संस्काररत्नमाला (भागः २)/षष्ठं प्रकरणम्

               




   

अथ षष्ठं प्रकरणम् ।

अथ पिण्डपितृयज्ञः ।

 तत्रेदं सूत्रम्--

"सोऽयमेवं विहित एवानाहिताग्नेस्तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्तेऽतिप्रणीत आहुतीर्जुहोति यस्मिञ्जुहोति तमुपतिष्ठतेऽत्र गार्हपत्यप्रवादः परिलुप्यते" इति ।

 सोऽयं पिण्डपितृयज्ञ एवंप्रकारेणोक्त एवानाहिताग्नेरपि भवति । तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्ते । होमस्त्वग्निप्रणीतेऽपि वा न तत्र पाकः । तत्समवेतनिर्वापपात्रासादनादीनि तान्यौपासने नियम्यन्ते । अतिप्रणीत आहुतीर्जुहोति । एकोल्मुके प्रणीते तत्रैव होमः । तथा च होमसमय एव प्रणयनम् । यस्मिञ्जुहोति तमुपतिष्ठते । अतिप्रणीतमेवोपतिष्ठत इत्य[१]र्थः । तत्र भाष्यकृता व्याख्यातं यस्मिञ्जुहोतीति गुरुनिर्देशाद्विकल्प इति । गुरुनिर्देशस्यास्ति फलम् । दक्षिणाग्नौ पिण्डपितृयज्ञे कृतेऽपि गार्हपत्यस्योपस्थानवदौपासनस्य मा भूदित्येवमर्थं यस्मिन्नित्याद्युक्तम् । अत्र गार्हपत्यप्रवादः परिलुप्यते गार्हपत्यपदं लुप्यते नोह एतस्यापि पिण्डपितृयज्ञस्य प्रकृतित्वात् । नापि लक्षणया व्याख्या । प्रकृते गार्हपत्यमुपतिष्ठत इति सति विधौ ह्यै[२]न्द्र्या गार्हपत्यमुपतिष्ठत इति द्वितीयाश्रुतिबलेन व्याख्या । प्रकृते यस्मिञ्जुहोति तमुपतिष्ठत इत्येव विधौ द्वाराभावाल्लोप एव गार्हपत्यपदस्येति युक्तमिति व्याख्यातं वैजयन्तीकृता । एतत्कालस्तत्रैव सू[३]त्रं--

"अमावास्यायामपराह्णे पिण्डपितृयज्ञेन यजतेऽधिवृक्षसूर्ये वा यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति दृश्यमाने तूपोष्य श्वोभूते यजते" इति ।

 संज्ञान्तरात्स्वतन्त्रकालविधानात्संस्कारेषु पृथगभिधानाच्च नित्योऽयं न च काम्यः कर्मान्तरम् । यद्यपि यजतिः श्रूयते तथाऽपि न यागो निर्ज्ञातया संज्ञया यजेरन्यार्थत्वम् । पिण्डैः पिण्डदानेन सहितः पितृभ्यो[४] देवेभ्यो यज्ञो होमः स पिण्डपितृयज्ञः । पिण्डा मानुषेभ्यः पितृभ्यो दीयन्त इति प्रसिद्धम् । तदिदं पिण्डदानं पिण्डशब्देनोपलक्षितम् । तेन सहभावो देवरूपपितृहोमस्योक्तः । तेन पिण्डदानहोमयोरुभयोरपि प्राधान्यमुक्तम् । तेनास्य कर्मणो दैवत्वं पित्र्यत्वं चा[५]स्ति । ततस्तु जीवत्पितुः पिण्डदानलोपेऽपि होमेनैव तत्सिद्धिरसोमयाजिन इवाऽऽग्नेयोपांशुयागाभ्यां पौर्णमाससिद्धिः । अत्र दानहोमात्मके कर्मणि न ददातेः प्रयोगो नापि जुहोतेः । अत एव सूत्रान्तरे श्रुत्यन्तरे च पिण्डपितृयज्ञेन चरन्तीति सामान्यप्रयोगः[६] । अतः सूत्रकृता यज्ञशब्देन सहकृतः शाखान्तरीयो यजतिरेव प्रयुक्तः साङ्गयज्ञविधिवदत्रापि साङ्गकर्मविधानाज्जुहोतिददात्योरनुगतप्रदानमात्रसामान्यवाची । तत्रोभयोः प्राधान्येऽङ्गानि किं पित्र्याणि प्राचीनावीतित्वलक्षणानि तद्विपरीतानि दैवानि वेति संदेहे त्वनियमप्राप्तौ प्रयोगेण न्यायमाहाऽऽचार्यस्तस्याभिप्रायो वर्ण्यते । तत्र पितृतन्त्रस्य मुखतः प्रवृत्तेस्तस्य बलवत्त्वम् । कथम् । अपां मेध्यमिति बर्हिराहरणं पित्रर्थमेव । परिस्तरणानि तु पृथगेव परिभोजनीयैः । यदा न पिण्डदानं तदा न बर्हिराहरणं प्रयोजनाभावात् । परिस्तरणार्थं परिभोजनीयाहरणं तु कर्तव्यमेव । तस्माद्धोमात्प्राचीनं सर्वमुभयार्थमपि पित्र्यधर्मेणैव कार्यम् । परिस्तरणान्यप्युभयार्थान्येव । देवानामुभयेषां निवासार्थसंस्तवात् । तस्मात्प्राचीनावीती भूत्वाऽध्यर्युः कर्माणि सर्वाण्यपि कुर्यात् । समानकर्तृकत्वादङ्गप्रधानयोः । प्रथमं प्रधानेऽध्वर्युं हो[७]मकर्तारं वक्ष्यत्यतोऽध्वर्युरेव तत्राङ्गानां कर्ता । दक्षिणापवर्गाण्यप्रदक्षिणं चेत्यादि दर्शितं ज्ञेयम् । अत एवोक्तं दक्षिणाप्रागग्रैरिति । होमार्थमुपविष्टोऽध्वर्युरुपवीतीत्याद्याह । अपराह्णशब्दस्य कालवाचित्वात्तत्समभिव्याहृतस्तदपेक्षितोऽमावास्यादिशब्दोऽपि कालपर एव । तत्रैव मुख्यत्वाच्च । यजति(ते) चरतीत्यर्थः । आपस्तम्बेनाप्युक्तं चर[८]न्तीति । अपराह्णोऽत्र नवधाविभक्तस्यादह्नोऽपरो भागः सवितुः प्रसव इति निरूपितः । यदा मासिके श्राद्धेऽधिकारी तदा द्वेधाविभागमाश्रित्यापराह्णो ग्राह्यः । अन्यथा पिण्डपितृयज्ञानन्तरं क्रियमाणस्य काललोपः स्यात् । अन्यस्य त्रेधा विभागः । अधिवृक्षसूर्ये वा, वृक्षानधि सूर्यो यत्र स तथा । तत्रामावास्याशब्दस्य पञ्चदश्यां प्रतिपदि च प्रवृत्तेर्निय[९]मानाह–-'यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति' [ इति ] प्रत्यक्षेण शास्त्रेण वा नाभ्रादिव्यवधानेन तत्र संधिमतीत्यर्थः । यदि दृश्यते तदाऽऽह-- 'दृश्यमाने तूपोष्य श्वोभूते यजते' [ इति ] । उषित्वा सत्यसति वा पर्वसंधौ परदिनेऽपराह्णेऽधिवृक्षसूर्ये वा यजत इति व्याख्यातं वैजयन्तीकृता ।

 आपस्तम्बसूत्रेऽपि--

"अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति
तदहः पिण्डपितृयज्ञेन चरन्ति" इति ।

 पिण्डैर्युक्तः पितृयज्ञः पिण्डपितृयज्ञः । स च कर्मान्तरं न तु दर्शशेषः । यथा वक्ष्यति-- 'पितृयज्ञः स्वकालविधानादनङ्गं स्यात्' इति । तं च यदहश्चन्द्रमसं न पश्यन्ति पञ्चदश्यां प्रतिपदि वा तदहः कुरुते यदहस्तयोः संधिस्तदहरित्यर्थ इति रुद्रदत्तः । रामाण्डारोऽप्याह-- "पिण्डपितृयज्ञस्तु पर्वसंधिमदहोरात्रापराह्णे" इति । अमावास्यायामपराह्णे पिण्डपितृयज्ञः' इत्यस्मिन्नाश्वलायनसूत्रे वृत्तिकारोऽपि--

"अमावास्याशब्दः प्रतिपत्पञ्चदश्योः संधिवचनोऽप्यत्रापराह्णशब्दसमन्वयात्तद्वत्यहोरात्रे वर्तते । तस्यापराह्णे तुर्ये भागे पिण्डपितृयज्ञः कार्यः । औपवसथ्ये यजनीये वाऽहनि यदा त्वहोरात्रसंधौ तिथिसंधिः स्यात्तदौपवसथ्य एवाहनि क्रियते" इति ।

 अध्वर्युरुपवीतीत्यत्राध्वर्युग्रहणमनाहिताग्नेरप्यध्वर्युकर्तृकत्वार्थमिति भा[१०]ष्यकृत् । वैजयन्तीकृत्तु कतिपयानां दर्विहोमधर्माणां पिण्डपितृयज्ञप्रकरणस्थेन विशेषविधिना बाधेऽपि कर्तुरध्वर्योरबाधं स्मारयितुमध्वर्युरित्युक्तमित्याह । तेनानाहिताग्नेरप्यध्वर्युवरणमावश्यकम् । अशक्यत्वात्तदकरणे तु यजुर्भेषप्रायश्चित्तमनाज्ञातजपो वा कार्यः ।

अथ प्रयोगः ।

 कर्ताऽमावास्याप्रतिपत्संधिमति दिनेऽपराह्णे प्राचीनावीती कृताचमनप्राणायामः प्रथमप्रयोगेऽसतिबाधक उक्ते काले यावज्जीवं पिण्डपितृयज्ञेन यक्ष्य इति संकल्पं कुर्यात् ।

 ततः पुनराचम्य पिण्डपितृयज्ञेन यक्ष्य इति संकल्प्य, अस्मिन्पिण्डपितृयज्ञेऽध्वर्युं त्वामहं वृण इति वृणुयात् । ऋत्विजं त्वामहं वृण इत्येवं वा वरणम् । तदभावे स्वयं वा कुर्यात् । ऋत्विक्कर्तृकेऽपि होमान्ते कर्मणि तद्वत्प्राचीनावीतयज्ञोपवीते यजमानस्यापि भवतः । पिण्डदानं तु यजमानकर्तृकमेव[११] । अध्वर्युः प्राचीनावीत्येव 'अपां मेध्यं यज्ञिय शतम्' इति सकृत्प्रयत्नेन मूलैः सह बर्हिराच्छिनत्ति[१२] । अप उपस्पृश्य तूष्णीं बद्ध्वाऽऽहृत्यानधो निदधाति । तूष्णीं परिस्तरणाद्यर्थमन्यान्दर्भान्समूलाने[१३]वाऽऽच्छिद्य बद्ध्वाऽऽहृत्य बर्हिःसमीपे[१४]ऽनधो निदध्यात् ।

 ततः पुरस्ताद्दक्षिणाग्रैर्दक्षिणतः प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैर्दर्भैः प्रागादिप्रदक्षिणं यथावदेवाग्निं परिस्तृणाति । नात्राधरोत्तरभावनियमः । पूर्वं परिस्तृतत्वेऽपि धर्मभेदात्परिस्तरणं कार्यमेव । पिण्डपितृयज्ञपरिस्तरणदर्भाः प्रज्ञाताः कार्याः । पिण्डपितृयज्ञसमाप्तौ तेषामेव निष्काशनम् ।

 तत उत्तरेणाग्निमुत्तराग्रान्दर्भान्संस्तीर्यैकैकशः पिण्डपितृयज्ञपात्राण्युत्तानान्येव प्रयुनक्ति । स्फ्यं स्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमिति प्रागपवर्गाण्युदगपवर्गाणि वाऽऽसादयेत् । सूत्रे पिण्डपितृयज्ञाधिकारे पुनः पिण्डपितृयज्ञपात्राणीतिवचनमेतदर्थानि भिन्नान्येव पात्राणि संपादनीयानि न दार्शपौर्णमासिकैः कार्यसिद्धिरितिख्यापनार्थमिति वैजयन्तीकृत् । पार्वणस्थालीपाकीयैरपि न कार्यसिद्धिरित्यपि द्रष्टव्यम् ।।

 ततोऽपरेणाग्निं व्रीहिमच्छकटमवस्थाप्य शकटाभावे स्फ्ये पात्रीं निधाय तत्र व्रीहीनोप्यैकदर्भमयं पवित्रं कृत्वोदगग्रं स्थालीमुखे निधाय शकटस्थव्रीहिभिः पात्रीपक्षे पात्रीस्थव्रीहिभिः स्थालीं पूरयित्वा स्थालीमुखतोऽधिकातुपरि राशीभूतान्हस्तेन शकटस्थव्रीहिपु पात्रीपक्षे पात्रीस्थव्रीहिषु निःसार्य पवित्रमपातयन्पितृभ्यस्त्वा जुष्टं निर्वपामीति शूर्पे[१५] सकृदेव निर्वपति[१६] । ततस्तूष्णीं दक्षिणेना(न) [दक्षिणा]ग्निं दक्षिणापूर्वेण दक्षिणापरेण वा प्रत्यगुदग्ग्रीवं कृष्णाजिनमास्तीर्य तत्रोलूखलं स्थापयति । दक्षिणापूर्वेण दक्षिणापरेण वेत्येतावतैव सिद्धे दक्षिणेन दक्षिणाग्निमितिवचनं शकटस्य दक्षिणापूर्वेण दक्षिणापरेण वेति स्यात्तन्मा भूदित्येतदर्थम् ।

 तत आग्नेय्यभिमुखी तिष्ठन्ती पत्नी मुख्यैव तस्मिन्नुलूखले व्रीहीनोप्यावहन्ति । तदभावे तस्या अयोग्यत्वे च कनिष्ठा । ततस्तुषाणां निःसारणं कृत्वा सर्वांस्तुषान्निर्गमय्य सकृदेव कणविमोकार्थं फली करोति ।  ततः कर्ता फलीकरणान्यग्नेरुत्तरतो निक्षिप्य तण्डुलान्सकृत्प्रक्षाल्य स्थाल्यामुदकमानीयाग्नावधिश्रित्य तत्र तण्डुलानोप्याग्नौ [१७]जीवतण्डुलमिव चरुं श्रपयति । जीवतण्डुला अविशीर्णास्तण्डुला यस्मिंश्चरौ तादृशमनतिपाकमित्य[१८]र्थ इति वैजयन्तीकृत् । ततो यस्मिन्कस्मिंश्चिदनिषिद्धे पात्रे नवनीतमानीय पूर्वकृतेनैवैकपवित्रेण सकृदुत्पूूय तेन नवनीतेन पात्रस्थेनानुत्पतेनाऽऽज्येन वा तेनैव पात्रेणाभिघार्योत्तरत उद्वास्य पश्चादासादयति । आज्येनाभिघारणपक्ष उत्पवनाभावान्निर्वापोत्तरमेवाग्नौ पवित्रस्य प्रहरणम् । नवनीतेनाभिघारणपक्ष उत्पवनोत्तरं प्रहरणम् । अग्न्यायतनस्योत्तरतस्त्यजेद्वा ।

 ततः प्राचीनावीत्येवैकस्फ्याया वेदेर्दक्षिणतः समीप एव स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धृत्य षड्लेखा लिखित्वाऽवोक्ष्यावोक्षणशिष्टमर्धं जलं स्थण्डिलस्य पुरत उत्तरतो वोत्सिच्य, ( [१९]अन्यच्छुद्धमुदकं तत्पात्र आनीय तत्पात्रं स्वस्योत्तरतो निधाय तेनोदककार्यं कुर्यात् । यस्मिन्कस्मिंश्चित्पात्रे वा स्थापनमतिप्रणीताग्नेः । अस्मिन्पक्षे न स्थण्डिलकरणादि । उदककार्यं तु येनकेनापि शुद्धोदकेन । ततो ) 'ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परा पुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोक्तृ लोकात्' इत्यौपासनाग्नेरेकोल्मुकं धूपायत्पराचीन हुत्वा ले[२०]खासु[२१] यस्मिन्कस्मिंश्चित्पात्रे वा निधाय प्रज्वाल्य तमग्निं परिस्तृणाति । अथाध्वर्युस्तदभावे यजमान एव यज्ञोपवीती भूत्वा होमं कुर्यात् । दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकैकदेशमुपहत्य 'सोमाय पितृपीताय स्वधा नमः' इति पितृतीर्थेन प्रथमामाहुतिं जुहोति । सोमाय पितृपीतायेदं न मम । पु[२२]नस्तथैव स्थालीपाकैकदेशमुपहत्य 'यमायाङ्गिरस्वते पितृमते स्वधा नमः' इति द्वितीयां तथैव । यमायाङ्गिरस्वते पितृमत इदं न मम । 'अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः' इति यानि मेक्षणे द्वितीयाहुत्यवशेषितानि संलग्नानि सिक्थानि तैस्तृतीयामाहुतिं तथैव जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं न मम । प्रथमाहुतिसंबन्धिसिक्थानामपि होम इति केचित् । अस्मिन्पक्षे प्रथमाहुतिसंबन्धिमेक्षणसंलग्नानि सिक्थानि पात्रान्तरे निहितानि द्वितीयाहुत्यवशेषितमेक्षणस्थसिक्थेषु [मिश्रयित्वा] तेन तृ(तैस्तृ)तीयाहुतिर्होतव्या । अविशेषणमर्धस्य भागस्येति संप्रदायः । अस्मिन्होमे पितृतीर्थस्यानियमः । अतिप्रणीत एवायं होम इति वैजयन्तीकृत् । औपासनेऽतिप्रणीते वेति विकल्प इति भाष्यकृत् । औपासनाग्नौ होमपक्षे तु नातिप्रणीताग्नेः परिस्तरणम् । द्वितीयाहुत्यवशेषितसंलग्नसिक्थाभावे लोप इति केचित् । स्थालीपाकात्कानिचित्सिक्थान्युपहत्य तेन तृ(तैस्तृ)तीयामाहुतिं जुहोतीत्यन्ये । उभयपक्षेऽपि प्रायश्चित्तार्थमनाज्ञातत्रयजपविष्णुस्मरणे कर्तव्ये । ततस्तूष्णीं मेक्षणमनुप्रहरति । ततः प्राचीनावीती 'अपहता असुरा रक्षा सि वेदिषदः' इत्यवहननदेशे दक्षिणापवर्गामाग्नेय्यपवर्गां वा वेदिं सकृत्स्फयेनैकरेखयोल्लिख्य 'उदरितामवर हवेषु' इत्यद्भिरवोक्षति । प्रोक्षणीसंस्कारनिवृत्त्यर्थमद्भिरित्युक्तम् । 'सकृदाच्छिन्नं ब० गैः सह' इति सकृदाच्छिन्नेन बर्हिषा वेदि स्तृणाति ।

 ततस्तत्र स्थालीपाकमासादयति । तद्दक्षिणत आञ्जनमभ्यञ्जनं कशिपूपबर्हणमुदकुम्भं च बर्हिष्येव प्रतिष्ठापयति । आञ्जनं कज्जलम् । अभ्यञ्जनं तैलम् । दध्न उपरितनः स्नेहो वा । कशिपु मञ्चः सतूलिकः । उपबर्हणं शिरस्यु(उ)पधानम् । उदकेन पूर्णः कुम्भ उदकुम्भः । जीवत्पितृकस्य नतत् । तस्य पिण्डदानाभावात् । एतावतर्त्विग्विरमति ।

 अथ यजमानः प्राचीनावीती सव्यं जान्वाच्य सकृदाच्छिन्ने बर्हिषि अर्वाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीन्निनयति । 'मार्जयन्तां पितरः सोम्यासः' इति प्रथमम् । 'मार्जयन्तां पितामहाः सोम्यासः' इति द्वितीयम् । 'मार्जयन्तां प्रपितामहाः सोम्यासः' इति तृतीयम् । 'पितरमुकशर्मन्नवनेनिङ्क्ष्व' इति प्रथमम् । 'पितामहामुकशर्मन्नवनेनिङ्क्ष्व' इति द्वितीयम् । 'प्रपितामहामुकशर्मन्नवनिङ्क्ष्व'इति तृतीयमित्येवं वा।

 ततो निनयनसंस्कृतेषु स्थानेषु क्रमेणार्वाचीनपाणिस्त्रीन्पि[२३]ण्डान्कृतान्ददाति । 'एतत्ते ततामुकशर्मन्ये च त्वामनु' इति पित्रे पिण्डं ददाति । 'एतत्ते पितामहामुकशर्मन्ये च त्वामनु' इति पितामहाय । 'एतत्ते प्रपितामहामुकशर्मन्ये च त्वामनु' इति प्रपितामहाय । तूष्णीं चतुर्थः पिण्डः । स[२४] कृताकृतः । एतदर्थं निनयनमपि तूष्णीं कर्तव्यम् । अथ यदि नामधेयानि न जानीयात्तदा 'स्वधा पितृभ्यः पृथिवीषद्भ्यः' इति पित्रे पिण्डं दद्यात् । 'स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः' इति पितामहाय । 'स्वधा पितृभ्यो दिविषद्भयः' इति प्रपितामहाय । यदि कर्ता द्विपिता स्यात्तदा 'एतद्वां ततावमुकशर्माणौ ये च युवामनु' इत्येकस्मिन्पिण्डे[२५] पितरौ द्वावुच्चारयेत् । एतद्वां पितामहाविति पिताम[२६]हौ द्वौ । एतद्वां प्रपितामहाविति प्रपिताम[२७]हौ द्वौ । अत्रापि नामाज्ञान उभयोरभिध्यानं तत्र कुर्वन्स्वधा पितृभ्य इत्यादिभिरेव दानम् । जीवत्पितृकश्चेत्पितामहप्रपिताम[२८]हाभ्यां दद्यात् । जीवत्पितामहः पितृप्रपिताम[२९]हाभ्याम् । जीवत्प्रपितामहः पितृपिताम[३०]हाभ्याम् । अथवा जीवन्तमतिक्रम्य न ददातीतिनिषेधान्मेक्षणप्रहरणान्तमेव कुर्यात् । जीवत्पितुः पिण्डदानप्रभृति उत्तरं लुप्यते । द्विपितुरेकस्मिञ्जीवति पिण्डदानप्रमुखं कर्म लुप्यत इति व्याख्यातारः । उक्तरीत्या पिण्डान्निधाय[३१] बर्हिषि स्थापितादुदकुम्भादर्धमुदकं पात्रान्तरे गृहीत्वा तेनैव वा 'आपो देवीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । उर्जं वहन्तीः सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुत स्वधा स्थ तर्पयत मे पितॄन्' इति त्रीनुदपातान्निनयति । प्रत्येकं त्रिरिति केचित् । सकृत्सकृदित्यन्ये । चतुर्थे पिण्डे तूष्णीमिति केचित् । 'अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वम्' इत्युक्त्वाऽप्रदक्षिणं पराङावर्तते । 'स्वाहोष्मणोऽव्यथिष्यै' इत्यूष्माणमुद्यन्तमनुमन्त्रयते । व्यावृत्त ऊष्मण्यव्यावृत्ते वा 'अमीमदन्त पितरोऽनुस्वधमावृषायीपत' इत्युक्त्वा य[३२]थेतं पिण्डसंमुखो भवेत् । ततो यः स्थाल्यां शेषस्तमवघ्रेण भक्षयति । भक्षणबुद्धिः कार्येत्यर्थः । उदकस्पर्शः । बहिर्निष्काश्य हस्तेनोपस्पृशति वा । अस्मिन्पक्षे नोदकस्पर्शः । रोगनिवृत्तिकामो योग्यान्नकामो वा चेत्स प्राश्नीयात् । यश्चारुचिदोषेणान्नाद्याय समर्थोऽप्यन्नं नाश्नाति सोऽपि प्राश्नीयात् । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । 'आङ्क्ष्व पितरमुकशर्मन्' इति पितृपिण्ड आञ्जनं ददाति । 'आङ्क्ष्व पितामहामुकशर्मन्' इति पितामहपिण्डे । 'आङ्क्ष्व प्रपितामहामुकशर्मन्' इति प्रपितामहपिण्डे । प्रत्येकं त्रिः । सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्येकमिति भाष्यकृत् । त्रिर्ग्रहणं चतुर्थपिण्डनिवृत्त्यर्थमित्यन्ये । तदा सकृत्सकृदेव । 'अभ्यङ्क्ष पितरमुकशर्मन्' इत्याद्यूहेन पितृपिण्डादिष्वभ्यञ्जनमाञ्जनवद्दद्यात् । द्विपितृकस्य तु--'आञ्जाथां पितरावमुकशर्माणौ' इत्याद्यूहेनाऽऽञ्जनदानम् । 'अभ्यञ्जाथां पितरावमुकशर्माणौ' इत्याद्यूहेनाभ्यञ्जनदानम् । नामाज्ञाने केवलैस्ततपितामहप्रपितामहशब्दैरेव दानम् ।  ततो दशामूर्णास्तुकां वा छित्वा 'एतानि वः पितरो वासा स्यतो नोऽन्यत्पितरो मा यूढ्वम्'  इति सकृन्मन्त्रेण पिण्डेषु क्षिपति पूर्वे वयसि । छित्त्वेतिवचनाद्गलितयोर्न ग्रहणम् । पञ्चाशद्वर्षात्पूर्वं पूर्वं वयः । तत ऊर्ध्वमुत्तरं वयः । तत्रोत्तरं चेद्वयस्तदा स्वस्य दक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्त्वा न्यस्यति । न दशा नोर्णास्तुका । आश्वलायनेन स्वं लोमेतिस्वशब्दग्रहणात्स्वकर्तृके पिण्डदान एव लोमदानं नाशक्तिवशेन प्रतिनिधिकर्तृके । तत्र तु दशोर्णास्तु[३३]कैव वा देयेत्ति केचिद्व्याख्यातारः ।

 ततः 'नमो वः पितरो रसाय पि० शुष्माय पित० जीवाय पि० स्वधायै पि० मन्यवे पि० घोराय पि०' इति सानुषङ्गैः षड्भिर्नमस्कारैः प्रत्येकं सकृद्वोपतिष्ठते । सप्तभिरिति वैजयन्तीकृत् । अस्मिन्पक्षे ([३४] 'नमो वः पितरो रसाय० शुष्माय० जीवाय० स्वधायै० मन्यवे० घोराय० ६) नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो न भूयासम्' [३५]त्येवं सप्त मन्त्रा दृष्टव्याः । यथापाठपठित एक एव मन्त्र इति केचित् ।

 तत उदकुम्भस्थम[३६]र्धमुदकं सर्वं पात्रान्तरे गृहीत्वा तेनैव वा 'ऊर्जस्वतीः स्वधया वन्दमाना० पितॄन्' इति त्रीनुदपातान्निनयति । चतुर्थे पिण्डे तूष्णीं पूर्ववदिति केचित् । 'उत्तिष्ठत पितरः प्रेतपूर्वे यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं ग्र णो ब्रूताद्भागधां देवतासु' इति पितृणामुत्थानं भावयञ्जपति । 'परेत पितरः सो० मदन्ति' इति प्रवाहणं भावयञ्जपति । प्रवाहणं समीचीनैर्यानैः पितॄणां पितृलोकं प्रति नयनम् । 'यन्तु पितरो मनसा जवेन' इति पितृलोकप्रापणं भावयञ्जपति । 'मनोऽन्वाहुवामहे० महि' इति तिसृभिर्मनस्वतीभिः स्वलोकस्थान्पितॄनुपतिष्ठते । 'अक्षन्नमी० हरी । प्रजापते न० रयीणाम्' इति पङ्क्तिप्राजापत्या[३७]भ्यां प्रत्येति । पितॄन्प्रापयित्वा(य्य) तस्माद्देशात्प्रत्यागमनं भावयञ्जपतीत्यर्थः । पङ्क्तित्वेन ज्ञानं कर्माङ्गम् । ज्ञानाभाव औपासनाग्नौ यजुष्टो यज्ञभ्रेषप्रायश्चित्तार्थमाज्यं संस्कृत्य भुव इत्याज्याहुतिं कर्मसमाप्त्यन्ते जुहुयात्[३८] । ततोऽतिप्रणीताग्नेः पश्चाद्गत्वा 'यदन्तरिक्षं० देनसः प्रमुञ्चतु दु० मनेनसम्' इत्यतिप्रणीतमग्निमुपतिष्ठते । भाष्यकृद्रीत्यौपासनाग्नौ होमकरणे तस्यैवोपस्थानम् । 'अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येतु देवान्' इत्यतिप्रणीतमग्निमौपासनाग्नौ मेलयति ।

 ततः पात्राण्यद्भिरभ्युक्ष्य द्वे द्वे आसादनस्थानाच्चालयति स्फ्यस्थाल्यौ शूर्पकृष्णाजिने उलूखलमुसले इति ।

 ततः स्थाल्यां पिण्डान्निक्षिपति । मध्यमं पिण्डं प्रज्ञातं निक्षिपति । चतुर्थपिण्डपक्षे तमपि ।

 ततः स्थालीतो मध्यमं पिण्डमादाय 'अपां त्वौषधीना रसं प्राशयामि भूतकृतं गर्भं धत्स्व' इति मध्यमं पिण्डं पत्न्यै प्रयच्छति । पत्न्यनेकत्वे तं पिण्डं विभज्य[३९] प्रतिपत्नि दद्यात् । 'आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत्' इति सा प्राश्नाति । पत्न्यनेकत्वे सर्वा अपि मन्त्रेण प्राश्नीयुः । इदं च नित्यं कामपदाभावात्, इति वैजयन्तीकृत् । पत्न्या रजस्वलया प्रसूतयाऽऽशौचवत्या भक्षणं न कार्यम् । भक्षणाभावाद्दानमपि न । अजातरजस्कायै गतरजस्कायै च पत्न्यै न दद्यादिति रुद्रदत्तः । 'ये समानाः स० ये सजाताः' इति द्वाभ्यां सकृदाच्छिन्ना[४०]न्यभ्युक्ष्यौपासनाग्नौ प्रक्षिपति[४१] । ततः स्थालीस्थान्पिण्डानप्सु प्रक्षिपति ब्राह्मणं वा भोजयति । पत्न्याः पिण्डभक्षणायोग्यतायां तमपि पिण्डमेतयैव रीत्या प्रतिपादयेत् ।

 तत उपवीती भूत्वा कर्मेश्वरार्पणं कुर्यात् । पिण्डपितृयज्ञ एकोल्मुकस्य प्रणयनप्रभृत्या समाप्तेर्नाशे यदैव ज्ञाते तदैव तद्भस्म निष्काश्य गोमयेन तद्देशमुलिप्य रेखालेखनाद्युत्सेचनान्तं कृत्वा पुनस्तेनैव मन्त्रेण योनितस्तस्मिन्स्थानेऽग्निमतिप्रणीयैकोल्मुकनाशप्रायश्चित्तं करिष्य इति संकल्प्यौपासनाग्नौ संस्कृताज्येन 'ॐ भूर्भुवः सुवः स्वाहा' इत्येकामाहुतिं जुहुयात् । यद्यमावास्यायां पत्नी रजस्वला तदा तां गृहान्तरे संस्थाप्य तस्मिन्नेव दिनेऽपराह्णे पिण्डपितृयज्ञः कार्य इति रुद्रदत्तः । रामाण्डारस्तु पञ्चमदिवसादौ सर्वप्रायश्चित्तपूर्वकमतीतपिण्डपितृयज्ञं कुर्यादित्याह । प्रथमे पिण्डपितृयज्ञे पत्नी यदि रजस्वला तदाऽग्रिमदर्शे सप्तहोतारं हुत्वा पिण्डपितृयज्ञ आरब्धव्य इति शतद्वयीव्याख्यायाम् । अत्र प्रथमपिण्डपितृयज्ञग्रहणाद्द्वितीयादिप्रयोगे पत्न्यां रजस्वलायामपि पिण्डपितृयज्ञो भवत्येवेति गम्यते । सूतकप्रतिवन्धस्तु सर्वत्राप्यविशिष्ट इति द्रष्टव्यम्[४२] आगामिदर्शे सप्तहोतारं सर्वप्रायश्चित्तं च जुहुयात् । यदि पिण्डपितृयज्ञस्य द्वितीयादिप्रयोगः केनापि निमित्तेन मुख्यकाले न जायेत तदा गौणकाले कर्तव्यः । तत्र निदानसूत्रम्-- 'सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः सायमाहुतेः [४३] पूर्णः पक्षो दर्शस्य कृष्णः पक्षः पूर्णमासस्य' इति । अत्र केषांचिदुपादानं तुल्यन्यायानां प्राप्त्यर्थम् । तेन चातुर्मास्यपर्वणां पशोराग्रयणस्य पिण्डपितृयज्ञस्य च परकालात्प्राक्प्रायश्चित्तपूर्विका क्रिया भवतीति धूर्तः ।

 अन्ये तु यावद्वचनं वाचनिकमिति न्यायेन निदानसूत्रोपात्तानामेवैष कालव्यपदेश इति । तेन पिण्डपितृयज्ञस्य न गौणकालेऽनुष्ठानमित्याहुः ।

 आगामिदर्शपर्यन्तं पूर्वपिण्डपितृयज्ञस्य गौणकालस्तत्राप्यननुष्ठान आगामिदर्शे सप्तहोतारं सर्वप्रायश्चित्तं च जुहुयात् । गौणकालेऽनुष्ठानेऽप्येतत्प्रायश्चित्तं पूर्वं कार्यमेव । तच्चेत्थम्--दर्शे पिण्डपितृयज्ञात्पूर्वं देशकालौ संकीर्त्य पिण्डपितृयज्ञलोपप्रायश्चित्तार्थं सप्तहोतृहोमं समस्तव्याहृतिहोमं च करिष्य इति संकल्प्य होमोपयुक्तपात्राण्यासाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वा स्रुवेण दर्व्यां[४४] चतुर्गृहीतं गृहीत्वाऽग्नेरपरिस्तृतत्वे तं परिस्तीर्यैकां समिधमभ्याधाय, महाहविरित्यस्य ग्रहसंज्ञकमन्त्रसहितस्य स्वयंभूर्वाचस्पतिर्ब्रह्मा यजुः । पिण्डपितृयज्ञलोपप्रायश्चित्ताज्यहोमे विनियोगः । 'ॐ महाहविः० पृथिव्यै स्वाहा' इति जुहोति । वाचस्पतये ब्रह्मण इदं न मम[४५]

 ततः समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । पिण्डपितृयज्ञलोपप्रायश्चित्ताज्यहोमे विनियोगः । 'ॐ भूर्भुवः सुवः स्वाहा' इत्येकामाहुतिं जुहोति । प्रजापतय इदं न मम । ततोऽनाज्ञातजपादि कुर्यात् । त[४६]तोऽन्तरितपितृयज्ञेन सह प्राप्तपितृयज्ञादि समानम् । ([४७]अस्मिन्पक्षेऽन्तरितपितृयज्ञेन सहैतेन पितृयज्ञेन यक्ष्य इति संकल्पः । केवलं प्राप्तपितृयज्ञाद्येव नान्तरितपितृयज्ञ इत्यपि पक्षान्तरम् । यदि स्थालीपाकः पूर्वमनन्तरं पिण्डपितृयज्ञस्तत्र स्थालीपाकात्पूर्वमेवान्तरितपिण्डपितृयज्ञप्रायश्चित्तं कुर्यात् । पूर्वेद्युरन्वाधानपक्षे द्वितीयदि वसपात्रासादनात्प्राग्वा ) । आगामिदर्शस्याप्यतिक्रमणे पूर्वपिण्डपितृयज्ञलोपप्रायश्चित्तमेवाग्रिमे दर्शे कार्यं न तु तदनुष्ठानम् । जीवत्पितृकस्य तु होमान्तमेव कर्म न पिण्डदानाद्युत्तरम् । पिण्डदानाभावात्मकृदाच्छिन्नाभावः । अतिप्रणीते होमपक्षेतिप्र[४८]णीतमेलने प्रोषितस्य पिण्डपितृयज्ञयाजमानमन्त्रजपे विकल्पः ।

तथा च मण्डनः--'पितृयज्ञे याजमानं जपन्त्येके न चापरे' इति ।

 आहिताग्निकर्तृके पिण्डपितृयज्ञे तु मेक्षणाधानोत्तरमतिप्रणयनम् । दक्षिणाग्नौ श्रपणहोमौ । यदन्तरिक्षमितिमन्त्रेण गार्हपत्योपस्थानम्[४९] । अस्मिन्मन्त्रे न गार्हपत्यपदलोप इति विशेषः । अन्यत्समानम् ।

इति संस्काररत्नमालायां पिण्डपितृयज्ञप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणशेदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालाया उत्तरार्धे
षष्ठं प्रकरणम् ॥ ६ ॥

  1. च. र्थः । अत्र मातृदत्तेन व्या ।
  2. क. पङ्क्त्या ।
  3. ख. ङ. मूले ।
  4. क. ख. भ्यो व ।
  5. क. च. चास्तीति ।
  6. क. च. ग. कृतः । अ ।
  7. ख. ङ. च. होमे क ।
  8. क. ख. ङ. रतीति ।
  9. ङ. च. यममाह ।
  10. च. मातृदत्तः ।
  11. च. व । ततोऽध्व ।
  12. च. त्ति उत्पाटयतीत्यर्थः । अ ।
  13. च. नेवोत्पाट्याप उपस्पृश्य तान्बद्ध्वा ।
  14. क. ख. ङ. पे नि ।
  15. ङ. च. ऐं स्थाल्या स ।
  16. च. ति । पितृतीर्थेनेति केचित् । त ।
  17. अत्र क. पुस्तकटिप्पण्यां "पुराणव्रीहयो येषां बीजमुप्तं प्ररोहति । तेभ्यो ये तण्डुला जाता विज्ञेया जीवतण्डुलाः । इति मैत्रावरुणपरिशिष्टे" इति वर्तते ।
  18. ङ. त्यर्थः । त ।
  19. धनुश्चिह्नान्तर्गतं ख. ङ. पुस्तकयोर्नास्ति ।
  20. च. स्थण्डिले ।
  21. ख ङ. सु नि ।
  22. क. ख. ङ. पुनः स्था ।
  23. अत्र 'पिण्डान्कृत्वा तान्' इति क. पुस्तकशोधितः पाठः
  24. च. स च कृ ।
  25. क. ख. ङ. ण्डे द्वा ।
  26. क. ख. ङ. महयोः । ए ।
  27. क. ख. ङ. महयोः । अ ।
  28. क. ख. ङ. महयोर्दद्या ।
  29. क. ख. ङ. महयोः । जी ।
  30. क. ख. ङ. महयोः । अ ।
  31. क. ख. ङ. धायोद ।
  32. यथा पराङावृत्तस्तथैव पि ।
  33. च. स्तुकयोरन्यतरदेव देयमिति ।
  34. धनुश्चिह्नान्तर्गतं च. पुस्तके नास्ति ।
  35. च. इत्यनुषङ्गरहितो मन्त्रः सप्तमो द्रष्टव्यः । य ।
  36. च. मवशिष्टमु ।
  37. क. ख. ङ. त्याभ्यामतिप्रणीताग्नेः पश्चादुपस्थानार्थं गच्छति । पङ्क्ति ।
  38. क. ख. ङ. त् । य ।
  39. च. ज्य सर्वाभ्यः पत्नीभ्यो दं ।
  40. च. न्नानभ्यु ।
  41. च. ति । प्रक्षेपणे मन्त्रः । त ।
  42. ङ. च. भू । य ।
  43. अत्र क. पुस्तकटिप्पण्यां 'पूर्वः' इति वर्तते ।
  44. च. र्व्या स्रुचि वा च ।
  45. च. म । उद्गातेत्येतदन्तं मनसा पा(प)ठनीयम् । त ।
  46. ङ. च. ततः प्रा ।
  47. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तके 'स्रुचा होमपक्षे दर्विहोमधर्मेण होमः । ऋष्यादिस्मरणे विकल्पः । एतच्च प्रायश्चित्तं पिण्डपितृयज्ञात्ययेराप्तहोतारं जुहुयादिति बौधायनोक्तम् । कात्यायनोक्तं तु–-'पिण्डयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च । भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत्' इति वैश्वानरस्थालीपाकात्मकम् । तद्वा कार्यम्' इति ग्रन्थो वर्तते । ङ. पुस्तके तु धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ।
  48. क ख. ङ. प्रणयनमे ।
  49. क. म् । तत्र मन्त्रे ।