सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/त्रिणिधनमायास्यम्

त्रिणिधनमायास्यम्
त्रिणिधनमायास्यम्


पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः || ६७५ ||
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् |
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः || ६७६ ||



१. त्रिणिधनमायास्यम् ।। अयास्यः। बृहती । पवमानः सोमः ।
पुनानस्सोमधाहाउहोवा ।। रायाआऽ२३४पो । वसाऽ२ । नआऽ३४५ । षाऽ२३४सी ।। आराऽ३४ । औहोवा ।। त्नधायोनिमृताऽ२ । स्यसाऽ३४५इ । दाऽ२३४सी ।। उत्साऽ३४ । औहोवा ।। दाइवोऽ२ । हिराऽ३४५ ।। ण्याऽ२३४याः ।। श्रीः ।। उत्सोदेवोहिराहाउहोवा ।। ण्यायाऊ२३४त्साः । दाइवोऽ२ । हिराऽ३४५ । ण्याऽ२३४याः ।। दुहाऽ३४ । औहोवा ।। नऊधर्दिवियाऽ२म् । मधूऽ३४५ । प्रीऽ२३४याम् ।। प्रत्नाऽ३४ । औहोवा । साधाऽ२ ।। स्थमाऽ३४५। साऽ२३४दात् ।। श्रीः ।। प्रत्नꣳसधस्थमाहाउहोवा ।। सादत्प्राऽ२३४त्नाम् । सधाऽ२ । स्थमाऽ३४५ । साऽ२३४दात् ।। आपाऽ३४ । औहोवा ।। छ्यंधरुणंवाऽ२ । जियाऽ३४५ । षाऽ२३४सी ।। नृभाऽ३४ । औहोवा ।। धौतोऽ२ । विचाऽ३४५ ।। क्षाऽ२३४णाः ।।

दी.२८. उत् ३ मा १९. डो।४१।

सम्पाद्यताम्

टिप्पणी

द्र. त्रिणिधनमायास्यम् (५११।८) ग्रामगेयः

द्र. ऐडमायास्यम् (ऊहगानम् दशरात्रपर्व २.२०)

दशरात्रे द्वितीयस्याह्नः माध्यन्दिनसवनम् - आयास्ये भवतः। अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नाद्यमाश्नात् तं शुगार्च्छत् स तपोऽतप्यत स एते आयास्ये अपश्यत् ताभ्यां शुचमपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत् तामयास्य आयास्याभ्यामच्यावयत् च्यावयति वृष्टिमायास्याभ्यां तुष्टुवानः। अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत् तदयास्य आयास्याभ्यामच्यावयत् च्यावयत्यन्नाद्यमायास्याभ्यां तुष्टुवानः - पञ्चविंशब्रा. ११.८.९

}}