प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← परिच्छेदः २ सरस्वतीकण्ठाभरणम्
परिच्छेदः ३
भोजराजः
परिच्छेदः ४ →

अलमर्थमलङ्कर्तुं यद्व्युत्पत्त्यादिवर्त्मना ।
ज्ञेया जात्यादयः प्राज्ञैस्तेऽर्थालङ्कारसंज्ञया ।। ३.१ ।।

जातिर्विभावना हेतुरहेतुः सूक्ष्ममुत्तरम् ।
विरोधः सम्भवोऽन्योन्यं परिवृत्तिर्निदर्शना ।। ३.२ ।।

भेदः समाहितं भ्रान्तिर्वितर्को मीलितं स्मृतिः ।
भावः प्रत्यक्षपूर्वाणि प्रमाणानि च जैमिनेः ।। ३.३ ।।

नानावस्थासु जायन्ते यानि रूपाणि वस्तुनः ।
स्वेभ्यः स्वेभ्यो निसर्गेभ्यस्तानि जातिं प्रचक्षते ।। ३.४ ।।

अर्थव्यक्तेरियं भेदमियता प्रतिपद्यते ।
जायमानप्रियं वक्ति रूपं सा सार्वकालिकम् ।। ३.५ ।।

स्वरूपमाश्रयो हेतुरिति तद्भेदहेतवः ।
ते संस्थानादयस्तेषु सा विशेषेण शोभते ।। ३.६ ।।

तत्र स्वरूपं संस्थानमवस्थानं तथैव च ।
वेषो व्यापार इत्याद्यैः प्रभेदैर्बहुधा स्थितम् ।। ३.७ ।।

मुग्धाङ्गनार्भकस्तिर्यङ्नीचपात्राणि चाश्रयः ।
देशः कालश्च शक्तिश्च साधनानि च हेतवः ।। ३.८ ।।

प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चित्कारणान्तरम् ।
यत्र स्वाभाविकं वापि विभाव्यं सा विभावना ।। ३.९ ।।

शुद्धा चित्रा विचित्रा च विविधा सा निगद्यते ।
शुद्धा यत्रैकमुद्दिश्य हेतुरेको निवर्तते ।। ३.१० ।।

अनेको यत्र सा चित्रा विचित्रा यत्र तां प्रति ।
तयान्यया वा गीर्भङ्ग्या विशेषः कश्चिदुच्यते ।। ३.११ ।।

क्रियायाः कारणं हेतुः कारको ज्ञापकश्च सः ।
अभावश्चित्रहेतुश्च चतुर्विध इहेष्यते ।। ३.१२ ।।

यः प्रवृत्तिं निवृत्तिं च प्रयुक्तिं चान्तरा विशन् ।
उदासीनोऽपि वा कुर्यात्कारकं तत्प्रचक्षते ।। ३.१३ ।।

द्वितीया च तृतीया च चतुर्थी सप्तमी च यम् ।
क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्च सः ।। ३.१४ ।।

अभावः प्रागभावादिभेदेनेह चतुर्विधः ।
घटाभावादिभेदात्तु तस्य सङ्ख्या न विद्यते ।। ३.१५ ।।

विदूरकार्यः सहजः कार्यानन्तरजस्तथा ।
युक्तो न युक्त इत्येवमसंख्याश्चित्रहेतवः ।। ३.१६ ।।

तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः ।
कार्याः काव्येषु वैचित्र्यं तथा ते कर्तुमीशते ।। ३.१७ ।।

वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना ।
अकृतात्मीयकार्यः स्यादहेतुर्व्याहतस्तु यः ।। ३.१८ ।।

यस्तु कारणमालेति हेतुसन्तान उच्यते ।
पृथक्पृथगसामर्थ्यात्सोऽप्यहेतोर्न भिद्यते ।। ३.१९ ।।

एकोऽभिधीयमानेषु हेतुत्वेषु भवेत्तयोः ।
प्रतीयमानेष्वपरः कारणत्वेषु जायते ।। ३.२० ।।

इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः ।
सूक्ष्मात्प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते ।। ३.२१ ।।

वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ।
इङ्गिताकारलक्ष्यत्वं लक्ष्यसामान्यमेतयोः ।। ३.२२ ।।

पदार्थानां तु यः सारस्तदुत्तरमिहोच्यते ।
स धर्मधर्मिरूपाभ्यां व्यतिरेकाच्च भिद्यते ।। ३.२३ ।।

विरोधस्तु पदार्थानां परस्परमसङ्गतिः ।
असङ्गतिः प्रत्यनीकमधिकं विषमश्च सः ।। ३.२४ ।।

प्रभूतकरणालोकात्स्यादेवमिति सम्भवः ।
स विधौ वा निषेधे वा द्वये वा न द्वयेऽपि वा ।। ३.२५ ।।

द्रोणस्य सम्भवः खार्यां शते पञ्चाशतो यथा ।
तथान्ये सम्भवं प्राहुः सोऽनुमानान्न भिद्यते ।। ३.२६ ।।

अन्योन्यमुपकारो यस्तदन्योन्यं त्रिधा च तत् ।
वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम् ।। ३.२७ ।।

अन्योन्यचूलिकान्योन्यभ्रान्तिरन्योन्यमेकता ।
अन्योन्यालङ्कृतेरन्तस्त्रयमेतदिहेष्यते ।। ३.२८ ।।

व्यत्ययो वस्तुनो यस्तु यो वा विनिमयो मिथः ।
परिवृत्तिरिहोक्ता सा काव्यालङ्कारलक्षणे ।। ३.२९ ।।

सा त्रिधा व्यत्ययवती तथा विनिमयात्मिका ।
तृतीया चोभयवती निर्दिष्टा काव्यसूरिभिः ।। ३.३० ।।

दृष्टान्तः प्रोक्तसिद्ध्यै यः सिद्धेऽर्थे तन्निदर्शनम् ।
पूर्वोत्तरसमत्वे तदृजु वक्रं च कथ्यते ।। ३.३१ ।।

शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोर्द्वयोः ।
भेदाभिधानं भेदश्च व्यतिरेकश्च कथ्यते ।। ३.३२ ।।

स्वजातिव्यक्त्युपाधिभ्यामेकोभयभिदा च सः ।
सादृश्याद्वैसादृश्याच्च भिन्नः षोढाभिजायते ।। ३.३३ ।।

कार्यारम्भे सहायाप्तिर्दैवादैवकृतेह या ।
आकस्मिकी बुद्धिपूर्वोभयी वा तत्समाहितम् ।। ३.३४ ।।

भ्रान्तिर्विपर्ययज्ञानं द्विधा सापि प्रयुज्यते ।
अतत्त्वे तत्त्वरूपा च तत्त्वे चातत्त्वरूपिणी ।। ३.३५ ।।

अतत्त्वे तत्त्वरूपा या त्रिविधा सापि पठ्यते ।
अबाधिता बाधिता च तथा कारणबाधिता ।। ३.३६ ।।

अतत्त्वरूपा तत्त्वे या सापि त्रैविध्यसिद्धये ।
हानोपादानयोर्हेतुरुपेक्षायाश्च जायते ।। ३.३७ ।।

भ्रान्तिमान्भ्रान्तिमाला च भ्रान्तेरतिशयश्च यः ।
भ्रान्त्यनध्यवसायश्च भ्रान्तिरेवेति मे मतम् ।। ३.३८ ।।

ऊहो वितर्कः सन्देहनिर्णयान्तरधिष्ठितः ।
द्विधासौ निर्णयान्तश्चानिर्णयान्तश्च कीर्त्यते ।। ३.३९ ।।

तत्त्वानुपात्यतत्त्वानुपाती यश्चोभयात्मकः ।
स निर्णयान्त इतरो मिथ्यामिथ्योभयात्मकः ।। ३.४० ।।

वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम् ।
पिहितापिहिते चैव तद्गुणातद्गुणौ च तत् ।। ३.४१ ।।

सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम् ।
स्मरणं प्रत्यभिज्ञानस्वप्नाद्यपि न तद्बहिः ।। ३.४२ ।।

अभिप्रायानुकूल्येन प्रवृत्तिर्भाव उच्यते ।
सोद्भेदोऽथ निरुद्भेदश्चैकतश्चाभितश्च सः ।। ३.४३ ।।

हृद्यं सूक्ष्मं च भिद्येत न हि भावात्कथंचन ।
हृद्योदाहरणं तत्र तैरिदं प्रतिपाद्यते ।। ३.४४ ।।

निरुद्भेदस्तु यो भावः स सूक्ष्मस्तैर्निगद्यते ।
इङ्गिताकारलक्ष्यात्स सूक्ष्मात्स्याद्भूमिकान्तरम् ।। ३.४५ ।।

प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते ।
स्वानुभूतिभवं चैवमुपचारेण कथ्यते ।। ३.४६ ।।

लिङ्गाद्यल्लिङ्गिनो ज्ञानमनुमानं तदुच्यते ।
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च यत् ।। ३.४७ ।।

फलसामग्र्यभेदेन द्विधैतद्भिद्यते पृथक् ।
उदाहरणमेवैषां रूपव्यक्त्यै भविष्यति ।। ३.४८ ।।

यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया ।
उत्तमं मध्यमं चाथ जघन्यं चेति तत्?ित्रधा ।। ३.४९ ।।

सदृशात्सदृशज्ञानमुपमानं द्विधेह तत् ।
स्यादेकमनुभूतेऽर्थेऽननुभूते द्वितीयकम् ।। ३.५० ।।

तदाभूतार्थविज्ञानकत्वेन हेतुना ।
नास्मादभिनयालेख्यमुद्राबिम्बादयः पृथक् ।। ३.५१ ।।

`प्रत्यक्षादिप्रतीतोऽर्थो यस्तथा नोपपद्यते ।
अर्थान्तरं च गमयत्यर्थापत्तिं वदन्ति ताम् ।। ३.५२ ।।

सर्वप्रमाणपूर्वत्वादेकशोऽनेकशश्च सा ।
प्रत्यक्षपूर्विकेत्यादिभेदैः षोढा निगद्यते ।। ३.५३ ।।

असत्ता या पदार्थानामभावः सोऽभिधीयते ।
प्रागभावादिभेदेन स षड्‌विध इहेष्यते ।। ३.५४ ।।

अर्थालङ्कृतयोऽप्येताश्चतुर्विंशतिसङ्ख्यया ।
कथिता काव्यविज्ञानां चित्तप्रह्लादहेतवे ।। ३.५५ ।।

इति श्रीमहाराजाधिराजश्रीमद्भोजराजविरचिते सरस्वतीकण्ठाभरणनाम्न्यलङ्कारशास्त्रेऽर्थालङ्कारस्तृतीयः परिच्छेदः ।