सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/उक्थ्यामहीयवम्

उक्थ्यामहीयवम्
उक्थ्यामहीयवम्

१८
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः |
एवा ते राध्यं मनः || ८२४ ||
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः |
अधा चिदिन्द्र नः सचा || ८२५ ||
मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते |
मत्स्वा सुतस्य गोमतः || ८२६ ||



११. उक्थ्यामहीयवम् ।। अमहीयुः । गायत्री । इन्द्रः ।
एवाहोऽ३असिवीरयूः ।। एवाशूऽ१राऽ२ः । उताऽ२३स्थिराः ।। आइवातेरा ।। धियाऽ२३म्मनाउ । वाऽ३ ।। श्रीः ।। एवाराऽ३तिस्तुवीमघा । विश्वाइभाऽ१इर्धाऽ२ । यिधाऽ२३तृभाइः ।। आधाचिदाइ ।। द्रनाऽ२३स्सचाउ । वाऽ३ ।।श्रीः।। मोषुब्राऽ३ह्मेवतन्द्रयूः ।। भुवोवाऽ१जाऽ२ । नाऽ२३म्पताइ ।। मात्स्वासुता ।। स्यगोऽ२३मताउ । वाऽ३ ।। स्तौषेऽ३४५ ।

दी. १४. उत्. ३. मा १५. दु. ।।५१।।