिविशेषानुपलम्भात् ।

"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च ।
वैश्वदेवं पृथक्कुर्यात्पितर्यपि च जीवति" इति शाकलोक्तेश्च ।

 वैश्वदेवस्य पितृयज्ञसाध्यत्वाज्जीवत्पितृकस्य तल्लोपे तद्घटितस्य कर्मणोऽपि लोपप्रसक्ताविदं वचनम् । तत्र पित्र्यबलिं वर्जयित्वा कृत्स्नमवशिष्टं कर्म कर्तव्यमित्येके ।

 अन्ये तु--"येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" ।

 इति वचनात्पितामहादीनुद्दिश्य पितृयज्ञोऽपि कर्तव्य इत्याहुः ।

 परे तु--अग्निष्वात्तादीन्देवपितॄनुद्दिश्यैव पित्र्यबलिः कर्तव्य इति वदन्ति ।)

 अनग्निकस्य विशेषमाह वसिष्ठः--

"अनग्निकस्तु यो विप्रः सोऽन्नं व्याहृतिभिः स्वयम् ।
हुत्वा शाकलमन्त्रैश्च शिष्टाद्भूतबलिं हरेत्" इति ॥

 अनग्निको भार्याभावेन श्रौतस्मार्ताग्निपरिग्रहाधिकारशून्यः[१८४] । शकलप्रहरणसाधन[१८५]मन्त्रा देवकृतस्यैनसोऽवयजनमसि स्वाहेत्यारभ्य--एनस एनसोऽवयजनमसि स्वाहेत्य[१८६]न्ताः । एतच्च शकलप्रहरणं ज्योतिष्टोमे विहितम् ।

कर्मप्रदीपे--

"अग्न्यादिर्गौतमेनोक्तो होमः शाकल एव च ।
अनग्निकस्य त्वप्येष युज्यते बलिभिः सह" इति ॥

 अग्न्यादिरग्निवाय्वादिदेवत्यः, भूरादिव्याहृतिकरणक इत्यर्थः । अ[१८७]पिरेवकारार्थः । अनग्निकस्य त्वेष एव युज्यत इत्यन्वयः ।

विष्णुरपि--

"अन्नं व्याहृतिभिर्हुत्वा ततो मन्त्रैश्च शाकलैः ।
प्राजापत्यं हविर्हुत्वा पूजयेदतिथिं ततः" इति ॥

 प्राजापत्यं हविरिति प्रजापतये स्वाहेत्येकामाहुतिं हुत्वेत्यर्थः । पूजयेदतिथिं तत इति तु स्वकालीनमनुष्ययज्ञानुवादमात्रं न तु होमानन्तरमेव तद्विधिः ।

 [१८८]स्मृतिसारे--

"अनग्निकस्य विप्रस्य होमः शाकलमन्त्रकैः ।
भूतपित्र्यबली पश्चादतिथिं पूजयेत्ततः" इति ॥

 भूतपित्र्यबली स्वस्वगृह्योक्तप्रकारे[१८९]ण । प्रत्येकजात्यभिप्रायेण द्विवचनं, तेन सर्वेऽपि बलयः कार्याः । नातो युज्यते बलिभिः सहेत्यनन्तरोदाहृतकर्मप्रदीपवचनेन सह विरोधः ।

 केचित्तु भूतेभ्यो नमः पितृभ्यः स्वधा नम इत्येवं भूतपित्र्यबलिहर[१९०]णं द्विवचनस्वारस्यादि[१९१]ति वदन्ति ।

 स्मृत्य[१९२]र्थसारे--"स्नातको ब्रह्मचारी वा पृथक्पाको वैश्वदेवं कुर्यात्" इत्युक्तत्वात्तयोरप्यनेनैव प्रकारेण वैश्वदेवो ज्ञेयः । ([१९३]नियमं विनाऽधीतबलिहरणमन्त्रश्चेद्बलिहरणमन्त्राध्ययनाङ्गभूतव्रतानाचरणनिमित्तप्रायश्चित्तानुष्ठानपूर्वकमयं वैश्वदेवः कार्यः । प्रायश्चित्तं तु प्रागुक्तमेव । सूत्रोक्तवैश्वदेवानुष्ठानकाले पुनः षडाहुतिमन्त्राध्ययनाङ्गभूतव्रतानाचरणनिमित्तं प्रायश्चित्तं कृत्वा सूत्रोक्तो वैश्वदेवः कार्यः । सहैव वैतत्प्रायश्चित्तद्वयं कार्यम् । वस्तुतस्तु ब्रह्मचारिणो वैश्वदेवो न भवति । "भैक्षेण वर्तयेन्नित्यम्" इति ब्रह्मचारिप्रकरणे मनूक्तेः "यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ" इति पराशरोक्तेश्च तस्य पाकाभावात् । पञ्चयज्ञाधिकारे गृहीतिशङ्खस्मरणाच्च । न च स्नातकस्यापि गृही(हि)त्वाभावान्नाधिकार इति वाच्यम् । "स्नातकेनापि तत्कार्यं पृथक्पाको भवे द्यदि" इति शौनकेन स्पष्टतया तस्याधिकारप्रतिपादनात् । यत्तु स्मृत्यर्थसारे--"स्नातको ब्रह्मचारी च पृथक्पाकी वैश्वदेवं कुर्यात्' इत्युक्तं तदापत्कालिकं बोध्यम् । इति वैश्वदेवविधिः ।)

अथ वैश्वदेवकालनिर्णयः ।

 तत्र साग्नेर्वैश्वदेवकालमाह लौगाक्षिः--

"पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं तु साग्निकः ।
पिण्डयक्षं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः" इति ॥

 पक्षान्तं कर्मान्वाधानम् । अन्वाहार्यकं दर्शश्राद्धम् ।

 पक्षान्तपिण्डपितृयज्ञयोर्मध्ये विधानादेव वैश्वदेवस्य साग्निककर्तृकत्वावगतेः पुनः साग्निकशब्दोपादानस्य वैयर्थ्यापानात्साग्निकशब्दोपादानमन्वाधानपिण्डपितृयज्ञकर्तुरौपासनाग्निमतो निवृत्त्यर्थमिति हेमाद्रिमदनपारिजातादयः ।

 नवीनास्तूक्तरीत्यैवाविशेषेण श्रौतस्मार्ताग्निमतोरुभयोरपि वैश्वदेवकर्तृकत्वावग[१९४]मात्साग्निकपदस्यानुवादकत्वमेव न तु स्मार्ताग्निमन्निवर्तकत्वं श्रौताग्निमत एव निवर्तकत्वेन वैपरीत्यस्यापि सुवचनादतोऽनुवादकत्वमेव युक्तमित्याहुः ।

 देवलोऽपि वैश्वदेवानन्तरमेव पिण्डपितृयज्ञादिकर्तव्यतामाह --

"अकृते वैश्वदेवे तु स्थालीपाकः प्रकीर्तितः ।
अन्यत्र पिण्डयज्ञात्तु सोऽपराह्णे विधीयते" इति[१९५]

 अत्र स्थालीपाकशब्देन स्थालीपाककर्माण्युच्यन्ते । एतानि कर्माणि वैश्वदेवापूर्वमेव कर्तव्यानि । पिण्डपितृयज्ञस्यापि स्थालीपाकसाध्यत्वेन तस्यापि पूर्वत्र कर्तव्यतायां प्राप्तायामपवादोऽन्यत्रेति, पिण्डपितृयज्ञादन्यत्रेत्यर्थः ।

 दर्शश्राद्धस्य पिण्डपितृयज्ञानन्तर्यमाह मनुः--

"पिण्डयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्" इति ॥

 इमानि लौगाक्ष्यादिवचनानि एकदिनप्रसक्तानामन्वाधानादीनां क्रमाकाङ्क्षायां तन्मात्रमेव विदधते न कमपि पदार्थं तेन कदाचित्पिण्डपितृयज्ञस्योत्तरदिनकर्तव्यत्वेऽपि न क्षतिः । यानि श्राद्धात्पूर्वं वैश्वदेवकर्तव्यताप्रतिपादकानि वचनानि तानि सर्वाणि लौगाक्ष्यादिवचनानुसारेण साग्निकविषयाणि व्यवस्थापनीयानि । तस्या(न्ना(?))प्येकादशाहश्राद्धे पश्चादेव ।

"संप्राप्ते पार्वणश्राद्ध एकोद्दिष्टे तथैव च ।
अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि" इति परिशिष्टात् ।
"श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः ।
ऐकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते" इतिशालङ्कायनवचनाच्च ।

 एवं साग्निकस्य श्राद्धात्प्रागेव नियमाद्यानि श्राद्धमध्ये विकिरान्ते ब्राह्मणविसर्जनान्ते च वैश्वदेवविधायकानि तान्यनग्निविषये व्यवतिष्ठन्ते । न चाग्निमदनग्निमद्विषयं पक्षत्रयमविशेषादिति वाच्यम् ।

"वैश्वदेवमकृत्वैव श्राद्धं कुर्यादनग्निकः ।
लौकिकेऽग्नौ हुते शेषः पितॄणां नोपतिष्ठति" ॥

 इति वसिष्ठेन विशेषाभिधानात् ।

 अनग्निकस्य त्रयः काला वैश्वदेवे--एकः श्राद्धमध्येऽपरो बलिदानान्तेऽन्यो ब्राह्मणविसर्जनान्ते ।

 तत्र मध्यकर्तव्यता ब्र[१९६]ह्माण्डपुराणे--

"वैश्वदेवाहुतीरग्नावर्वाग्ब्राह्मणभोजनात्
जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा तु तत्स्मृतम्" इति ॥

 अर्वाग्ब्राह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वैश्वदेवाहुतीर्जुहुयादित्यु[१९७]क्तं भवतीति हेमाद्रिः । अत्र भूतयज्ञादेः श्राद्धानन्तरकर्तव्यताविधानादस्मिन्प्रयोगे यानि भूतयज्ञोत्तरभावीनि कर्माणि संबन्धक्रमाणि तानि तदाद्युत्कर्षन्यायेनोत्कृष्टानि श्राद्धान्ते कर्तव्यानि न तु भूतयज्ञात्पूर्वभावीन्युत्क्रष्टव्यानि । स च न्याय इत्थं जैमिनिनोक्तः--"अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षः स्यात्" इति । अग्नीषोमीये पशौ हविरासादनोत्तरं प्राप्तानां प्रयाजानां तिष्ठन्तं पशुं प्रयजन्तीत्यपकर्षः श्रुतः । तथा सवनीयेऽनूयाजानामाग्निमारुतादूर्ध्वमनूयाजैश्वरन्तीत्युत्कर्षः । स तावन्मात्रस्यैवेति प्राप्ते प्रयाजमात्रापकर्ष आघारानन्तर्यस्य प्रकृतिप्राप्तस्य बाधापत्तेर्बद्धक्रमस्य प्रयाजान्तकाण्डस्यापकर्षः । एवमनूयाजमात्रस्योत्कर्षे सूक्तवाकप्राग्भावित्वस्य प्रकृतिप्राप्तस्य बाधापत्तेर्बद्धक्रमस्यानूयाजादिकाण्डस्योत्कर्ष इति सिद्धान्त इति न्यायः । यच्छाखायां बलिहरणादिकमेव भूतयज्ञादिकं तेषां बलिहरणादिकस्यैवोत्कर्षः ।

 येषां तु बलिहरणादिव्यतिरिक्ता भूतयज्ञादयस्तेषां बहिर्बलिव्यतिरिक्तभूतयज्ञावधिकानां बलिहरणादीनामपि श्राद्धमध्ये कर्तव्यता भवतीति विवेकः । दृश्यते च पूर्वेद्युर्निमन्त्रितेषु ब्राह्मणेषु श्राद्धापरिसमाप्तावेव सायंप्रातर्होमकरणमिति मदनपारिजाते ।

 द्वितीयः कालो भविष्यपुराणे--

"पितॄन्संतर्प्य विधिवद्बलिं दत्त्वा विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणभोजनम् ।" इति ॥

 बलिशब्दार्थस्तत्रैवोक्तः--

"ये अग्निदग्धामन्त्रेण भूमौ यन्निक्षिपेद्बुधः ।
जानीहि तं बलिं वीर श्राद्धकर्मणि सर्वदा" इति ॥

तृतीयो मत्स्यपुराणे--

"उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ॥
वैश्वदेवं ततः कुर्यान्निवृत्ते पितृकर्मणि" इति ॥

 भविष्येऽपि--

"कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विसृज्य तु ।
वैश्वदेवादिकं कर्म ततः कुर्यान्नराधिप" इति ॥

 मनुरपि--

"उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ।
ततो गृहबलिं कुर्या[१९८]दिति धर्मो व्यवस्थितः" इति ॥

 अत्र बलिशब्दो वैश्वदेवप्रदर्शनार्थ इति मेधातिथिः(थि)([१९९][२००]र्कौ (?) । काकबलिपर इति दिवोदासः । यत्तु गोविन्दार्णवे वचनम्--

"याजुषाः सामगाः पूर्वं मध्ये जुह्वति बह्वृचाः ।
अथर्वाङ्गिरसस्त्वन्ते वैश्वदेवे त्वयं विधिः" ॥

 इति तद्धेमाद्र्यादिग्रन्थेष्वदर्शनान्निर्मूलम् ।

 तैत्तिरीयाणां साग्निकानां सर्वत्राऽऽदौ वैश्वदेवः पञ्च यज्ञाश्च । अन्ते वेति सुदर्शनभाष्ये ।)

 वृद्धिश्राद्धादिषु वैश्वदेवकालविशेषः स्मृत्यन्तरे--

"वृद्धावादौ क्षये चान्ते दर्शे मध्ये महालये ।
एकोद्दिष्टे निवृत्ते तु वैश्वदेवो विधीयते" इति[२०१]

 क्षये चेत्यत्र चकार आदिपदानुकर्षणार्थः । इदं निरग्निकविषयम्, दर्शेऽप्यन्त एवेति प्रयोगवैजयन्तीकारादयः । ([२०२] एतद्वचनानुक्तेषु श्राद्धे[२०३]षु त्वनग्निकस्य पूर्वोक्तास्त्रयः सामान्यतः काला ज्ञेयाः ।)

अथ वैश्वदेवपाकनिर्णयः ।

 तत्र नित्यश्राद्धस्य वैश्वदेवस्य चैक एव पाकः । नित्यश्राद्धे नियमविशेषाभावात् । नवश्राद्धे[२०४]ष्वेकपाकशङ्कैव नास्ति, आशौचमध्ये वैश्वदेव[२०५]निषेधात्[२०६] । ऐकादशाहादिकश्राद्धे तु पृथक्पाकः श्राद्धशिष्टान्नस्य ब्राह्मणेभ्यो देयत्वात् ।

 तथा च देवलः-- एकोदिष्टे तु शेषं तु ब्राह्मणेभ्यः समुत्सृजेत्"  इति ।

 दर्शादौ तु लौगाक्षिः--"वैश्वदेवं न पित्रर्थं न दा[२०७]र्शं वैश्वदेविकम्" इति । इतरदितरार्थं न भवतीति पृथवपाकः कर्तव्य इत्यर्थः । ([२०८] एतेन दार्शवैश्वदेविकयोरेकः पाक इति कर्कहरिहरयोर्मतमपास्तम् ।) न दार्शमित्यत्र[२०९] दार्शशब्देन तद्विकृतिभूतानि नित्यनैमित्तिककाम्यश्राद्धानि लक्ष्यन्ते । वैश्वदेविकमित्यत्र वैश्वदेवशब्देन भूतयज्ञादयः । अयं च पृथक्पाको वैश्वदेवस्य श्राद्धात्पूर्वं मध्ये वा वैश्वदेवानुष्ठाने न तूत्तरत्रानुष्ठाने ।

 तथा च पैठीनसिः--

" पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति" इति ॥

 नन्वेतद्वचनमुत्तरकालेऽपि निषेधकं तदाऽपि तस्य पितृपाकत्वात् । मैवम् । उत्तरकाले पितृसंबन्धस्य निवृत्तत्वात् । यदुद्देशेन परिकल्पितं यद्धविस्तस्य तदुद्देशेन त्यागे कृते तदुपभोगसमनन्तरमेव तत्संबन्धनिवृत्तेर्न्याय्यत्वात् । एवमेव शिष्टाचारोऽपि दृश्यते । अनेनाभिप्राये[२१०]ण पैठीनसिरेवाऽऽह--

"श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवादिकं ततः ।
कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा" इति ॥

 अत्र प्रथमस्ततःशब्दो हेतुपरः । द्वितीयस्तु श्राद्धावशिष्टान्नपरः । एवं चायमर्थः संपद्यते--

"पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपनिष्ठति" ॥

 इति यतः श्राद्धात्पूर्वं मध्ये वा निषेधस्ततस्तस्माद्धेतोः श्राद्धं निर्वर्त्य ततस्तच्छिष्टान्नाद्वैश्वदेवादिकं कर्तव्यमिति ।

 चतुर्विंशतिमते स्पष्टमेवोक्तम्--

"श्राद्धान्ते श्राद्धशेषेण वैश्वदेवं समाचरेत्" इति ॥

 पैठीनसिवचनस्थादिशब्देन नित्यश्राद्धमपि गृह्यते । तेन नित्यश्राद्धस्य पञ्चयज्ञानन्तःपातित्वे श्राद्धपाकशेषेण पृथक्पाकेन वा नित्यश्राद्धं वैश्वदेवात्प्रागेव ।

 अत्रोभयत्रापि मार्कण्डेयः-- 'ततो नित्यक्रियां कुर्यात्' इति । ततः श्राद्धशेषात् । नित्यक्रिया नित्यश्राद्धादि । तथा 'पृथक्पाकेन नैत्यः स्यात्' इति । यदि ब्राह्मणविसर्जनान्ते वैश्वदेवस्तत्पाकशेषेण । इतरत्र[२११] तु पृथगिति निर्णयः । इति वैश्वदेवपाकनिर्णयः ।

अथ मनुष्ययज्ञः ।

 तत्रेदं धर्मसूत्रम्--'अग्नं च देयम्' इति । चकारोऽप्यर्थे । ब्राह्मणेभ्यो भोजनदानासमर्थस्त्वग्रपरिमितमप्यन्नं दद्यादिति । 'मनुष्येभ्यो हन्त' इति मन्त्रे बहुवचनात्त्रिप्रभृतयः । अशक्तावेकोऽपि । अ[२१२]भावे गोभ्यो दद्यात्[२१३] 'अतिथिभ्यो देयमन्नं गोभ्यो वा तदलाभतः' इति स्मृतिदर्पणे स्मृत्यन्तरोक्तेः । अस्मिन्कल्पे मन्त्रलोप एव । एकश्चेद्विप्रो लभ्यते तदाऽपि मन्त्रलोप एव । पूजार्थं वा बहुवचनम् । अस्मि[२१४]न्पक्षे न मन्त्रलोपः । अतिथीनामेवाऽऽदौ भोजनं पश्चात्कुमारादीनाम् ।

 तथा च धर्मसूत्रम्--

"अतिथी[२१५]नेवाग्रे भोजयेत्कुमारान्रोगमयुक्तान्तीश्चान्तर्वत्नीः" इति ।

 अतिथीन्वक्ष्यति तानेवाग्रे भोजयेत्, न स्वयं सहसा भुञ्जीत प्राक् । एवमतिथिव्यतिरिक्तानन्यानपि भोजयि[२१६]तव्यान्पश्चाद्भोजयेत् । कुमारान्रोगसंयुक्तान्स्त्रीश्चान्तर्वत्नीः । ये च गृहवर्तिनः कुमारादयस्तानप्यग्रे भोजयेत् । आपस्तम्बस्तु-- 'बालान्वृद्धान्रोगसंयुक्तास्त्रीश्चान्तर्वत्नीः' इत्याह । अत्रान्तर्वत्नीग्रहणादेव स्त्रीग्रहणे सिद्धे पुनर्ग्रहणं स्वस्रादीनामपि ग्रहणार्थमिति व्याख्यातमुज्ज्वलाकृता । स्वस्रादीनामपि ग्रहणार्थमित्यत्र गृहवर्तिनामपीति शेषः ।

 मनुष्ययज्ञस्वरूपं तु श्रुतावुक्तम्--

"यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते" इति ।

 कात्यायनोऽप्याह--"नृयज्ञोऽतिथिपूजनम्" इति ।

 न च वक्ष्यमाणलक्षणस्यातिथेरनित्यतया मनुष्ययज्ञस्य कथं नित्यतेति वाच्यम् । पूज्यमानब्राह्मणनिष्ठातिथित्वस्य फलाधि[२१७]क्यार्थतया तत्कालसमाग तब्राह्मणभोजनस्यैव मनुष्ययज्ञत्वात् । 'यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते' इति श्रुतिरपि सामान्यतो ब्राह्मणसंप्रदानकान्नदानस्यैव मनुष्ययज्ञत्वमाह ।

 सुमन्तुर्वैश्वदेवान्त उपस्थितस्याभ्यागतत्वं त्य(स्य त्य)क्तप्रतिग्रहस्यातिथित्व[मन्यस्याभ्यागतत्व]माह--

"त्यक्ताः प्रतिग्रहाः सर्वे येन विप्रेण धीमता ।
उपस्थितं वैश्वदेवमतिथिं तं प्रचक्षते ॥
एतदन्यत्र संप्राप्तं विप्रमभ्यागतं विदुः" इति ।

 वैश्वदेवातिरिक्तकाले तस्मिन्नेव दिने संप्राप्तं वि[२१८]प्रमभ्यागतं विदुः । तमेव वैश्वदेवका[२१९]ल उपस्थितमतिथिं विदुरित्यर्थः । तथा च वैश्वदेवकाल उक्तलक्षणलक्षिताभ्यागतातिथ्योरन्यतरस्य वा भोजनं[२२०] मनुष्ययज्ञः । तदभावं[२२१] ब्राह्मणभोजनमात्रं मनुष्ययज्ञ इति तात्पर्यार्थः ।

बौधायनोऽपि--

"अहरहर्ब्राह्मणेभ्योऽन्नं दद्यान्मूलफलशाकानि
वेत्यथैनं मनुष्ययज्ञं समाप्नोति" इति ।

कार्ष्णाजिनिरपि--

"भिक्षां वा पुष्कलं वाऽपि हन्तकारमथापि वा ।
असंभवे न वै दद्यादुदपात्रमथापि वा" इति ॥

 पुष्कलमग्रमिति पर्यायौ ।

 कूर्मपुराणे---

"हन्तकारमथाग्रं वा भिक्षा वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुध्येत परमेश्वरम्" इति ॥

 भिक्षादिलक्षणं मनुराह--

"ग्रासमात्रा भवेद्भिक्षा अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणीकृत्य हन्तकारोऽभिधीयते" इति ॥

 ग्रासपरिमाणं स्मृत्यर्थसारे ।

"अङ्गुष्ठपर्वमात्रा तु आहुतिः परिकीर्तिता ।
आहुतिद्वितयं ग्रासो मयूराण्डाकृतिस्तथा" इति ॥

 अतिथिनिरीक्षणाय गृहाङ्गणे कंचित्कालं तिष्ठेदित्युक्तं मार्कण्डेयपुराणे--

"आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ।
मुहूर्तस्याष्टमं भागमुदीक्ष्यो ह्यतिथिर्भवेत्" इति ।

 विष्णुपुराणेऽपि--

"ततो गोदोहमात्रं तु तिष्ठेत्कालं गृहाङ्गणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं च यथेच्छया" इति ॥

 तत्र कीदृशोऽतिथिरित्याकाङ्क्षायामाह वैयाघ्र[२२२]पद्यः--

"क्षुधार्तस्तृषितश्चैव स्नातो गृहमुपागतः ॥
प्रयत्नेन तु संपूज्यः सोऽतिथिः स्वर्गसंक्रमः" इति[२२३]

 पराशरोऽपि--

"इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः" इति ॥

 इष्टः सख्यादिः ।

 तस्य च भोजनीयत्वं याज्ञवल्क्येनोक्तम्--

"भोजयेच्चाऽऽगतान्काले सखिसंबन्धिबान्धवान्" इति ।

 द्वेष्यस्य भोजनीयत्वं मनुना निन्दितम्--

"काममभ्यर्चयेन्नित्यं नातिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेष्य निष्फलम्" इति ॥

 एवं सत्यरिमित्रविवेकः श्राद्धादौ यथा क्रियते तथैवातिथावपि तत्प्रसक्तौ तन्निराकरणायेष्टो वा यदि वा द्वेष्य इत्युक्तम् ।

 मूर्खे भोजनीयत्वं स्मृत्यन्तरे निषिद्धम्--

"नष्टशौचे व्रतभ्रष्टे वेदशास्त्रविवर्जिते ।
दीयमानं रुदत्यन्नं किं मया दुष्कृतं कृतम्" इति ॥

 पण्डितस्य भोजनीयत्वं मनुना प्रशंसितम्--

"श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्" इति ॥

 एवं सति श्राद्धादाविव वैश्वदेवान्तिके पण्डितमूर्खविवेकप्रसक्तौ तन्निराकरणायोक्तं मूर्खः पण्डित एव वेति । वैश्वदेवान्तिकशब्देन देवयज्ञभूतयज्ञपितृयज्ञानामुपरि मुहूर्ताष्टमभागपरिमितः काल उच्यते ।

 तथा च मार्कण्डेयपुराणम्-- "मुहूर्तस्याष्टमं भागम्" इति ।

 अत एव तस्मिन्काले समागमनमेवातिथिलक्षणं नेतरद्विद्यादि । संक्रम्यतेऽनेनेति संक्रमः । स्वर्गस्य संक्रमः स्वर्गसंक्रमः । स्वर्गप्राप्तिरिति यावत् ।

 तथा चाऽऽश्वमेधिके--

"क्षुत्पिपासाश्रमार्ताय देशकालगताय च ।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता" इति ॥

 पराशरः--

"दूरादु(ध्वो)पगतं श्रान्तं वैश्वदेवमुपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः" इति ॥

 दूरध्वोपगतं ग्रामान्तरागतम् । श्रान्तं क्षुधापरिपीडितम् ।

अत एव व्यासः--

"दूरादाश्रमसंप्राप्तः क्षुत्तृ[२२४]ष्णाश्रम[२२५]पीडितः ।
यः पूज्यतेऽतिथिः सम्यगपूर्वः ऋतुरेव सः" इति ॥

 नातिथिः पूर्वमागत इति तस्मिन्नेवातिथिर्नोत्तरेद्युरित्यर्थः ।

तथा च मनुः--"एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः" इति ।

 वैश्वदेवमुपस्थितमिति दिवसाभिप्रायम् । सायं तु वैश्वदेवकाले कालान्तरे वा प्राप्तोऽतिथिरेव ।

तथा च मनुः--

"अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तोऽप्यकाले वा नास्यानश्नन्गृहे वसेत्" इति ॥

 सूर्योढोऽस्तं गच्छता सूर्येण देशान्तरमागमनाशक्तिमुत्पाद्य गृहं प्रापित इत्यर्थः । अस्य गृहस्थस्य, अतिथिरित्यध्याहारः ।

याज्ञवल्क्योऽपि--"अप्रणोद्योऽतिथिः सायमपि वा भूतृणोदकैः" इति ।

 प्रचेता अपि--

"यः सायंवैश्वदेवान्ते सायं वा गृहमागतः ।
देववत्पूजनीयोऽसौ सूर्योढः सोऽतिधिः स्मृतः" इति ॥

 सायं वेत्यत्र वैश्वदेवात्पूर्वमित्यध्याहारः ।

 दूराध्वपदव्यावर्त्यमाह वैयाघ्र[२२६]पद्यः--

"अचिन्तितमनाहूतं वैश्वदेवे व्यवस्थितम् ।
अतिथिं तं विजानीयान्नैकग्रामनिवासिनम्" इति ॥

 पराशरः--

"अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।
तथाऽऽसनप्रदानेन पादप्रक्षालनेन च ॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही" इति ॥

 स्वगृहे राज्ञ आगमने तस्याप्यातिथ्यं कार्यम् । तथा च मार्कण्डेयपुराणे--

"यस्य च्छन्नं हयश्चैव कुञ्ज[२२७]रारोहमृद्धितम् ।
ऐन्द्रस्थानमुपासीत तस्मात्तन्न विचारयेत्" इति ॥

 तत्क्षत्त्रियत्वं न विचारयेत्, क्षत्त्रियत्वशङ्कां न कुर्यात् । सोऽप्यतिथिवदेव पूजनीय इत्यर्थः ।

 अतिथिसत्काराकरणे प्रत्यवाय[२२८]माह पराशरः--

"अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥
काष्ठभारसहस्रेण घृतकुम्भशतेन च ।
अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः" इति[२२९]

आश्वमेधिके--

"साङ्गोपाङ्गांस्तथा वेदान्पठतीह दिने दिने ।
न चाऽऽतिथ्यं(चातिथिं) पूजयति वृथा स पठति द्विजः ॥
पाकयज्ञैर्महायज्ञैः सोमसंस्थाभिरेव च ।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ॥
तेषां य[२३०]शोभिकामानां दत्तमिष्टं च यद्भवेत् ।
वृथा भवति तत्सर्वमाशया हतया हतः" इति ॥

 अतिथिसत्कारं प्रशंसति स एव--

"सुक्षेत्रं वापयेद्बीजं सुपात्रे निक्षिपेद्धनम् ।
सुक्षेत्रे च सुपात्रे च प्रदत्तं न विनश्यति" इति ॥

 शातातपः--

"स्वाध्यायेनाग्निहोत्रेण यत्नेन तपसा तथा ।
र चाऽऽप्नोति तथा लोकान्यथा त्वतिथिपूजनात्" इति ॥

 तथा--

"न पृच्छेद्गोत्रचरणे न स्वाध्यायं व्रतं कुलम् ।
चित्ते विभावयेत्तं वै व्यासं स्वयमुपागतम्" इति ॥

 अतिथिलक्षणादिकमेतत्सर्वं धर्मसूत्रेऽप्युक्तमस्ति, तस्य बहुतरव्याख्यानसापेक्षत्वात्तेन सहैव प्रदर्शनेऽतिविस्तरः स्यादतो न प्रदर्श्यते ।

 भिक्षुकयोर्यतिब्रह्मचारिणोः सदा पूज्यत्वमाह पराशरः--

"अपूर्वं सुव्रती विप्रो ह्यपूर्वश्चातिथिस्तथा ।
वेदाभ्यासरतो नित्यं त्रयोऽपूर्वा दिने दिने" इति ॥

 सुष्ठु व्रतं सुव्रतं मोक्षहेतुर्यतिधर्मः सोऽस्यास्तीति सुव्रती । वेदाभ्यासरतो ब्रह्मचारी । यथाऽतिथिः पूज्यस्तथैतावप्यतिथिवत्प्रत्यहं पूज्यावित्यर्थः ।

याज्ञवल्क्यः--

"सत्कृत्य भिक्षवे भिक्षां यः प्रयच्छति मानवः ।
गोप्रदानसमं पुण्यं तस्याऽऽह भगवान्यमः" इति ॥

 भिक्षुर्यतिर्ब्रह्मचारी च ।

 यदि वैश्वदेवात्पूर्वं भिक्षुरागच्छति तदा कथमित्याकाङ्क्षायां नृसिंहपुराणे--

"अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत्" इति ॥

 ([२३१] पुराणान्तरेऽपि--

"अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
नैवेद्यार्थं च होमार्थमुद्धृत्यातिथिमर्चयेत्" इति ॥)

 यावद्वैश्वदेवपर्याप्तमन्नं भवति तावत्पृथक्कृत्वा नैवेद्यार्थं च पृथगुद्धृत्यावशिष्टान्नाद्भिक्षां दत्त्वा भिक्षुकं विसर्जयेदित्यर्थः ।

 भिक्षु[२३२]कशब्दोऽतिथ्यादीनामुपलक्षकः--

"यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपोषकः ।
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः" इति[२३३]

 अकरणे प्रत्यवायमाह पराशरः--

"यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्" इति ॥

 यतिब्रह्मचारिग्रहणं विद्यार्थ्यादीनामुपलक्षणमिति केचित् ।

 बहुषु भिक्षुकेष्वागतेष्वशक्तेन किं कर्तव्यमित्याकाङ्क्षायामाह पराशरः--

"दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया वा ततो दद्याद्विभवे सति चान्यतः" इति ॥

 अन्यतोऽन्येषामपीत्यर्थः ।

 यतिभिक्षाप्रदानप्रकारमाह स एव--

"यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ।
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम्" इति ॥

 एतच्च भैक्षं सति संभवे बहुलं दातव्यम् । तदुक्तं ब्रह्मपुराणे--

"यः पात्रपूरणीं भिक्षां यतये संप्रयच्छति ।
विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिमाप्नुयात्" इति ॥

 सर्वथाऽन्नाभावे धर्मसूत्रे--

"काले स्वामिनमन्नार्थिनं न प्रत्याचक्षीयातामभावे तृणानि भूमिरुदकं
कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचन" इति ।

 एतत्फलमपि तत्रैव--"एवं वृत्तावनन्तलोकौ भवतः" इति ।

 ( [२३४] वैश्वदेवावसान उपस्थितानां चण्डालादीनामपि भोज्यत्वमुक्तं पराशरेण--

"पापो वा यदि चण्डालो विप्रघ्नः पितृघा[२३५]तकः ।
वैश्वदेवे हि संप्राप्तः संभोज्यः सोऽप्यसंशयम्" इति[२३६]

 बृहन्नारदीये--

"अन्नस्य क्षुधितं पात्रं पानीयस्य पिपासितम् |
द्रव्यदाने प्रकर्तव्यं विशेषात्पात्रवीक्षणम्" इति ॥)

 गोभ्यो ग्रासप्रदानमुक्तमृष्यशृङ्गेण--

"गवां ग्रासं च कुर्वीत नित्यमेव समाहितः ।
गवां कण्डूयनं स्पर्शं ग्रासमाह्निकमेव च" इति[२३७]

 ([२३८]पाकभाण्डस्थल[२३९]प्रतिपत्तिर्धर्मसूत्रे-- 'यत्र भुज्यते तत्समुह्य निर्हृत्यावोक्ष्य तं देशमम[२४०]त्रेभ्यो लेपान्संगृह्याद्भिः सं[२४१]मृज्य शुचौ देशे रुद्राय निनयेदेवं वास्तु शिवं भवति' इति ।

 पञ्चयज्ञाकरणप्रायश्चित्तमुक्तं सु[२४२]मन्तुना--

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इति ॥

 [२४३]अकृत्वाऽन्यतमं यज्ञमित्येकत्वश्रवणादेकयज्ञलोपविषयमिति केचित् । अत्रेकत्वस्याविवक्षितत्वाद्द्वित्र्या(त्रा)दियज्ञलोपेऽप्येतत्प्रायश्चित्तं भवत्येवेत्यन्ये ।

 व्यासः--"अकृत्वा तु महायज्ञान्भुक्त्वा चान्द्रायणं चरेत् " इति ।

 अत्र बहुत्वमप्यविवक्षितं ज्ञेयम् ।

 मिताक्षरायां बृहस्पतिः--

"अनिर्वर्त्य महायज्ञान्यो भुङ्क्ते प्रत्यहं गृही ।
अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति" इति ॥

 उपवासाद्यसामर्थ्ये मनस्वत्येकाऽऽहुतिर्होतव्या । तदुक्तं प्रायश्चित्तप्रकाशे--

"एतेभ्यः पञ्चयज्ञेभ्यो यद्येकोऽपि च हीयते ।
मनस्वत्याहुतिस्तत्र प्रायश्चित्तं विधीयते" इति ॥

 मनस्वती घृतपदान्ता तस्या एव प्रायश्चित्तार्थत्वस्य सर्वत्र दर्शनात् ।

 द्व्यहं त्र्यहं लोपे तु बौधायनः--

"द्व्यहं वाऽपि त्र्यहं वाऽपि प्रमादादकृतेषु तु ।
तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीजपेत्" इति ॥

 अव ते हेड उदुत्तममिमं मे वरुण तत्त्वा यामीति चतस्रो वारुण्यः ।

 दशाहद्वादशाहलोपे तु स एवाऽऽह--

"दशाहं द्वादशाहं वा निवृत्तेषु तु सर्वतः ।
चतस्रो वारुणीर्हुत्वा कार्यस्तन्तुमते चरुः" इति ॥

 अत्रैवं व्यवस्था मनस्वत्याहुतिरेकाहाहुतिविच्छेदे ।

"द्व्यहं वाऽपि त्र्यहं वाऽपि प्रमादादकृतेषु तु ।
तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत्" ॥

 इति नु नवदिनपर्यन्तम् । तदूर्ध्वं तु दशाहं द्वादशाहं वेति वचनसिद्धो वारुणीचतुष्टयजपः, तन्तुमते चरुश्च । इदं चार्धाधानिना स्मार्ताग्निमता च तत्र कर्तव्यम् । एकादशीप्रयुक्तभ्रान्तिमता तु नित्यहोमलोपप्रयुक्तवक्ष्यमाणप्रायश्चित्तं विधाय कार्यम् । सर्वाधानिनाऽनग्निमत्ता च लौकिकाग्निं प्रतिष्ठाप्य कार्यम् । एतच्चाभोजने सति । भोजने तु--अकृत्वा तु महायज्ञानितिव्यासवचनसिद्धं चान्द्रायणम् । द्व्यहादौ द्वैगुण्यादि ज्ञेयम् । अबुद्धिपूर्व उपवासः । बुद्धिपूर्वे शक्तौ सत्यामेकैकलोपेऽनिर्वर्त्य महायज्ञानिति कृच्छ्रार्धम् ।

"पिण्डयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च ।
अदने पतितान्नस्य चरुर्वैश्वानरो भवेत्" ॥

 इति कात्यायनोक्तः स्थालीपाको वा । अस्याप्यशक्तौ पूर्णाहुतिरिति द्रष्टव्यम् ।

 ब्राह्मे--

"शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां क्रिमीणां च शनकैर्निक्षिपेद्भुवि" इति ॥

 शनकैः शनैः । अत्रोत्सर्गमन्त्रो विष्णुपुराणोक्तोऽग्रे प्रदर्श्यते ।

 गीतायाम्--

"यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्" ॥

 इति करणे फलातिशयोऽकरणे प्रत्यवायश्च स्मर्यते ।  अत्र यज्ञो वैश्वदेव इति श्रीधरस्वामिना व्याख्यातम् । तेन साग्निकैर्निरग्निकैश्च भोजनलोपेऽपि येन केनापि द्रव्येण यथाकथंचित्पञ्च महायज्ञाः कर्तव्या एवेति निष्कर्षः ।)

अथ वैश्वदेवप्रयोगः ।

 तत्र[२४४] दायविभागे सति वैश्वदेवाधिकारः । दायविभागो विवाहात्पूर्वं[२४५] चेच्चतुर्थीहोमानन्त[२४६]रमेव गुरुशुक्रास्तमलमासादि[२४७]रहिते चन्द्रानुकूले[२४८] शु[२४९]भे काले प्रथमारम्भः[२५०] । तावत्पर्यन्तं तूष्णीं ग्रासमात्रमन्नमग्नौ प्रक्षिप्य भोक्तव्यम् । यदि चतुर्थीहोमोत्तरं केनचित्प्रतिबन्धेन देवकोत्थापनं न जायते तदा देवकोत्थापनानन्तरमेवाऽऽरम्भो भवति ।

"वैश्वदेवः स्वधाकृत्यं ब्रह्मयज्ञमुपोषणम् ।
सीमातिक्रमणं नैव देवकोत्थापनावधि" ॥

 इति[२५१] धर्मप्रदीपे देवकोत्थापनात्पूर्वं तन्निषेधात् ।

 अत्र प्रथमे प्रयोगे गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्यपि प्रधानसंकल्पात्पूर्वं कार्याणि । सिद्धेऽन्ने पाककर्ता वैश्वदेवकर्तारं ब्रूयाद्भूतमिति, तत्सुभूतं विराडन्नं तन्मा क्षायि तन्मेऽशीय तन्म ऊर्जं धास्तत्सुभूतमिति प्रतिवचनः[२५२](म्) । तत्सुभूतमित्येतावदेव वा प्रतिवचनम् । यदि स्वयमेव पाककर्ता तदा[२५३] वचनप्रतिवचनयोर्लोपः[२५४] । स्त्रिया अप्येवं मन्त्रलोप एव । कर्ताऽग्न्यायतनस्य पश्चात्प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं[२५५] सिद्धान्नेनामुकाग्नौ प्रातर्वैश्वदेवेन यक्ष्य इति प्रातः संकल्पं कुर्यात् । तथैव सायंवैश्वदेवेन यक्ष्य इति सायम्[२५६] । अथवा ([२५७]प्रातर्वैश्वदेवं करिष्ये सायंवैश्वदेवं करिष्य इत्येवं संक[२५८]ल्पौ । केचित्तु--मम कण्डनीपेषणीचुल्लीसंमार्जनीगृहलेपनादिहिंसाजन्यदोषपरिहारपूर्वकान्नसिद्धात्मसंस्का रसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवं करिष्य इति संकल्पं कुर्वन्ति । प्रातरेव तन्त्रेण होमे तु प्रातःसायंवैश्वदेवौ तन्त्रेण करिष्य इति संकल्पः । ) त[२५९]तः पचनाग्नौ हो[२६०]मकर्तव्यतायां तम[२६१]ग्निं कुण्ड आनीय गृहमध्यभागे संस्थाप्य प्रज्वालयेत् । औपासनाग्नौ होमे तस्य प्रज्वालन[२६२]मात्रं नाऽऽनयनम् । ततोऽशनीयादन्नाद्भविष्यान्नं होमार्थमुद्धृत्य सूपसंसृष्टं सर्वव्यञ्जनसं[२६३]सृ[२६४]ष्टं वाऽन्नं बलिदानार्थं पितृयज्ञार्थं च पृथक्पृथगुद्धृत्य सर्वव्यञ्जनसहितमेवान्नं मनुष्ययज्ञार्थमुद्धरेत् । यदि तु विप्राणां विप्रस्य वोदरपूर्तिपर्यन्त[२६५]मन्नं दातुं सामर्थ्यमस्ति तदा तद्भोजनपर्याप्तमन्नं पृथगुद्धरेत् ।

 वैश्वदेवोत्तरं नैवेद्यसमर्पणमितिकल्पे नैवेद्यार्थमपि पृथगुद्धरणीयम् । ततस्तदुद्धृतं सर्वमन्नमग्नावधिश्रित्याभिघार्योद्वास्याद्भिः प्रोक्षेदिति देवपवित्रसंस्कारसंस्कृतं कुर्यात्[२६६] । अयं च संस्कारः शूद्रकर्तृकपाकपक्ष इत्युज्ज्वलाकृत् । देवपवित्रसंस्काराभावपक्षेऽप्यभिघारणं भवत्येव[२६७] । मातृदत्तमते तु परोक्षनिष्पन्नत्वादयं संस्कार इति, तन्मत आर्यकर्तृकपाकपक्षेऽपि भवति ।

 ततः--अदितेऽनुमन्यस्वेत्यादिभिराग्निं परिषिच्य यावद्धोमं हृदि[२६८] सव्यहस्ततलं निधाय, ([२६९]अग्नये स्वाहेत्यादिमन्त्राणां याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा, ऋषिः । मन्त्रोक्ता देवताः । यजूंषि । होमे बलिहरणे च यथायथं विनियोगः, इत्युक्त्वा देवयज्ञानां पृथक्कर्तव्यतायां देवेभ्यः स्वाहेत्यादिमन्त्रत्रयस्यापि पूर्ववद्यजूंषीत्यन्तेनर्ष्यादि स्मृत्वा देवय[२७०]ज्ञादिषु विनियोगं चाभिसंधाय ये भूता इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा, ऋषिर्भूतानि पुष्टिपतिश्च देवता त्रिष्टुप्छन्दः । सर्वभूतबलिप्रदाने विनियोग इति[२७१] च स्मृत्वा । व्यञ्जनरहितभागादङ्गुष्ठपर्वमात्रमादाय संहताङ्गुलिनोत्तान्नेन[२७२] दक्षिणहस्तेन जुहोति । 'ॐ अग्नये स्वाहा' अग्नय इदं । 'ॐ विश्वेभ्यो देवेभ्यः स्वाहा' विश्वेभ्यो देवेभ्य इदं० । 'ॐ ध्रुवाय भूमाय स्वाहा' ध्रुवाय भूमायेदं० । 'ॐ ध्रुवक्षितये स्वाहा' ध्रुवक्षितय इदं । 'ॐ अच्युतक्षितये स्वाहा' अच्युतक्षितय इदं । 'ॐ अग्नये स्विष्टकृते स्वाहा', अग्नये स्विष्टकृत इदं० । इति  ( [२७३] षडाहुतीर्हुत्वा--) अदितेऽन्वम स्था इत्याद्यैरुत्तरपरिषेकं कुर्यात् । ततो बलिदे[२७४]शमद्भिर्हस्तेन परिमृज्यावोक्ष्य बलिं न्युप्य गन्धमाल्यादिभिरभ्यर्च्य परिषिञ्चेत् । एवं सर्वबलिषु ।एकदेशसमवेतानेकबलीनामपि मार्जनावोक्षणे पृथक्पृथगेव, परिषेचनं त्वन्ते सकृदेव । ततोऽपरेणाग्निं 'ॐ धर्माय स्वाहा[२७५]' 'ॐ अधर्माय स्वाहा' इत्युदगपवर्गं दद्यात् । धर्मायेदं० । अधर्मा[२७६]येदं० । परिषिच्य, ततोऽग्नेर्दक्षिणत उदधानसंनिधौ--'ॐ अद्भ्यः स्वाहा' अद्भ्य इदं० । परिषिच्य, अगारस्य मध्ये द्वाभ्यां प्रागपवर्गम्-- 'ॐ ओषधिवनस्पतिभ्यः स्वाहा' ओषधिवनस्पतिभ्य इदं० । 'ॐ रक्षोदेवजनेभ्यः स्वाहा' रक्षोदेवजनेभ्य इदं० । परिषिच्य, अगारस्योत्तरपूर्वदेशे 'ॐ गृह्याभ्यः स्वाहा' गृह्याभ्य इदं० । 'ॐ अवसानेभ्यः स्वाहा' अवसानेभ्य इदं० । 'ॐ अवसानपतिभ्यः स्वाहा' अवसानपतिभ्य इदं० । 'ॐ सर्वभूतेभ्यः स्वाहा' सर्वभूतेभ्य इदं० । इति चतुर्भिः प्रागपवर्गं, परिषिच्य, अगारस्य दक्षिणभागे शय्यादेशे 'ॐ कामाय स्वाहा' कामायेदं० । इत्येकेन । परिषिच्य, देहल्यामेकेन--'ॐ अन्तरिक्षाय स्वाहा' अन्तरिक्षायेदं० । परिषिच्य, कपाटसंनिधौ 'ॐ यदेजति जगति यच्च चेष्टति० नाम्नो भागोऽयं नाम्ने स्वाहा' अपिधानायेदं० । वायव इदमिति वा । परिषिच्य, अग्नेर्दक्षिणतो ब्रह्मसदने 'ॐ पृथिव्यै स्वाहा' पृथिव्या इदं० । 'ॐ अन्तरिक्षाय स्वाहा' अन्तरिक्षायेदं० । 'ॐ दिवे स्वाहा' दिव इदं० । 'ॐ सूर्याय स्वाहा' सूर्यायेदं० । 'ॐ चन्द्रमसे स्वाहा' चन्द्रमस इदं० । 'ॐ नक्षत्रेभ्यः स्वाहा' नक्षत्रेभ्य इदं० । 'ॐ इन्द्राय स्वाहा' इन्द्रायेदं० । 'ॐ बृहस्पतये स्वाहा' बृहस्पतय इदं० । 'ॐ प्रजापतये स्वाहा' प्रजापतय इदं० । 'ॐ ब्रह्मणे स्वाहा' ब्रह्मण इदं । इत्येतैर्दशभिः प्रागपवर्गं, परिषिच्य, पितृयज्ञार्थादन्नादादाय, एतद्बलीनां दक्षिणतः प्राचीनावीती प्रसव्यं परिमृज्यावो[२७७]क्ष्य दक्षिणं पाणिमुत्तानं कृत्वाऽङ्गुष्ठतर्जन्यो रन्तरालेन 'ॐ स्वधा पितृभ्यः' पितृभ्य इदं० । प्रसव्यं परिषिच्य यज्ञोपवीत्यप उपस्पृशेत्[२७८]

 [२७९] स्वधा पितृभ्य इति मन्त्रान्त एव पित्र्यबलिर्देयः । न तु स्वधाशब्दान्ते । अन्यथा मन्त्रप्रकरणत्वव्याघातापत्तेः । स्वधाशब्दस्य हविर्धा(र्दा)नार्थत्वात्स्वधा पितृभ्य इत्येतावानेव मन्त्रः, न तु स्वाहान्तः । उज्ज्वलाकृता स्वधा पितृभ्य इत्येतावानेव मन्त्रः प्रदर्शितोऽस्ति । एतेन ज्ञायते स्वाहाकारपाठो नास्तीति । यद्यस्ति तदा पितृभ्यः स्वाहेतिमन्त्रान्तराभिप्रायेणैव स योज्यः । अस्मिन्कल्पे न (तु) यज्ञोपवीतिता च द्रष्टव्या । अयं च जीवत्पितृकविषये[२८०] । एतदन्त एव बलिदानं मन्त्रान्तस्थ[२८१]स्वधास्वाहाशब्दान्त एव पठनम्(?) । अनमध्यतस्थानत इत्यनाय[२८२]त्यान(?) स्वीकारात् । अन्यथोभयतः पाश आपद्येत ।

 ततस्तदुत्तरतः प्रदक्षिणं परिमृज्यावोक्ष्य भूतयज्ञार्थादन्नादादाय 'ॐ नमो रुद्राय पशुपतये स्वाहा[२८३]' इत्येकेन[२८४]रुद्राय पशुपतय इदं[२८५]० । ततस्तं प्रदक्षिणं प[२८६]रिषिच्याप उपस्पृशेत्[२८७] । न वा त्यागाः ।

"द्वावेको द्वौ च चत्वारः प्रत्येकं त्रितयं तथा ।
दश चैक इति ज्ञेयं[२८८] स्थानभेदाद्यथाविधि"

 इति परिषेकक्रमसंग्रहः । ततो गृहद्वारं गत्वाऽवोक्ष्य 'ॐ ये भूताः प्रचरन्ति दिवा[२८९] नक्तं बलि० पतिर्दधातु स्वाहा" इति भूमौ बलिं दद्यात्परिषिञ्चेच्च । दिवाचारिभ्यो भूतेभ्यः पुष्टिपतये चेदं० । न वा त्यागः[२९०] । ततो गृहद्वारेऽतिथिमाकाङ्क्षन्गोदोहनकालपर्यन्तं स्थित्वाऽतिथीन्विप्रा[२९१]ञ्शक्तौ सत्यामभ्यागतांश्च गृहमानीय स्वयं हस्तपादान्प्र(दं प्र)क्षाल्याऽऽचम्य तथैव तेषामपि [२९२]हस्तपादान्प्रक्षाल्याऽऽचम्याऽऽसने प्राङ्मुखानुपवेश्य निवीती भूत्वा मनुष्ययज्ञेन य[२९३]क्ष्य इति संकल्पं कुर्यात् । केचित्तु मनुष्ययज्ञं करिष्य इत्येव संकल्पमिच्छन्ति । ततस्तानतिथी[२९४]नभ्यागतांश्च संपूज्य निवीत्येव मनुष्येभ्यो हन्ता मनुष्येभ्य इदं न ममेत्युत्सृज्य तान्भोजयेत् । अतिथित्रयाभाव एकस्मा अपि देयं मन्त्रेणैव । तत्र बहुवचनं पूजार्थत्वेन समर्थनीयम् । सर्वथाऽतिथ्यभावे विप्रेभ्यो देयम् । तेषामप्यभावे गोभ्यः । तासामप्यभावेऽग्नौ होतव्य[२९५]मिति शिष्टाः । उभयत्र मन्त्रलोपः । अथवा बहूनां सनकादीनामुद्देश्यत्वाद्बहुवचनम् । तेनैकविप्रे तदभावेन[२९६] गवादिषु च[२९७] दाने यथापठितमन्त्रेणैव दानमिति[२९८] युक्तम् । एवं सायमपि ([२९९]होमान्ते होमात्पूर्वं वा पूर्वबलीन्निष्काशयित्वा(श्य)) रौद्रा[३००]न्तं कृत्वा ([३०१] 'ॐ ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितु० र्दधातु स्वाहा' नक्तं चारिभ्यो भूतेभ्यः पुष्टिपतये चेदं० । इत्याकाशे बलिमुत्क्षिपन्दद्यात् । अथवा ) 'ॐ ये भूताः प्रचरन्ति दिवा नक्तं बलि० र्दधातु स्वाहा, दिवाचारिभ्यो नक्तंचारिभ्यश्च भूतेभ्यः पुष्टिपतये चेदं० । इति[३०२] नक्तमेवाऽऽका[३०३]शे बलिर्देयः[३०४] । केचित्तु विभज्य विनियोगमिच्छन्ति । ये भूताः प्रचरन्ति दिवा बलिमिति प्रातः । ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्त इति रात्राविति । अस्मिन्पक्षे--अयं बलिर्दिवा भूमौ देयः । सायमाकाश इति द्रष्टव्यम् । अन्ये तु सायंवैश्वदेवेऽयमेव बलिर्न पूर्वोक्ता बलय इत्याहुस्तद्दर्षितमधस्तान् । ततो वृद्धातुरबालगुर्वतिथिभृत्यान्भोजयित्वा स्वयं प्राङ्मुखो भुञ्जीत ।

अथ तन्त्रेण प्रयोगः ।

 प्रातःसायंवैश्वदेवा[३०५]भ्यां तन्त्रेण यक्ष्ये प्रातःसायंवैश्वदेवौ तन्त्रेण करिष्य इ[३०६]त्येतदन्यतरं संकल्पं कृत्वा संप्रतिपन्नदेव[३०७]ताकत्वाद्रौद्रान्तं सकृदेव[३०८] कुर्यात् । ततो विहायसबलिः, ये भूताः प्रचरन्तीति यथापठितमन्त्रेणाऽऽकाश एव देयः[३०९] । दिवाचारिभ्यो नक्तंचारिभ्यश्च भूतेभ्यः पुष्टिपतये चेदं न ममेति त्यागः । ततो मनुष्ययज्ञ इति प्रयोगक्रम इति । ([३१०]देवयज्ञादीनां पृथक्करणकल्पे येषां मते देवयज्ञादयो भिन्नास्तन्मते ) रौद्रबल्यन्ते देवयज्ञेन य[३११]क्ष्य इति संकल्प्य पूर्वपरिषेकं कृत्वा होमार्थादन्नाद[३१२]ङ्गुष्ठपर्वमात्रमन्नमादाय 'ॐ देवेभ्यः स्वाहा' इति तस्मिन्नेवाग्नौ जुहोति । देवेभ्य इदं० । तत उत्तरपरिषेकं कृत्वा प्राचीनावीती पितृयज्ञेन य[३१३]क्ष्य इति संकल्प्य पित्रर्थादन्नादादाय 'ॐ पितृभ्यः स्वधाऽस्तु' इति पूर्वपित्र्यबलेः पुरस्तात्पित्र्यबलिधर्मेण ददाति । पितृभ्य इदं० । प्रसव्यं परिषिच्य यज्ञोपवीती भूत्वा भूतयज्ञेन य[३१४]क्ष्य इति संकल्प्य धर्माद्यर्थान्नशेषादादाय 'ॐ भूतेभ्यो नमः' इति रौद्रबलेः पुरस्तादद्या[३१५]त्परिषिञ्चेच्च । भूतेभ्य इदं० । ये भूता इत्येतत्पूर्वं वोत्तरपरिषेकः[३१६], एतदनन्तरं वेति प्रयोगक्रमो द्रष्टव्यः । अथवा षडाहुत्यादौ पूर्वपरिषेक: । देवेभ्यः स्वाहेत्यन्त उत्तरपरिषेकः । न मध्यभूतौ परिषेकौ । सायंवैश्वदेवस्य स्वकाले क्रियायां देवेभ्यः स्वाहेत्यादि त्र[३१७]यं न भवति । सर्वे बलयः कुक्कुटाण्डप्रमाणाः । अविभक्तेषु ज्येष्ठेन[३१८], तस्याशक्तावसंनिधाने वा तदाज्ञयाऽन्येनापि[३१९] विहितकर्त्रा वैश्वदेवः कार्यः । तत्तत्स्थाने बलिदानाशक्तावग्नेः पश्चाद्गोमयेनोपलिप्तायां भू[३२०]मौ यत्र यत्र यत्स्थानं भवति तदनुसारेण तत्तत्स्थानानि कल्पयित्वा बलिदानं कुर्यात् । पूर्ववदेव परिषेकः । ब्रह्मबल्यन्तानां बलीनां सहैव वा परिषेकः सं[३२१]विभवात् । अस्ति च सूत्रं 'तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्यावर्तन्ते' इति । एकत्र चेच्चक्राकारं व्य[३२२]जनाकारं वा बलि[३२३]हरणमिच्छन्ति केचित्[३२४] । कुर्वन्ति चेदानीमेतदनुसारेणैव शिष्टाः । यत्तु वैश्वदेवकारिकासु यथेष्टं वैश्वदेव उक्तः कूर्माकृतिबलिहरणं चोक्तं तत्सूत्रवृत्त्यर्थयोरज्ञानेनैव स्वकपोलकल्पितत्वाद्धान्तप्रलपितमित्युपेक्षणीयम्[३२५] । प्रवासेऽप्येवम्[३२६] । वैश्वदेवसूत्रस्वरसात्, व्यजनाकारमायाति पुनरपि मृग्यं च सुधीभिः । प्रजापतये स्वाहेत्यादिमन्त्रत्रयस्य प्रजाकामपारमेष्ठ्यकामधनकामेषु क्रमेण विनियोगो द्रष्टव्यः[३२७] । एतेषां होमो रौद्रबल्यन्ते । ([३२८]तत्तत्कामनानुसारेणाऽऽदौ संकल्पं कृत्वा तदनुसारेण तस्मिन्नेवाग्नौ परिषेकपूर्वकं देवयज्ञार्थेनान्नेन प्रजापतये स्वाहेत्यादिमन्त्रैर्होमः कार्यः । तत उत्तरपरिषेकः । अथवा षडाहुत्यादौ पूर्वपरिषेक एतद्धोमान्त उत्तरपरिषेको न मध्यभूताः(तः) परिषेकः[३२९] । वैश्वदेवप्रकरणस्थत्वात् । एतद्धोमे तस्या[३३०]ग्नेस्तस्यान्नस्य च प्राप्तिर्द्रष्टव्या । देवयज्ञादीनां पृथक्करणकल्पे भूतेभ्यो नम इत्यन्त एते होमाः ।

अथ जले वैश्वदेवक्रियाया प्रयोगः ।

 शुद्धजलसमीपे प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं जले जलेनामुकवैश्वदेवं करिष्य इति संकल्प्य, अञ्जलिना षडाहु[३३१]तिमन्त्रै[३३२]र्बलिमन्त्रैर्ये भूता इतिमन्त्रेण च जलं दद्यात् । नात्र पूर्वोत्तरपरिषेकौ । न[३३३] परिमार्जनादयो बलिहरणधर्मा असंभवात् ।

अथानग्निककर्तृकवैश्वदेवप्रयोगः ।

 श्रीपरमेश्वरप्रीत्यर्थमनग्निकविहितवैश्वदेवविधिना वैश्वदेवं करिष्य इति संकल्प्य पूर्वपरिषेकान्ते हस्तेनाऽऽहुतीर्जुहुयात् । 'ॐ भूः स्वाहा' अग्नय इदं० । 'ॐ भुवः स्वाहा' वायव इदं० । 'ॐ सुवः स्वाहा' सूर्यायेदं० । 'ॐ भूर्भुवः सुवः स्वाहा' प्रजापतय इदं० । 'ॐ देवकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ पितृकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ आत्मकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ अन्यकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ अस्मत्कर्तृकतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ यद्दिवा० सि स्वाहा' । 'ॐ यत्स्वप० सि स्वाहा' । 'ॐ यत्सुषु० सि स्वाहा' । 'ॐ यद्विद्वा० सि स्वाहा' । 'ॐ एनस एनसोऽवयजनमसि स्वाहा' । ॐ प्रजापतये स्वाहा[३३४]' । इति षोडशाऽऽहुतीर्जुहुयात् । अग्नय इदमिति देवकृतस्येत्याद्येकादशशाकलमन्त्रहोमत्यागः । एताभिः षोडशाहुतिभिरग्नये स्वाहेत्यादिषडाहुतीनां बाधः । तत उत्तरपरिषेकबलि[[३३५]हरणादि समानम् ।

इत्यनग्निककर्तृकवैश्वदेवप्रयोगः ।

 वैश्वदेवसिद्ध्यर्थं वैश्वदेवमन्त्रजपमहं करिष्य इति संकल्प्य, अग्नये स्वाहे-- त्यादीन्ये भूता इत्यन्ता]न्सर्वान्मन्त्रान्मनसा जपेत् । एतस्य(च्च) सर्वथा जलस्याप्यभावे ज्ञेयम् । )

इति संस्काररत्नमालायां वैश्वदेवविधिः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे पञ्चमं प्रकरणम् ॥ ५ ॥

  1. ख. ङ. च. थ पक्षा ।
  2. च. दौ पक्षा ।
  3. ङ. र्वर्त्येर्तिलौ ।
  4. क. तु ।
  5. च. गाक्ष्युक्तक्रमानुसारेण वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । न च ।
  6. ङ. क्षिवाक्योक्तक्रमानुसारेण मासिश्राद्धात्पूर्वं वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । तत्रा ।
  7. ख. नान्मासिश्राद्धं वक्तुमादौ वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । न चान्वाधानोत्तर ।
  8. च. गक्रमव्या ।
  9. च. मनरपि--अ ।
  10. अयं धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोरेवास्ति स च न च पार्वणेत्यादिग्रन्थात्पूर्वं पठितुं युक्तः । आसीच्च क. पुस्तके तत्रैव । स च केनचिच्छोधयित्राऽत्रैवापकर्षितः ।
  11. च. न्नाः । अत्रो ।
  12. क. ख. ङ. स्य प्र ।
  13. च. इत्येतत्सूत्र ।
  14. च. तत्वेन रौ ।
  15. ख. ङ. श्व वैश्वदेवेन ।
  16. ङ. च. इति । अग्रं ।
  17. क. योः । देवयज्ञेन यक्ष्य इति पि ।
  18. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"देवयज्ञेन यज्ञेन यक्ष्य इति संकल्पप्रदर्शनमपि--पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वेतिकात्यायनोत्तनित्यश्राद्धविधिस्तु श्राद्धप्रकरणे वक्ष्यते" इति ।
  19. क. ख. यज्ञासि ।
  20. क. नित्यं श्रा ।
  21. क. मित्येक आ ।
  22. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  23. च. येदित्यनन्तरोदाहृतबौधायनवचनात्पितृयज्ञो ।
  24. च. इत्यनन्तरोदाहृतकात्यायनवचनाच्च श्रा ।
  25. च. नात्तत्रा ।
  26. च. भ्यः स्वाहा पि ।
  27. च. श्यकता ।
  28. च. स्कारार्थत्श्वे प्र ।
  29. च. स्मादात्मसंस्कारार्थ ।
  30. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  31. च.य महाय ।
  32. क. ख. दकल ।
  33. ख. ङ. न स्प ।
  34. ख. ङ च्च । अत ।
  35. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  36. ख. त्तु श्री ।
  37. क. देवक ।
  38. क. त्येवं सं ।
  39. च. कल्प इति । युक्तस्त्वयमेव संकल्पः । अ ।
  40. ङ. च. सायंप्रातःकालौ सूचितौ । स्मृ ।
  41. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"तेन देवपूजोत्तरं वैश्वदेव इति सर्वनिबन्धाः । तमेवं(नं) वैश्वदेवशेषेण कुर्यान्नास्य शेषेण वैश्वदेवं कुर्यादिति बह्वृचपरिशिष्टोक्तेराश्वलायनानामेवाऽऽदौ वैश्वदेवस्ततो देवपूजेत्येवं वा क्रमः" इति ।
  42. ख. वस्य प्र अपि तमेव वै ।
  43. एतत्प्रभृतीदमपि साधकमित्यन्तो ग्रन्थश्च. पुस्तकेऽत्र नास्ति । किं त्वेतस्मात्पूर्ववर्तिस्वयमाचरेदिति ग्रन्थात्परतो वर्तते ।
  44. ख. त्वा नित्ये चाभ्युदये तथा । स्वाभीष्टदेवतादिभ्यो नैवेद्यं विनिवेदयेत् । तद ।
  45. च. रात्रौ तु त ।
  46. क. ख. ङ. यत्रासं ।
  47. क. सहिता ।
  48. धनुश्चिह्नान्तर्गतो ग्रन्थश्च. पुस्तक एव ।
  49. च. तिपक्षेऽप्यश ।
  50. च. कत्वपक्षेऽप्ये ।
  51. च. सायंहोमात्पूर्व ।
  52. च. सायंहोमं कु ।
  53. एतत्प्रभृति प्रायश्चित्तमात्रं कर्तव्यमित्यन्तो ग्रन्थः ख. ङ. पुस्तकयोर्नास्ति । क. पुस्तके तु टिप्पणीरूपेणाधो लिखितोऽस्ति ।
  54. क. पुस्तकटिप्पण्यां कर्तव्यमिति पाठः ।
  55. धनुश्चिह्नान्तर्गतो ग्रन्थश्च. पुस्तके नास्ति ।
  56. क. न्त्रक क ।
  57. क. ख. ङ. रः । तेन ब ।
  58. क. ख. ङ. णं वैश्वदेवस्याप्युपलक्षणार्थमि ।
  59. क. वस्य ।
  60. क. ख. ङ. रणादिलोपः । के ।
  61. च. रणे प ।
  62. क. ख. ङ. देववा ।
  63. क. ख. ङ. त्वाभावा ।
  64. ख. ङ. स्तु प्रा ।
  65. च. चेनं तु स्मृत्वन्तरानुरोधेन जात्यभिप्रायेणैव नेयम् । य ।
  66. क. ख. ङ. त् । वै ।
  67. एतद्वाक्यं क. पुस्तके टिप्पण्या लिखितमस्ति ।
  68. च. ङ्ग भवेत् । अ ।
  69. क. ख. सूत्रं ।
  70. ख. ङ. म् । अ ।
  71. ङ. तो द्विरपि ।
  72. च. ण वाऽवि ।
  73. च. स्य वि ।
  74. च. रणत्वा ।
  75. ख. एव वि ।
  76. च. भवति ।
  77. च. कगृहवा ।
  78. ङ. ग्रामैकगृहवा ।
  79. च. गृहान्तरे ।
  80. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  81. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  82. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  83. च. च स्मृत्यन्तरे वै ।
  84. च. वाभावे कु ।
  85. क. ख. संभावे ।
  86. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  87. क. दे ना ।
  88. ख. क्तेः । मृ ।
  89. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. च. पुस्तकयोरन्यथा पाठः स यथा--"इदं च विधवापरमित्याचाररत्ने । यस्या गृहे न कोऽप्यस्ति तादृशविधवापरमित्याचारदर्पणे । नास्ति स्त्रीणां पृथग्यज्ञः, न स्त्री जुहुयादिति निषेधौ समन्त्रकवैश्वदेवपरौ द्रष्टव्यौ । स्त्री बालांश्च कारयेदिति प्रयोज्यकर्तृकं यदुक्तं तदपि समन्त्रकवैश्वदेवपरं द्रष्टव्यम्" इति ।
  90. ङ. व्यः स्वधाशब्दवर्जमित्याहुः । वस्तुतस्तु जीवत्पितृकैः पित्र्यबलिरपि कर्तव्यः । तस्याग्निष्वात्ताद्युद्देश्यत्वादिति युक्तम् । आ ।
  91. क. वरातेन त । ख. वतेन त ।
  92. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  93. क. इष्टा ।
  94. क. न्यो वा व्रा ।
  95. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  96. क. नां यज्ञानां महतां बुद्धिस्थानां मध्य एषां चतुर्णां दे ।
  97. च. ज्ञादीनां ।
  98. क. नां क ।
  99. क. ख. ता, एतैर्दे ।
  100. धनुश्चिह्नान्तर्गतं नास्ति ख. पुस्तके ।
  101. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तकेऽन्यथा ग्रन्थः स यथा--"तस्य सर्वस्यासंगत्यापत्त्या कृतमिति ज्ञेयम् । एतच्च वैश्वदेवः क्षयाहश्चेतिस्मृतिसमुच्चयवाक्यविरोधमात्रातिरिक्तपरं द्रष्टव्यम्" इति ।
  102. क. शोऽन्यो नि ।
  103. क. दैव त ।
  104. क. पच्यते ।
  105. ख. त्यम्बिला । ङ. त्यन्विला । च. त्यण्डविला ।
  106. एतत्प्रभृत्यथाऽऽरम्भकाल इत्येतस्मात्पूर्वं निद्यगानस्य ग्रन्थस्य स्थानेऽन्यथा ग्रन्थो ङ. पुस्तके स यथा--"तेषां सूत्रे पराग्निपक्व नाश्रीयादिति निषेधात् । सामयाचारिकधर्ममध्ये श्रौतस्य वैश्वदेवस्य पाठादप्यौपासनाग्नौ होमेऽपि लौकिकाग्नावेव पाको नौपासनाग्नायित्ववगम्यते" इति ।
  107. धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।
  108. च. साकं ।
  109. च. नत्वं ना ।
  110. धनुश्चिह्नान्तर्गतं नास्ति ख. पुस्तके ।
  111. च. नत्वमिष्ट भ ।
  112. एतावतेत्यादिप्रतिनिधित्वेनेतीत्यन्तो ग्रन्थः क. ख. पुस्तकयोर्नास्ति । स च क. पुस्तके टिप्पण्यामस्ति । एतत्स्थाने च क. पुस्तकेऽन्यथैव स यथा--"केवलं पचनग्रहणे । औपासने पाकस्य लोकतोऽसिद्धत्वेन तस्य पचनग्रहणेनेति । औपासनग्रहणानि यद्युच्यते तदौपासने न लौकिके वा पचन इति पचनत्वधर्मस्योभयत्राप्यविशेषेण यः (?) कृतः स्यादिति द्रष्टव्यम् । पचनग्रहणात्केवललौकिकाग्निव्यावृत्तिः" इति । ख. पुस्तकेऽपि तत्स्थोऽयमेवौपासन इत्यन्तं वर्जयित्वा ।
  113. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. पुस्तके ।
  114. वक्ष्यमाणग्रन्थानुरोधेनात्र "पाणिग्रहणादि" इति युक्तमिति भाति ।
  115. च. लग्नभृति उत्तरकालमा ।
  116. च. रेवोप ।
  117. क. ख. ङ. णाद्य । आश्वलायनसूत्र ।
  118. अत्र दिवाशब्दोऽधिकः ।
  119. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  120. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. ङ. पुस्तकेष्वन्यथा ग्रन्थः स यथा--"उज्ज्वलाकृता रेखालेखनसूत्रे पाके तु स्त्रिया न भवतीत्युक्तवान्नापि स्त्रिय इत्ययं ग्रन्थ आर्यासंभवे ज्ञेयः । अन्यथा पूर्वापरग्रन्थविरोधापत्तेः" इति ।
  121. च षयः । व्रा ।
  122. च. ति । प्रायश्चित्तहोमादौ--न ।
  123. ङ. रं. चरेदि ।
  124. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः । अयं च न पूर्वापरसंगतः ।
  125. च. पपात्रा ।
  126. च. मोऽपि भविष्यति ।
  127. च. सत्त्वस्य ।
  128. "जुहुयादित्येतस्मात्परं स्मृत्यन्तरे हविष्याण्युक्तानीत्येतस्मात्पुर्वं विद्यमानस्य ग्रन्थस्य स्थाने ङ. पुस्तके विद्यमानो ग्रन्थो यथा--"इत्याश्वलायनोक्तेश्च । यद्युपचासयशेन कन्दमूलफलाहारस्तदा तेनैव वैश्वदेवः कार्यः । शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । संकल्पयेद्यदाहारस्तेनैव जुहुयादपीति गृह्यपरिशिष्टात् । गृहमेधिनो यदशनीयस्य होमा बलयश्चेति सूत्राच्च । गृहमेधिनो यदशनीयं पक्वमपक्वं वोपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति व्याख्यातमुज्ज्वलाकृता । पक्वमग्निसंयोगाज्जातपाकमोदनादि । एतद्भिन्नमपक्वं फलादीति द्रष्टव्यम् । एतदपि हविष्यं ज्ञेयम् । न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्येत्यहविष्यहोमनिषेधात् ।" इति ।
  129. धनुश्चिह्नान्तर्गतं नास्ति ख. पुस्तके ।
  130. भाषया " कढीनिम्प" इति वैद्यके प्रसिद्ध इति क. पुस्तकटिप्पण्याम् ।
  131. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. पुस्तके ।
  132. क. ख. न कन्दम
  133. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तके । तत्स्थाने च ख. पुस्तके "अयं च मन्त्रजपोऽतिसंकटे" इति ग्रन्थोऽस्तीति द्रष्टव्यम् ।
  134. च. निषिद्धानि ।
  135. ख. ङ. पुस्तकयोर्नास्ति धनुश्चिह्नान्तर्गतो ग्रन्थः ।
  136. च. न्यपि निषिद्धानि स्मृ ।
  137. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  138. क. ख. ङ. तास्यस्तु हा ।
  139. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके नास्ति ङ. पुस्तके तु तत्स्थानेऽन्यथैव वर्तते स यथा--"एतेन निषेधेन वैश्वदेवहोमे हविष्यविधिः सिद्धां भवति" इति ।
  140. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  141. क. ख. ङ. रगुण ।
  142. क. ख. ङ. रगुणः ।
  143. क. ख. ङ. षेधः स गो ।
  144. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  145. क. राणेति ।
  146. क. थैव च । स्वि ।
  147. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  148. च. न्नस ।
  149. च. योगो द्वा ।
  150. ख. वानुष्ठातार ।
  151. च. साजात्यात् ।
  152. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु ।
  153. ङ. च. त्याद्भिरवोक्षे ।
  154. च. यणमग्ने ।
  155. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु ।
  156. क. ख ङ. मे. प ।
  157. क. त्वमस्यै ।
  158. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  159. क.ख. ङ. स्तु इत्यारभ्य प ।
  160. क. ख. ङ. नस्यार्थः ।
  161. च. श्चित्तमौपासनाग्नौ हु ।
  162. ख. वतीति ।
  163. ख. ङ. त् । एवं प ।
  164. च. पि । सू ।
  165. ख. ति । रे ।
  166. क. ख. ङ. न बा ।
  167. एतस्मादनन्तरं ङ. पुस्तकेऽधिको ग्रन्थः रा यथा--"एतदर्थमेव गृह्य एतेषां विधानं परित्यज्य धर्मसूत्रे कृतमिति द्रष्टव्यम् । ताम्रमयकुण्डादौ रेखालेखनासंभवादवोक्षणादिकमेव" इति । एवं च. पुस्तकेऽप्यधिकं किंचित्तद्यथा--"उदककार्यं तु येन केनापि शुद्धोदकेन" इति ।
  168. च. ङ्गुष्ठाग्रे ।
  169. एतदादिहविरितीत्यन्तो ग्रन्थो नास्ति ङ. पुस्तके
  170. च. नां तन्त्रं परिषेचवि ।
  171. ङ. च. यदन्ते ।
  172. च. गृहस्य ।
  173. क. ख. ङ. तत्प्रकारो ।
  174. ख. ङ. च. स्य । ओष ।
  175. क. ख. षन्नदे ।
  176. क. ख. ङ. णमिति रु ।
  177. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  178. च. ततो ।
  179. क. योगेषु वि ।
  180. क. ज्येनैव ।
  181. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख पुस्तकेऽयं ग्रन्थः स यथा--"अपर आह । एवकारो भिन्नक्रमः । नक्तमुत्तमेन बलिरिति तदन्यतराणां रात्रौ निवृत्तिरिति व्याख्यातमुज्ज्वलाकृता" इति । क. पुस्तके त्वयं ग्रन्थोऽपि लिखितोऽस्ति तदुपरि धनुश्चिह्नान्तर्गतोऽपि ग्रन्थोऽस्ति ।
  182. च. श्चित्तविशेषानु ।
  183. धनुश्चिह्नान्तर्गतो ग्रन्थः क. च. पुस्तकयोरेव । अयं च नातीव संगतः ।
  184. ख. न्यः । शाकलम ।
  185. क. नशाकलम ।
  186. ख. त्यन्ता नारायणोपनिषद्गता एकादश मन्त्राः । कर्म ।
  187. ख. ङ. अन ।
  188. च. स्मृत्यन्तरे ।
  189. ख. ङ. रेणेति केचित् । भूते ।
  190. ङ. रणमित्यन्ये । स्मृ ।
  191. ख. दित्यनेन(न्ये) । स्मृत्यर्थसारे प्रयोगपारिजाते शौनकः--"वैश्वदेव(वे) गृहस्थस्य प्रातरारम्भणं भवेत् । स्नातकेनापि तत्कार्यं पृथक्पाको भवेद्यदि" इति । स्मृ ।
  192. ख. त्यन्तरे--स्ना ।
  193. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  194. च. गतेः साग्नि ।
  195. क. ख. ङ. ति । स्था ।
  196. क. ब्रह्मपु ।
  197. क. ख. ङ. त्युक्तमिति ।
  198. क. र्यादथ ध ।
  199. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  200. क. ख. ङ. कर्को ।
  201. ख. ति । इ ।
  202. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख ङ. पुस्तकयोः ।
  203. क. द्धेष्वन ।
  204. च. द्धेषु त्वेक ।
  205. च. वस्व नि ।
  206. च. त् । एकादशाहिक ।
  207. क. ङ. च. दर्श ।
  208. धनुश्चिह्नान्तर्गतं ख. ङ. पुस्तकयोर्नास्ति ।
  209. क. त्र दर्श ।
  210. च. येणैव पै ।
  211. क. ख. ङ. त्र पृ ।
  212. च. एतदभावे ।
  213. क. ङ. त् । अस्मि ।
  214. च स्मिन्कल्पे न ।
  215. क. थीनाभिवा ।
  216. क. यित्वा पश्चा ।
  217. क . धिक्यत ।
  218. क. विदुरित्यर्थः । त । ख. ङ. विदुरित्यर्थः । तथा ।
  219. ख. कालेऽभ्यागतोक्तलक्षणलक्षितातिथिभो ।
  220. च. नं वा म ।
  221. च. वे केवलब्रा ।
  222. क. घ्रपादः--क्षु ।
  223. च. ति । पारा ।
  224. च. त्तृषाश्र ।
  225. क. मकारिभिः । यः ।
  226. क. घ्रपादः । अ ।
  227. क. ख. ञ्जरोरो ।
  228. ख. ङ. यमप्याह स एव--अ ।
  229. ङ. ति । अति ।
  230. क. यज्ञोऽभि ।
  231. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु ।
  232. क. ख. ङ. क्षुश ।
  233. एतदनन्तरं च. पुस्तकेऽधिको ग्रन्थः स यथा--"विद्यार्थी(?) ब्रह्मचारी(?) भिन्नोऽपि व्रतकादिः । अध्वगो यस्य पाकसामग्रीवैकल्यं तादृशो ग्राह्यः । क्षीरा(ण) वृत्तिः, अनध्वगोऽपि सामग्रीविकलः । एते भिक्षायां पक्वान्नेऽधिकारिणः" इति ।
  234. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  235. च. घातुकः ।
  236. च. ति गो ।
  237. ङ. ति । पञ्च ।
  238. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. पुस्तके ।
  239. क. ले प्र ।
  240. क. मन्त्रेभ्यो ।
  241. च. संसृज्य ।
  242. ङ. स्मृतौ ।
  243. एतदादिनिष्कर्षं इत्यन्तग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"एतद्बु(दबु)द्धिपूर्वकाकरणविषयम् । बुद्धिपूर्वे तु--अकृत्वा पञ्च यज्ञांस्तु भुक्त्वा चान्द्रायणं चरेदिति दष्टव्यम्" इति ।
  244. ङ. त्र वैश्वदेवकर्तुर्वैश्वदेवाधिकारे सति चतुर्थीहोमानन्तरम्, अनधिकारे दायविभागोतरं गु ।
  245. क. र्व चतु ।
  246. क. ख. न्तरं गु ।
  247. च. दिव्यतिरिक्त च ।
  248. ख. ङ. ले. का ।
  249. य. शुद्धे ।
  250. ख. ङ. म्भः । यदि ।
  251. च. ति कमलाकरभट्टकृताचारप्रदीपोदाहृतधर्मप्रदीपवचनेन दे ।
  252. ङ. च. नः । यदि ।
  253. च. दा प्रश्नप्र ।
  254. ख. ङ. पः । क ।
  255. च. र्थ प्रा ।
  256. क. ख. म् । प्रा ।
  257. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"सिद्धान्नेनामुकाग्नौ वैश्वदेवं करिष्य इति वा संकल्पः । द्रव्याग्न्योरुद्देशेन वा प्रातरेवापकृष्य तन्त्रेण होमे तु प्रातःसायंवैश्वदेवाभ्यां तन्त्रेण यक्ष्ये । प्रातःसायंवैश्वदेवौ तन्त्रेण करिष्य इत्येवंभूतयोः संकल्पयोरन्यतरः संकल्पः कार्यः" इति ।
  258. क. ख. कल्पमिच्छन्ति । के ।
  259. ङ. तत आयतने प ।
  260. च. होमे तस्य प्रज्वालनमात्रं, कुण्ड आनयनं गृहमध्यभागे संस्थापनं च न । ततोऽ ।
  261. मग्निमानीय प्र ।
  262. ङ. नम् ।
  263. क. संस्पृष्टं ।
  264. च. सृष्टमग्नं ।
  265. क.स. ङ. र्यन्यं दा ।
  266. च य । दे ।
  267. च. य । नत ।
  268. च दि वामङ ।
  269. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः । अयं च ग्रन्थः क. पुस्तकेऽत्र नास्ति किं त्वेतदग्रे जुहोतीत्येतस्यानन्तरम् ।
  270. च. यज्ञपितृयज्ञभूतयज्ञमनुष्ययज्ञेषु विनियोग इति वि ।
  271. एतत्पदत्रयं नास्ति क. पुस्तके ।
  272. क. ख. ङ. म ह ।
  273. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"षडाहुतीर्जुहुयात् । अत्र मध्य एव स्विष्टकृदाहुतिर्नेशान्याम् । क्षीरादिद्रवद्रव्येण होमे तु सुवस्तत्साधनम् । एवं बलिष्वपि । एतस्य होमस्य स्वकर्तृकत्वे त्यागाः कृताकृताः । स्वस्यासंनिधौ पत्न्या त्यागाः कार्याः । पत्न्यसंनिधौ होमकर्त्रैव । ऋत्विक्कर्तृकत्वादौ तं कृत्वा तेन वैश्वदेवः कारणीयः । कर्मसमाप्तौ हिरण्यं गौर्वा पूर्णपात्रं वा तस्मै दक्षिणां दद्यात् । ततः--"इति । क. पुस्तकेऽपि स्विष्टकृत इदभित्यनन्तरम्--"अत्र मध्य इत्यादिर्दद्यादित्यन्तो ग्रन्थो बहिर्लिखितोऽस्ति ।
  274. क. ख. ङ. देशेऽद्भि ।
  275. क. हा । इ ।
  276. क. र्माय स्वाहा । अधर्मायेदं । परि ।
  277. ङ. वोक्ष्यायाचीनपाणिर्भूत्वा द ।
  278. ङ. त् । तदत्तरतः । च. त् । जीवत्पितृकश्चेत्पितृभ्यः स्वाहेतिमन्त्रेण यज्ञोपवीती प्राचीनावीती वा बलिं दद्यात् । ततस्तदुत्त ।
  279. एतदाद्यापद्येतेत्यन्तं प्रायः पूर्वमागतमेव ।
  280. ख. ये दन्तये बलिदानंस्तु मन्त्रा ।
  281. ख. स्थब्रह्मस्व ।
  282. ख. यत्यन ।
  283. ङ. हा । रु ।
  284. क. ख. न । नमो रु ।
  285. क. ख. दं । प्र । ङ. दं । इत्येकेन । प्र ।
  286. ख. रिमृज्याप ।
  287. ख. त् । द्वा । ड. त् । ये भू ।
  288. क. ख. यं धर्मभै ।
  289. क. ख. ङ. वा व ।
  290. च. गः । ततः परिषिञ्चेत् । त ।
  291. क. ख. प्रानभ्यागतान्गृद्ध ।
  292. मध्यमपदलोपिना समासेन निर्वाहः ।
  293. ङ. च. यक्ष्ये मनुष्ययज्ञं करिष्य इत्येवं वा संकल्प्य तान ।
  294. क. ख. थीन्संपू ।
  295. क. ख. व्यम् । उ । ङ. व्यम् । ब ।
  296. क. वे ग ।
  297. क. ख. ग. च य ।
  298. च. ति । ए ।
  299. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु
  300. च. द्रान्ते कृ ।
  301. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख ङ. पुस्तकेषु ।
  302. च. ति सायमे ।
  303. च. काश एवायं ब ।
  304. च. यः । न दिवा । न च भूमौ । अन्ये ।
  305. क. ख. ङ. देवौ ।
  306. क. ख. ङ. इति संकल्पः । संप्र ।
  307. च. वतत्वा ।
  308. क. ख. ङ. व । त ।
  309. च. यः । न भमौ । दि ।
  310. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"अथ देवयज्ञभूतयज्ञपितृयज्ञानां पृथक्करणकल्पे प्रयोगः" इति ।
  311. च. यक्ष्ये देवयज्ञं करिष्य इ ।
  312. च. दङ्गु ।
  313. च. यक्ष्ये पितृयज्ञं करिष्य इति वा पूर्वसंकल्पानुसारेण सं ।
  314. च. यक्ष्ये भूतयज्ञं करिष्य इति वा प्रथमसंकल्पानुसारेण र ।
  315. च. द्यान् । भूतेभ्य इदं । ततः परिषिञ्चेत् । ये ।
  316. च. कः । त ।
  317. च. त्रितयं ।
  318. ङ. न तदा ।
  319. क. ख ङ. पि वै ।
  320. ख. ङ. मौ तत्त । च. मौ स्वगृहे यत्र तत्स्था ।
  321. च. विभवात् ।
  322. क. ख. ङ. व्यञ्जना ।
  323. च. लिदानं केचिदिच्छन्ति । कु ।
  324. ख. त् । य ।
  325. ख. ङ. म् । वै ।
  326. च. म् । प्रजाप ।
  327. च. व्यः । रौ ।
  328. धनुश्चिह्नान्तर्गतो ग्रन्थश्च. पुस्तक एव । क. पुस्तकेऽपि बहिष्टिप्पणीरूपेण लिखितोऽस्ति । एतद्बन्धस्थाने क. ख. ङ. पुस्तकेष्वन्यथा ग्रन्थः स यथा--"अग्नौ देवयज्ञार्थेनान्नेन देवयज्ञादीनां भिन्नत्वमिति कल्पे भूतेभ्यो नम इत्यन्ते वैश्वदेवप्रकरणस्थत्वाद्बौधायनोक्तेश्च होमेऽन्नप्राप्तिर्द्रष्टव्येति सुस्थम् । मिताक्षरायां बृहस्पतिः--अनिर्वर्त्य महायज्ञान्यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने कृच्छ्रार्धेन विशुध्यतीति । चान्द्रायणकृच्छ्रार्थयोः शक्ताशक्तपरत्वेन व्यवस्था । गीतायाम्--"यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्" । इति करणे फलातिशयोऽकरणे प्रत्यवायश्च स्मर्यते । अत्र यज्ञो वैश्वदेव इति श्रीधरस्वामिना व्याख्यातम् । तेन साग्निकैर्निरग्निकैश्च भोजनलोपेऽपि येन केनापि द्रव्येण यथाकथंचित्पञ्च महायज्ञाः कर्तव्या एवेति निष्कर्षः" इति ।
  329. क. धेकाः । वै ।
  330. क. स्याग्रे तस्या ।
  331. क. हुतीर्मन्त्र ।
  332. क. न्त्रैर्ये ।
  333. क. न मा ।
  334. क. हा । प्रजापतय इदं । इ ।
  335. क. पुस्तकटिप्पण्यामेवैतच्चिह्नान्तर्गतो ग्रन्थः । च. पुस्तके तु त्रुटितः ।