सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/गौरीवितम्

गौरीवितम्.
गौरीवितम्.

१६
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे || ८१८ || ऋ. ९.१०१.७



८. गौरीवितम् ।। गौरीवितिः । अनुष्टुप् । पवमानः सोमः ।
अयम् । पूषाऽ३ । रयिर्भगाः ।। सोमᳲपुनानोअर्षताऽ२३इ । पातिर्विश्वाऽ३१२३ । स्यभूऽ५मनाः ।। वायख्यद्रोऽ३१२३ । दसोवा ।
ऊऽ५भोऽ६”हाइ ।।
दी.४ उत् न. मा. ६. लू. ।।४८।।


सम्पाद्यताम्

टिप्पणी

अयं पूषा रयिर्भग इति। अनुष्टुभः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः - तांब्रा ११.१०.५

अयं पूषा रयिर् भगस् इत्य् उभयोर् एवाह्नोस् समारम्भाय। यथा ह वा इदं श्रमणं व्यवलम्बमानं नयेद् एवं ह वा एतद् अहर् एते अहनी नयतो बार्हतं राथन्तरे। तासु गौरिवीतम् उक्तब्राह्मणम् ॥जैब्रा ३.३१


गौरी उपरि पौराणिकसंदर्भाः

गौरिवीति/गौरी उपरि टिप्पणी