सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/यामम्(नाकेसुप)

यामम्
यामम्

नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा |
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं || ३२० || ऋ. १०.१२३.६

(८६।१) ।।याम-माधुच्छन्दसे द्वे, यामम्। [प्रथमस्य] यमस्त्रिष्टुबादित्यान्तर्गतः परः पुरुषः ।।
औहोइ । इयाहाउ । औहौहोऽ३वा । नाकेसुपा । णमुपयत्पतंतम् ।। ओहोइ । इयाहाउ । औहौहोऽ३वा । हार्द्दावेना । तोअभ्यचक्षतत्वौ ।। होइ । इयाहाउ । औहौहोऽ३वा । हाइरण्यपा । क्षंवरुणस्यदूतम् ।। औहोइ । इयाहाउ । औहौहोऽ३वाऽ३ ।। यामस्ययो । नौशकुनंभुरण्युम् । औहोइ । इयाहाउ । औहौहोऽ३वाऽ३ । हाउवाऽ३ ।। ईऽ२३४५ ।। (दी० ३१ । प० २५। मा० १६)३ ङ्रू । १४४)

टिप्पणी

द्र. यामम् (ग्रामगेयः)

याममधुच्छन्दसे द्वे ॥६.२.६.२॥ नाके सुपर्णम् (सा. ३२०) इत्यत्र सामैकम् । औहोइ इत्यादि नाकेसुपार्णम् (आ. गा. ३. ६. १४४) इति द्वितीयक्रुष्टादिकम् । सुरूपकृत्नुमृतये (सा. १६०) इत्यत्रैकं साम । सुरूपकृत्नुमूतये (आ. गा. ३. ६.१४५) इति द्वितीयक्रुष्टादिकम् । एते द्वे ऋग्द्वयाश्रिते सामनी याममाधुच्छन्दसे । पूर्वं याम [म्] परं माधुच्छन्दसम् ॥ २॥ - आर्षेयब्राह्मणम् ६.२.६.२

यामेन मार्जालीयमुपतिष्ठन्ते पितृलोकमेव तज्जयन्ति - तांब्रा. ५.४.११

यामं साम भवति। यमलोकम् एवैनं गमयन्ति। अप्रस्तुतम् अप्रतिहृतं साम भवति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। तद् यद् अप्रस्तुतम् अप्रतिहृतं साम भवत्य् अमुष्मिन्न् एवैनं तल् लोके प्रतिष्ठापयन्ति। स्तुतम् अनुशंसन्त्य् एता ऋचो ऽअनुब्रुवन्तो दक्षिणान् ऊरून् उपाघ्नानाः। - जैब्रा १.३४५

तैत्तिरीयारण्यके ६.३.१ प्र केतुना बृहता इति नवर्चस्य याम्यसूक्तस्य ( द्र. ऋ. १०.८ टिप्पणी ) उल्लेखमस्ति। ऋग्वेद १०.१२३ सूक्तस्य षष्ठम् ऋक् नाके सुपर्णमिति अस्ति, किन्तु अस्य सूक्तस्य विनियोगं पितृमेधकर्मणि नास्ति।