प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← परिच्छेदः ३ सरस्वतीकण्ठाभरणम्
परिच्छेदः ४
भोजराजः
परिच्छेदः ५ →

शब्देभ्यो यः पदार्थेभ्य उपमादिः प्रतीयते ।
विशिष्टोऽर्थः कवीनां ता उभयालङ्क्रियाः प्रियाः ।। ४.१ ।।

उपमा रूपकं साम्यं संशयोक्तिरपह्नुतिः ।
समाध्युक्तिः समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः ।। ४.२ ।।

सतुल्ययोगितोल्लेखः ससहोक्तिः समुच्चयः ।
साक्षेपोऽर्थान्तरन्यासः सविशेषा परिष्कृतिः ।। ४.३ ।।

दीपकक्रमपर्यायातिशयश्लेषभाविकाः ।
संसृष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः ।। ४.४ ।।

प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः ।
भूयोऽवयवसामान्ययोगः सेहोपमा मता ।। ४.५ ।।

एकाभिधीयमाने स्यात्तुल्ये धर्मे पदार्थयोः ।
प्रतीयमानेऽप्यपरा द्विविधापि च सा त्रिधा ।। ४.६ ।।

पदवाक्यप्रपञ्चाख्यैर्विशेषैरुपपद्यते ।
पृथगष्टविधत्वेन ताश्चतुर्विंशतिः पुनः ।। ४.७ ।।

समासात्प्रत्ययाच्चैव द्विविधा स्यात्पदोपमा ।
या समासोपमा तत्र चतुर्धा साभिपद्यते ।। ४.८ ।।

इवार्थान्तर्गतेरेका सामान्यान्तर्गतेः परा ।
अन्तर्भूतोभयार्थान्या सान्या सर्वसमासभाक् ।। ४.९ ।।

या प्रत्ययोपमेत्युक्ता काव्यविद्भिः पदोपमा ।
चतुर्धा भिद्यते सापि प्रत्ययार्थप्रभेदतः ।। ४.१० ।।

प्रत्ययो ह्युपमेये स्यादुपमानेऽपि कश्चन ।
तत्सामान्ये भवेत्कश्चिदिवार्थे कश्चिदिष्यते ।। ४.११ ।।

तेषां वशात्तदुपमा भवेत्तद्व्यपदेशभाक् ।
उदाहरणमेवास्या रूपव्यक्त्यै निदर्श्यते ।। ४.१२ ।।

वाक्योपमा तु या तत्र द्वैविध्यं सापि गच्छति ।
एका पदार्थयोः साम्ये परा वाक्यार्थयोर्मिथः ।। ४.१३ ।।

आद्या पूर्णा च लुप्ता च लुप्तवर्णा तथैव च ।
पूर्णलुप्तेति चाख्यता कविमुख्यैश्चतुर्विधा ।। ४.१४ ।।

पूर्णा सामान्यधर्मस्य प्रयोगे द्योतकस्य च ।
उपमानस्य च भवेदुपमेयस्य चैव हि ।। ४.१५ ।।

लोपे सामान्यधर्मस्य द्योतकस्यु च योपमा ।
प्रतीयमानसादृश्ये द्वयोर्लुप्तेति तां विदुः ।। ४.१६ ।।

लोपे सामान्यधर्मस्य लुप्तपूर्णेति गद्यते ।
द्योतकस्य तु लोपे या पूर्णलुप्तेति सा स्मृता ।। ४.१७ ।।

या तु वाक्यार्थयोः सापि चतुर्धैकेवशब्दिका ।
नैकेवशब्दिकेवादिशून्या वैधर्म्यवत्यपि ।। ४.१८ ।।

यत्रोक्तिभङ्ग्या वाक्यार्थे सादृश्यमवगम्यते ।
वाक्यार्थयोर्विस्तरतः सा प्रपञ्चोपमेष्यते ।। ४.१९ ।।

सा तु प्रकृतरूपा स्याद्रूपेण विकृता तथा ।
तयोः प्रकृतरूपा सा विज्ञेया च चतुर्विधा ।। ४.२० ।।

स्यात्समस्तोपमा तद्वदेकदेशोपमा परा ।
मालोपमा तृतीया स्याच्चतुर्थी रसनोपमा ।। ४.२१ ।।

इतीमास्ताश्चतस्त्रोऽपि रूपेण प्रकृतेन याः ।
उपमानां चतस्त्रोऽन्या विकृतेन प्रचक्ष्महे ।। ४.२२ ।।

विपर्यासोपमा तासु प्रथमाथोभयोपमा ।
अथोत्पाद्योपमा नाम तुरीयानन्वयोपमा ।। ४.२३ ।।

यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् ।
उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ।। ४.२४ ।।

शब्दार्थोभयभूयिष्ठभेदात्?त्रेधा तदुच्यते ।
शब्दभूयिष्ठमेतेषु प्रकृतं विकृतं तथा ।। ४.२५ ।।

अर्थभूयिष्ठमप्याहुः प्राधान्येङ्ग्यङ्ग्योर्द्विधा ।
द्विधैवोभयभूयिष्ठं शुद्धसङ्कीर्णभेदतः ।। ४.२६ ।।

चतुर्धा प्रकृतं तेषु शब्दभूयिष्ठमुच्यते ।
समस्तं व्यस्तमुभयं सविशेषणमित्यपि ।। ४.२७ ।।

चतुरो विकृतस्यापि प्रभेदान्प्रतिजानते ।
परम्पराथ रशनामालारूपकरूपकम् ।। ४.२८ ।।

समस्तं चासमस्तं च युक्तं चायुक्तमेव च ।
चतुर्धाङ्गि प्रधानं स्यादर्थभूयिष्ठरूपकम् ।। ४.२९ ।।

भेदानङ्गप्रधानस्य चतुरोऽवयवाश्रयान् ।
सहजाहार्यतद्योगतद्वैषम्यैः प्रचक्षते ।। ४.३० ।।

आधारवन्निराधारं केवलं व्यतिरेकि च ।
इति शब्दार्थभूयिष्ठं शुद्धमाहुश्चतुर्विधम् ।। ४.३१ ।।

अथ सङ्कीर्णभेदानां चतुष्टयमिहोच्यते ।
स्यात्सावयवसङ्कीर्णं तथानवयवाह्वयम् ।। ४.३२ ।।

तथैवोभयसङ्कीर्णं शेलषोपहितमित्यपि ।
सैषा रूपकभेदानां विंशतिश्चतुरुत्तरा ।। ४.३३ ।।

द्वयोर्यत्रोक्तिचातुर्यादौपम्यार्थोऽवगम्यते ।
उपमारूपकान्यत्वे साम्यमित्यामनन्ति तत् ।। ४.३४ ।।

तदानन्त्येन भेदानामसङ्ख्यं तस्य तूक्तयः ।
दृष्टान्तोक्तिः प्रपञ्चोक्तिः प्रतिवस्तूक्तिरेव च ।। ४.३५ ।।

तत्रेवादेः प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते ।
इवादेरप्रयोगेण प्रपञ्चोक्तिं मनीषिणः ।। ४.३६ ।।

वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः ।
साम्यप्रतीतिरस्तीति प्रतिवस्तूक्तिरुच्यते ।। ४.३७ ।।

तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके ।
साम्ये पूर्वादिभेदेन दृष्टान्तोक्तिर्विधीयते ।। ४.३८ ।।

साम्योत्कर्षापकर्षोक्तेरुपमानोपमेययोः ।
प्रकृता विकृता चेति प्रपञ्चोक्तिः प्रदर्श्यते ।। ४.३९ ।।

प्रतिवस्तूक्तिरप्यस्मिन्नृज्वी वक्रा च कथ्यते ।
दृष्टान्तोक्तेश्च सा छायां प्रपञ्चोक्तेश्च गाहते ।। ४.४० ।।

अर्थयोरतिसादृश्याद्यत्र दोलायते मनः ।
तमेकानेकविषयं कवयः संशयं विदुः ।। ४.४१ ।।

तत्रैकविषयोऽनेको यस्मिन्नेकत्र शड्क्यते ।
यस्मिन्नेकमनेकत्र सोऽनेकविषयः स्मृतः ।। ४.४२ ।।

अपह्नुतिरपह्नुत्य किंचिदन्यार्थदर्शनम् ।
औपम्यवत्यनौपम्या येति सा द्विविधोच्यते ।। ४.४१ (A)
वाच्ये प्रतीयमाने च सादृश्ये प्रथमा तयोः ।
तथाभूते द्वितीया स्यादपह्नोतव्यवस्तुनि ।। ४.४२ ।। (A)
अनौपम्यवती भूयः पूर्वापूर्वा च कथ्यते ।
तासामुदाहृतिष्वेव रूपमाविर्भविष्यति ।। ४.४३ ।।

समाधिमन्यधर्माणामन्यत्रारोपणं विदुः ।
निरुद्भेदोऽथ सोद्भेदः स द्विधा परिपठ्यते ।। ४.४४ ।।

समाधिमेव मन्यन्ते मे (मी) लितं तदपि द्विधा ।
धर्माणामेव चाध्यासे धर्मिणां वान्यवस्तुनि ।। ४.४५ ।।

यत्रोपमानादेवैतदुपमेयं प्रतीयते ।
अतिप्रसिद्धेस्तामाहुः समासोक्तिं मनीषिणः ।। ४.४६ ।।

प्रतीयमाने वाच्ये वा सादृश्ये सोपजायते ।
श्लाघां गर्हामुभे नोभे तदुपाधीन्प्रचक्षते ।। ४.४७ ।।

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति तुल्यातुल्यविशेषणा ।। ४.४८ ।।

संक्षेपेणोच्यते यस्मात्समासोक्तिरियं ततः ।
सैवान्योक्तिरनन्योक्तिरुभयोक्तिश्च कथ्यते ।। ४.४९ ।।

अन्यथावस्थितं वस्तु यस्यामुत्प्रेक्ष्यतेऽन्यथा ।
द्रव्यं गुणः क्रिया चापि तामुत्प्रेक्षां प्रचक्षते ।। ४.५० ।।

उत्प्रेक्षावयवो यश्च या चोत्प्रेक्षोपमा मता ।
मतं चेति न भिद्यन्ते तान्युत्प्रेक्षास्वरूपतः ।। ४.५१ ।।

अप्रस्तुतप्रशंसा स्यादस्तोतव्यस्य या स्तुतिः ।
कुतोऽपि हेतोर्वाच्या च प्रत्येतव्या च सोच्यते ।। ४.५२ ।।

सा तु धर्मार्थकामानां प्रायोऽन्यतमबाधया ।
स्वाभिप्रायप्रसिद्ध्या च जायमानेह दृश्यते ।। ४.५३ ।।

विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ।। ४.५४ ।।

अन्ये सुखनिमित्ते च दुः खहेतौ च वस्तुनि ।
स्तुतिनिन्दार्थमेवाहुस्तुल्यत्वे तुल्ययोगिताम् ।। ४.५५ ।।

दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः ।
स लेशः स्यात्ततो नान्या व्याजस्तुतिरपीष्यते ।। ४.५६ ।।

कर्त्रादीनां समावेशः सहान्यैर्यः क्रियादिषु ।
विविक्तश्चाविविक्तश्च सहोक्तिः सा निगद्यते ।। ४.५७ ।।

वैसादृश्यवती चेयमुच्यमाना मनीषिभिः ।
सहेवादिप्रयोगेषु ससादृश्या च दृश्यते ।। ४.५८ ।।

यत्रानेकोऽपि कर्त्रादिः प्रविविक्तैः क्रियादिभिः ।
विविक्तभावं लभते विविक्ता सापि कथ्यते ।। ४.५९ ।।

द्रव्यक्रियागुणादीनां क्रियाद्रव्यगुणादिषु ।
निवेशनमनेकेषामेकतः स्यात्समुच्चयः ।। ४.६० ।।

इतरेतरयोगो यः समाहारो य उच्यते ।
अन्वाचय इहान्यो यः सोऽपि नान्यः समुच्चयात् ।। ४.६१ ।।

द्विपदाश्रयश्चापि स स्यात्स स्याद्बहुपदाश्रयः ।
उभयाश्रयश्च स स्यात्स स्यादनुभयाश्रयः ।। ४.६२ ।।

त्रयः प्रतिपदं वा स्युर्द्योतकैरुत्तरत्र वा ।
पदैः शुद्धाश्च मिश्राश्च तुरीयो द्योतकं विना ।। ४.६३ ।।

विधिनाथ निषेधेन प्रतिषेधोक्तिरत्र या ।
शुद्धा मिश्रा च साक्षेपो रोधो नाक्षेपतः पृथक् ।। ४.६४ ।।

क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत् ।
उक्त्या युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते ।। ४.६५ ।।

प्रतिकूलोऽनुकूलश्च विधौ रोधोऽभिधीयते ।
निषेधेऽप्युक्तियुक्तिभ्यां द्विप्रकारः स कथ्यते ।। ४.६६ ।।

ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ।। ४.६७ ।।

स उपन्यस्तवस्तूनां साधर्म्येण च कथ्यते ।
वैधर्म्येण च विद्वद्भिर्वैपरीत्येन कुत्रचित् ।। ४.६८ ।।

प्रोक्तो यस्तूभयन्यासोऽर्थान्तरन्यास एव सः ।
स प्रत्यनीकन्यासश्च प्रतीकन्यास एव च ।। ४.६९ ।।

गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ।। ४.७० ।।

प्रत्येतव्येऽभिधेये च सा विशेषस्य कारणे ।
वैकल्यादर्शनेनापि क्वचिदप्युपपद्यते ।। ४.७१ ।।

क्रियाकारसम्बन्धिसाध्यदृष्टान्तवस्तुषु ।
क्रियापदाद्युपस्कारमाहुः परिकरं बुधाः ।। ४.७२ ।।

क्रिया यथा समासेन तथा कृत्तिद्धितादिभिः ।
विशेष्यते तदाहुस्तं क्रियापरिकरं परम् ।। ४.७३ ।।

क्रियाविशेषणं कैश्चित्सम्बोधनमपीष्यते ।
सम्बन्धिभिः पदैरेव लक्ष्यन्ते लक्षणादयः ।। ४.७४ ।।

उपमारूपकादीनां शब्दार्थोभयभङ्गिभिः ।
साधर्म्योत्पादनं यत्तन्मन्ये परिकरं विदुः ।। ४.७५ ।।

एकावलीति या सापि भिन्ना परिकरान्न हि ।
त्रिधा सापि समुद्दिष्टा शब्दार्थोभयभेदतः ।। ४.७६ ।।

क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेद्दीषकं तन्निगद्यते ।। ४.७७ ।।

अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरावली ।
सम्पुटं रसना माला चक्रवालं च तद्भिदाः ।। ४.७८ ।।

शब्दस्य यदि वार्थस्य द्वयोरप्यनयोरथ ।
भणनं परिपाट्या यत् क्रमः स परिकीर्तितः ।। ४.७९ ।।

मिषं यदुक्तिभङ्गिर्यावसरो यः स सूरिभिः ।
निराकाङ्क्षोऽथ साकाङ्क्षः पर्याय इति गीयते ।। ४.८० ।।

विवक्षया विशेषस्य लोकसीमातिवर्तिनी ।
असावतिशयोक्तिः स्यादलङ्कारोत्तमा च सा ।। ४.८१ ।।

सा च प्रायो गुणानां च क्रियाणां चोपकल्प्यते ।
नहि द्रव्यस्य जातेर्वा भवत्यतिशयः क्वचित् ।। ४.८२ ।।

प्रभावातिशयो यश्च यश्चानुभवनात्मकः ।
अन्योन्यातिशयो यश्च तेऽपि नातिशयात्पृथक् ।। ४.८३ ।।

अलङ्कारान्तराणामप्येकमाहुः परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ।। ४.८४ ।।

श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते ।
पदक्रियाकारकैः स्याद्भिन्नाभिन्नैः स षड्विधः ।। ४.८५ ।।

स्वाभिप्रायस्य कथनं यदि वाप्यन्यभावना ।
अन्यापदेशो वा यस्तु त्रिविधं भाविकं विदुः ।। ४.८६ ।।

मते चास्माकमुद्भेदो विद्यते नैव भाविकात् ।
व्यक्ताव्यक्तोभयाख्याभिस्त्रिविधः सोऽपि कथ्यते ।। ४.८७ ।।

संसृष्टिरिति विज्ञेया नानालङ्कारसङ्करः ।
सा तु व्यक्ता तथाव्यक्ता व्यक्ताव्यक्तेति च त्रिधा ।। ४.८८ ।।

तिलतण्डुलवद्व्यक्ता छायादर्शवदेव च ।
अव्यक्ता क्षीरजलवत्पांसुपानीयवच्च सा ।। ४.८९ ।।

व्यक्ताव्यक्ता च संसृष्टिर्नरसिंहवदिष्यते ।
चित्रवर्णवदन्यस्मिन्नानलङ्कारसङ्करे ।। ४.९० ।।

चतुर्विंशतिरित्येताः क्रमेणोभयसंश्रयाः ।
काव्यालङ्कृतयः प्रोक्ता यथावदुपमादयः ।। ४.९१ ।।

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणे उभयालङ्कारविवेचनो नाम चतुर्थः परिच्छेदः ।।