सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/सत्रस्यर्द्धि
< सामवेदः | कौथुमीया | संहिता | आरण्यकगेयः | प्रपाठकः ४/वाचःव्रतपर्व(सत्रस्य ऋद्धिः इत्यस्मात् पुनर्निर्दिष्टम्)
(१) x॥ सत्रस्यर्द्धि साम ॥ प्रजापतिस्त्रिष्टुबिन्द्रः ॥
औहोवाऔहोवाऔहोऽ३वा। अगन्मज्योतिः।(द्विः)। अगन्मज्योतिः।। अमृताअभूम।(द्विः)। अमृताअभूमा। तरिक्षंपृथिव्याअध्यारुहामा । (द्विः) । तरिक्षंपृथिव्याअध्यारुहाम । दिवमन्तरिक्षादध्यारुहाम । (त्रिः) । अविदामदेवान् । ( त्रिः) । समुदेवैरगन्महि (त्रिः) । औहोवाऔहोवाऔहोऽ३वा ।। सुवर्ज्योतीऽ२३४५ः ॥
( दी० ६० । प० २१ । मा० १७ )४( पे । १७०)
सम्पाद्यताम्
टिप्पणी
सत्त्रस्यर्द्ध्याग्नीध्रमुपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति - तांब्रा ५.४.७