सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/शङ्कु

६. शङ्कु ॥ प्रजापतिः। ककुप् । पवमानः सोमः ॥

शङ्कु

पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥ ६९२

पवस्वमा । एऽ२ । धुमा ॥ तमाः। इन्द्रायसोमक्रतुवित्तमोमाऽ२३दाः ॥ माहीऽ२द्यूक्षाऽ२३ ॥ तमोऽ२३४वा । माऽऽदोऽ६"हाइ ।।

दी. ४. उत् . १. मा. ३. ति. ॥४६॥

सम्पाद्यताम्

टिप्पणी

दशरात्रस्य द्वितीये अहनि - पवस्व - इन्द्रमच्छेति शङ्कु- सुज्ञाने । - आर्षेयकल्पः उपोद्घातः पृ. ६८

शङ्कु भवत्यह्नो धृत्यै यद्वा अधृतं शङ्कुना तद्दाधार। तदु सीदन्तीयमियाहुरेतेन वै प्रजापतिरूर्ध्व इमान् लोकानसीदद्यदसीदत् तत् सीदन्तीयस्य सीदन्तीयत्वमूर्ध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः - पञ्च.ब्रा. ११.१०.११

तु. शङ्कुसाम (संवत्सरपर्व)