← द्वितीयः समयः समयमातृका
तृतीयः समयः
क्षेमेन्द्रः
चतुर्थः समयः →

तृतीयः समयः
प्रदोषवेश्यालापवर्णनम्
अथ सर्वार्थजननीं जननीं वेशयोषिताम् ।
मित्रे स्वभावमलिनामानेतुं गन्तुमुद्यते ॥१॥

सङ्कोचक्लेशसञ्जातां शूरतामिव रागिणाम् ।
आसन्नश्रीवियोगानां स्वापग्लानिरजायत ॥२॥

शनैर्दिनधने क्षीणे स्वल्पशेषाम्बरः परम् ।
अलम्बत क्षणं रागी सन्ध्याधाम्नि दिनेश्वरः ॥३॥

सन्ध्यया क्षिप्ररागिण्या निरस्तः परितापवान।
नीरागः सागरजले चिक्षेप तपनस्तनुम् ॥४॥

ततस्तिमिरसम्भारैर्वाररामाप्रसाधने ।
कृष्णागुरुभरोद्भूतधूपधूमोद्गतमायितम् ॥५॥

यामिनीकामिनीकीर्णकेशपाशोपमं तमः ।
दीपचम्पकमालाभिर्विश्रान्तिनियमं ययौ ॥६॥

अथ स्ववेशवनितासापत्न्यकलहच्युतम् ।
अदृश्यत शशङ्कार्धं दन्तपत्रमिवामबरे ॥७॥

रजनीरमणीकान्ते दिनान्ते तुहिनत्विषि ।
उदिते मुदिते लोके बभूव मदनोत्सवः ॥८॥

भुक्तां सहस्रकरसम्पदमम्बरश्रीः
कृत्वा जनस्मरणमात्रदशावशेषाम् ।
वेश्येव काममनपेक्षितपक्षपाता
क्षिप्रं शशाङ्कविभवाभरणा बभूव ॥९॥

ततः कर्तुं प्रवृत्तेषु वेश्यावेश्माग्रवर्त्मसु ।
विटेषु मधुलुब्धेषु निर्व्यापारं गतागतम् ॥१०॥
द्वाराग्रदत्तकर्णासु ग्रहणग्रहणेप्सया ।
कुट्टनीषु तृणापातेऽप्युन्मुखीषु मुहुर्मुहुः ॥११॥

दिनकामुकनिर्माल्यमाल्यताम्बूलिनीं भुवम् ।
संमृज्य सज्जशय्यासु वेश्यास्वन्यप्रतीक्षया ॥१२॥

आस्तीर्यमाणखट्वान्तः किङ्किणीक्वाणसंज्ञया ।
पारावतेषु विरुतैर्व्रजत्सु स्मरवन्दिताम् ॥१३॥

गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।
पूर्वं किं नागतोऽसीति वदन्तीष्वपरासु च ॥१४॥

उदराबद्धवसनैर्जटाग्रन्थिनिपीडनम् ।
कुर्वाणैर्वारकलहे प्रारब्धे शठदेशिकैः ॥१५॥

स्वयं मात्रा च युगपद्गृहीतं ग्रहणद्वये ।
वारे प्राप्ते तृतीये च यान्तीष्वन्यास्वदर्शनम् ॥१६॥

अनायाते परिचिते प्रत्याख्याते नवागते ।
उभयभ्रंशशोकेन सीदन्तीष्वपरासु च ॥१७॥

भुक्तोज्झितानामन्यासु पुनः प्राप्तार्थसम्पदाम् ।
जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥

यदि त्वां सा सुजननी न जानीयात्सुधामयम् ।
अभविष्यदुपायो मे तत्कोऽसौ प्राणधारणे ॥१९॥

नित्यावहारकुपितं सर्वार्थैरुपकारिणम् ।
ऋजुमावर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥

अन्यनाम्ना प्रविष्टानां कलहे कूटकामिनाम् ।
कुट्टनीषु रटन्तीषु घण्टारणरणोत्कटम् ॥२१॥

प्रसुप्तकटकक्षीबक्षीणक्षुद्राभृते गृहे ।
सखीभवनमन्यासु यान्तीष्वादाय कामुकम् ॥२२॥

बालमार्जारिकाह्वानव्याजेनान्यासु वर्त्मनि ।
कटाक्षैः कलयन्तीषु दूरात्कामुकमामिषम् ॥२३॥

एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
किं करोमीति जननीं पृच्छन्तीष्वपरासु च ॥२४॥

निशा दीर्घा नवः कामी तनयेयं कनीयसी ।
व्यत्येति कालहाराय वृद्धावर्गे कथोद्यते ॥२५॥

नाज्ञाताद्गृह्यते भाटी चरन्ती म्लेच्छगायनाः ।
इत्यन्यासु वदन्तीषु शून्यशय्यासु लज्जया ॥२६॥

आयाते वार्यमाणेऽपि निर्माणे क्षीणकामुके ।
व्याजकुक्षिशिरःशूलाक्रन्दिनीषु परासु च ॥२७॥

मुग्धकामुकमित्राणां स्वेच्छया व्ययकारिणाम् ।
प्रस्तुते स्थिरलाभाय कुट्टनीभिर्गुणस्तवे ॥२८॥

लज्जामहे वयं स्वल्पधनेनेति विभाविनि ।
गण्यमाने दशगुणे धूर्तैः प्रथमकामिनाम् ॥२९॥

प्रवाससक्तेरधिकारिसूनोः स्थितावरुद्धा तनया ममेति ।
काचिद्वदन्ती विजने विगूह्य जग्राह भाटीं त्रिगुणां समृद्धात॥३०॥

अल्पं ममैतद्दुहितुर्न योग्यं
न च क्षणोऽस्ति त्वमदृष्टपूर्वः ।
इति ब्रुवाणापि विटं पटान्ते
गाढं गृहीत्वा न मुमोच काचित॥३१॥

अमात्यपुत्रेण सुताद्य नीता
क्षमस्व रात्रिं प्रणयान्ममैकाम् ।
उक्त्वेति काचिज्जरती चकार
रिक्तस्य सक्तस्य च विप्रलम्भम् ॥३२॥

दातव्यं न ददाति वारविरहे टक्वो ऽद्य लब्धस्थलः
क्रूरः सैन्यपतिः प्रयाति रिपुतां सद्यैव वारं विना ।
वृत्तिर्देवगृहात्कथं नु दिविरे वारोज्झिते लभ्यते
वाटीपेटकवारतां गतवती प्रोवाच काचित्सखीम् ॥३३॥

अन्यास्ताः सखि कूटपाशनिचयैराकृष्टमुग्धश्रियः
कुर्मः किं वयमेव वञ्चनकलां जात्या न जानीमहे ।
सद्भावे सततं स्वभावविमुखः सर्वाभिशङ्की जनो
वाक्यैः काचिदिति प्रकाशमकरोत्सक्तार्जवावर्जनम् ॥३४॥

    1. सकलैव सा रसवती नीता क्षणेन क्षपा

पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः ।
इत्युद्वेगपरिग्रहग्लपितधीः पृष्टः सहासैर्विटैर्
व्याचष्टे कटुकुट्टनीकुटिलतामक्लिष्टकूटां विटः ॥३५॥

नास्मद्गेहप्रवेशः सगुणजनकथाकेलिमात्रोपचारैर्
व्यापारारम्भसारप्रवसदवसरे वासरे कामुकानाम् ।
वृत्तिर्वृत्तानुरोधात्कथमपि विदिताद्गृह्यते यामवत्यां
इत्युच्चैः काचिदूचे बहुगतगणिकावर्गगर्वोपशान्त्यै ॥३६॥

कुरु तरलिके हारं कण्ठे गृहाण मनोहरे
वलययुगलं लीले लोलां विलोकय मेखलाम् ।
भज मलयजं चित्रे रात्रिः प्रयाति कठोरताम्
इति चतुरताचार्यस्तासां बभूव सखीजनः ॥३७॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
प्रदोषवेश्यालापवर्णनं नाम तृतीयः समयः ॥३॥